अलङ्कारमणिहारः (भागः ३)/उल्लासालङ्कारः (७१)

विकिस्रोतः तः
               




   


गोपवधूः । श्लथबन्धकञ्चुळीका हर्षोच्छूनस्तनद्वयतयाऽऽसीत् ॥ १६८७ ॥

 अत्राभीष्टस्याननपिधानस्य विरुद्धोऽर्थः कञ्चुळिकाबन्धशैथिल्वं कारणीभूतत्रपाप्रत्यनीकत्वात्, तच्च हर्षोच्छूनस्तनद्वयतारूपस्वकारणादेवोत्पन्नं न तु पिधानानुकूलयत्नात् । नापीष्टसाधनत्वेन प्रयुक्तात्कारणादिष्टानुत्पत्तिरत्रास्ति, आननपिधानरूपस्येष्टस्योत्पत्तेः । अतो विषादनमेवात्र, न विषमम् । अयमप्यलंकारो दीक्षितोपज्ञमेव ॥

इत्यलंकारमणिहारे विषादनसरस्सप्ततितमः.



अथोल्लासालंकारसरः (७१)


यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः ।
आधानं वर्ण्यते प्राहुरुल्लासालंकृतिं तु ताम् ॥

 तच्च गुणेन गुणस्य दोषेण दोषस्य गुणेन दोषस्य दोषेण गुणस्य वेति चतुर्धा । क्रमेणोदाहरणानि--

 अपि मयि पतेदपाङ्गः कृपया शिशिरोऽम्बुजाक्षभक्तिजुषाम् । अपि धन्यस्स्यामहमिति स पितामह एव वाञ्छति किमन्यः ॥ १६८८ ॥

 अत्र श्रीनिवासभक्तिरूपभागवतगुणेन तदपाङ्गसङ्गात्पितामहादीनामपि धन्यत्वगुणाधानम् । आधानं च तद्वत्ताबुद्धिः ॥

 यथावा--

 त्वत्कृपयाऽपरिभाव्यो लोकस्याग्रत उदारिताकारः । सर्वस्योपरिभाव्यो वर्वर्ति त्वत्पदाश्रितो भगवन् ॥ १६८९ ॥

 लोकस्य अपरिभाव्यः अतिरस्कार्यः अग्रतः उदारितः उदारीकृतः आकारः यस्य सः उवर्णेन दारितः भिन्नः अकारो यस्य सः तथोक्तः इति च । सर्वस्य लोकस्य उपरि भाव्यः श्रेष्ठतया माननीयस्सन् वर्वर्ति । पक्षे अपरिभाव्यशब्दः आदौ अवर्णच्यावनेन तत्रैव उवर्णन्यासेन च उपरिभाव्य इति निष्पद्यत इत्यर्थः । अत्र भगवत्कृपारूपगुणेन तत्पदाश्रितस्यापरिभाव्यादिगुणाधानम् । पूर्वं शुद्धं, इदं तु श्लेषसंकीर्णमिति विशेषः ॥

 यथावा--

 जलजन्तुकुले जातस्त्वद्दृष्टश्चेद्यदृच्छया जातु । हन्त कुलीरोऽपि नरो नेतस्स्यान्ननु कुलीन एव हरे ॥ १६९० ॥

 हे नेतः! सर्वेश्वर । जलजन्तूनां जडजन्तूनां च कुले जातः कुलीरः कर्कटकोऽपि जातु यदा कदा वा यदृच्छया न त्वैदंपर्येण त्वया दृष्टश्चेत् यादृच्छिकादिसुकृतपरिणतिवशात् कटाक्षितश्चेदित्यर्थः । कुलीनः सद्वंश्य इत्यर्थः । ‘महाकुलकुलीनार्यसभ्यसज्जनसाधवः' इत्यमरः । ‘कुलात्खः’ इति खः । नर एव मानुष एव स्यान्ननु भवेदेव । हन्तेति भगवत्कटाक्षप्रभावपरिचिन्तनजनितहर्षे । पक्षे कुलीरशब्दः नरः रेफरहितस्सन् नेतः तत्रैव नकारेण इतः संयुतश्चेत् कुलीन इति निष्पद्येतेत्यर्थोऽपि चम

त्कारी । अत्रापि भगवत्कटाक्षप्रभावरूपगुणेन कुलीरस्यापि कुलीननरत्वरूपगुणाधानम् । श्लेषसंकीर्णत्वं चमत्कारविशेषश्च पूर्ववदेव । संभावनागर्भितत्वं तु विशेषः ॥

 यथावा--

 त्वत्तो बहुप्रसादस्सारहितत्वाद्बहुप्रदश्च पुमान् । चातुर्वर्ण्यश्लाघ्यो भवेत्स्वयं जननि दान्तिमत्त्वमयन् ॥ १६९१ ॥

 हे जननि! स्वयं दान्तिमतो भावः दान्तिमत्त्वं दान्ततां अयन् प्राप्नुवन् । पक्षे दकारः अन्तिमो यस्य तस्य भावं अयन् पुमान् पुरुषः इदं विशेषणं बहुप्रसाद इत्यस्य । त्वत्तः त्वदनुग्रहादिति यावत् । बहुप्रसादः त्वत्कृपाकृतबहुप्रसादविषयस्सन्नित्यर्थः । सारश्चासौ हितश्च सारहितः तस्य भावं सारहितत्वं तस्मात् अर्थिनामुत्तमहितत्वं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी । यद्वा त्वत्तः त्वत्कटाक्षादिति यावत् । बहुः प्रसादः प्रसन्नता यस्य स तथोक्तः । अयं हि ‘यद्दातुस्सौम्यता सेयं पूर्णेन्दोरकलङ्कता’ इत्युक्तो दातुर्महान् गुणः, अत एव सारहितत्वात् उक्त एवार्थः। बहुप्रदः स्थूललक्षो भूत्वा । पक्षे बहुप्रसादशब्दः सारहितत्वं सावर्णराहित्यं प्राप्य बहुप्रद इति निष्पद्यत इत्यर्थः । अतएव चातुर्वर्ण्येन ब्राह्मणादिवर्णचतुष्टयेन श्लाघ्यो भवेत् । पक्षे पञ्चवर्णात्मको बहुप्रसादशब्दस्सावर्णराहित्ये चतुर्वर्णत्वेनैव श्लाध्यो भवेदित्यर्थः । प्राथमिकार्थपक्षे चत्वारो वर्णाश्चातुर्वर्ण्यमिति विग्रहः ‘चतुवर्णादीनां स्वार्थै’ इति स्वार्थे ष्यञ् । द्वितीयस्मिन् पक्षे तु चत्वारो वर्णा यस्येति बहुव्रीहिः । ततः

