अलङ्कारमणिहारः (भागः ३)/प्रहर्षणालङ्कारः (६९)
र्तकः । तथाऽन्यत्रापीति स्थितिः । एवंच विषयतावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नाभेदस्य रूपकशरीरस्य विषयतावच्छेदकरूपेणाभासमानविषयात्मकादतिशयोक्तिस्वरूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम् । निदर्शनाललितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमेवेत्येकालंकारत्वमेवेत्याहुः ॥
इत्यलंकारमणिहारे ललितालंकारसरोऽष्टषष्टितमः.
अथ प्रहर्षणालंकारसरः (६९)
विना यत्नादभीष्टार्थसिद्धिस्स्याच्चेत्प्रहर्षणम् ॥
अभीष्टार्थस्य तदुपायसंपादनयत्नेन विना सिद्धिः प्रहर्षणं नामालंकारः ॥
यथावा--
कृष्णाऽऽश्लेषरसायनमाध्यायन्ती गृहक्रियाव्यग्रा । त्वरिता स्खलिता च हठादुद्धरता तेन गोपिकाऽऽश्लिष्टा ॥ १६७६ ॥
आध्यायन्ती उत्कण्ठापूर्वकमाशासाना, गृहक्रियायां व्यग्रा अत एव त्वरिता शीघ्रं संचरन्ती अत एव स्खलिता स्स्खलितपदा च गोपिका हठात् अकस्मात् उद्धरता तेन कृष्णेन आश्लिष्टा । अत्र यत्नसामान्यशून्याया अपि गोपिकाया अभीष्टसिद्धिः ॥
अभीप्सितार्थादधिकलाभश्चापि प्रहर्षणम् ॥
इच्छाविषयभूतादर्थादधिकार्थस्य तद्गोचरयत्नं विनैव सिद्धिर्द्वितीयं प्रहर्षणम् ॥
यथा--
दृष्टा चेन्नन्दभुवा हृष्टा स्यामिति चिरादभिलषन्ती । लेभे गोपकिशोरी रहसि तदीयाङ्कपाळिसर्वस्वम् ॥ १६७७ ॥
अत्र भगवत्कर्तृकात्मकर्मकदर्शनमात्रेण स्वहर्षं संभावयमानाया गोपकिशोर्यास्ततोऽप्यतिवेलातिशायिपरिरम्भसर्वस्वसाम्राज्यरूपाधिकार्थलाभः ॥
यथावा--
संसारचारजनितां संसादयितुं विहस्ततां ये त्वाम् । श्रीनाथाकलयन्ते ते नाम कृतास्त्वया चतुर्हस्ताः ॥ १६७८ ॥
विहस्ततां विक्लवतां ‘विहस्तव्याकुलौ समौ' इत्यमरः । पक्षे विगतौ हस्तौ यस्य सः विहस्तः तस्य भावम् । यथा- कथंचिद्धस्तवत्तासंपादनाय भगवन्तमुपासीनानां जनानां चतुर्हस्ततावाप्तिरूपाधिकार्थलाभो विहस्तशब्दगतश्लेषनिर्व्यूढ इति पूर्वस्माद्विशेषः ॥
यथावा--
त्वदनुग्रहात्तनीयश्श्रीर्वा स्यामित्युपेत्य शौरे त्वाम् । बत बहुतपनीयश्श्रीरभूत्तव सखा ततस्त्वयाऽपचितः ॥ १६७९ ॥