अलङ्कारमणिहारः (भागः ३)/अर्थान्तरन्यासालङ्कारः (६३)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


अथार्थान्तरन्याससरः (६३)


 समर्थनं विशेषस्य सामान्येनास्य तेन वा । आहुरर्थान्तरन्यासं साधर्म्येणेतरेण वा ॥

 विशेषस्य सामान्येन सामान्यस्य विशेषेण वा समर्थनमर्थान्तरन्यासः । अर्थान्तरस्य विशेषस्य सामान्यस्य वा समर्थकतया न्यास इत्यन्वर्थोऽयम् । समर्थनं च इदमेवमनेवं वा स्यादिति संदेहस्य प्रतिबन्धकमिदमित्थमेवेत्यवधारणं, निश्चय इति यावत् । तच्च द्विविधमपि साधर्म्येण वैधर्म्येण चेति पुनर्द्विविधम् । तत्र प्रकृतयोस्सामान्यविशेषयोस्समर्थ्यत्वं अप्रकृतयोर्विशेषसामान्ययोस्समर्थकत्वं प्रायशो दृश्यते ॥

 यथा--

 स्यालो हरेरितीन्दुर्बालोऽपि जडोऽपि हन्त कुटिलोऽपि । ध्रियते शिवेन शिरसा महदनुबन्धो हि मान्यताहेतुः ॥ १५१९ ॥

 अत्र प्राथमिकचरणत्रितयेनोक्तो विशेषस्तुरीयचरणोक्तसामन्येनाप्रकृतेन साधर्म्येण समर्थ्यते ॥

 यथावा--

 घनसारस्तिलकस्स्तान्मृगनाभिस्तिलकितः कथं हरिणा । अथवा प्रभुस्स्वतन्त्रो यदिच्छति करोति तन्निरोद्धा कः ॥ १६०० ॥

 घनसारः कर्पूरः तिलकः स्तात् भवतु । हरिणा प्रकृतेन भगवता श्रीनिवासेन तस्यैव कर्पूरकस्तूरीतिलकितफालत्वप्रसिद्धेः । अत्र घनसारस्य नाम्नैवाभ्यर्हणीयस्य तिलकीकरणमुचितमेव । मृगनाभेः नाम्नैव जुगुप्सनीयस्य तिलकीरणमनुचितमित्याक्षिप्य अथवेत्यादिना सामान्येन समर्थित इत्याक्षेपालंकारसंकीर्णत्वं पूर्वस्माद्विशेषः ॥

 यथावा--

 उद्दामरामतेजोज्वलनैर्भ्रष्टो धरातलभ्रष्ट्रो । निःश्रीकोऽरिगणोऽभूद्भ्रष्टस्य रमागमः कुतो वा स्यात् ॥ १६०१ ॥

 उद्दामरामतेजांस्येव ज्वलनाः अग्नयः तैः अरिगणः धरातलमेव भाष्ट्रं अम्बरीषं तस्मिन् ‘क्लीबेऽम्बरीषं भ्राष्ट्रो ना’ इत्यमरः । भ्रष्टः भर्जनं प्रापितस्सन् निश्श्रीकः अलक्ष्मीकः अभूत् भ्रष्टस्य भर्जितस्य ‘भ्रस्ज पाके' इत्यस्मात्कर्मणि क्तः । भ्रंशं प्राप्तस्य च, भ्रंशधातोः कर्तरि क्तः । ‘व्रश्च' इति षत्वे ष्टुत्वम् । रमागमः लक्ष्मीप्राप्तिः । पक्षे रमित्याकारक आगमः कुतो वा स्यात् । ‘भ्रस्जोरोपधयोरमन्यतरस्याम्' इति रमागमस्य वैकल्पिकत्वेन भ्रष्टस्येत्यत्र तदभावः । न्यथा भर्ष्टस्येति स्यादिति भावः । "भ्रस्जेः रेफस्य उपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके मित्त्वादन्त्यादचः परः स्थानषष्ठीनिर्देशाद्रोपधयोर्न्निवृत्तिः" इति सूत्रार्थः । अत्रापि पूर्वपादत्रयप्रतिपादितस्य विशेषस्य चरमपादप्रतिपाद्यसामान्येन समर्थनम् । रूपकश्लेषोज्जीवितत्वादिकं विशेषः ॥

 यथावा--

 त्वज्जङ्घादास्याप्त्याऽहा जाता जननि काहळी काळी । श्रेयस्करीश्वराणां प्रायस्सेवा जडात्मनोऽपि स्यात् ॥ १६०२ ॥