'गुणवचनब्राह्मणादिभ्यश्च' इति भावे ष्यञ् । अत्र भगवत्प्रसादप्रभावगुणेन तद्भक्तस्य सारहितत्वादिगुणाधानम् । भगवत्कटाक्षप्रभावाद्बहुप्रसादत्वाद्याधानं वा ॥

 यथावा--

 दुर्गतिवशात्पुमान्यो बहुप्रमादोऽपि तव दृशां विषयः । मानिततां प्राप्य भवेद्बहुप्रदस्स खलु कलशजलधिसुते ॥ १६९२ ॥

 हे कलशजलधिसुते! दुर्गतिवशात् दारिद्र्यवशात् बहुप्रमादः बहुविपदपि । पक्षे बहुप्रमादशब्दो यः पुमान् तव दृशां कटाक्षाणां विषयः भवेत् स पुमान् पुरुषः पुल्लिङ्गो बहुप्रमादशब्दश्च मानिततां जगत्पूजिततां । पक्षे मावर्णेन अनिततां अयुक्ततां च प्राप्य बहुप्रदः दानशौण्डः भवेत्खलु । पक्षे बहुप्रद इति निष्पद्येतेत्यर्थः । अत्र लक्ष्मीकटाक्षप्रसरगुणेन दुर्गतेरपि महोदारतादिगुणाधानम् । एकस्मिन्नाधारे बहुप्रमादत्वबहुप्रदत्वरूपानेकाधेयवर्णनरूपपर्यायालंकारगर्भितत्वं विशेषः। श्लेषादिसंकीर्णत्वं तु पूर्ववदेव ॥

 यथावा--

 आदौ वैश्वानुगतोऽप्यग्र्यनरो यस्स्वभावतः कश्चित् । दृष्टः क्रमेण भवता वौश्वानर एव भवति को विशयः ॥ १६९३ ॥

 हे भगवन्! अग्र्यनरः अग्रजन्मा मनुजः ब्राह्मणः वै इति प्रसिद्धौ । आदौ श्वाभिः अनुगतः श्वानुगतः "श्वक्रीडी श्येनजीवी

च' इत्याद्युक्तनिषिद्धाचारवान् भवन्नपि यःकश्चित् भवता क्रमेण यादृच्छिकादिसुकृतपरिपाकक्रमेण तद्वशादिति यावत् । दृष्टश्चेत् वैश्वानरः अग्निः तद्वच्छुचिस्तेजस्वी च भवति, पक्षे आदौ वैश्वा इति वर्णाभ्यामनुगतः अग्र्यौ नरौ नकाररेफौ यस्य स तथोक्तः । यःकश्चिच्छब्दः क्रमेण उक्तवर्णानुपूर्व्येण दृष्टश्चेत् वैश्वानर एव भ ति नान्यशब्द इत्यर्थः । अत्रापि भगवन्महिमातिशयगुणेन तद्दृष्टिवशादशुचेरपि शुचित्वगुणाधानम् । एकस्मिन्नाधारे अशुचित्वशुचित्वरूपानेकाधेयवर्णनात्मकपर्यायेण संभावनेन च संकीर्णत्वं विशेषः ॥

 यथावा--

 अजहत्स्वामिन् प्रकृतिं सद्मान्तस्स्थानभाग्यतो भवतः । अपि पक्षी पद्माक्षीभविष्यति ततः किमत्र वक्तव्यम् ॥ १६९४ ॥

 हे स्वामिन्! प्रकृतिं स्वस्वभावं अजहदेव स्वप्रकृत्यनुगुणं चेष्टमान एव न तूपासनादि कुर्वन्निति भावः । भगवतः सद्मनः दिव्यालयस्य अन्तः स्थानं स्थितिः तद्रूपं यत् भाग्यं भागधेयं तस्मात् सद्मान्तस्स्थानभाग्यतः सार्वविभक्तिकस्तसिः । पक्ष्यपि विहगोऽपि तिर्यग्जन्तुरपीति भावः । पद्माक्षो भगवान् अपद्माक्षः पद्माक्षस्संपत्स्यते पद्माक्षीभविष्यति । च्विः । उपायाभिमुख्यगन्धस्यापि दवीयान् पक्षिमात्रोऽपि भवद्दिव्यालयवासभाग्यवशात् 'ब्रह्म वेद ब्रह्मैव भवति’ इत्युक्तरीत्या ब्रह्मविदिव भगवत्सारूप्ययोग्यो भविष्यतीति भावः । ततः तदपेक्षया वक्तव्यं किमस्ति कथनीयं तन्माहात्म्यं ततोऽपि नान्यदवशिष्यत इति भावः ॥

