अलङ्कारमणिहारः (भागः ३)/सम्भावनालङ्कारः (६६)

विकिस्रोतः तः
Jump to navigation Jump to search

प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामलिमातिशयार्थं श्यामलिमाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते तथा हेयगुणेषु मिथ्यात्वातिशयसिद्धये मिथ्यात्वाधिकरणैकोनविंशसंख्याकपुराणादेसंबन्ध इत्यस्यापि सुवचत्वात् । यदिच मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यादित्यापादयता रसगङ्गाधरकृता--

हरिश्चन्द्रेण संजप्ताः प्रगीता धर्मसूनुना ।
खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥

इत्याद्युदाहृत्य अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवं--

मध्ये सुधासमुद्रस्य सितामयगृहोदरे ।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥

 अत्रापि सुधासमुद्रादिसंबन्धात् उक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालङ्कारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्युक्तम् ॥

इत्यलंकारमणिहारे प्रौढोक्तिसरः पञ्चषष्टितमः.


अथ संभावनासरः (६६)


संभावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥

 यत्र किंचित्तर्कणमन्यत्तर्कणसाधनं तत्संभावनम् ॥

 यथा--

 मम कोटिवदनता स्याद्यदि पुरुषायुषमिदं च कोटिगुणम् । ईशीय हरे स्तोतुं कोटितमांशं त्वदेकगुणभूम्नः ॥ १६५० ॥

 यथावा--

 सितकिरणकिरणनिकरव्यतिकरतो द्रावितस्तुषारगिरिः । घनसारसारमसृणो यदि तुलयेन्नाथ तव कृपासारम् ॥ १६५१ ॥

 अत्राद्ये स्तोतुः कोटिवदनत्वादितर्कणं भगवदेकगुणमहिमकोटितमांशतर्कणसाधनम् । द्वितीये तुषारगिरेश्चन्द्रकरद्रवीभूतत्वादितर्कणं भगवत्कृपासारतुलनार्हतातर्कणसाधनम् ॥

 यथावा--

 कर्मानुगुणफलप्रदभर्त्रनुरोधश्रमोऽम्ब तव नो चेत् । धनिदीनविभागकथादूरमिदं श्रीमदेव भुवनं स्यात् ॥ १६५२ ॥

 यथावा--

 अहमेव यदि विधाता जातु भवेयं हरे भवत्कृपया । खलवदनगहननिपतनविसंस्थुलां न रचयेय ननु वाणीम् ॥ १६५३ ॥

 यथावा--

 यदि तादृशशेषत्वं सिध्येन्मम तर्हि कथमपीशीय । लावण्यविभवमच्युत तव वक्तुं श्रोतुमीक्षितुं वाऽपि ॥ १६५४ ॥

 तादृशशेषत्वमिति । शेषत्वं तादृशेति विशिषतोऽयमभिप्रायः-- यद्यप्यधुनाऽपि स्वाभाविकं भगवदनन्यार्हशेषत्वमस्ति तथा

ऽपि भगवल्लावण्यवर्णनादिपटुतरं सहस्रवदनत्वरूपं शेषत्वं नास्तीति । वक्तुं द्विसहस्ररसनत्वादिति भावः । श्रोतुमीक्षितुं वाऽपि द्विसहस्रनयनत्वादिति भावः । स हि चक्षुश्श्रवाः ॥

 यथावा--

उज्झित्वा बकवृत्तिं ननु शिष्टस्तत्त्वविद्भवन् स्तबकः । साध्वग्रभवन एव स्याद्यदि लक्ष्म्यास्तदा स्तनत्वमियात् ॥ १६५५ ॥