 काहळी त्वज्जङ्घयोः दास्यस्य आप्त्या ईदृशभाग्येनेति भावः । काळी गौरी जाता ‘काळी हैमवतीश्वरी' इत्यमरः । हा इत्याश्चर्ये । पक्षे काहळीति शब्दव्यक्तिः अहा जातेति छेदः । अहा अविद्यमानहकारा सती काळी जाता काळीति निष्पन्नेति शब्दार्थतादात्म्यमूलकश्लेषदत्तहस्तो विशेषस्य सामान्येन समर्थनरूपोऽयम् ॥

 यथावा--

 श्रीस्तनकलशयुगेन स्पर्धायै यदि भजेत मुखगतताम् । गुच्छस्तुच्छस्स्यादिह कठिनेन मृदोर्हि भवति परिभूतिः ॥ १६०३ ॥

 गुच्छः स्तबकः श्रीस्तनकलशयुगेन सह स्पर्धायै स्पर्धार्थं मुखगततां तत्संमुखीनतां भजेत यदि तदा तुच्छ एव स्यात् शौर्यरिक्त एव स्यात् 'शून्यं तु वशिकं तुच्छरिक्तके' इत्यमरः । पक्षे गुच्छः गुच्छशब्दः मुखे विद्यमानो यो गः तस्मिन् ततां तकारत्वं भजेतचेत् तुच्छः स्यात् । गतेत्यत्र वर्णद्वयेऽप्यकारो मुखसुखोच्चारणार्थः । गकारमपनीय तत्र तकारन्यासे तुच्छ इति निष्पद्येतेत्यर्थः ॥

 यथावा--

 ग्लौस्त्वन्मुखमात्सर्याद्यदाविलत्वं परं गतो नु भवेत् । गौरेव तदाऽम्ब भवेन्मत्सरिणां स्वस्वरूपहानिस्स्यात् ॥ १६०४ ॥

 हे अम्ब! ग्लौः चन्द्रः त्वन्मुखे मात्सर्यात् यदा परं अतिशयितं आविलत्वं कलुषत्वं गतः भवेन्नु । नुर्वितर्के । पक्षे-- ग्लौः ग्लौशब्दः यदा गतः गवर्णात् आद्यादित्वात्तसिः । परं अनन्तरं विलत्वं विगतलकारत्वं अनुभवेत् प्राप्नुयात् तदा गौरेव भवेत् । उत्कृष्टतमलक्ष्मीवदनमात्सर्येण कलुषितहृदयश्चेत्स पशुरेवेति भावः । पक्षे ग्लौशब्दो लकारविरहे गौरित्येव हि निष्पद्येतेति भावः । मत्सरिणां परोत्कर्षासहिष्णूनां स्वस्वरूपहानिस्स्यात् स्वगौरवक्षतिरेव स्यादिति भावः । पक्षे ग्लौशब्दस्यगौरिति निष्पत्तौ स्वरूपव्यत्ययस्स्यादिति भावः ।

 यथावा--

 त्वद्गतिभाग्यमवाप्तुं यतमानोऽपि च करी पराभूतः । मन्दा एव भवेयुस्तुङ्गा अपि देवि पेचकारूढाः ॥ १६०५ ॥

 त्वद्गतिभाग्यं त्वत्प्राप्तिभागधेयं त्वद्गमनतौल्यं च अवाप्तुं यतमानोऽपिच करी पराभूत: । कुत इत्यत आह-- मन्दा इति तुङ्गा अपि महान्तोऽपि उन्नता अपिच । पेचकेन उलूकेन अन्यत्र पुच्छमूलोपान्तेन आरूढाः करिण इति यावत् । 'उलूके करिणः पुच्छमूलोपान्ते च पेचकः' इत्यमरः । मन्दा एव भाग्यहीना

एव, पक्षे मन्दसंज्ञा एव ‘मन्दोतीक्ष्णे च मूर्खे च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ’ इति मेदिनी । उलूकारूढानामीप्सितसिद्ध्यर्थं यतमानानामपि कुतो महाभाग्यलाभ इति भावः । अमीषु श्रीस्तनेत्यादिषु त्रिषूदाहरणेष्वपि श्लेषोत्तम्भितविषमालंकारसंकीर्णत्वं विशेषः ॥

 यथावा--

 पुष्करमम्ब पदा तव निष्कासितमपि रमे त्वदाधारतया । पुरमासीत्तव महता तिरस्कृतोऽप्याश्रितोऽमुमयते हि शुभम् ॥ १६०६ ॥