 पक्षे स्वां इन्प्रकृतिं इति छेदः । स्वां स्वकीयां इन्प्रकृतिं मत्वर्थीयेन इन्प्रत्ययेन युक्तां प्रकृतिंपक्षीति प्रकृतिं अजहदेव । इन्प्रत्ययान्तप्रकृतिकत्वात्तस्येति भावः । पक्षी पक्षीतिशब्दः सद्मान्तस्थानभाक् यतः इति छेदः । यतः यस्मात्कारणात् द्मावर्णेन सह वर्तत इति सद्मं अन्तस्स्थानं मध्यभागः तद्भजतीति तथोक्तः । ततः तस्मात्कारणात् पद्माक्षी भविष्यति । पद्माक्षीति निष्पत्स्यते । अत्र वक्तव्यं किं वक्तव्यप्रकिया सर्वाप्ऽयुक्तैव नान्यत्किंचिदवशिष्यत इति भावः । अत्र भगवन्मन्दिरमहिमगुणेन तन्निवासेन पक्षिणोऽपि भगवत्सारूप्यगुणाधानम् । अन्यत्सर्वं पूर्ववदेव ॥

 यथावा--

 आद्यमरत्वं गतमप्यथ चातितरान्तकत्वमाप्तमपि । हरितत्ववित्त्वभूम्ना तत्साधर्म्येण मरतकं भाति ॥ १६९५ ॥

 मरतकं गारुत्मतं मरतकपदं च, तयोस्तादात्म्यम् । आद्यमरत्वं पूर्वदेवत्वं दैत्यत्वमित्यर्थः । गतमपि कर्मवशाद्वृत्रादिवदिति भावः । अथ च अनन्तरं च अतितरान्तकत्वं अतिवेलजगन्नाशकत्वं दैत्यत्वानुगुणमिति भावः । आप्तमपि । पक्षे आद्यौ प्राथमिकौ मरौ मवर्णरेफौ यस्य तत् आद्यमरं तस्य भावः तत्त्वं गतं अथ च मरवर्णानन्तरं च अतितरां अतिवेलं तकौ तकारककारौ

यस्य तत् अतितरांतकं तस्य भावं आप्तमित्यर्थः । मरतकशब्दस्यैवं वर्णचतुष्टयात्मकत्वादित्यभिप्रायः । हरेः भगवतः तत्वं याथात्म्यं वेत्तीति वा हरिरूपं परं तत्वं वेत्तीति वा हरितत्ववित् तस्य भावः हरितत्त्ववित्त्वं तस्य भूम्ना तत्साधर्म्येण भाति ।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥

 इत्युक्तरीत्या भगवत्साम्यं प्राप्य प्रकाशत इत्यर्थः ॥

 पक्षे-- हरितत्वं हरिद्वर्णत्वं विन्दतीति हरितत्ववित् । विन्दतेः क्विप् । तद्भूम्ना तत्साधर्म्येण भाति । मरतकमणेर्हरितवर्णत्वेन भगवत्सावर्ण्यात्तथोक्तिः । नीलहरिद्वर्णयोरभेदः कविसमयसिद्धः, अत्र मकाररेफादिवर्णवत्त्वं मरतकशब्दगतं हरितत्त्वभाक्त्वं तदर्थगतमपि शब्दार्थतादात्म्यसाम्राज्यादभेदेनाध्यवसितमिति रहस्यम् । भगवन्निष्ठमहिमगुणेन तत्तत्त्वविदि मरतके तत्साधर्म्यगुणाधानम् । हरितत्त्ववित्त्वादिशब्दक्रोडीकृतार्थद्वयाभेदाध्यवसायनिर्व्यूढप्रतिबन्धकसद्भावेऽपि कार्योत्पत्तिलक्षणविभावनाविशेषेण पूर्वोक्तरीत्या पर्यायालंकारविशेषेण चोपस्कृतमित्यवधेयम् ॥

 यथावा--

 अचलामरस्थितिः प्राग्येनाप्ताऽन्ते प्रतीपवर्णगति । भूत्वाऽपि मरकतं तद्धरिरुच्या स्वार्थतो न विभ्रष्टम् ॥ १६९६ ॥

 येन मरकतेन गारुत्मतमणिना मरकतपदेन च प्राक् आदौ अचलामरस्थितिः अचलामरो भूदेवः तस्य स्थितिः मर्यादा आप्ता ब्राह्मण्यं लब्धमित्यर्थः । पक्षे अचला निश्चला मरस्थितिः मकाररेफयोरवस्थानं आप्ता ‘स्थितिस्स्त्रियामवस्थाने मर्यादायां च सीमनि, इति मेदिनी । तत् मरकतं तत्पदं च । अन्ते अवसानसमये प्रतीपवर्णः ब्राह्मणप्रतिकूलवर्णः शूद्रवर्ण इति यावत् । गतिः संबन्धो यस्य तत्तथोक्तं । अजामिलादिवद्वृषलसंसर्गदूषितमिति

भावः भूत्वा; पक्षे अन्ते स्वचरमभागे प्रतीपा प्रतिलोमा वर्णगतिः वर्णयोः ककारतकारयोः स्थितिः यस्य तत्तथोक्तं भूत्वाऽपि । मरकतमिति पदं मरतकं भूत्वाऽपीत्यर्थः । हरौ भगवति रुच्या निरतिशयप्रीत्या ‘यमेवैष वृणुते' इत्युक्तरीत्या भगवत्कृतस्वविषयकप्रीत्या वा । पक्षे भगवत्तुल्यरुचा उपलक्षितमिति शेषः । स्वार्थतः स्वाभीप्सितनिश्श्रेयसरूपनिरतिशयपुरुषार्थात् न विभ्रष्टं न प्रच्युतं । किंतु साधितवदेवेति भावः । पक्षे स्वाभिधेयाद्गारुत्मतमणिलक्षणात् न विभ्रष्टं मरकतपदस्य यादृशार्थप्रत्यायकता मरतकमित्यस्यापि पदस्य तादृशार्थप्रत्यायकताया एव प्रसिद्धत्वान्न स्वार्थविभ्रंश इति भावः । अत्रापि पूर्वोदाहरणवदेव सर्वमनुसन्धेयम् ॥