हे शौरे! तव सखाकुचेल इति भावः । त्वदनुग्रहात् तनीयश्श्रीर्वा स्याम् ‘यावद्भ्रियेत जठरम्' इत्याद्युक्तरीत्या अत्यल्पतरसंपद्वा स्यां न तु तदतिशयलिप्सुरिति भावः । इति त्वामुपेत्य ततः अनन्तरं त्वया अपचितः पूजितस्सन् ‘पूजा नमस्याऽपचितिः' इत्यमरः । बह्वी तपनीयश्रीः सुवर्णसंपत् यस्य स तथोक्तः अभूत् । बतेति विस्मये हर्षे वा । किंच अल्पतरतेजा अपि वा भवेयमित्यभिलषमाणः बहुतपनीयश्श्रीः अतिशयितभानुसंबन्धिश्रीरभूदित्यर्थोऽप्युपस्कार्यः । पक्षे तनीयश्श्रीशब्दः त्वया ततः तकारादनन्तरमिति यावत् । पचित इति च्छेदः । पकारेण चितः घटितस्सन् । बहु इति भिन्नं पदम् । बहु यथा स्यात्तथा प्राग्विद्यमानवर्णापेक्षयाऽधिकैकवर्णतयेति भावः । तपनीयश्रीरिति शब्दोऽभूत् । अत्र कुचेलस्यापेक्षितादधिकार्थलाभो वर्णितः ॥
भूवासवत्त्वमीप्सोस्त्वद्विजयात्कोसलेन्द्र विद्विषतः । स्वर्वासवत्त्वमददा भवतः किं ब्रूमहे महौदार्यम् ॥ १६८० ॥
भूवासवत्त्वं भूदेवेन्द्रन्वं, स्वः स्वर्गे वासवत्त्वं महेन्द्रत्वं वासोऽस्यास्तीति वासवान् तस्य भावं च । अददाः सर्वानरातीन् संहृतवानिति वस्तुस्थितिः । अत्रापि पूर्ववदेव ॥
यथावा--
जगतां जननि भवत्यास्तौल्यं प्रेप्सुः कचश्रियामेकः । तप्त्वाऽधःकृतशीर्षं कथमपि लभते स्म मेचकः कचताम् ॥ १६८१ ॥हे जगतां जननि! मेचकः चन्द्रकः अन्धकारो वा ‘मेचकश्श्यामले कृष्णे तिमिरे बर्हिचन्द्रके’ इति हेमः । भवत्याः कचश्रियां केशभासां तौल्यं प्रेप्सुः; अत एव एकस्स्न् अधःकृतशीर्षं तप्त्वा ‘एकस्तपांसि कुर्वीत’ इत्युक्तेर्विविक्ते एक एव तपस्तप्त्वेति भावः । कथमपि भवत्याः कचतां लभते स्म । पक्षे मेचकशब्दः कचश्रिया अमेक इति छेदः । भवत्याः कचश्रिया सह तौल्यं प्रेप्सुः; अविद्यमानो मे इति वर्णो यस्य स तथोक्तः, ‘शेषाद्विभाषा' इति कप् । मेवर्णरहितः चक इत्यवशिष्ट इति भावः । ततः विलोमतां प्रपन्नः कचशब्दतां लभते स्मेत्यर्थः । अत्र मेचकस्य वाञ्छितश्रीकचतौल्यापेक्षया अधिकस्य तत्कचत्वस्य लाभो वर्णितः ।श्लेषादिचमत्कृतिविशेषस्तु पूर्ववदेव ।
यथावा--
यावन्मृगयति कामपि मरुपान्थश्श्रान्तिशान्तये छायाम् । तावदकस्माद्ग्रैष्मं पिदधे चण्डांशुबिम्बमम्बुमुचा ॥ १६८२ ॥
मरुपान्थ इत्यनेन सर्वदा छायादौर्लभ्यं सूच्यते । कामपि छायामित्यनेन शाकोटकाद्यतिक्षुद्रतरुप्रविरळच्छायामित्युक्तम् । अत्राप्रस्तुतमरुपान्थकर्तृकयत्किंचिच्छायान्वेषणाकस्मिकमहाजलधरकर्तृकग्रैष्मचण्डांशुबिम्बपिधानप्रशंसा यावदेव भवपथगतागतखेदशमनकृते यंकंचिच्छरणं पर्यालोचयति चेतनस्तावदेव यादृछिच्कप्रासङ्गिकादिसुकृतवशात्प्रत्यक्षतामुपगतवता भगवता