 हे अम्ब रमे! पुष्करं कमलं तव पदा पादेन निष्कासितं स्वविजिततया स्थानान्निस्सारितमपि त्वदाधारतया त्वदेकावलम्बनतया त्वदधिष्ठानतया च तव पुरं गृहं आसीत् ‘अगारे नगरे पुरम्' इत्यमरः । पक्षे पुष्करमिति पदं निष्कासितं निगतः ष्क इति वर्णसमुदयो यस्मिन् कर्मणि तद्यथा भवति तथा आसितं उपवेशितं पुरमासीदित्यर्थः । स्पष्टमन्यत् । अत्रापि विशेषस्य सामान्येन साधर्म्येण समर्थनम् ॥

 यथा--

 त्वय्यत्यादरवांश्चेत्प्रत्याख्यातोऽपि चेतनो भगवन् । सुतरां प्रख्यातस्स्यात्त्वदादरो ह्यद्वितीयतां फलति ॥ १६०७ ॥

 हे भगवन्! त्वयेति शेषः । प्रत्याख्यातः अभिभूतोऽपि चेतनः कश्चित्प्राणी प्राह्लादिर्बलिरिवेति भावः । त्वयि अत्या

दरवान् अविश्लथभक्तिमांश्चेत् सुतरां असदृशतयेति यावत् । प्रख्यातस्स्यात् त्वदाश्रयः अद्वितीयतां कीर्त्यादिभिरसदृशतां, पक्षे द्वितीयवर्णराहित्यं च फलति हि । प्रत्याख्यातशब्दः अत्यादरवान् त्या इत्याकारकवर्णे आदरवान्न चेत् तद्विश्लिष्टश्चेदिति यावत् प्रख्यातशब्दो भवतीत्यर्थान्तरम् ॥

 यथावा--

 तव तेजसि विद्वेषान्नाथ महारश्मयो रवेर्लब्ध्वा । अप्यश्मदशामभवन्महारयो वासना हि दुर्मोचा ॥ १६०८ ॥

 महारश्मयः अश्मदशां प्रस्तरावस्थां लब्ध्वाऽपि महारय एव महाविद्विष एव अभवन् । पक्षे महारश्मय इति शब्दः अविद्यमानः श्म इति वर्णसमुदयो यस्य स तथाभूतः अश्मः तस्यदशां लब्ध्वा, अभवत् महारय इति छेदः । महारय इति निष्पन्नोऽभूदित्यर्थः । शिष्टं स्पष्टम् ॥

 यथावा--

 समुपनतेऽपि नदीनस्तव गाम्भीर्यादुपर्युपरि भङ्गे । व्यक्रियत नान्तरीदृङ्न विकृतिभाक्प्रकृतिवैपरीत्येन ॥ १६०९ ॥

 हे भगवन्निति लभ्यते, तस्यैव प्रकृतत्वात् । नदीनः सरित्पतिः । अदीन इत्यप्युपस्कार्यम् । तव गाम्भीर्यात् हेतुभूतात् उपर्युपरि पदेपदे भङ्गे स्वस्य परिभवे, पक्षे उपर्युपरि ऊर्ध्वोर्ध्वभाग एव भङ्गे तरङ्गे जात्यभिप्रायकमेकवचनम् । समुपनतेऽपि

प्राप्तेऽपीत्यर्थः । अन्तः मनसि, पक्षे अन्तः प्रदेशे न व्यक्रियत न विकुरुते स्म । हृदयदौर्बल्यं न प्राचीकशदिति यावत् । कर्मकर्तरि यक् । यद्वा न व्यक्रियत नदीनतां नात्याक्षीदित्यर्थः । पक्षे क्षुभितो नासीदित्यर्थः । ईदृक् गभीरस्वभवः प्रकृतिवैपरीत्येन गभीरिमरूस्वस्वभावविपर्ययेण विकृतिभाक्, लाघवरूपविकारभाक् न भवति । आपतत्स्वपि हृदयविक्षोभहेतुषु भूयस्सु न गभीरप्रकृतिस्स्वस्वभावविरोधिलाघवादिरूपविकारमाप्नोतीति भावः ॥

 पक्षे नदीनः नदीन इति शब्दः उपर्युपरि अग्रेऽग्रे भङ्गे स्वादिविभक्तीनां परस्परं भेदे उपनतेऽपि । ‘भङ्गो जयविपर्यये । भेदरोगतरङ्गेषु' इति मेदिनी । अन्तः विभक्यपेक्षया पूर्ववर्तिनि प्रातिपदिकरूपे अन्तर्भागे न व्यक्रियत । विभक्तीनामन्योन्यभेदसद्भावेऽपि प्रकृतेरविकृततयैवावस्थानादिति भावः । न केवलं यथावस्थितप्रातिपदिकाविकृतत्वमेव, अपितु तद्वैपरीत्येऽप्यविकृतत्वमेवेत्याह-- ईदृगिति । ईदृक् नदीनशब्द एवेति भावः । प्रकृतिवैपरीत्येन प्रातिपदिकरूपप्रकृतेर्व्यत्यस्ततया पाठे न विकृतिभाक् पूर्वापेक्षया विभिन्नवर्णानुपूर्वीकः न भवति । किंतु यथापुरं नदीन इत्येवावतिष्ठत इति भावः । अत्र समुपनतेऽपीत्यादिना नान्तरित्यन्तेन प्रतिपादितस्य विशेषस्य ईदृगित्यादिसामान्येनाप्रस्तुतेन समर्थनम् । समासोक्तिसंकीर्णत्वादिविच्छित्तिविशेषस्तु सुगम एव ॥

