अलङ्कारमणिहारः (भागः ३)/अवज्ञालङ्कारः (७२)

विकिस्रोतः तः
Jump to navigation Jump to search

अथावज्ञालंकारसरः (७२)


 न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् ॥

 ताभ्यां अन्यगुणदोषाभ्यां ते अन्यगुणदोषाधाने कस्यचिद्गुणेन कस्यचिद्गुणाधानं दोषेण दोषाधानं वा न स्यातां चेत् अवज्ञालंकारः ॥

 यथावा--

 करुणाजलधिरिति त्वां श्रितोऽस्मि करुणालवोऽपि मयि न कृतः । पापी गच्छतु जलधिं पादतलं वाऽप्यमुष्य नार्द्रं स्यात् ॥ १७१६ ॥

 अत्र भगवन्निष्ठाश्रितवत्सलत्वजलधिनिष्ठजलपौष्कल्यरूपगुणाभ्यां शरणागतपापिनोः कृपापादतलार्द्रतयोर्गुणयोरनाधानम् ॥ अत्र महावाक्यार्थो दृष्टान्तरूपः बिम्बप्रतिबिम्बवाक्यार्थाभ्यां अवज्ञारूपाभ्यां संकीर्णः ॥

 यथावा--

 अमृतमये निवसन्नपि सुमनोनिवहे जनो भवद्विमुखः । विशदत्वं नैति हरे शशधरबिम्बे चिरं कलङ्क इव ॥ १७१७ ॥

 अत्र विद्वन्निवहशशधरबिम्बयोरमृतमयत्वलक्षणगुणेन भगवद्विमुखकलङ्कयोर्विशदत्वरूपगुणस्यानाधानं श्लेषकृतसमानधर्मवदुपमासंकीर्णोऽयमिति पूर्वस्माद्विशेषः ॥

 यथावा--

 गच्छतु गयां वितनुतां विलोमतन्नामवाच्यमपि यदिवा । विन्देदरविन्देक्षण कथं तव पदं त्वया विवदमानः ॥ १७१८ ॥

 यथावा--

 विलोमतन्नामवाच्यं प्रतिलोमगयाशब्दवाच्यं यागमित्यर्थः । गयागन्ता वा यष्टा वा भवतु । स पुमान् हे अरविन्देक्षण ! त्वया विवदमानः ‘त्वं मेऽहं मे’ इत्युक्तरीत्या विवादकर्ता कथं तव पदं विन्देत ।

यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥

 इति तत्पदभरार्पणरूपाविवादवत एव निश्श्रेयसप्राप्त्यभिधानादिति भावः । अत्र वक्तव्यांशस्सर्वोऽपि समासोक्तिप्रकरणे सप्रपञ्चं न्यरूप्यत । अत्र गयायागयोः पवित्रतादिगुणेन भगवत्पदलाभगुणानाधानम् ॥

 दोषेण दोषानाधानं यथा--

 का तव हानिर्भगवन् कश्चिदभाग्यः पराङ्मुखस्त्वयि चेत् । नलिनसुहृदो भवेत्किं नयनरुजा चेन्निमीलितः कश्चित् ॥ १७१९ ॥

 नयनरुजेत्युपलक्षणतृतीया । अत्र भाग्यहीननयनरोगिणोः पराङ्मुखत्वनिमीलितत्वाभ्यां दोषाभ्यां भगवन्नलिनसुहृदोर्हानिरूपदोषानाधानम् । इयमपि दृष्टान्तसंकीर्णा आद्योदाहरणवत् ॥

 यथावा--

 यश्श्रीनिवास इति भुवि विदितोऽहिगिरौ चकास्त्यसौ कैश्चित् । उक्तोऽपि विप्रतीपं कदाऽपि भविता स वा निश्रीः ॥ १७२० ॥

 यः भगवान् श्रीनिवास इति भुवि विदितः अहिगिरौ चकास्ति । सः वा निश्रीः इति छेदः । सोऽसौ कैश्चित् भगवत्पारम्यासहिष्णुभिश्शैवैः विप्रतीपं विरुद्धं यथा तथा उकोऽपि नायं श्रीनिवासः किंतु कुमार इत्युक्तोपीति भावः । कदाऽपि यदाकदाचिद्वा निश्रीः श्रीविधुरः 'निवातपद्म' इत्यादाविव नीत्युपसर्गपूर्वको बहुव्रीहिः। भविता वा इति योजना स्यात्किमित्यर्थः । श्रियो वक्षस्येवावस्थानात्कदाऽपि नित्यश्रीत्वं न जहातीत्यर्थः । यथोच्यते श्रीमति रामायणे-- 'श्रीवत्सवक्षा नित्यश्री:' । इति । पक्षे श्रीनिवासशब्दः कदाऽपि यदाकदावा विप्रतीपमुक्तः प्रातिलोम्येन पठितः सवानिश्रीरिति भवितेत्यर्थोsपि चमत्कारी । अत्र नायं श्रीनिवास इति शैवोक्तिदोषेण भगवतो निश्रीत्वरूपदोषानाधानम् । चमत्कृतिविशेषस्तु व्यक्त एव ॥

 यथावा--

 सर्वेश्वरं हरे त्वां भूयश्श्रुत्यैककण्ठ्यतो विद्मः । पर्वतमात्रपतिं त्वां स्थविरगवी वदतु काऽपि का हानिः ॥ १७२१ ॥

