अलङ्कारमणिहारः (भागः ३)/ललितालङ्कारः (६८)

विकिस्रोतः तः
Jump to navigation Jump to search

 इदं शुद्धमुदाहरणम् । एवं प्रौढोक्त्यलंकारनिरूपणे प्रसङ्गादुपदर्शितं ‘एकोनविंशसंख्यकपुराणतः' इति पद्यमपि शुद्धमेवास्या उदाहरणम् ॥

 चन्द्रालोके तृतीये काव्यलक्षणमयूखे काव्यलक्षणत्वेन यानि अक्षरसंहतिशोभाभिमानहेतुप्रतिषेधनिरुक्तिमिथ्याध्यवसायसिद्धियुक्तिकार्याणि दश निरूपितानि; तानि कुवलयानन्दे चमत्कारितयाऽलंकारपदे निवेशितानि दीक्षितैः । तेष्वेकतमेयं मिथ्याध्यवसितिरिति ध्येयम् । तत्रैतल्लक्षणं लक्ष्यं चैवं दृश्यते--

स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने ।
चन्द्रांशु सूत्रग्रथितां नभःपुष्पस्रजं वह ॥

 इति । वक्तव्यान्तरं तत्तदवसरे स्फुटीभविष्यति ॥

इत्यलंकारमणिहारे मिथ्याध्यवसितिसरस्सप्तषष्टितमः.



अथ ललितालंकारसरः (६८)


धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना ।
तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम् ॥

 प्रस्तुतधर्मिणि प्रस्तुतव्यवहारानुल्लेखेन तत्रैव निरूप्यमाणः प्रकृतव्यवहारसंबन्धो ललितालंकारः । ‘दोर्भ्यामब्धिं तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्’ इत्यादिनिदर्शनावारणाय तृतीयान्तम् ।

अप्रस्तुतप्रशंसावारणय प्रस्तुतधर्मिणीति ॥

 यथावा--

 क्वाहं भवमरुपान्थः क्व च तव सायुज्यनित्यसाम्राज्यम् । इत एवाच्युत सहसा सुमेरुशृङ्गाग्रमभवमुत्पित्सुः ॥ १६७० ॥

 अत्र भवमरुपान्थ एव सन्नहं दुरासदत्वदीयनित्यसाम्राज्यप्रेप्सुरस्मीति प्रस्तुतव्यवहारं विषयं कण्ठरवेणाप्रतिपाद्यैव तत्प्रतिबिम्बभूतः दुरारोहं सुमेरुशृङ्गाग्रमित एकोत्पातेनैवाधिष्ठातुमिच्छामीति विषय्युपनिबद्धः । विषयोपादाने तु निदर्शनैव ॥

 यथावा--

 मादृङ्मितवचनः क्व त्वादृङ्निगमागणेयसुगुणः क्व । भूमिष्ठ एव कल्पकसुमनिचयं निखिलमपचिचीषामि ॥ १६७१ ॥

 अत्रापि मितंपचमतिरहं निगमापरिच्छेद्यभगवदनन्तकल्याणगुणविवक्षुरस्मीति विषयमकथयित्वैव भूमिष्ठ एव सकलकल्पतरुकुसुमान्यपचिचीषामीति विषय्येव निबद्धः ॥

 यथावा--

 यद्यपि नाहं पात्रं हृद्यतमाया हरे तव कृपायाः । उन्मर्याद उदन्वानुत्सर्पति चेदमुं निरुन्ध्यात्कः ॥ १६७२ ॥

 अत्रापि त्वं नीचेऽपि मयि निरर्गळकृपाप्रसरश्चेदपर्यनुयोज्यस्वातन्त्र्यवैभवं त्वां को नाम निरोद्धुमीष्टामिति बिम्बभूतवा

क्यार्थानुल्लेखेन उन्मर्याद इत्यादिप्रतिबिम्बवाक्यार्थ एवोपन्यस्तः ॥

 यथावा--

 महतां सतां कुले मां विहितकृपस्त्वं व्यजीजनश्शौरे । निबुसीकार्यं धान्यं निबिडे वातेऽनुवात्येव ॥ १६७३ ॥

