अलङ्कारमणिहारः (भागः ३)/हेत्वलङ्कारः (१०४)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


भूततापत्रयनरकादिदुःखकरं वा भवतु नहनमेव खलु यथा तथा वा बन्धनमेव भवति खलु न हि सुवर्णमयमपि निगळं न बन्धनायावकल्पते अयोमयमेव बन्धकमिति दृष्टं श्रुतं वेति भावः । पक्षे नहनं नहनमित्याकारकं पदं अनुकूलं अनुलोमतया पठितं प्रतिकूलं प्रतिलोमतया पठितं वा नहनमेव उभयथाऽपि नहनमित्येव निष्पद्यत इत्यर्थः । अत्र नहनस्य नहनत्वविधानमनुपपद्यमानं निश्श्रेयसगतिप्रतिरोधितां गर्भीकरोति । सा च पुण्यापुण्यकरणकत्वविशेषणात्प्रकाशिता । ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इत्यादिश्रुतिभिः पुण्यापुण्यविधूननानन्तरमेव हि निश्श्रेयसगतिः प्रतिपाद्यते । यद्वा तन्नहनत्वविधानं भगवदितरदुर्मोचत्वं गर्भीकरोति ।

पशवः पाशिताः पूर्वं परमेण समाधिना ।
तेनैव मोचनीयास्ते नान्यो मोचयितुं क्षमः ॥

इति प्रमाणात् 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' इत्यादिकमप्यत्रानुकूलम् । एषु विधिप्रतिषेधोदाहरणेषु अर्थान्तरसंक्रमितवाच्यलक्षणव्यङ्ग्यार्थसद्भावेऽपि न ध्वनित्वव्यपदेशः, तेषां व्यङ्ग्यानां 'निरुपमकरुणाशिशिरा । जगदीश्वरतद्दासौ' इति स्वोत्क्यैवाविष्करणात् । ननु चाक्षेपालङ्कारावान्तरभेदत्वेन विधिप्रतिषेधयोः पूर्वमुक्तेर्न पृथगलंकारतया परिगणनमुचितमिति चेत् बाधितयोस्तयोराक्षेपभेदत्वमभ्यधायि प्राक् । इह तु सिद्धयोरलंकारतेति गृह्यताम् ॥

इत्यलंकारमणिहारे विधिसरस्त्र्यधिकशततमः.



अथ हेतुसरः (१०४)


साकं हेतुमता हेतुरुक्तश्चेद्धेतुरीरितः ।

 कार्यस्य कारणेन सह वर्णनं हेत्वलंकार इत्यर्थः । अयं जयदेवेन चन्द्रालोके तृतीयमयूखे कार्यनाम्ना काव्यलक्षणतया व्यवहृतः । यथा--

कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथवा । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥

इति । दीक्षितैस्तु अयमपि चमत्कारितयाऽलंकारेषु परिगणितः ॥

 यथा--

 परिपालनाय जगतामवतारस्तव न चात्र संदेहः । मत्पालनाय चिरयसि कस्मादिति मे रमेश संदेहः ॥ १९९० ॥

 अत्र जगत्परिपालनावतारयोः कार्यकारणयोस्सहवर्णनम्॥

 यथावा--

 मरकतकं फणिशिखरिणि किमपि तदमराद्यतां प्रपद्य तराम् । भुवनमधःकृतपङ्कं विरचयितुं कतकतामहोधते ॥ १९९१ ॥

 फणिशिखरिणि किमपि तत् लोकोत्तरमिति यावत् । मरकतकं गारुत्मतं अमराद्यतां देवोत्तमत्वं श्रीनिवासत्वमित्यर्थः । भुवनं विष्टपं सलिलं च अधःकृतः अधोभागं नीतः तिरस्कृ

तश्च पङ्कः कर्दमः कलुषं च यस्य तत्तथोक्तं विरचयितुं कतकतां पङ्किलाम्बुप्रसादकवृक्षविशेषफलतां धत्ते । अहो आश्चर्यमेतत् । यद्गारुत्मतं श्रीनिवासतां प्राप्य कतकतां धत्त इति । मरकतकमिति पदं अमराद्यतां मश्च रश्च मरौ आद्यौ वर्णौ यस्य तत् मराद्यं तन्न भवतीत्यमराद्यं तस्य भावः तत्ता तां प्रपद्य कतकतां धत्ते मरकतकशब्दः प्राथमिकमकाररेफयोरुद्वासने कतकमिति निष्पद्यत इत्यर्थान्तरं च चमत्कारि । अत्र कतकताधारणस्य हेतोः भुवनपङ्काधःकरणेन हेतुमता सह वर्णनं श्लेषमूलकविरोधोत्तम्भितम् ॥

