अलङ्कारमणिहारः (भागः ३)/प्रौढोक्त्यलङ्कारः (६५)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ प्रौढोक्तिसरः (६५)


यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् ।
प्रौढोक्तिरेषा कथिता जयदेवमुखैर्बुधैः ॥

 किंचिदुत्कर्षाहेतुभूते वस्तुनि तद्धेतुताकल्पनं प्रौढोक्तिर्न्नामालंकारः ॥

 यथा--

 सारस्वतपूरोदरसूरसमुद्बुद्धसारसात्यरुणे । चरणे सुभगंकरणे स्मरणे स्तां मे हरेः प्रियंकरणे ॥ १६४६ ॥

 अत्र सरस्वतीपूरगतारुणिमातिशयाहेतोस्तदुदरसूरसमुद्बुद्धत्वस्य तद्धेतुत्वकल्पनम् ॥

 यथावा--

 शरदमृतकरज्योत्स्नाच्छुरिताभ्रसरिद्विकासिकुमुदसिताः । मुरवैरियशःपूरा हरिता कर्पूरलेपमादधते ॥ १६४७ ॥

अत्रापि कुमुदसितत्वातिशयाहेतोश्शरच्चन्द्रज्योत्स्नाच्छुरितत्वादेर्हेतुत्वकल्पनम् ।

 रसगङ्गाधरकारस्तु "कस्मिंश्चिदर्थे किंचिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतद्धर्मवता संसर्गस्योद्भावनं प्रौढोक्तिः' इति अस्यालंकारस्य लक्षणमाह । तदेदमुदाहरणम्-

 इन्दुकरव्यतिकरितैश्चन्दनगिरिगन्धवाहसारांशैः । जलनिधिकन्ये मन्ये जलरुहजन्माऽसृजत्तवापाङ्गान् ॥ १६४८ ॥

 अत्रापाङ्गेषु न केवलं शैशिर्यादयो मलयानिलकिशोरमात्रगुणा एव कवेः प्रतिपिपादयिषिताः, किंतु सकलजगदुज्जीवयितृत्वादयोऽन्येऽपीति मलयानिलसारांशेषु चन्द्रकरसंसर्गो विशेषणतयाऽतिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र न लोकप्रसिद्धः । किंतु कविप्रतिभामात्रनिबद्धः । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यदि व्यञ्जनाविषयः तदैवायमलंकारः । यदि वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिधीयते तदा समालंकारस्यैव विषयः ।

 यथा--

 पद्मे प्रादुरभूः किल पद्मे पद्मे बिभर्षि पाणिभ्याम् । असि पद्मनाभहृदयावसतिस्त्वं पद्मगन्धिरिति युक्तम् ॥ १६४९ ॥

 अत्र लक्ष्म्यास्सौरभ्यातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन वर्णित इति सम एवालंकारः । एवं चास्य मते--

 ‘एकोनविंशसंख्यकपुराणतः किंच षष्ठवेदेन । हेयगुणास्तवभगवन् ख्याप्यन्ते भाविमातृगर्भभवैः' ॥

 इत्यादावेकस्य मिथ्यात्वसिद्ध्यर्थं मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यवसित्यलंकारान्तरमिति न वक्तव्यं, प्रौढोक्त्यैव गतार्थत्वात् । ‘कचाः कळिन्दजातरितमालस्तोममेचकाः' इत्यादौ

प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामलिमातिशयार्थं श्यामलिमाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते तथा हेयगुणेषु मिथ्यात्वातिशयसिद्धये मिथ्यात्वाधिकरणैकोनविंशसंख्याकपुराणादेसंबन्ध इत्यस्यापि सुवचत्वात् । यदिच मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यादित्यापादयता रसगङ्गाधरकृता--

हरिश्चन्द्रेण संजप्ताः प्रगीता धर्मसूनुना ।
खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥

इत्याद्युदाहृत्य अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवं--

मध्ये सुधासमुद्रस्य सितामयगृहोदरे ।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥

 अत्रापि सुधासमुद्रादिसंबन्धात् उक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालङ्कारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्युक्तम् ॥

इत्यलंकारमणिहारे प्रौढोक्तिसरः पञ्चषष्टितमः.


अथ संभावनासरः (६६)


संभावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥

 यत्र किंचित्तर्कणमन्यत्तर्कणसाधनं तत्संभावनम् ॥

 यथा--

 मम कोटिवदनता स्याद्यदि पुरुषायुषमिदं च कोटिगुणम् । ईशीय हरे स्तोतुं कोटितमांशं त्वदेकगुणभूम्नः ॥ १६५० ॥