 स्तबकः गुच्छः स्तबकशब्दश्च । बकवृत्तिं ‘अधोदृष्टिर्नैकृतिकस्स्वार्थस्साधनतत्परः, इत्याद्युक्तां बकवृत्तिं बकेत्यारकवर्णद्वयस्थितिं च । उज्झित्वा त्यक्त्वा शिष्टः आचारशीलः तत्त्ववित् तत्त्वज्ञश्च भवन् । पक्षे शिष्टः उर्वरितः यः स्तः स्त इत्याकारकवर्णसमुदयो यस्य तथाभूतस्स्न् ब क वर्णलोपे स्तकारमात्रावशिष्ट इत्यर्थः । साधूनां सात्त्विकानां रम्यवस्तूनां वा अग्रे भवनं स्थितिः यस्य स तथोक्त एव । पक्षे साधु यथा तथा अग्रभवः चरमश्रूयमाणः नः नकारः यस्य स तथोक्त एव स्याद्यदि तदा लक्ष्म्याः स्तनत्वं इयात् स्तनजन्म प्राप्नुयादित्यर्थः । स्तबकशब्दः बकवर्णलोपेन अवसाने नवर्णघटनेन च स्तन इति निष्पद्यत इति भावः । अत्र स्तबकस्य बकवृत्तिपरित्यागादिपूर्वकसाध्वग्रभवनत्वतर्कणं लक्ष्मीस्तनत्वप्राप्तितर्कणसाधनम् । श्लेषादिकं तु पूर्वेभ्यो विशेषः ॥

 यथावा--

 जननि मम स्तुत्या त्वं तनुया यदि च दरमन्तरामोदम् । सिद्ध्येद्दामोदरपदमथ मम नास्त्यत्र विशयलेशोऽपि ॥ १६५६ ॥

 हे जननि! मम स्तुत्या मत्कर्तृकस्तवेन दरं अल्पमपि अन्तः मनसि आमोदं प्रहर्षं तनुया यदि अथ तदैव मम दामोदरपदं परमं पदं सिद्ध्येत् । पक्षे दरं दश्च रश्च अनयोस्समाहारः दरं अन्तरा 'अन्तरान्तरेणयुक्ते' इति द्वितीया । दकरारेफयोर्मध्ये इत्यर्थः । आमोदं आमोदशब्दं तनुया यदि दामोदर इति पदं शब्दः सिध्येत् इत्यर्थः । अत्र स्तोतुर्यत्किञ्चिच्छ्रीहृदयामोदोदयतर्कणं दामोदरपदसिद्धितर्कणस्य साधनं श्लेषसंकीर्णम् । एवमग्रेऽपि ॥

 यथावा--

 त्वदुदारकरविधूतस्सुरागमो वीतराग एव भवन् । यदि सुमतया परिणमेत्तदा तु तेऽच्युत नखेन सदृशस्स्यात् ॥ १६५७ ॥

 हे अच्युत! सुरागमः कल्पतरुः तव उदारेण करेण विधूतः अतएव वीतराग एव विधूननजनितदैन्यातिशयेन विरक्त एव भवन् तपस्वी भवन्निति यावत् । सुमतया शोभना मा लक्ष्मीः यस्य स तथोक्तः सुमः तस्य भावः सुमता तया शोभनलक्ष्मीविशिष्टत्वेनेत्यर्थः । परिणमेद्यदि जायेतचेत् । पक्षे पुष्पतया परिणतो भवेद्यदीत्यर्थः । तदा तु ते तव नखेन सदृशस्स्यात् । अत्र सुरागमशब्दः वीतरागः विगतरावर्णगवर्णश्चेत् सुमतयैव परिणंस्यतीत्यर्थोऽपि चमत्कारी । अत्र सुरागमस्य सुमतापरिणतितर्कणं नखसादृश्यतर्कणसाधनम् ॥

 यथावा--

 यदि जातु विजानीयाच्छ्रीजाने तावकीनमौदार्यम् । देवतरुस्स तदात्वे नासत्यं देवदारुतां यायात् ॥ १६५८ ॥

 देवतरुः अचेतन इति भावः । जातु कदाचित् तावकीनं औदार्यं जनीयाद्यदि । चेतनकार्यस्याचेतनेऽसंभवाद्यदीति संभावना । सः देवतरुः तदात्वे तत्काल एव देवदारुतां भद्रदारुनामक्षुद्रतरुविशेषतां यायात् यत्रक्वाप्यरण्ये देवदारुतरुवदौदार्यप्रथागन्धदवीयस्तया संकुचितो वर्तेतेति भावः । पक्षे देवतरु देवतरुशब्दः तदात्वे तकारस्य दावर्णत्वे तकारमपनीय दाकारे पठिते इति यावत् । देवदारुतां यायात् देवदारुशब्दो भवेदिति भावः । अत्र देवतरोर्भगवदौदार्यज्ञानसंभावनं तद्देवदारुतासंभावनसाधनम् ॥

