अलङ्कारमणिहारः (भागः ३)/अनुगुणालङ्कारः (८१)

विकिस्रोतः तः
               




   


जनिर्विशेषोक्तिस्सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात् । तथाऽपि उल्लासतद्गुणप्रतिद्वंद्विना विशेषाकारेणालंकारान्तरतया परिगणितावित्याहुः ॥

इत्यलंकारमणिहारे तद्गुणसरोऽशीतितमः.


अथानुगुणसरः (८१)


स्वसजातीयगुणवदन्यसांनिध्यतो यदि ।
उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ॥

 स्वसमानगुणवदन्यसन्निधानात्प्राग्विद्यमानस्वकीयगुणोत्कर्षवर्णनमनुगुणालंकारः । अयं च जयदेवोपक्रमम् ॥

 यथावा--

 संसिद्धित इन्दीवरसंसद्धितरुचि ततोऽञ्जनेनाक्तम् । त्रिगुणाञ्जनमिव रमणावलोकने तद्रुचाम्ब तव नयनम् ॥ १८३४ ॥

 संसिद्धितः स्वभावतः 'संसिद्धिप्रकृती समे’ इत्यमरः । इन्दीवराणां संसत् सभा समूहः तस्याः हितं तत्सदृशमिति यावत् । अत्र प्रकृत्यैव सिद्धस्य लक्ष्मीनयनश्यामलिम्नः अञ्जनादिना उत्कर्षः ॥

 यथावा--

 नवपद्मरागकाञ्चीछविमसृणितकनकवसनजनितरुचा । छुरितं तव जगदम्ब स्फुरति वपुर्दिव्यमतिपिशङ्गतया ॥ १८३५ ॥

इत्यलंकारमणिहारे अनुगुणसर एकाशीतितमः.