अलङ्कारमणिहारः (भागः ३)/मिथ्याध्यवसित्यलङ्कारः (६७)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ मिथ्याध्यवसितिसरः (६७)


मिथ्यार्थोऽन्यः कल्पतेचेत्किंचिन्मिथ्यात्वसिद्वये ।
मिथ्याध्यवसितिर्नाम साऽलंकृतिरुदाहृता ॥

 कस्यचिदर्थस्य मिथ्यात्वसिद्ध्यर्थं मिथ्याभूतार्थान्तरकल्पनं मिथ्याध्यवसितिर्नामालंकारः ॥

 यथावा--

 गणनातिशायिघृणिना पयोजसुहृदा त्रयोदशेन शुचीनाम् । सन्तमसं हन्त हृदभ्यन्तरगं त्वज्जुषां निरासि मुरारे ॥ १६६७ ॥

 हे मुरारे! गणनातिशायिनो घृणयः किरणाः यस्य तेन तथोक्तेन त्रयोदशेन पयोजसुहृदा सहस्रमात्रसंख्याककिरणतया द्वात्दशात्मतया च प्रथिताद्भास्वतोऽन्येन भास्करेणेत्यर्थः । त्वज्जुषां

त्वयि प्रतिरूपापन्नध्यानभाजां न्यासविद्यया त्वां सेवमानानां वा ‘जुषी प्रीतिसेवनयोः' इत्यस्मात्क्विप् । शुचीनां 'क्षेत्रज्ञस्येश्वरज्ञप्नाद्विशुद्धिः परमा मता’ इत्याद्युक्तसर्वप्रकारविशुद्धिभाजामिस्यर्थः । अग्नीनामित्यप्युपस्कार्यम् । हृदभ्यन्तरगं अन्तरं संतमसं तमोगुणरूपं महत्तिमिरं निरासि निरस्यत । अत्र भगवत्प्रपन्नशुचिहृत्तमसोऽत्यन्तासंभावितस्य निष्पत्तये त्रयोदशभास्करकर्तृकनिरासोऽत्यन्तासंभावितो निबद्धः । इदं श्लेषसंकीर्णम् ॥

 यथावा--

 अतसी परिभूता तव रुच्या तप्त्वा वनेष्वधश्शीर्षम् । अन्ते संधेस्सीता स्याच्चेत्त्वद्रुचिमियाद्रघुकुलेन्दो ॥ १६६८ ॥

 हे रघुकुलेन्दो! इदं विवक्षितार्थोपस्काराय । अतसी क्षुमाकुसुमं ‘पुष्पमूलेषु बहुळम्' इति लुक् । तव रुच्या त्विषा परिभूता सती वनेषु अधश्शीर्षं तप्त्वा । पक्षे वैपरीत्येन स्थित्वेत्यर्थः । अन्ते पर्यवसाने संधेः बलवद्विरोधोऽनुचित इति संधिं कृत्वेत्यर्थः । पक्षे संहितात्वविवक्षाया इति यावत् । सीता स्याच्चेत् जानकीत्वं प्राप्ताचेत् त्वद्रुचिं तव द्युतिं त्वय्यनुरागं च इयात्, अन्यथा तस्यास्त्वद्रुचिर्न सुलभेति भावः । पक्षे अतसीशब्दव्यक्तिः वैपरीत्येनावस्थिताचेत् सीत अ इति स्यात्, ततस्तकाराकारयोस्सवर्णदीर्घरूपस्संधिश्चेत् सीता इति निष्पद्येत । स एव दुर्घटः ‘अतो गुणे' इति पररूपलक्षणैकादेशे सवर्णदीर्घाप्रवृत्तेः । तथाच सीत इत्यदन्त एवायं शब्दो भवेत् । न तु सीतेति दीर्घान्त इति भावः । अत्रातस्याः श्रीरघुनन्दनरुचिप्राप्तेरतिवेलासंभावितस्य निर्वृत्त्यर्थं तस्यास्सीतात्वप्राप्तिरूपातिवेलासंभावितस्य निर्वृत्त्यर्थं तस्यास्सीतात्वप्राप्तिरूपातिवेलासंभावितत्वकल्पनम् । श्लेषचमत्कारान्तरादिकं व्यक्तमेव ॥

 यथावा--

 अष्टमजलधौ जनितष्षष्ठो निर्जरतरुर्वृषाद्रिमणे । त्वत्तोऽपि वदान्य इति स्रष्टा षष्ठेन वदति वदनेन ॥ १६६९ ॥

 इदं शुद्धमुदाहरणम् । एवं प्रौढोक्त्यलंकारनिरूपणे प्रसङ्गादुपदर्शितं ‘एकोनविंशसंख्यकपुराणतः' इति पद्यमपि शुद्धमेवास्या उदाहरणम् ॥

 चन्द्रालोके तृतीये काव्यलक्षणमयूखे काव्यलक्षणत्वेन यानि अक्षरसंहतिशोभाभिमानहेतुप्रतिषेधनिरुक्तिमिथ्याध्यवसायसिद्धियुक्तिकार्याणि दश निरूपितानि; तानि कुवलयानन्दे चमत्कारितयाऽलंकारपदे निवेशितानि दीक्षितैः । तेष्वेकतमेयं मिथ्याध्यवसितिरिति ध्येयम् । तत्रैतल्लक्षणं लक्ष्यं चैवं दृश्यते--

स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने ।
चन्द्रांशु सूत्रग्रथितां नभःपुष्पस्रजं वह ॥

 इति । वक्तव्यान्तरं तत्तदवसरे स्फुटीभविष्यति ॥

इत्यलंकारमणिहारे मिथ्याध्यवसितिसरस्सप्तषष्टितमः.



अथ ललितालंकारसरः (६८)


धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना ।
तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम् ॥

 प्रस्तुतधर्मिणि प्रस्तुतव्यवहारानुल्लेखेन तत्रैव निरूप्यमाणः प्रकृतव्यवहारसंबन्धो ललितालंकारः । ‘दोर्भ्यामब्धिं तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्’ इत्यादिनिदर्शनावारणाय तृतीयान्तम् । अप्रस्तुतप्रशंसावारणय प्रस्तुतधर्मिणीति ॥