 भूयसीनां श्रुतीनामैककण्ठ्यात् एकार्थप्रतिपादनात् । स्थविरगवी वृद्धप्रलपितम् । स्थविरेत्यनेन तस्य मतिभ्रंशो द्योत्यते । जरद्गवी वा । वस्तुतस्तु स्थविरगवी ‘विष्णुः पर्वतानामधिपतिः'

इति श्रुतिः । काऽपीत्यनेन तस्याः श्रुत्यन्तरानैककण्ठ्यं द्योत्यते । अत्र उदाहृतश्रुत्या भगवतश्श्रीनिवासस्य पर्वतमात्राधिपत्यप्रयुक्तन्यूनतारूपदोषवर्णनेन हानिरूपदोषानाधानवर्णनम् ॥

 यथावा--

 अस्थिरजयोऽनवन इत्यभिधत्तां विप्रतीपमेव जनः । नवतोयजलोचन इह नचलोजयतोवनश्च न भवेत्किम् ॥ १७२२ ॥

 जनः पामर इत्यर्थः । 'जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति विश्वमेदिन्यौ । अयं स्थिरः नित्यः जयो यस्य सः स्थिरजयः स न भवतीत्यस्थिरजयः । अनवनः अरक्षकः आभ्यां विशेषणाभ्यामनिष्टनिवारणेष्टप्रापणाक्षमत्वं सूचितम् । इति विप्रतीपं भगवत्स्वभावविरुद्धमेव अभिधत्तां कथयतु इत्यनादरोक्तिः । नवतोयजलोचनः अभिनवनलिननयनो भगवान् जयतः जयात् नचलः अचलः स्थिरजय इति यावत् । अवनः रक्षकश्च न भवेत्किम् । आभ्यां पूर्वोक्तविशेषणाभ्यां पूर्वोक्तविशेषणप्रतिद्वंद्विभ्यामनिष्टनिराकरणेष्टप्रापणधुरीणत्वं सूचितम् । अयमस्थिरजयः अनवन इति कश्चित्पामरो ब्रूयाच्चेत् तावतैवायं स्थिरजयो रक्षकश्च कथं न स्यादिति भावः । पक्षे नवतोयजलोचन इति शब्दः प्रतीपं कथितश्चेत् नचलोजयतोवनः कथं न स्यात् तथैव तन्निष्पत्तेरिति भावः । अत्र पामरजनकर्तृकविप्रतीपवर्णनदोषेण भगवति तादृशदोषानाधानमुपपादितचमत्कारोपस्कृतम् ॥

 यथावा--

 मूर्खस्त्वां निन्दति चेच्छातं किं तव हरे तदि-

दमास्ताम् । तं त्वं नाद्रियसे चेच्छातं तस्यापि किमपि बत न भवेत् ॥ १७२३ ॥

 किं छातं किं छिन्नं ‘छो छेदने' क्तः । 'अदेचः' इत्यात्वम् । 'छिन्न छातं लूनम्' इत्यमरः । तं निन्दितारं मूर्खं त्वं नाद्रियसे चेत् तस्यापि न किमपि छातं छिन्नमित्याश्चर्यम् । परिहारस्तु चेत् शातं इति उत्तरार्धे छेदः । किमपि शातं सुखं न भवतीति । 'शर्मशातसुखानि च' इत्यमरः 'शो तनूकरणे' दैवादिकादस्माद्बाहुलकात्तन् । 'आदेचः' इत्यत्वम् । श्यत्यशुभमिति विग्रहः । अत्र मूखीकृतनिन्दनप्रयुक्तस्य भगवन्न्यनतारूपदोषस्यानाधानम् । भगवत्कर्तृकानादरदोषप्रयोज्यमूर्खदोषानाधानमिति भवत्यवज्ञालंकारद्वयम् । अत्राद्यं शुद्धं, द्वितीयं तु श्लेषोज्जीवितमिति विवेकः ॥

 अत्र केचित् अवज्ञोदाहरणेषु 'स्वल्पमेवाम्बु लभते प्रस्थः प्राप्यापि सागरम्, मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः’ इत्यादिषु नावज्ञाख्यमलंकारान्तरमभ्युपेयं, तत्रान्यगुणदोषयोरन्यगुणदोषजननसमर्थयोस्सतोरपि तदजननवर्णनेन विशेषोक्तेरेव युक्तत्वाद्वक्तुम् । सागरसलिलसमृद्धिसत्त्वेऽपि प्रस्थे तत्समृद्ध्यभावस्य पद्मसंकोचेऽपि चद्रगतदोषाभवस्य च वर्णनेन तल्लक्षणस्याविकलत्वादिति वदन्ति । वस्तुतस्तु नात्र विशेषोक्तिस्सुवचा । 'हृदिस्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि' इत्यादितदुदाहरणेषु दीपज्वालास्नेहक्षययोरिवात्र सागरसलिलसन्निधानप्रस्थगमनाम्बुसमृद्ध्यभावयोः कार्थकारणभावस्य लोकसिद्धस्याभावेनोक्तविशेषोक्तिलक्षणविरहादित्याहुः ॥

इत्यलंकारमणिहारे अवज्ञासरो द्विसप्ततितमः.