 यथावा--

 प्राप्तश्शुभवर्तित्वं सुश्रीराज्याभिषेकतो भगवन् । सुमहानाकुलदीपस्तमोविधूत्यै विभाति भवदीयः ॥ १९९२ ॥

 हे भगवन् शुभे वर्तत इति शुभं वर्तयतीति वा शुभवर्ती तस्य भावः शुभवर्तित्वम् । पक्षे शुभा वर्तिः दशा यस्य तत्त्वं 'वर्तिर्दीपदशागात्रलेपयोर्मणिरञ्जने’ इति रत्नमाला । प्राप्तः राज्याभिषेकतः सुश्रीः । सुश्रीराज्येत्यत्र ‘रो रि' इति रेफलोपे ‘ढ्रलोपे' इति दीर्घः । पक्षे आज्याभिषेकतः सुश्रीः सुमहाः ना कुलदीपः इति छेदः । शोभनं महः उत्सवः

यस्य स तथोक्तः ‘नित्योत्सवो भवेत्तेषाम्' इत्युक्तरीत्या निरन्तरोत्सवशाली महतेजस्वीति वा । ‘महस्तूत्सवतेजसोः’ इति सान्तनानार्थेष्वमरः । कुलदीपः स्वान्वयप्रकाशकः भवदीयः ना पुमान् । पक्षे भवदीयः सुमहांश्चासौ अनाकुलदीपश्च अनश्वरः

प्रदीप इत्यर्थः । तमसः तमोगुणस्य तिमिरस्य च विधूत्यै तिरस्काराय विभाति । अत्र प्रकृताप्रकृतगोचरश्लेषे भगवद्भक्तप्रकाशस्य तदीयमहादीपप्रकाशस्य च हेतोः तमोविधूतेः फलस्य च सहवर्णनम् ॥

 यथावा--

 ख्यातो दिव्याञ्जनधरवर्तितया येन दृशि विनिहितस्त्वम् । स खलु सुदृगब्जलोचन वेत्तुं शक्नोति गूढमप्यर्थम् ॥ १९९३ ॥

 दिव्यः यः अञ्जनधरः अञ्जनाद्रिः तस्मिन् वर्तत इति तथोक्तः । तस्य भावः तत्ता तया । पक्षे दिव्यं श्लाघ्यं यत् अञ्जनं तस्य धरा धारयित्री वर्तिः नयनाञ्जनलेखा तस्याः भावः तत्ता तया 'वर्तिर्भेषजनिर्माणनयनाञ्जनलेखयोः' इति विश्वमेदिन्यौ । ख्यातः त्वं येन सुदृशा दृशि लोचने विनिहितः दृष्ट इति यावत् स सुदृक् ज्ञानी । पक्षे परोक्षवस्तुसाक्षात्कारक्षमदृष्टिरित्यर्थः । गूढमपि अर्थं शास्त्रतत्वार्थं पक्षे निधिरूपं धनं वेत्तुं ज्ञातुं शक्नोति खलु । अत्र श्रीनिवासदर्शनतत्त्वार्थवेदनयोः अञ्जनवर्तिनयनन्यासनिधिदर्शनयोश्च श्लिष्टयोर्हेतुहेतुमतोस्सहवर्णनम् ॥

 यथावा--

 शुभजनकभूहरोऽवधि येन दशास्यस्स एव कोसलराट् । अवधीच्च हिरण्याक्षं तादृक्षमसश्शुभाय किल जगताम् ॥ १९९४ ॥

 शुभा या जनकभूः सीता तस्याः हरः दशास्यः येन कोसलराजा अवधि अहन्यत स एव कोसलराट् दाशरथिः असः स न भवतीत्यसः अकोसलराजरूप इति यावत् । ‘एतत्तदोः' इति सूत्रे ‘अनञ्समासे’ इति पर्युदासान्न तच्छब्दस्य सुलोपः । पक्षे असः सवर्णरहितः कोसलराट् कोलराट् । पुरा वराहश्रेष्ठस्सन्नित्यर्थः । तादृक्षं शुभजनकभूहरं शुभजनिका जगत्क्षेमप्रदा या भूः पृथ्वी तस्याः हरमित्यर्थः । हिरण्याक्षं जगतां शुभाय कल्याणाय अवधीत् । अत्र रावणहिरण्याक्षवधलक्षणहेतुना सह जगच्छुभलक्षणहेतुमतः प्रतिपादनम् ॥