तत्तापशान्तिर्न्निर्वर्तितेति प्रस्तुतेऽर्थे पर्यवस्यतीत्यप्रस्तुतप्रशंसारूपेऽत्र वाक्यार्थे अभीप्सितार्थादधिकार्थलाभः स्पष्ट एव । अयमेव हि पूर्वेभ्यो विशेषो यदप्रस्तुतप्रशंसासंकीर्णत्वम् ॥
उपायसिद्धये यत्ने क्रियमाणे यदृच्छया ।
साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥
फलानवाप्त्या तत्प्राप्तये तदुपायगोचरो यत्नो लोके प्रसिद्धः । तादृशयत्नादतर्किततत्फलस्यैव लाभो यत् सोऽपि प्रहर्षणमित्यर्थः । अयं तृतीयः प्रकारः ॥
यथावा--
त्वत्सेवनेन संपदमीप्सुस्त्वच्छिखरिसंमुखो मनुजः । तावत्पश्यति सिन्धुरबन्धुरमीश स्वमन्दिराळिन्दम् ॥ १६८३ ॥
हे ईशेति संबोधनम् । अत्र गजान्तैश्वर्यलाभोपायभूतभगवत्सेवनसिद्ध्यर्थाच्छेषाचलाभिमुखप्रस्थानात् स्वमन्दिराळिन्द एव तादृशैश्वर्यलाभ इति तृतीयं प्रहर्षणम् । इदं च कार्यकारणपौर्वापर्यव्यतिक्रमरूपातिशयोक्त्युत्तम्भितम् ॥
यथावा--
यमुनातीरनिकुञ्जं कुष्णवशीकारमूलविचिचीषुः । प्राप्य हठात्तत्रागतममुमेव वशीचकार गोपवधूः ॥ १६८४ ॥
अत्र भगवद्वशीकरणोपायभूतमूलिकार्थाद्यमुनातीरनिकुञ्जगमनात्तत्रैव भगवद्वशीकारलाभः । एवंच साक्षात्तदुद्देश्यकयत्नमंतरेणाप्यभीष्टार्थलाभः प्रहर्षणमिति प्रहर्षणत्रितयसाधारणं सामान्यलक्षणमिति ध्येयम् ॥
चन्द्रालोके तु ‘वाञ्छितार्थाधिकप्राप्तिरयत्नेन प्रहर्षणम्’ इति द्वितीयप्रभेद एव लक्षितः । न तु प्रथमतृतीयौ । अन्ये तु-- प्रथमप्रहर्षणोदाहरणे इष्टार्थानुकूलप्रयत्नाभावेऽपीष्टप्राप्तिवर्णनेन न प्रहर्षणालंकारोऽभ्युपेयः, प्रयत्नस्य कार्यमात्रं प्रति कारणतया इष्टार्थतदुपायगोचरप्रयत्नाभावेऽपीष्टार्थसिद्ध्या कारणं विना कार्योत्पत्तिरूपविभावनाया एव विषयत्वात् । अतः प्रहर्षणस्य भेदद्वयमेवेति । इयांस्तु विशेषः— यत्तत्र कारणाभावश्शाब्दः इह त्वार्थ इत्याहुः ॥
इत्यलंकारमणिहारे प्रहर्षणसर एकोनसप्ततितमः.
अथ विषादनालंकारसरः (७०)
यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् ॥
अस्य च अभीष्टार्थलाभार्थं कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्च विरुद्धार्थलाभः सः; यत्र च इष्टार्थं प्रयुक्तेऽपि कारणे तस्मान्न विरुद्धार्थलाभः; अपितु स्वकारणवशात् स च विविक्तो विषयः । यत्र तु इष्टार्थं प्रयुक्तात्कारणादेव विरुद्धार्थलाभः तत्र तादृशकारणविरुद्धार्थयोरुत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमम् । इष्यमाणविरुद्धार्थलाभाच्च विषादनमिति संकीर्णतैव । एवं चास्य न विषमभेदैर्गतार्थतेति