अलङ्कारमणिहारः (भागः ३)/विकस्वरालङ्कारः (६४)

विकिस्रोतः तः
Jump to navigation Jump to search

त्वत्कृपया यद्दर्वीकरः' इत्यादौ दर्शितः । अत्र वक्तव्यमन्यत्सर्वमुदाहरणालंकारनिरूपणावसरे दर्शितमिति नात्र प्रतायते । अथ हि प्रतिज्ञाहेत्ववयवयोरिव आकाङ्क्षाक्रमप्राप्तं समर्थ्यसमर्थकवाक्ययोः पौर्वापर्यमिति न मन्तव्यम् । न ह्यत्र समर्थकं समर्थ्यानुपपत्त्युन्मीलितायामाकाङ्क्षायां सत्यामेवाभिधीयत इत्यस्ति नियमः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थं कविभिस्तस्याभिधानात् । एवं काव्यलिङ्गेऽपि । एवं च तयोर्वैपरीत्येऽपि न दोषः ॥

 यथावा--

 सरिदधिपे शिखरिणि वा सदृशं वर्षति घनाघनस्सलिलम् । अवधीरितनिम्नोन्नतविभागमच्युत भवादृशौदार्यम् ॥ १६४२ ॥

 अत्र पूर्वार्धगत एव विशेषः उत्तरार्धगते समान्ये प्रस्तुते समर्थकः ॥

इत्यलंकारमणिहारे अर्थान्तरन्याससरस्त्रिषष्टितमः.



अथ विकस्वरालंकारसरः (६४)


सामान्येन विशेषस्य क्रियते यत्समर्थनम् ।
पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥

 कस्यचिद्विशेषस्य समर्थनं सामान्येन विधाय तत्प्रसिद्धावपरितुष्यता कविना पुनर्विशेषेण तत्समर्थनमुपमानरीत्या अर्थान्तरन्यासविधया वा क्रियते स विकस्वरो नामालंकारः ॥

 यथा--

 न्यस्तभरं त्वयि मामिह न स्तोकं वाऽपि कर्म बाधेत । किमपि विबाधितुमीष्टे न भाग्यवन्तं यथा रविं ध्वान्तम् ॥ १६४३ ॥

 किमपि वस्तु, इदं कर्तृ । ध्वान्तं तमः, इदमपि कर्तृ । इदमुपमानरीत्या विशेषान्तरन्यसने उदाहरणम् ॥

 अर्थान्तरन्यासविधया यथा--

 सत्स्वपि शिखरिषु बहुषु श्रीवास त्वं श्रितोऽसि वृषशैलम् । न हि सर्वे भाग्यभृतो मिषत्सु विबुधेष्ववाप हि श्रीस्त्वाम् ॥ १६४४ ॥

 यथावा--

 कृपया राज्यं प्रादाः कपये महतां निरङ्कुशा हि कृपा । गोपस्याप्यच्युत तव जगदीशत्वं ददौ हि जलधिसुता ॥ १६४५ ॥

 अयमलंकारश्चन्द्रालोकानुयायिदीक्षितानुरोधेन दर्शितः । जगन्नाथादयस्तु-- प्रकृतविशेषस्य सामान्येन समर्थनादेकोऽर्थान्तरन्यासः । सामान्यस्य विशेषेण समर्थनादपर इति भेदद्वयसमावेशात्मकतायाः स्फुटत्वात्तत्संसृष्ट्यैव गतार्थत्वान्नालंकारान्तरस्वीकार उचित इत्याहुः ॥

इत्यलंकारमणिहारे विकस्वरालंकारसरश्चतुष्षष्टितमः