 यथावा--

 यस्त्वयि सम्राट् प्रत्ययमातनुते भावकर्मणोरेकम् । सोऽर्हति साम्राज्यपदं लब्धुं वृद्धं समस्तवर्णगुरु ॥ १९९५ ॥

 हे सम्राट् राजाधिराज हे भगवन् ! ‘मो राजि समः क्वौ' इति समो मकारस्य मकार एव । नानुस्वारः 'सम्राजोऽग्नीन्द्रविष्ण्वर्का यश्च स्यान्मण्डलेश्वरः' इति रत्नमाला । ‘एष ब्रह्मलोकस्सम्राडिति होवाच । राजाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान्’ इत्यादिप्रमाणान्यत्रानुसंहितानि । यः पुमान् त्वयि विषये भावकर्मणोः मनःकर्मणोः । इदं वचसोऽप्युपलक्षणम् । एकं एकरूपं--

 'वचस्येकं मनस्येकं कर्मण्येकं महात्मनाम्'

इत्युक्तरीत्या अविसंवादीत्यर्थः । प्रत्ययं विश्वासं ध्यानं वा

आतनुते । स पुमान् वृद्धं अभिवृद्धिमत् समस्तैः वर्णैः ब्रह्मक्षत्रादिभिः गुरु श्रेष्ठं साम्राज्यपदं आधिराज्यस्थानं लब्धुं अर्हति ।

त्वयि सम्राजि करणत्रयसारूप्येण भक्तिं विदधानः तत्क्रतुनयात्साम्राज्यवैभवमश्नुत इति भावः । अन्यत्र हे सम्राडिति सम्राट्छब्दस्यैव संबोधनम् । यः पुमान् त्वयि सम्राट्छब्दे इत्यर्थः । भावकर्मणोः भावे कर्मणि च एकं प्रत्ययं ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति विहितं ष्यञ्प्रत्ययं आतनुते विधत्ते स पुमान् वृद्धं 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इति विहितवृद्धसंज्ञकं सर्वे वर्णाः अक्षराणि गुरवो यस्य तत्तथोक्तं साम्राज्यपदं साम्राज्यशब्दं लब्धुमर्हति । यस्सम्राट्छब्दात् ष्यञं विधत्ते स पुमान् वृद्धं सर्ववर्णगुरु च साम्राज्यमिति पदं प्राप्नोतीत्यर्थः । साम्राज्यमिति पदस्य उक्तरीत्या निष्पन्नस्य वृद्धत्वात्सर्ववर्णगुरुत्वाच्च तथोक्तिः । अत्र पक्षद्वयेऽपि सम्राजि प्रत्ययविधानस्य हेतोस्साम्राज्यपदलाभरूपहेतुमता सह वर्णनम् ॥

 यथावा--

 सामोदसौम्यसुमनास्सत्तरुरिव सुफलदश्शुभच्छायः । स्वपदोपनतं सुखयति भगवान् संसृतिगतागतश्रान्तम् ॥ १९९६ ॥

 सामोदं च सौम्यं अनुग्रं च सुमनः शोभनं मनः यस्य सः । सामोदाः सौम्याः सुमनसो देवाः नित्यसूरयो वा यस्मात्स इति वा । पक्षे ससौरभसुकुमारकुसुम इत्यर्थः । सुफलदः निश्श्रेयसपर्यन्तसकलफलप्रदः । अन्यत्र फलानि स्वपरिणतानि ददातीति तथोक्तः । अनघा सर्वदुःखनिवर्तिनी छाया दीप्तिः अनातपश्च यस्य सः भगवान् सत्तरुरिव माकन्दादिशुभवृक्ष इव संसृतिगतागतेन संसारयातायातेन, अन्यत्र सम्यक् सृतौ मार्गे गतागतेन श्रान्तं स्वपदोपनतं स्वचरणशरणागतं स्वमूले विश्र

