अलङ्कारमणिहारः (भागः ३)/अनुज्ञालङ्कारः (७३)

विकिस्रोतः तः
Jump to navigation Jump to search

अथानुज्ञासरः (७३)


 अनुज्ञा सा गुणौत्सुक्याद्दोषस्याप्यर्थना यदि ।

 उत्कटगुणविशेषलालसया दोषत्वेन प्रख्यातस्यापि वस्तुनः प्रार्थनमनुज्ञालंकारः ॥

 यथावा--

 भवहर फणिशिखरीश्वर भवतात्तव विप्रकर्ष एव मम । स ह्यादरस्य कारणमनादरस्यैव सन्निकर्षस्तु ॥ १७२४ ॥

 अत्र श्रीवेंकटगिरिनाथविप्रकर्षो दोषः । तदभ्युपगमे हेतुरादरणकारणत्वं गुणः । स च सामान्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शितः ॥

 यथावा--

 तावकशैलेऽच्युत मे स्थावरता जङ्गमत्वमपि वाऽस्तु । किं मुक्तिदोऽसि न पुरा कोसलजनपदचराचराणां त्वम् ॥ १७२५ ॥

 अत्र तरुलतादिरूपस्थावरत्वेन वा भुजगविहगमृगादितिर्यग्जन्तुतया वा जन्मनः प्रार्थनं दोषः । तदाशासने तादृशरूपेण वेंकटाद्र्यवस्थानस्यापि मुक्तिहेतुत्वं गुणः । स च कोसलजनपदचराचरनिश्श्रेयसवितरणोदाहरणेन दर्शितः ॥

 यथावा--

 मा भूत्त्वय्यनुरागो मम चैद्यादेरिवास्तु वैरं वा । येन त्वय्यच्छिन्ना स्मृतिसन्ततिरच्युतावतिष्ठेत ॥

 अत्र चैद्यादेरिव वक्तुः भगवद्विषयकवैररूपदोषाभ्यर्थनम विच्छिन्नतत्स्मृतिसंतानकारणत्वलक्षणगुणलालसयेति ध्येयम् ॥ अत्र 'द्वेषाच्चैद्यादयो नृपाः' इत्येतदनुसंधेयम् ॥

 यथावा--

 यत्र क्ववा निहाका तावकतीर्थे भवत्वसावात्मा । तावकयोगादच्युत का हानिस्स्यात्ततः प्रसव्यगतेः ॥ १७२७ ॥

 हे अच्युत ! असावात्मा अयं चेतनः यत्रक्ववा तावके तीर्थे स्वामिपुष्करिण्यादौ निहाका गोधिकाख्यो जलजन्तुविशेषः ‘निहाका गोधिका समे’ इत्यमरः भवतु । ततः निहाकात्वप्राप्तावपि तावकयोगेन त्वदीयध्यानेन त्वदीयानां त्वदीयेन वा संबन्धेन वा तन्महिम्नेति यावत् । प्रसव्यगतेः अनुकूलसद्गते: । ‘प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुकूलयोः' इति मेदिनी । आत्मन इति शेषः । का हानिस्स्यात् न काऽपि हानिः किंतु श्रेय एव भवेदिति भावः । त्वत्संबन्धप्रभाव ईदृश इति तात्पर्यम् । पक्षे निहाकाशब्दः तावकेन योगेन उपायेन युक्त्या वा प्रसव्या प्रतिकूला गतिः स्थितिः तस्या इति पञ्चमी । युक्त्या उपायेन वा प्रातिलोम्येन पठनादिति यावत् । काहानि काहानीत्यानुपूर्वीमत् स्यात् । अस्मिन् पक्षे स्यादित्यत्र ‘अनचि च' इति द्वित्वम् । अत्राप्यनुज्ञालंकारः पूर्ववदेव ॥

 यथावा--

 संसारमेव दित्ससि कंसारे यदि तथैव भूयान्नः । अपि जातु स एव स्यात्सारो ननु देवसंपदवियुक्तः ॥ १७२८ ॥

 हे कंसारे! त्वं नः संसारमेव अनादिकालादनुभूतमेवेति भावः । दित्ससि यदि इतःपरमपि दातुमिच्छसिचेत् तथैव भूयात् । अनतिलङ्घनीयं हि नियन्तुश्शासनं नियन्तव्यवर्गेणेति भावः । तदाऽपि न किंचिदनिष्टमित्याह--अपि जात्विति । स एव संसार एव देवसंपदा--

"द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ॥

 इत्युक्तप्रकारा दैवी संपत् । या हि 'अभयं सत्त्वसंशुद्धिः' इत्यादिना 'दैवी संपद्विमोक्षाय' इत्यगीयत । तया अवियुक्तः संयुक्तः अपि जातु सारस्स्यात् जातुसारस्स्यादपीति वा योजना । अपिस्संभावनायाम् ॥

कर्मभिर्भ्राम्यमाणानां यत्रक्वापीश्वरेच्छया ।
मङ्गलाचरितैर्दानैर्मतिर्नः कृष्ण ईश्वरे ॥

 इत्याद्युक्तरीत्या यदाकदावा यत्रक्ववा तादृशयादृच्छिकादिसुकृतपरिणतिवशात्त्वयि भक्तिरुदियादेवेति तस्यापि सारत्वं संभवेदेवेति भावः। स ह्यपवर्गतुल्यकक्ष्यतयोच्यते--

त्वं चेत्प्रसीदसि तवास्मि समीपतश्चेत्
त्वय्यस्ति भक्तिरनघा करिशैलनाथ।
संसृज्यते यदि च दासजनस्त्वदीयः
संसार एष भगवन्नपवर्ग एव ॥

 इति । पक्षे हे देवेति संबोधनम् । स एव संसारशब्द एव संपदवियुक्तः सं इत्याकारकपदेन विघटितः सारशब्द एव स्यादित्यर्थोऽपि चमत्कृतेरुपस्कुरुते । अत्र दोषरूपसंसाराभ्यर्थनं तत्र यदा

कदावा दैवसंपदभिजातत्वादिगुणसंभवसंभावनयेति ध्येयम् । इयमप्यलंकृतिर्दीक्षितोपज्ञमेव ॥

इत्यलंकारमणिहारे अनुज्ञालंकारसरस्त्रिसप्ततितमः.


अथ तिरस्कारसरः (७४)


 गुणस्य दोषसंबन्धाद्द्वेषश्चेत्सा तिरस्कृतिः ॥

 दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषश्चेत् स तिरस्कारो नामालंकारः ॥

 यथावा--

 मधुसूदन मम जात्वपि माहेन्द्र्यस्संपदोऽपि मा भूवन् । यासु निमग्नो नर्छति यदृच्छया वाऽपि तावकस्मरणम् ॥ १७२९ ॥

 अत्र । भगवद्विस्मरणदोषसंबन्धान्माहेन्द्रसंपत्सु गुणत्वेन षसिद्धास्वपि द्वेषः । अयमलंकारः पण्डितराजोपज्ञम् । स हि--"दोषविशेषानुबन्धादित्याद्युक्तरीत्या अमुं लक्षयित्वा अमुं च तिरस्कारमलक्षयित्वा अनुज्ञां लक्षयतः कुवलयानन्दकृतो विस्मरणमेव शरणं, अन्यथा--

भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं
किमित्यमरसंपद प्रमथनाथ नाथामहे ।