 यथावा--

 त्वां तत्त्वेन वृषाचलकान्त बिडौजा द्विषीत यदि जातु । स भवेदेव गतौजास्सालो भूत्वाऽन्ततो बिडालोऽपि ॥ १६५९ ॥

 हे वृषाचलकान्त! बिडौजाः इन्द्रोऽपि भ्रातृत्वेन व्यपदेश्योऽपि किमुतान्य इति भावः । जातु तत्त्वेन वस्तुतः न त्वारोपितकोपेन त्वां द्विषीत यदि तदा तर्हि बिडौजा गतौजास्सन् भगवद्विद्वेषमहिम्ना निस्तेजास्सन् सालः वृक्षो भूत्वा स्थावरजन्मलब्ध्वेत्यर्थः । अन्ततः पर्यवसाने बिडालोपि भवेत् । स्थावरजन्मना व्यपनीतकियत्पापस्तिर्यग्जन्माऽपि लभेतेति भावः । भगवद्विद्वेषफलमीदृगित्यभिप्रायः । पक्षे बिडौजा इति शब्दः गताः ओ जा इत्याकारकवर्णौ यस्य स तथोक्तः । अन्ततः चरमभागे ओ जा इत्याकारकवर्णापगमे परिशिष्टस्य बिडेत्याकारकवर्णस्य चरमभागे इत्यर्थः । सालः आल इत्याकारकवर्णसमुदयसहितसन् बिडाल इति निष्पद्यत इत्यर्थः । अत्र विडौजसो भगव

द्विद्वेषसंभावनं सालबिडालतासंभावनसाधनम् । विच्छित्तिविशेषस्तु व्यक्त एव ॥

 यथावा--

 हृत्वाऽच्युत तव कान्तिं क्वचन ग्रावणि निलीनमसिताभ्रम् । दर्शयति कान्तिमत्त्वं यदि तर्हि बुधैः क्रियेत तद्भस्म ॥ १६६० ॥

 हे अच्युत! असिताभ्रं नीलजलदः तव कान्तिं हृत्वा क्वचन कस्मिंचित् ग्रावणि शैले । पक्षे प्रस्तरे ‘ग्रावाणौ शैलपाषाणौ' इत्यमरः । विलीनं सत् कान्तिमत्त्वं स्वस्य द्युतिमत्त्वं पक्षे कः कवर्णः अन्तिमो यस्य तत्तथोक्तं तस्य भावस्तत्त्वम् । अस्मिन् पक्षे अन्तिमत्त्वमित्यत्र तकारस्य ‘अनचि च' इति द्वित्वम् । दर्शयति यदि तर्हि बुधैः धर्मशास्त्रजैः आयुर्वेदज्ञैश्च तत् अभ्रकं भस्म क्रियेत जगदीश्वरप्रशस्तवस्तुहरणदुरितापनोदनानुरूपभस्मान्तप्रायश्चित्तगोचरीक्रियेतेति भावः । पक्षे भसितं क्रियेत । कृष्णाभ्रकस्यैव भस्मविषये ज्यायस्त्वस्मरणादिति भावः । अत्रासिताभ्रस्य क्वचिद्ग्रावणि कान्तिमत्वप्रकाशनतर्कणं भस्मीकरणतर्कणं प्रति साधनम् । चमत्कारातिशयस्तु पूर्ववदेव ॥

 यथावा--

 रघुवीर महादेवो महाहवो यदि भवेत्त्वयि कदाचित् । सत्यं स देहभिदया विकृतस्स्यात्त्वं हि दलिततद्धन्वा ॥ १६६१ ॥

 हे रघुवीर! महादेवः मृत्युंजयः त्वयि विषये कदाचत् महाहवः प्रवर्तितप्रबलरणो यदि सः महादेवः देहस्य शरीरस्य भिदया

त्वच्छरकृतविदारणेन विकृतः स्यात् सत्यं नात्र संशयः । तत्र हेतुमाह-- हि यस्मात् त्वं दलितं तस्य शंभोः धनुः धन्व वा येन स तथोक्तः । तस्मात् त्वया कृतमहारणोऽपि महादेवो देहविदारणेन विकृतस्स्यादेवेति भावः । पक्षे देहभिदया देकारस्य हकारेण भेदनेन विकृतस्स्यात् । महादेवशब्दः महाहवशब्दतया विकृतस्स्यादित्यर्थः । अत्र महादेवस्य रघुवीरविषयकमहाहवत्वसंभावनं तद्देहविदळनप्रयोज्यविकारवत्त्वसंभावनसाधनं हेतूपष्टम्भेन निबद्धम् ॥