 यथावा--

 आदिमवर्णत्रितयत्यक्तोऽपि त्वद्रुचेर्बलाढ्यतया । वर्णान्तरगोऽपि जहौ न स्वार्थं वारिवाहको भगवन् ॥ १६९७ ॥

हे भगवन्! वारिवाहकः अम्बुवाहः वारिवाहकशब्दश्च आदौ भवं आदिमं यत् वर्णत्रितयं ब्राह्मणादिवर्णत्रयं । पक्षे वारिवा इति वर्णत्रयं तेन त्यक्तोऽपि; त्वद्रुचेःत्वयि प्रीतिसद्भावाद्धेतोः

त्वदनुग्रहसद्भावाद्वा । बलाढ्यतया विवेकादिसाधनसप्तकान्तर्गतानवसादलक्षणमनोबलवत्त्वेन ईदृशबलासद्भावे विवक्षितपुरुषार्थलाभायोगात् । यच्छ्रूयते 'नायमात्मा बलहीनेन लभ्यः' इतीति भावः । पक्षे । त्वद्रुचेः त्वत्तुल्यद्युतिसद्भावादित्यर्थः । यद्वा । त्वदभिप्रायानुरोधादित्यर्थः । बलाढ्यतया बला इति वर्णद्वययुक्ततया त्वदिच्छानुसारात्' ‘न गिरा गिरा, इति न्यायात् वारिवा

इति वर्णत्रयनिषेधेन तत्स्थाने विधीयमानं यत् बला इति वर्णद्वयं तादृशवर्णवत्त्वेन वर्णांन्तरगोऽपि अवरवर्णं प्राप्तोऽपि पक्षे वला इत्याकारकवर्णाभिन्नवर्णान्तरसंबन्द्धोऽपीत्यर्थः । बलाहक इति निष्पन्नोऽपीत्यभिप्रायः । पृषोदरादिगणे वारिवाहकशब्द एव बलाहक इति पठितः । स्वार्थं स्वभीष्टं परमपुरुषार्थं न जहौ । भगवत्प्रीतिसद्भावे पुरुषार्थसाधनविषये अवरवर्णसंबन्धोऽपि न प्रतिबन्धक इति भावः । पक्षे स्वाभिधेयं न जहौ वारिवाहक शब्दस्य बलाहकशब्दत्वेऽपि तुल्यार्थकत्वादिति भावः । अत्रापि भगवद्गुणेन बलाहकस्य गुणधानम् । अन्यत्प्राग्वत् ॥

 अन्यदोषेणान्यदोषाधानं यथा--

 बहुधाऽपि च यतमानास्तव धामगतिं कदाऽप्यलभमानाः । मशकतया वाऽत्र स्वानसृष्टवन्तं विधिं विनिन्दन्ति ॥ १६९८ ॥

 अत्र भगवद्भक्तानां श्रीनिवासनिवासगमनाभावदोषेण तद्दिव्यालये मशकतया वाऽपि स्वानसृष्टवतो विधेर्न्निन्दारूपदोषाधानम् ॥

 यथावा--

 तुष्टूषुस्तवं भगवन्ननन्तमद्भुततमं च महिमानम् । एकामेव रसज्ञां निर्मितवन्तं विधि विनिन्दामि ॥ १६९९ ॥

 अत्र तेुष्टूेषारकरसज्ञत्वदोषेण अनेकरसना अनिर्मितवतो विधेर्निन्द्यत्वरूपदोषाधानम् ॥

 अच्युतपदनिगळितमप्यसारविषयेषु मदविदितमेव । धावददान्तं हृन्मम धात्रा सृजता प्रतारितोऽस्मि मुधा ॥ १७०० ॥

 इदं भूयसाऽपि यत्नेन दुश्शकमनोनिग्रहतया निर्विद्यमानस्य कस्यचित्प्रपन्नस्य वचनम् । तथाहि-- अच्युतस्य भगवतः पदे चरणे निगळितमपि निश्चलतया स्थापितमपि, पक्षे दुर्मोचकारारूपस्थानविशेषशृङ्खलितमपि मदविदितं मया अज्ञातमेव यथा स्यात्तथा असारेषु विषयेषु देशेषु च ‘विषयो गोचरे देशे तथा जनपदेपि च' इति मेदिनी । धावत् रुचिभेदाद्विषयरसानेवास्वादयदिति भावः । पक्षे कारागृहाद्विशृङ्खलतया स्वैरं देशाद्देशं धावमानमिति भावः । अदान्तं स्वरूपतोऽशिक्षितं मम हृत् चेतः सृजता धात्रा, अनेन स्वतः पोषकस्वभावेनापीति व्यज्यते । मुधा प्रतरितोऽस्मि व्यर्थमेव वञ्चितोऽस्मि । ईदृगतिदुर्दान्तचपलचेतस्सर्जनपूर्वकमद्वञ्चनेन न किंचिदस्य प्रयोजनं विमृशन्नपि पश्यामीति भावः । अत्र प्रपन्नमनसश्चापल्यरूपदोषेण तत्स्रष्टुर्धातुः प्रतारकत्वरूपदोषाधानम् । प्रकृते प्रपन्नमनोवृत्तान्ते उच्छृङ्खलकारागृहस्वैरनिस्सृतचेतोवृत्तान्तप्रतीतिरूपसमासोक्त्युपस्कृतमिदम् । पूर्वोदहारणे तु उभे अपि शुद्धे इति विवेकः ॥

 यथावा--

 अधिनाथो भवतु विधिर्ननु नाथ त्वयि मनाक्पराचीने । भगवन्ननाथ एव हि भविता कश्चिन्न कोऽपि विशयोऽत्र ॥ १७०१ ॥

