अलङ्कारमणिहारः (भागः ३)/प्रतिषेधालङ्कारः (१०२)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


त्वत्पदाभिघातहेतुकरुधिरस्राविमस्तकत्वप्रयुक्तावमानेन कस्यापि मुखं दर्शयितुमपत्रपिष्णुतया क्वापि निलीन इति भावः । तत् तस्मात् एष शोणमणिः पद्मरागः लोहितकः आसीदित्यनुषज्यते । लोहितकः लोहितं रुधिरं के शिरसि यस्य स तथोक्तः तन्नामा आसीत् । परमार्थतस्तु लोकयोः लोवर्णकवर्णयोः अन्तः मध्ये हितौ हिकारतकारौ यस्य स तथोक्तः । शब्दार्थयोस्तादात्म्यम् । लोहित एव लोहितकः तन्नामा ‘लोहितान्मणौ’ इति स्वार्थिकः कन् । 'शोणरत्नं लोहितकः' इत्यमरः । अत्र स्वार्थकना निष्पन्नस्य लोहितक इति नाम्नो योगान्तरेणार्थान्तरकल्पनं चमत्कारान्तरं स्फुटमेव ॥

इत्यलंकारमणिहारे निरुक्तिसर एकशततमः.


अथ प्रतिषेधसरः (१०२)


प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ।

 यः प्रसिद्धो निषेधानुवादो ज्ञातत्वात् स्वतोनुऽपयुक्तोऽर्थान्तरगर्भीकारेण चारुतामाधत्ते स प्रतिषेधालंकारः ॥

 यथा--

 न सुधांशुना न सुधया न मलयमरुता न चापि तुहिनभृता । निरुपमकरुणाशिशिरास्स्वेनैव कृता रमेश तव भक्ताः ॥ १९८३ ॥

 अत्र भगवद्भक्तानां सुधांशुप्रभृतिनिर्मितत्वाभावः प्रसिद्ध

एव कीर्त्यमानस्तेषां सुधांशुप्रभृतिभ्योऽप्यतिशयिततया शैशिर्य

मित्यमुमर्थं व्यक्तीकरोति । स च निरुपमकरुणाशिशिरा इत्यनेन परिमितशैशिर्यवद्भ्यस्सुधांशुप्रभृतिभ्यस्तेषां विशेषमुपदर्शयता विशेषणेनाविष्कृतः ॥

 यथावा--

 नैतान्यर्जुनरथ्या दुर्दान्तानीन्द्रियाणि मम शौरे । पश्याम नियच्छैतानीशो यदि विपथ एव धावन्ति ॥ १९८४ ॥

 अर्जुनस्य रथ्याः रथवोढारोऽश्वाः । ईशो यदि समर्थो यदि विपथ एव धावन्ति एतानि इन्द्रियाणि नियच्छ नियभय पश्याम इति योजना । अत्र वक्तुरिन्द्रियाणामर्जुनरथ्याश्वत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तेषां दुर्दान्ततया दुर्नियमनत्वं व्यनक्ति । तच्च दुर्दान्तानीत्यादिविशेषणमहिम्ना कविनैवाविष्कृतम् ॥

 यथावा--

 न दशाननो न वाली सुदुराधर्षो ममैष दोषगणः । तमनाविध्य त्वमिमं मम नाथ भवेः कथं महाधन्वा ॥ १९८५ ॥

 अत्रापि वक्तुर्दोषगणस्य दशाननत्वाद्यभावः प्रतीत एव परिकीर्त्यमानस्तस्य दुराधर्षतां व्यञ्जयति । सा च सुधुराधर्ष इति विशेषणेन स्वोक्त्यैव प्रकाशितः ॥

 नन्दसुतेदं न पयो न दधि न मण्डं नचापि

नवनीतम् । हन्त हरेः किंन्विदमिति मनःकषायं ममातिकटु हेयम् ॥ १९८६ ॥

 इदं किंन्विति किंवस्त्विति हरेरिति योजना । मनसः कषायं रागादिवासनां प्रसिद्धनिम्बादिक्वाथनिष्पादितं कषायं च 'निर्यासेऽपि कषायोऽस्त्री' इत्यमरः । अत्र वक्तुर्मनःकषायस्य पयस्त्वाद्यभावः प्रसिद्ध एव कथ्यमानस्तस्या स्वादुतमक्षीरादिहरण एव तवादरः न त्वस्मदीयजुगुप्सिततरमनःकषायहरणे इति परिहासमभिप्रैति । स च अतिकटु हेयमिति विशेषणाभ्यां कषायमिति विशेष्येण च प्रादुष्कृतः ॥

इत्यलङ्कारमणिहारे प्रतिषेधसरो द्व्यधिकशततमः.


अथ विधिसरः (१०३)


 सा विध्यलंकृतिर्यत्र सिद्धमेव विधीयते ।

 यन्निर्ज्ञातविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भिकारेण सुन्दरतरं स विधिनामाऽलंकारः । यथाऽऽहुः--

ज्ञातार्थस्य विधानं यदुपयोगपरिच्युतम् ।
अभिप्रायान्तरं गर्भीकुर्वद्विच्छित्तिशालि चेत् ॥
विध्यलङ्कारमाहुस्तं साहित्यपरिशीलिनः । इति ॥

 यथावा--

 तत्वं ब्रवीमि भगवंस्त्वं त्वं जीवस्तु जीव एव हरे । जगदीश्वरतद्दासौ जगदाते केन मतिमताऽनन्यौ ॥ १९८७ ॥