अलङ्कारमणिहारः (भागः ३)/विषादनालङ्कारः (७०)

विकिस्रोतः तः
Jump to navigation Jump to search

तरेणाप्यभीष्टार्थलाभः प्रहर्षणमिति प्रहर्षणत्रितयसाधारणं सामान्यलक्षणमिति ध्येयम् ॥

 चन्द्रालोके तु ‘वाञ्छितार्थाधिकप्राप्तिरयत्नेन प्रहर्षणम्’ इति द्वितीयप्रभेद एव लक्षितः । न तु प्रथमतृतीयौ । अन्ये तु-- प्रथमप्रहर्षणोदाहरणे इष्टार्थानुकूलप्रयत्नाभावेऽपीष्टप्राप्तिवर्णनेन न प्रहर्षणालंकारोऽभ्युपेयः, प्रयत्नस्य कार्यमात्रं प्रति कारणतया इष्टार्थतदुपायगोचरप्रयत्नाभावेऽपीष्टार्थसिद्ध्या कारणं विना कार्योत्पत्तिरूपविभावनाया एव विषयत्वात् । अतः प्रहर्षणस्य भेदद्वयमेवेति । इयांस्तु विशेषः— यत्तत्र कारणाभावश्शाब्दः इह त्वार्थ इत्याहुः ॥

इत्यलंकारमणिहारे प्रहर्षणसर एकोनसप्ततितमः.



अथ विषादनालंकारसरः (७०)


यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् ॥

 अस्य च अभीष्टार्थलाभार्थं कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्च विरुद्धार्थलाभः सः; यत्र च इष्टार्थं प्रयुक्तेऽपि कारणे तस्मान्न विरुद्धार्थलाभः; अपितु स्वकारणवशात् स च विविक्तो विषयः । यत्र तु इष्टार्थं प्रयुक्तात्कारणादेव विरुद्धार्थलाभः तत्र तादृशकारणविरुद्धार्थयोरुत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमम् । इष्यमाणविरुद्धार्थलाभाच्च

विषादनमिति संकीर्णतैव । एवं चास्य न विषमभेदैर्गतार्थतेति

मन्तव्यम् । विषमासंस्पृष्टस्याप्येतद्विषयस्यानुपदमेव दर्शयिष्यमाणत्वात् ॥

 यथावा--

 भात्येवमेव भानुर्भार्यासुखमेवमेव विन्देयम् । ध्यायत्येवं कोके सायं हन्ताम्बुधौ ममज्ज रविः ॥

 अत्र हि नास्ति विषमप्रभेदस्य विषयः, इष्टार्थं कारणप्रयोगाभावात्, इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्य उत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वं हि तच्छरीरम् । तस्माद्विषादनमेवात्राप्रस्तुतप्रशंसाघटकतयाऽवस्थितम् । अत्र ह्यप्रस्तुतश्चक्रवाकवृत्तान्तः अतिमात्रानित्यमैहिकविभवं नित्यतमं प्रत्येत्य शश्वततमनिश्श्रेयससाम्राज्यसाधनोपेक्षया समयमतिवाहयति तावदेव प्राप्ततादृशविभवभ्रंशे कस्मिंश्चिदधन्ये पर्यवस्यतीत्यप्रस्तुतप्रशंसा ॥

 यथावा--

 कृतमेतदिदं कार्यं कृताकृतमिदं सुखाय भविता नः । इति विमृशन्नेव जनस्त्वद्विमुखो हन्त मृत्युना ह्रियते ॥ १६८६ ॥

 अत्राभीष्टसुखविरूद्धमृत्युहरणरूपार्थलाभः । अत्र--

इदं कृतमिदं सज्जमिदमन्यत्कृताकृतम् ।
एवमीहासमायुक्तं मृत्युरादाय गच्छति ॥

इति महाभारतवचनार्थोऽनुसंहितः ॥

 द्वितीयप्रकारो यथा--

 उपगूहति नन्दसुते त्रपया पिहिताननाऽपि

गोपवधूः । श्लथबन्धकञ्चुळीका हर्षोच्छूनस्तनद्वयतयाऽऽसीत् ॥ १६८७ ॥

 अत्राभीष्टस्याननपिधानस्य विरुद्धोऽर्थः कञ्चुळिकाबन्धशैथिल्वं कारणीभूतत्रपाप्रत्यनीकत्वात्, तच्च हर्षोच्छूनस्तनद्वयतारूपस्वकारणादेवोत्पन्नं न तु पिधानानुकूलयत्नात् । नापीष्टसाधनत्वेन प्रयुक्तात्कारणादिष्टानुत्पत्तिरत्रास्ति, आननपिधानरूपस्येष्टस्योत्पत्तेः । अतो विषादनमेवात्र, न विषमम् । अयमप्यलंकारो दीक्षितोपज्ञमेव ॥

इत्यलंकारमणिहारे विषादनसरस्सप्ततितमः.



अथोल्लासालंकारसरः (७१)


यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः ।
आधानं वर्ण्यते प्राहुरुल्लासालंकृतिं तु ताम् ॥

 तच्च गुणेन गुणस्य दोषेण दोषस्य गुणेन दोषस्य दोषेण गुणस्य वेति चतुर्धा । क्रमेणोदाहरणानि--

 अपि मयि पतेदपाङ्गः कृपया शिशिरोऽम्बुजाक्षभक्तिजुषाम् । अपि धन्यस्स्यामहमिति स पितामह एव वाञ्छति किमन्यः ॥ १६८८ ॥

 अत्र श्रीनिवासभक्तिरूपभागवतगुणेन तदपाङ्गसङ्गात्पितामहादीनामपि धन्यत्वगुणाधानम् । आधानं च तद्वत्ताबुद्धिः ॥