 ननु नाथ हे भगवन्! कश्चित् अधिनाथः यः कश्चिदैश्वर्यशाली जनः विधिर्भवतु ब्रह्मैव भवत्विति लोकोक्तिः । किं तावतेति भावः । त्वयि मनाक् पराचीने पराङ्मुखे सति अनाथ एव भविता । त्वय्युदासीने कोऽन्यो नाथस्स्यादिति भावः । पक्षे अधिनाथशब्दः विधिः विगतधिवर्णश्चेत् अनाथ इति संपद्येतेत्यर्थः । अत्र मनाग्भगवत्पाराङ्मुख्यदोषेणाधिनाथस्य विधेरपि कस्यचिदनाथत्वरूपदोषाधानम् । उपदर्शितश्लेषचमत्कारस्तु पूर्वेभ्यो विशेषः ॥

 अन्यगुणेनान्यस्य दोषाधानं यथा--

 अतिवेलसहनशीला विपुलेव तवान्तरङ्गरीतिरिति । वारंवारं मनुजास्स्वैरं विधदति किलांहसां भारम् ॥ १७०२ ॥

 अत्र आत्यन्तिकभगवत्क्षमागुणेन दुर्दान्तानां स्वैरदुरितभारकरणरूपदोषाधानम् ॥

 यथावा--

 आद्यन्ताक्षरवैरं त्वय्यखिलसुहृत्तमे रमेश विभो । वैश्वानरमप्यन्तश्श्वानं को नाम भुवि न जानाति ॥ १७०३ ॥

 हे विभो रमेश! अखिलसुहृदि 'सर्वस्य शरणं सुहृत्' इति श्रुत्युद्घोषितसर्वसौहार्दे त्वयि आद्यन्तावभिव्याप्य आद्यन्तं यावच्छरीरपातमित्यर्थः । अक्षरं अक्षय्यं वैरं विरोधः यस्य तं तथोक्तं वैश्वानरमपि वह्नितुल्यमपीति यावत्, अतिपवित्रमपीति

भावः । श्वानं सारमेयसदृशं अन्तः मनसि को नाम भुवि न

जानाति । दाक्षिण्येन प्रकाशं शुनकतुल्यं वक्तुमनीशोऽपि चेतसि तथा जानीयादेवेति भावः । पक्षे आद्यन्ते प्रथमचरमे अक्षरे वर्णे वैररूपे यस्य तं तथोक्तं आदौ वै इति वर्णेन अन्ते र इति वर्णेन च युक्तमित्यर्थः । वैश्वानरं वैश्वानरशब्दं अन्तश्श्वानमिति समस्तं पदम् । अन्तः वैर इत्याकारकवर्णद्वयमध्ये श्वान इत्याकारकवर्णद्वयं यस्य तं तथोक्तं को नाम न जानाति; सर्वोऽपि वैश्वानरशब्दः ईदृगिति जानात्येवेति भावः । अत्र भगवतोऽखिलसुहृत्त्वादिगुणेन तद्वैरस्य दोषत्वानुवर्णनम् ॥

 यथावा--

 त्वदपाङ्गविपर्यासान्नहुषो नाके महाशयोऽपि भवन् । अन्तेच्युत ऊर्जिततां प्राप्तोऽपि महाशयुर्बभूवाम्ब ॥ १७०४ ॥

 हे अम्ब! नहुषः नाके महाशयः महेच्छः भवन्नपि त्रैलोक्यैश्वर्यं भजन्नपीति यावत् 'महेच्छस्तु महाशयः' इत्यमरः । अप्रतिहतेच्छो भवन्नपीत्यर्थः । ऊर्जिततां सर्वप्रकारबलवत्त्वं प्राप्तोऽपि त्वदपाङ्गविपर्यासात् अन्ते पर्यवसाने च्युतः स्वर्गाद्भ्रष्टस्सन् महांश्चासौ शयुश्च महाशयुः अजगरो बभूव । ‘अजगरे शयुर्वाहस इत्युभौ' इत्यमरः । अन्यत्र महाशयशब्दः अन्ते अच्युतः च्युताकारः ऊर्जिततां उवा उकारेण ऊर्जिततां प्राणिततां उकारघटिततामिति यावत् । प्राप्तोऽपि अपिस्समुच्चये । न केवलमन्ते अकारच्युततामेव किंतु तत्रैव उकारसंबन्धतां च प्राप्त इत्यर्थः । महाशयुरिति निरपद्यतेति भावः । अत्र श्रीकटाक्षनिष्ठमहोदारत्वादिगुणेन तद्विपर्यासहेतुकमहाशयुत्वदोषो नहुषस्य निबद्धः ॥

 अन्यदोषेणान्यगुणधानं यथा-

 दण्डधरस्त्त्वमिति हरे चण्डकरादिस्स्वकृत्यमधिकुर्वन् । भद्राय भवति जगतां निद्रात्यलसे प्रभौ जनस्स्वैरम् ॥ १७०५ ॥

 प्रभौ अलसे सति जनः स्वैरं निद्रातीति योजना । अत्र भगवतो दण्डधरत्वसूचितक्रौर्यदोषेण चण्डकरादेः स्वस्वाधिकारनिर्वर्तनमूलकजगत्क्षेमनिष्पादनलक्षणगुणाधानम् । अयं च व्यतिरेकमुखप्रवृत्तेन तुरीयपादगतार्थान्तरन्यासेन समर्थितः । अत्र ‘भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः’ इत्यादिश्रुत्यर्थोऽनुसंधेयः । इदं भगवतो दण्डधरत्वं क्रौर्यमिति लोकदृष्ट्योक्तम् । वस्तुतस्तु तस्यापि गुणत्वमेवेत्यभाषि भगवद्भाष्यकारैः । एवं सत्यन्यगुणेनान्यगुणाधानस्यैवोदाहरणं भविष्यति ॥