 यथावा--

 भगवन्मुकुरः कुसृतेस्स्याच्चेत्त्वद्गण्डमण्डलजिगीषुः । शकलीभवेत्स नूनं त्वं मुरदलन इति स किल नाज्ञासीत् ॥ १६६२ ॥

 हे भगवन्! मुकुरः कुसृतेः शाठ्यात् कुत्सिता सृतिः कुसृतिः कुमार्गः ‘कुसृतिर्न्निकृतिश्शाठ्यम्' इति कपटपर्यायेष्वमरः । पक्षे कु इति वर्णस्य सृतेः अपसरणात् 'सृ गतौ' इत्यस्माद्धातोः क्तिन् । मुकुरो मुर इति निष्पन्न इति भावः । शब्दार्थयोस्तादात्म्यम् । त्वद्गण्डमण्डलजिगीषुस्स्याच्चेत् शकलीभवेत् । नूनं नात्र संदेग्धव्यमिति भावः । अथैवं मुरत्वं प्राप्तोऽपि मुकुरः मुरभिदस्तव विजिगीषायां कथं प्रवृत्त इत्यत आह-- त्वमिति । सः मुकुरः त्वं मुरदलन इति नाज्ञासीत्किल । नाजानादिति संभावये इति भावः ॥

 यथावा--

 अविकुलमप्यविकलमिह मुख्येनाशेषपालकेन

यदा । दृश्येत तदा सत्यं भवेत्कविकुलं विमृश्यता सम्यक् ॥ १६६३ ॥

 अविकुलं मेषवृन्दमपि अत्र अविशब्द: अविसदृशे लाक्षणिकः । अतिमात्रमूर्खाणां समूहोऽपीत्यर्थः । मुख्येन अगौणेन अशेषपालकेन सर्वेश्वरेण भगवता अविकलं यथा स्यात्तथा यदा दृश्येत कटाक्षविषयीक्रियते । तदा कविकुलं काव्यकृद्विद्वद्वृन्दं भवेत् सत्यं नात्र संदेहः । यदि संदेहः तर्हि सम्यग्विमृश्यताम् । भगवत्प्रभावविमर्शे उक्तोऽर्थस्सम्यज्ञायत एवेति भावः । पक्षे अविकुलमिति पदं अविकलं अकारेण विकलं सत् मुख्येनेति वक्ष्यमाणत्वादाद्येनाकारेणेति लभ्यते । हे अशेषपाल सर्वेश्वर भगवन् मुख्येन आद्येन केन कवर्णेन यदा दृश्यते च्याविताकरेण आद्यकवर्णेन घटितं दृश्यतेचेत् तदा कविकुलमित्येव भवेदित्यर्थः । अत्राविकुलस्य भगवत्कटाक्षगोचरत्वतर्कणं कविकुलत्वतर्कणसाधनमित्यादिकं द्रष्टव्यम् ।

 यथावा--

 तुलनायालं वचसस्स्वं तव यदि नाम कोकिलोऽवेयात् । किं छिन्नमस्य जानन्कोलं तं जननि बुद्धिमान् ब्रूयात् ॥ १६६४ ॥

 हे जननि! कोकिलः तव वचसः तुलनाय साम्याय स्वं आत्मानं अलं समर्थं यदिनाम अवेयात् जानीयात् ‘नमस्स्वस्ति' इत्यादिना चतुर्थी । अस्य अतिश्राव्यतया प्रत्यक्षस्य तव वचसः किं छिन्नं किं न्यूनं भवेत् । कोकिलस्य स्वैरं तथा समर्थंमन्यत्वे

त्वद्वचसोऽप्रतिद्वंद्विरामणीयकस्य का हानिर्भवेदिति विदन्निति भावः । कः बुद्धिमान् तं कोकिलं अलं त्वद्वचनतुलापर्याप्तं ब्रूयात् । किंच तं कोलं सूकरं ब्रूयादित्यप्यर्थः । स्वपरगुणतारतम्यविमर्शनाकुशलो यदि कश्चिदपकृष्टं स्वमुत्कृष्टसधर्माणं जानीयात् तं निपुणमतिस्स्थूलमतिं सूकरसदृशमेव मन्येतेति भावः ॥