मार्थमागतं च जनं सुखयति । अत्रापि हेतुफलयोर्भगवत्सुखप्रापणयोस्साहित्येन वर्णनम् । पूर्वोदाहरणेषु फलं चतुर्थीतुमुन्भ्यां साक्षान्निर्दिष्टम् । अत्र तु गम्यमानं तदिति विशेषः । ननु काव्यलिङ्गतोऽस्य को भेद इति चेत् उच्यते--काव्यलिङ्गे हेतुहेतुमतोरुपपादकोपपाद्यभावः, इह तु प्रयोजकप्रयोज्यभावो विच्छित्त्याधायकः । होतोर्गम्यतायामेव चारुतातिशयादलंकारत्वं न तु साक्षात्तद्वाचकपदोपादाने इति तूभयोस्तुल्यमेव । अत्रोदाहरणे उपमांसंकीर्णत्वं च विशेषः ॥

 यथावा--

 श्रीनिधिमपेक्षमाणस्त्वां भवमेवोपधावति पुमान्यः । फलमस्येदं भूतिं विन्दन् भ्राम्यति समं पिशाचैर्यत् ॥ १९९७ ॥

 श्रीनिधिं सपन्निधानं श्रीनिवासं च त्वां उपेक्षमाणः पुमान् भवं संसारमेव पशुपतिमेव उपधावति सेवते तस्य इदमेव फलं--यदयं पुमान् भूतिं संपदं विन्दन् 'लक्षणहेत्वोः' इति हेत्वर्थे शता । हेतुरिह फलम् । संपदं प्राप्तुमित्यर्थः । पक्षे भूतिं भस्म विन्दन् प्राप्नुवन् भस्मोद्धूळितस्सन्नित्यर्थः । पिशाचैस्समं तुल्यं यथास्यात्तथा, अन्यत्र रुद्रपरिवारैः पिशाचैर्देवयोनिविशेषैः समं साकं भ्राम्यतीति यत् एतदेव तस्य फलमित्यर्थः । अत्रापि हेतुहेतुमतोर्भवाश्रयपरिभ्रमणयोर्वर्णनं श्लेषसंकीर्णम् ॥

 केचिद्धेतुमतो हेतोश्चैक्यं हेतुं बुधा जगुः ।

 कार्यकारणयोरभेदवर्णनं हेत्वलंकार इति केचिप्राचीना

ब्रुवन्ति स्मेत्यर्थः ॥

 यथा--

 त्रिदशाहितकुलशिक्षा त्रिदिववधूकर्णपत्रयुगरक्षा । वेंकटशैलाध्यक्षा व्यक्तिः काऽप्यैक्षि जगदवनदक्षा ॥ १९९८ ॥

 अत्र त्रिदशाहितकुलशिक्षादिहेतोर्भगवतस्तच्छिक्षादिहेतुमतश्चैक्यं वर्णितम् ॥

 यथावा--

 ग्राहगृहीतमतङ्गजजीवितमतिवेलभावितं कृतिभिः । कमलानयनानन्दं कलयेमहि किमपि तेजसां बृन्दम् ॥ १९९९ ॥

 अत्रापि ग्राहगृहीतमतङ्गजजीवितहेतोर्भगवतः तज्जीवितेन फलेन सहैक्यं वर्णितम् ॥

 यथावा--

 स्मितगर्भगण्डफलकं सितरुचिरुचिराभमुल्लसत्तिलकम् । आनन्दमेव भगवन्नदस्फुरितमाननं तवावैमि ॥ २००० ॥

 स्फुरितं अदः इदं तव आननं आनन्दमेव अवैमीति योजना । पक्षे अदस्फुरितं दकारस्फुरणरहितं आनन्दं आननं

अवैमि । उत्सारितदकारमानन्दशब्दं आननमिति निष्पन्नं जानामीत्यर्थः । अत्रापि आनन्दहेतोर्भगवदाननस्यानन्देन हेतुमता सहैक्यम् । चमत्कारान्तरं पूर्वोदाहरणतो विशेषः ॥

 मन्वभेदव्यपदेशस्याचमत्कारितया कथंकारमलंकारतेति चेन्न कार्यावश्यंभावतच्छैघ्र्याभ्यां सहकार्यन्तरनैरपेक्ष्येण कार्योत्पादनप्रत्यायने तस्य चमत्कारिताया दुर्निवारतयाऽलंकारत्वस्य निष्प्रत्यूहत्वात् । रूपके सादृश्यादभेदव्यपदेशः, इह तु कार्यकारणभावादिति भिदा । रूपकातिशयोक्तेरस्य च वैलक्षण्यं तत्रैवावादिष्म ॥

इत्यलङ्कारमणिहारे हेतुसरश्चतुरधिकशततमः.