 यथावा--

 चक्रेण व्यलुनास्त्वं चैद्यस्य शिरोधरां सरोजाक्ष । किं छिन्नमस्य तावत्त्वत्सायुज्यं परं त्वनेनाप्तम् ॥ १७०६ ॥

 अत्र भगवतश्चक्रस्य चैद्यस्य शिरोधराच्छेदहेतुभूतक्रौर्यदोषेण तस्य तत्सायुज्यलाभरूपगुणाधानम् । इदं शुद्धम् ॥

 यथावा--

 त्वदनुग्रहस्य विषयश्शरीरभृद्धरणिभास्वरः प्रभवेत् । त्वन्निग्रहस्य विषयो निस्स्वोऽच्युत धरणिभार एव भवेत् ॥ १७०७ ॥

 धरण्या धरणौ वा भास्वरः तेजस्वी सन् प्रभवेत् प्रभुर्भवेत् निस्स्वः दुर्गतस्सन् धरणिभारः भुवो भारभूत एव भवेत् । न च किंचिदपि प्रयोजनं तेन भवेदिति भावः । पक्षे धरणिभास्वरशब्दः निस्स्वः स्ववर्णरहितस्सन् धरणिभार इति निष्पन्नो भवेदित्यर्थश्चमत्कारी । अत्र भगवतोऽनुग्रहो गुणः तेन शरीरभृतो धरणिभास्वरप्रभुत्वरूपगुणाधानं पूर्वार्धे । तन्निग्रहो दोषः तेन तस्य निस्स्वतावाप्तिपूर्वकभूभारत्वरूपदोषाधानमुत्तरार्धे इत्युभावपि प्रकारौ दर्शिताविति पूर्वेभ्यो विच्छित्तिविशेषः । एवं प्रदर्शयिष्यमाणेष्वप्युदाहरणेषु ॥

 शर्वस्स्थाणुस्सन्नपि सर्वज्ञस्त्वत्कृपावशादासीत् । स्यादितरधा स पशुपः पतन्नधश्शीर्षमपि पशुप एव ॥ १७०८ ॥

 अत्र भगवत्कृपामहिमगुणेन स्थाणोरपि सर्वज्ञत्वरूपगुणः, तद्वैपरीत्येन दोषेण पशुपस्य पशुपत्वरूपदोषश्चाहित इत्युभयम् ॥

 यथावा--

 कृपया त्वयेक्षितो यदि भवत्यसभ्योऽपि खलु सभास्तारः । अत एष सभासारो विपरीतत्वे भवेद्रसाभासः ॥ १७०९ ॥

 हे भगवन् ! त्वया कृपया ईक्षितः दृष्टो यदि असभ्योऽपि सभानर्हः अनार्योऽपि 'माहाकुलकुलीनार्यसभ्यसज्जनसाधवः' इत्यमरः । सभास्तारः सभ्यो भवति खलु । अतः अस्मादेव कारणात् एषः सभासारः भवतीत्यनुषज्यते । सभायां श्रेष्ठो

भवतीत्यर्थः । ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । पक्षे एषः सभास्तार इति शब्दः अतः अविद्यमानतकारस्सन् सभासार इति निष्पद्यते विपरीतत्वे त्वत्कटाक्षवैपरीत्ये विलोमतया पठने च रसाभासो भवेत् । अविद्यमानः भासः भासनं यस्य सः अभासः रसेन अभासः रसाभासः नीरस इत्यर्थः । यद्वा रसायां भुवि अभासः अप्रकाश इत्यर्थः । यद्वा अस्यते निरस्यत इत्यासः कर्मणि घञ् रसश्च आभा च रसाभे ताभ्यां निरस्त इत्यर्थः । पक्षे सभासारशब्दः रसाभास इति परिणमतीत्यर्थः । अत्र भगवत्कटाक्षस्य कृपार्द्रतागुणेन असभ्यस्यापि सभास्तारतादिगुणाधानं, तद्वैपरीत्येन सभासारस्यापि रसाभासत्वरूपदोषाधानं च ॥

 यथावा--

 सद्यस्त्वयेक्षितोऽग्रे स वीश्वरोऽपि द्यवीश्वरोऽम्ब भवेत् । आदौ द्यवीश्वरोऽपि ह्युपेक्षितो वीश्वरोद्यस्स्यात् ॥ १७१० ॥

 हे अम्ब! विगतः ईश्वरो यस्य सः वीश्वरः अनाथोऽपीत्यर्थः । त्वया अग्रे पुरस्तात् ईक्षितश्चेत् सः पुमान् सद्यः तत्क्षणमेव द्यवि दिवि द्योशब्दस्य सप्तम्येकवचनम् । ईश्वरः अधिनाथः भवेत् ‘स्वामीश्वराधिपति’ इत्यादिना ईश्वरशब्दयोगाद्द्योशब्दस्य सप्तमी । इन्द्रो भवेदित्यर्थः । यद्वा सद्य इत्यत्र सत् यः इति छेदः । यः त्वया सत् प्रशस्तं यथा स्यात्तथा ईक्षितः इति योजना । अन्यत्तुल्यम् । अथवा द्यवि 'त्रिपादस्यामृतं दिवि' इति श्रुतेः परमे व्योम्नि ईश्वरः ‘स स्वराड्भवति’ इत्युक्तरीत्या

