सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः ३)/विध्यलङ्कारः (१०३)

विकिस्रोतः तः

नवनीतम् । हन्त हरेः किंन्विदमिति मनःकषायं ममातिकटु हेयम् ॥ १९८६ ॥

 इदं किंन्विति किंवस्त्विति हरेरिति योजना । मनसः कषायं रागादिवासनां प्रसिद्धनिम्बादिक्वाथनिष्पादितं कषायं च 'निर्यासेऽपि कषायोऽस्त्री' इत्यमरः । अत्र वक्तुर्मनःकषायस्य पयस्त्वाद्यभावः प्रसिद्ध एव कथ्यमानस्तस्या स्वादुतमक्षीरादिहरण एव तवादरः न त्वस्मदीयजुगुप्सिततरमनःकषायहरणे इति परिहासमभिप्रैति । स च अतिकटु हेयमिति विशेषणाभ्यां कषायमिति विशेष्येण च प्रादुष्कृतः ॥

इत्यलङ्कारमणिहारे प्रतिषेधसरो द्व्यधिकशततमः.


अथ विधिसरः (१०३)


 सा विध्यलंकृतिर्यत्र सिद्धमेव विधीयते ।

 यन्निर्ज्ञातविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भिकारेण सुन्दरतरं स विधिनामाऽलंकारः । यथाऽऽहुः--

ज्ञातार्थस्य विधानं यदुपयोगपरिच्युतम् ।
अभिप्रायान्तरं गर्भीकुर्वद्विच्छित्तिशालि चेत् ॥
विध्यलङ्कारमाहुस्तं साहित्यपरिशीलिनः । इति ॥

 यथावा--

 तत्वं ब्रवीमि भगवंस्त्वं त्वं जीवस्तु जीव एव हरे । जगदीश्वरतद्दासौ जगदाते केन मतिमताऽनन्यौ ॥ १९८७ ॥

 अत्र परमात्मनः परमात्मत्वस्य प्रत्यगात्मनः प्रत्यगात्मत्वस्य च विधानमनुपयोगबाधितं सत्तयोः सर्वशेषित्वतच्छेषत्वसर्वज्ञत्वादिभिस्स्वभावतोऽत्यन्तवैलक्षण्यं गर्भीकरोति । तज्जगदीश्वरेत्यादिना उत्तरार्धेनाविष्कृतम् ॥

 यथावा--

 अद्यप्रभृति हि लोका यूयं यूयं वयं तु वयमेव । इन्द्रियवशगा यूयं वयं तु भगवद्वशंवदा एव ॥ १९८८ ॥

 अत्र यूयं वयमित्यनयोः यूयं वयमिति विधानमनुपयुक्तं सत् इन्द्रियकिंकरत्वभगवदेककिंकरत्वादिपरस्परसांगत्यानर्हतालक्षणमर्थान्तरं गर्भीकरोति । तच्चोत्तरार्धेन प्रकटितम् । अत्र--

अद्यप्रभृति हे लोका यूयं यूयं वयं वयम् ।
नास्ति । संगतिरस्माकं युष्माकं च परस्परम् ॥
अर्थकामपरा यूयं नारायणपरा वयम् ।
वयं तु किंकरा विष्णोर्यूयमिन्द्रियकिंकराः ॥

 इत्येतदनुसंधेयम् । यथावा--

 पुण्यापुण्याभ्यां यन्नहनं जन्तोस्त्वया कृतं भगवन् । अनुकूलं तद्भवतु प्रतिकूलं वाऽपि नहनमेव खलु ॥ १९८९ ॥

 हे भगवन् ! जन्तोः प्राणिनः पुण्यापुण्याभ्यां सुकृतदुष्कृताभ्यां कर्मभ्यां यत् नहनं बन्धनं त्वया कृतं तत् नहनं अनुकूलं पुण्यफलभूतैहिकामुष्मिकसुखकरं प्रतिकूलं पापफल

भूततापत्रयनरकादिदुःखकरं वा भवतु नहनमेव खलु यथा तथा वा बन्धनमेव भवति खलु न हि सुवर्णमयमपि निगळं न बन्धनायावकल्पते अयोमयमेव बन्धकमिति दृष्टं श्रुतं वेति भावः । पक्षे नहनं नहनमित्याकारकं पदं अनुकूलं अनुलोमतया पठितं प्रतिकूलं प्रतिलोमतया पठितं वा नहनमेव उभयथाऽपि नहनमित्येव निष्पद्यत इत्यर्थः । अत्र नहनस्य नहनत्वविधानमनुपपद्यमानं निश्श्रेयसगतिप्रतिरोधितां गर्भीकरोति । सा च पुण्यापुण्यकरणकत्वविशेषणात्प्रकाशिता । ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इत्यादिश्रुतिभिः पुण्यापुण्यविधूननानन्तरमेव हि निश्श्रेयसगतिः प्रतिपाद्यते । यद्वा तन्नहनत्वविधानं भगवदितरदुर्मोचत्वं गर्भीकरोति ।

पशवः पाशिताः पूर्वं परमेण समाधिना ।
तेनैव मोचनीयास्ते नान्यो मोचयितुं क्षमः ॥

इति प्रमाणात् 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इत्यादिकमप्यत्रानुकूलम् । एषु विधिप्रतिषेधोदाहरणेषु अर्थान्तरसंक्रमितवाच्यलक्षणव्यङ्ग्यार्थसद्भावेऽपि न ध्वनित्वव्यपदेशः, तेषां व्यङ्ग्यानां 'निरुपमकरुणाशिशिरा । जगदीश्वरतद्दासौ' इति स्वोत्क्यैवाविष्करणात् । ननु चाक्षेपालङ्कारावान्तरभेदत्वेन विधिप्रतिषेधयोः पूर्वमुक्तेर्न पृथगलंकारतया परिगणनमुचितमिति चेत् बाधितयोस्तयोराक्षेपभेदत्वमभ्यधायि प्राक् । इह तु सिद्धयोरलंकारतेति गृह्यताम् ॥

इत्यलंकारमणिहारे विधिसरस्त्र्यधिकशततमः.