 पक्षे अस्य कोकिलस्य किं कीर्तिवर्णं छिन्नं निरस्तं जानन्नित्यर्थः । शब्दार्थयोस्तादात्म्यम् । बुद्धिमान् तं कोकिलं कोलं ब्रूयात् कोकिलशब्दस्य किवर्णलोपे कोल इति निष्पत्तेरिति भावः । अत्र यदिनामेत्याद्यूहनं कोलं तमिद्याद्यूहंप्रति साधनम् । चमत्कारातिशयस्तु व्यक्त एव ॥

 यथावा--

 तव चरणारुणलक्ष्मीं हृत्वाऽपि यदार्यमेव मनुते स्वम् । सूर्यकरस्तर्हि भवेत्सूकर एवाम्ब तत्र को विशयः ॥ १६६५ ॥

 आर्यं पूज्यमेव । पक्षे अर्यं अविद्यमानर्यवर्णमित्यर्थः । अत्र चौर्यकर्तुरपि सूर्यकरस्यार्यताज्ञनसंभावनं तस्य सूकरतासंभावनसाधनमिति लक्षणानुगतिः ॥

 यथावा--

 यदि तव वाग्रसमीप्सेत्स्वादिमविधुिरोऽरसत्त्वभाङ्मकरन्दः । मालक्ष्योऽग्रे माधव विन्दतु माकन्दतामियात्सफलत्वम् ॥ १६६६ ॥

 हे माधव! इदं वक्ष्यमाणार्थोपस्कारकम् । स्वादिम्ना स्वादुतया रहितः तत्र हतुः-- अरसत्त्वभागिति । अविद्यमानः रसः

मधुराद्युत्तमरसः यस्य स तथोक्तः । तस्य भावः तत्त्वं केनापि श्लाघ्येन विधुरतया अभोग्य इति भावः ॥

रसस्स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ।
भोगे रोगे देहधातौ तिक्तादौ पारदेऽपिच ॥

 इति हेमः । मकरन्दः उक्तिविशेषणमहिम्ना क्षुद्रतमयत्किंचित्पुष्परस इति लभ्यते । त्वद्वाचः रसं आस्वादं ईप्सेद्यदि अग्रे उत्तरस्मिन् काले मालक्ष्यः यादृच्छिकादिसुकृतपरिपाकवशेन लक्ष्मीकटाक्षविषयस्सन् माकन्दतां सहकारफलतां ‘माकन्दस्सहकारेऽपि’ इति हेममेदिन्यौ । मां श्रियं कन्दति आह्वयति स्वरक्षणार्थमिति माकन्दः । तत्तां लक्ष्मीशिशुतामिति च गम्यते । कदिधातोराह्वानार्थकात्कर्मण्यण् । विन्दतु । तदा सफलत्वं स्वाभीप्सितत्वद्वाग्रसरूपफलसहितत्वं तद्भाक्त्वमित्यर्थः । इयात् । ईदृशमाकन्दजन्मपरिग्रहे सत्येव माधवस्य तव वाग्रसं विन्देत । नतूक्तमकरन्दरूपेण स्वात्मनेति भावः । पक्षे स्वस्य आदिः आद्यः यः मः मकारः तद्विधुरः । सतो भावः सत्त्वं रस्य सत्त्वं रसत्त्वं तद्भजतीति रसत्त्वभाक् । स न भवतीत्यरससत्त्वभाक् । मकाररेफशून्य इति विशेषणद्वयाभिप्रायः । मकरन्दः मकरन्दशब्दः कन्द इति निषन्नस्सन्निति भावः । अग्रे आदौ माः मावर्णः तेन लक्ष्यः दृश्यस्सन् । माकन्द इति निष्पन्नः । सः फलत्वं इति छेदः । सः माकन्दशब्दः फलतां फलवाचकतामिति यावत् । इयात् । अत्र मकरन्दस्य माकन्दत्वसंभावनं भगवद्वाग्रसलाभरूपफलवत्तासंभावनस्य साधनम् । शब्दार्थतादात्म्यभित्तिकश्लेषमूलकाभेदाध्यवसायोज्जीवितमिति ध्येयम् ॥

इत्यलंकारमणिहारे संभावनसरः षट्षष्टितमः.