अकर्मवश्यः मुक्त्यैश्वर्यभाक् भवेदित्यर्थः । किंच आदौ प्रथमं द्यवीश्वरोऽपि इन्द्रोभवन्नपि अद्य अधुना त्वया उपेक्षितश्चेत् वीश्वरः अनाथ एव स्यात् । त्वदीक्षणान्वयव्यतिरेकावेव ऐश्वर्यदारिद्र्यप्रयोजकाविति भावः । स्यादित्यत्र सकारस्य ‘अनचि च' इति वैकल्पिकं द्वित्वम् । पक्षे वीश्वरशब्दः आदौ प्रथमवर्णात्पूर्वं सद्यः द्यवर्णसहितश्चेत् द्यवीश्वर इति निष्पद्यते । न केवलमेतावदेव । आदौ द्यवीश्वरः द्यवीश्वरशब्दस्सन्नपि अद्यः द्यवर्णरहितः वीश्वर इति भवतीत्यर्थोऽपि चमत्कारी । अत्र लक्ष्मीकटाक्षस्य सानुग्रहत्वरूपगुणेन तदीक्षितस्य स्वाराज्यैश्वर्यलक्षणगुणः । तदुपेक्षणलक्षणदोषप्रयुक्तः इन्द्रस्यापि अनाथत्वरूपदोषश्चेत्युभयम् ॥

 यथावा--

 व्यासविभीषणबलिवत्त्वदुपगतौ नाथ वर्धते पूर्णायुः । पूर्णायुरप्यपगतावूर्णायुरिवेह वध्यते बत मनुजः ॥ १७११ ॥

 नाथ्यते आयुरारोग्यादिसर्वपुरुषार्थान् जनैरिति नाथः, तस्य संबुद्धिः हे नाथ! त्वदुपगतौ त्वच्छरणागतौ सत्यां व्यासविभीषणबलिवत् पूर्णायुस्सन् वर्धते ।

अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

 इत्युक्तं तेषां चिरजीवित्वं भगवत्प्रपदनमहिम्नैवेति भावः । पूर्णायुरपि निमित्तान्तरेण पूर्णायुरपि अपगतौ त्वत्तो वैमुख्ये सति ऊर्णायुः मेष इव वध्यते हन्यते । दुर्गादिबलिप्रदैर्मांसार्थिभिर्द्वेषिभिर्वा जनैरिति शेषः । त्वद्वैमुख्यं ब्रह्मणोऽप्यायुर्भङ्गहेतुरिति

भावः 'आयुः क्षिणोत्युपचिनोति च सर्वदोषान्द्वेषो मुकुन्दविषयो विषयोगतुल्यः' इत्युक्तेः । भगवदुपगतः पूर्णायुर्वर्धते तदपगतस्तु ऊर्णायुरिव वध्यत इति संपिण्डितोऽर्थः । पक्षे पूर्णायुश्शब्दोऽपि पस्य पकारस्य गतिः प्राप्तिः न पगतिः अपगतिः तस्यां पकारराहित्ये इत्यर्थः । ऊर्णायुस्सन्वध्यते बवयोरभेदात् बध्यते पदसमुदाये ग्रथ्यत इत्यर्थः । इवशब्दो वाक्यालंकारे । अत्र भगवतस्सकलफलप्रदत्वादिगुणेन तत्प्रपन्नस्य पूर्णायुष्ट्वगुणाधानं तदपगत्या तदन्यस्य ऊर्णायुवद्वध्यत्वरूषदोषाधानं च निबद्धम् । उपमासंकीर्णत्वं विशेषः ॥

 यथावा--

 तव पदि लग्ना जनता पूर्णा लक्ष्येत सर्वथाऽपि हरे । पूर्णाऽपि पच्च्युता चेदूर्णालक्ष्या भवेन्न सन्देहः ॥ १७१२ ॥

 हे हरे! तव पदि लग्ना त्वच्चरणे सक्ता जनता सर्वधा सर्वप्रकारेणापि पूर्णा सती लक्ष्यते जनैरिति शेषः । तव पच्च्युता पदः चरणात् च्युता जनता स्वतः पूर्णाऽपि ऊर्णालक्ष्या ऊर्णेव मेषादिलोमेव अलक्ष्या अनादरणीया भवेत् । यद्वा ऊर्णा तत्प्राया लक्ष्या दृश्या भवेत् । 'ऊर्णा मेषादिलोम्नि स्यात्’ इत्यमरः । पक्षे पूर्णाऽपि पूर्णेति शब्दव्यक्तिरपि पच्च्युता पकारेण च्युता । पः पकारः च्युता यस्या इति घा’ पकारविधुरा सती ऊर्णा ऊर्णेत्यानुपूवीमती लक्ष्या दृश्या भवति । अत्र भगवतो माहात्म्यगुणेन तत्पदलग्नाया जनतायाः पूर्णायुष्ट्वलक्षणगुणाधानम् । तादृशमहिमवत्त्वं भगवतो गुणः । तेन तत्पादच्युतिहेतुकोर्णालक्ष्यत्वरूपो दोष इत्युभयं पूर्वेभ्यो विच्छित्तिशालि ॥

 यथावा--

 घनसारस्स्मितदास्यात्तवाघवान्प्राङ्नसार एवाम्ब । कथमप्यनोऽथ सारो रसानधश्वास सकलविपरीतः ॥ १७१३ ॥