 निबिडे सान्द्रे वातेऽनुवात्येव अनुकूलतया बहमान एव धान्यं तुषाविविक्तमिति भावः । निबुसीकार्यं निस्तुषीकार्यं ‘कडंगरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्' इत्यमरः । निगतं बुसं यस्य तन्निबुसम् । अत्र यादृच्छिकादिसुकृतवशात्सत्कुलप्रसवावसर एव परमपुरुषार्थस्साधनीय इति विषयवाक्यार्थमप्रतिपाद्य तत्प्रतिबिम्बवाक्यार्थमात्रमुल्लिखितम् ॥

 यथावा--

 श्रुतिपठिती वा भवतु स्मृतिपठिती वा हरिं न विन्देद्यः । न हि कुक्कुरस्य रटतो भेदस्स्यात्कुक्कुटस्यापि ॥ १६७४ ॥

 यः हरिं न विन्देत् सः श्रुतिपठिती स्मृतिपठिती वा भवतु; उभयत्रापि पठितमनेनेति विग्रहे इष्टादिभ्यश्चेति कर्तरि इनिः तद्योगे श्रुतिस्मृतिशब्दयोः ‘क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्' इति कर्मणि सप्तमी । ततस्सप्तमीसमासः, त्रयीं धर्मशास्त्रं वा पठितवान्

स्यादित्यर्थः । कुक्कुरस्य शुनः कुक्कुटस्य च रटतः श्रुतिकठु ध्वनत: भेदो न हि स्यात् । उभयोरपि नैरर्थक्यस्य तौल्यादिति भावः । पक्षे कुक्कुर कुक्कुटशब्दयो:, रटतो भेद इत्यत्र अभेद इति छेदः ॥

रटाभ्यामभेदो न किंतु भेद एवेत्यर्थः । अत्र भगवद्भजनहीनश्रुति स्मृतिपठनं निरर्थकमिति वर्ण्यमनुक्त्वा तत्प्रतिबिम्बमेव निबद्धम् ।

 यथावा--

 केऽपि भजन्ते त्वदितरमितरे त्वामेव देव सेवन्ते । काकाः काका एव ह्यधरितशिरसोऽपि किं नु हंसास्स्युः ॥ १६७५ ॥

 काकाः वायसाः अधरितशिरसोऽपि । पक्षे काका इति शब्दः विपरीतोऽपीत्यर्थः । अत्र देवतान्तरं भजतां महतापि प्रयासेन भगवद्भक्तजनसाधर्म्यं न घटत इति विषयवाक्यार्थमप्रदर्श्य तत्प्रतिबिम्बवाक्यार्थ एव वर्णितः चमत्कारान्तरं तूदाहरणद्वयेऽपि व्यक्तमेव ॥

 न चात्र सर्वत्रापि भेदेऽप्यभेद इत्यतिशयोक्त्या चारितार्थ्यमिति वाच्यम् । तत्र हि पदार्थेन पदार्थस्यैवाभेदाध्यवसानम्' ‘कनकलतायां विराजते चन्द्रः’ इत्यादौ दृष्टम्, न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः । नापि सादृश्यमूलया अप्रस्तुतप्रशंसया, धर्म्यंशे प्रस्तुतत्वविरहात् । नापि निदर्शनया, एकधर्मिगतव्वयवहारद्वयोपादान एव तस्या इष्टेः । प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वादलंकारान्तरमेव । एवंच--

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥

 इत्यत्र काव्यप्रकाशिकाकारो यन्निदर्शनामुदाहार्षीत् तदसंगतमेव, ललितस्यावश्याभ्युपगम्यत्वात् । निदर्शनाया अप्राप्तेश्च। तदेवं ललितस्यालंकारान्तरत्वमुररीकुर्वतामाशयः ॥

 अन्ये तु--ललितं नालंकारान्तरं, निदर्शनयैव गतार्थत्वात् । नन्वेकधर्मिगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना

कथमप्रस्तुतव्यवहारमात्रोपादाने पदं निधत्तामिति चेत्, श्रूयतामायुष्मता-- इह तावदलंकाराः प्रायेण श्रौता आर्थाश्च संभवन्ति । तत्र श्रौतेभ्य आर्था न पृथगलंकारतया संख्यायन्ते किंतु पृथग्भेदतर्या । तदलंकारसामान्यलक्षणेन क्रोडीकरणात् । इदं पुनर्वाक्यार्थानिदर्शनास्वरूपम्-- व्यवहारद्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्तो व्यवहारद्वयाभदेः । तत्र व्यवहारद्वयवद्धर्म्यभेदप्रतिपादनं श्रौतमेवापेक्षितमिति न नियमः । किन्तु प्रतिपादनमात्रम् । तेन ‘परवित्तं हरन् मर्त्यो विषमेवात्त्यसंशयम्’ इत्यत्र व्यवहारद्वयवद्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव ‘धिक्परस्वं तथाऽप्येष विषमत्ति स दुर्मतिः' इत्यत्र आर्थप्रकृतव्यवहारवद्धर्मिश्रौताप्रकृतव्यवहारवद्धर्मिणोरार्थाभेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम् । एकत्र श्रौतीत्वं अपरत्रार्थीत्वमिति तु विशेषो न वार्यते । पदार्थनिदर्शनास्वरूपं तूपमानोपमेयधर्मयोरभेदाध्यवसायमूल उपमेयोपमानधर्मसंबन्ध इति पृथगेव । एतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम् । यदि तु ललितं पृथगलंकारस्स्यात् लुप्तोपमादिरप्युपमादेः पृथक् स्यात्, त्वदुक्तयुक्तेस्तुल्यत्वात् । नन्वतिशयोक्तिरेवं सति रूपक एव विलीयेत । विषयविषयिणोर्द्वयोरप्युपादाने श्रौतं रूपकं, विषयमात्रोपादाने त्वार्थमित्यस्यापि सुवचत्वात्, सत्यं, यत्र ह्यलंकारशरीरमुभयत्राप्यविलक्षणं तत्रैवालंकारव्यपदेशो युक्तः । यथा सादृश्यं निष्पाद्यमानमुपमाशरीरं लुप्तोपमादिष्वविलक्षणमेवेति तत्राप्युपमयैव व्यपदेशो न्याय्यः । नालंकारान्तरेण । लुप्तत्वपूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्यावर्तमानोऽपि नोपमात्वव्याव

र्तकः । तथाऽन्यत्रापीति स्थितिः । एवंच विषयतावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नाभेदस्य रूपकशरीरस्य विषयतावच्छेदकरूपेणाभासमानविषयात्मकादतिशयोक्तिस्वरूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम् । निदर्शनाललितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमेवेत्येकालंकारत्वमेवेत्याहुः ॥

इत्यलंकारमणिहारे ललितालंकारसरोऽष्टषष्टितमः.



अथ प्रहर्षणालंकारसरः (६९)



विना यत्नादभीष्टार्थसिद्धिस्स्याच्चेत्प्रहर्षणम् ॥

 अभीष्टार्थस्य तदुपायसंपादनयत्नेन विना सिद्धिः प्रहर्षणं नामालंकारः ॥

 यथावा--

 कृष्णाऽऽश्लेषरसायनमाध्यायन्ती गृहक्रियाव्यग्रा । त्वरिता स्खलिता च हठादुद्धरता तेन गोपिकाऽऽश्लिष्टा ॥ १६७६ ॥

 आध्यायन्ती उत्कण्ठापूर्वकमाशासाना, गृहक्रियायां व्यग्रा अत एव त्वरिता शीघ्रं संचरन्ती अत एव स्खलिता स्स्खलितपदा च गोपिका हठात् अकस्मात् उद्धरता तेन कृष्णेन आश्लिष्टा । अत्र यत्नसामान्यशून्याया अपि गोपिकाया अभीष्टसिद्धिः ॥

अभीप्सितार्थादधिकलाभश्चापि प्रहर्षणम् ॥