 हे अम्ब! घनसारः कर्पूरः तव स्मितदास्यात् प्राक् मन्दहसितदास्यलाभात्पूर्वं अघवान् दास्यालाभप्रयुक्तदुःखवान् 'अंहोदुःखव्यसनेष्वघम्' इत्यमरः । अतएव नसार एव । असार एव नशब्देन नञर्थकेन समासः । कथमपि अतिप्रयासेन अनितीत्यनः 'अन प्राणने' पचाद्यच् । जीवन्नित्यर्थः । अथ स्मितदास्यलाभानन्तरं सकलविपरीतः पूर्वोक्ताघवत्त्वादिसर्वगुणविपर्यासं गतस्सन् रसानघः रसायां भुवि अनघः रसेन अनघश्च सन् सारः श्रेष्ठः बलवान्वा आस दिदीपे । अस्यतेः दैवादिकाद्दीप्त्यर्थकाल्लिट् । अघवत्त्वनसारत्वयोर्वैपरीत्येन सारो रसानघश्चेति सारत्वरसानघत्वयोः प्रतिद्वंद्विनोर्न्निर्देशः । पक्षे घनसारशब्दः प्राक् प्रथमं घवान्न भवतीत्यघवान् घवर्णविधुरस्सन् नसार एव नसार इति संपद्यमानः अथ अनः नवर्णरहितः सार इति निष्पन्नः । एवं वर्णवैकल्यहेतुकं शब्दस्वरूपमुक्तम् । अथ सर्ववर्णसाकल्येन वैपरीत्ये शब्दस्वरूपमाह-- अथेति । अथ सकलविपरीतः वर्णवैकल्याभावेन विलोमपठितसर्ववर्णः रसानघ इति निष्पद्यत इत्यर्थः । अत्र श्रीस्मितगतधावळ्यतापहारित्वादिगुणेन घनसारस्य तदलाभमूलकाघवत्त्वरूपदोषः । तद्दास्यलाभप्रयोज्यसारत्वादिगुणश्चेत्युभयं पूर्वोदाहरणेभ्यो वैलक्षण्येन निबद्धम् । शब्दार्थतादात्मादिचमत्कृतिस्तु व्यक्तैव ॥

 यथावा--

 अम्ब प्राक्त्वददृष्टेरमरकदम्बमपि विष्टपत्यक्तम् । नष्टमधुना त्वनन्तोदयं तव दयादृशा विपत्यक्तम् ॥ १७१४ ॥

 हे अम्ब ! प्राक् पूर्वं अमरकदम्बमपि किमुत मर्त्यकदम्बमिति भावः । त्वददृष्टेः त्वत्कटाक्षालाभाद्धेतोः विष्टपेन त्यक्तं विष्टपं त्यक्तं येन तत्तथोक्तमिति । विसृष्टस्वस्वभुवनावस्थानमिति यावत् । नष्टं क्वाप्यदर्शनं प्राप्तं निलीनमित्यर्थः । अधुना तु तव दयादृशा विपत्त्यक्तं आपदा परित्यक्तम् । न केवलमनिष्टनिरास एव, किंत्वतिवेलमिष्टलाभश्चास्येत्याह--अनन्तोदयं अपरिच्छिन्नसर्वविधाभ्युदयं च भवति । अत्र--

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥

 इति श्रीविष्णुपुराणानुसारिणा ‘ईषत्त्वत्करुणनिरीक्षणसुधासंधुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम्' इति श्रीयामुनार्यश्रीसूक्तिरनुसंहिता ॥

 पक्षे विष्टपत्यक्तमिति पदं नष्टं न विद्यते ष्ट इति वर्णः यस्य तत् नशब्दपूर्वको बहुव्रीहिः । भ्रष्टष्टवर्णं सत् विपत्यकं विपत्यक्तमिति पदं अनन्तात् शेषावतारात्पतञ्जलेः उदयः आविर्भावो यस्य तत्तथोक्तं भवति । सर्वेषामपि शब्दानां तन्निष्पादितत्वादिति भावः । अत्र श्रीकटाक्षमहिमगुणेन तदविषयस्यामरकदम्बस्य विष्टपत्यागादिदोष इत्येक उल्लासः, तत्कटाक्षमहिमगुणेन तद्विषयस्य तस्य विपत्तिपरित्यागादिगुण इत्यन्य उल्लासः पूर्ववदेव ॥

 यथावा--

 वानरनिशिचरराजौ तयोरवरजौ च तव रविकुलेन्दो । कोपकृपाभ्यां नृपतेराज्यादरमेत्य हन्त निर्ववतुः ॥ १७१५ ॥

 हे रघुकुलेन्दो! वानरनिशिचरराजौ वालिदशाननौ नृपतेस्तव कोपात् आज्याः युद्धात् 'समित्याजिसमिद्युधः' इत्यमरः । दरं भयं एत्य निर्ववतुः निर्वाणं प्राप्तौ अस्तं गतावित्यर्थः । तदवरजौ सुग्रीवविभीषणौ, नृपते इति संबुद्ध्यन्तं पदं हे रघुकुलेन्दो इत्यस्य विशेषणम् । राज्यादरं राज्ये आदरं एत्य कुलक्रमागतराज्यलाभात्तत्रातिमात्रादरं प्राप्येति भावः । निर्ववतुः निर्वाणं सुखं प्राप्तावित्यर्थः। निःपूर्वकाद्वातेरुपपादितोभयार्थकताया दर्शनात् । तथाच मेदिनी 'निर्वाणमस्तंगमने निर्वृतौ गजमज्जने । सङ्गमेऽप्यपवर्गे च' इति । अत्र श्रीरघुनन्दनगताभ्यां कोपकृपाभ्यां दोषगुणाभ्यां वालिदशाननयोस्सुग्रीवविभीषणयोश्च आज्यादरस्य राज्यादरस्य च प्राप्तिपूर्वकं विनाशसुखलक्षणदोषगुणयोराधानमित्युभयं यथासंख्यश्लेषतुल्ययोगितासंकीर्णमिति पूर्वेभ्यो वैलक्षण्यम् ॥

 अत्र प्रथमचतुर्थयोरुल्लासोऽन्वर्थः । मध्ययोश्छत्रिन्योयन लाक्षणिकः । काव्यलिङ्गेन चरितार्थोऽयं नालंकारान्तरभूमिमाढौकत इत्येके । लौकिकार्थमयत्वादनलंकार एवेत्यपरे ॥

इत्यलंकारमणिहारे उल्लाससर एकसप्ततितमः.