 यथावा--

 विकचसिताम्बुजमुद्भटगन्धं त्वन्नयनजितमथापचितम् । तव सर्वदाऽऽस्यलक्ष्मीमलभत सूनस्य वृत्तिरियती हि ॥ १६१० ॥

 हे भगवन्! विकचं व्याकोचं सिताम्बुजं पुण्डरीकं उद्भटः गन्धः यस्य तत्तथोक्तं अतिसौन्दर्यगर्वितमित्यर्थः । अतिसौरभशालीति तु तत्त्वम् । अथ त्वन्नयनजितं अत एव अपचितं अपचयं प्राप्तं त्वन्नयनजितं अथ अपचितमिति वा योजना । पक्षे विकचसिताम्बुजमिति पदं अपचितं अपगतचकारं कृतं सत् विकसिताम्बुजं भवदिति भावः । तव सर्वदास्यलक्ष्मीं सर्वविधकैंकर्यश्रियं, पक्षे सर्वदा आस्यलक्ष्मीं मुखशोभां अलभत । तथाहि, सूनस्य सुष्ठु ऊनस्य वैरशुद्ध्यौपयिकशौर्यधैर्यादिभिस्सर्वथाऽपि हीनस्य प्रसूनस्येति तु तत्त्वम् । गतिः स्थितिः इयती एतावती । यत्प्रतीकाराक्षमतया स्वजैत्रोपसर्पणमिति भावः । अयमपि सामान्येन विशेषस्य समर्थनरूप एव ॥

 त्वत्सौकुमार्यविजितं मत्वा निजसौकुमार्यमखिलाम्ब । नवनीतमनस्थितिमद्वनीतमासीन्मृदोर्हि गतिरियती ॥ १६११ ॥

 नवनीतं अनस्थितिमत् अनसि शकटे स्थितिमत् 'शर्परे खरि वा विसर्गलोपः' इति विसर्गलोपे स्थितीत्यत्रैकसकारकमेव रूपमर्थान्तरे शब्दावैरूप्यायेति ध्येयम् । देशान्तरप्रस्थानाय शकटमारूढमिति भावः । वनीतं वनीं गतं अथवा वनी इता प्राप्ता येनेति बहुव्रीहिः । अरण्यानीं प्रविष्टमित्यर्थः । पक्षे नवनीतमिति पदं नस्य नकारस्य स्थितिः साऽस्यास्तीति नस्थितिमत् तन्न भवतीत्यनस्थितिमत् नकारविघटीतं वनीतमासीदित्यर्थः । तथाहि, मृदोः कोमलस्य अतीक्ष्णस्य च गतिः ईदृक् । अन्यत्सर्वं पूर्ववत् ॥

 यथावा--

 त्वत्पदरुचिविद्वेषाद्विभङ्गमभ्येत्य विद्रुमश्शौरे । द्रुम एव सर्वधाऽभूत्त्वद्द्वेषस्येदृशो हि परिणामः ॥

 विद्रुमः प्रवाळः विद्रुमशब्दश्च । विभङ्गं विशेषेण पराभवं सर्वतोमुखं परिभवमिति यावत् । पक्षे वि इत्याकारकवर्णस्य नाशं अभ्येत्य । द्रुम एव तरुरेव पक्षे द्रुमशब्द एव अभूत् त्वयि त्वद्विषये द्वेषस्य परिणामः परिपाकः ईदृशो हि । स्थावरजन्मप्रापणमेव हि ॥

 यथावा--

 फालेन तव परास्तो बालेन्दुर्भवति बहुळगळदोजाः । हालिकसंघर्षी मृदुरयते क्षयमेव देवि हरिदयिते ॥ १६१३ ॥

 बालेन्दु: अभिवृद्धो भवन्नपि बहुलगलदोजाः अतिमात्रभ्रश्यत्तेजाः भवति बहुले कृष्णपक्षे गलदोजाः भवतीति वस्तुस्थितिः । हलं प्रहरणमस्य हालिकः तेन संघर्षी मृदुः शरीरतश्शौर्यतश्च मृदुलः । पक्षे हा अलिकसंघर्षीति छेदः अलिकं ललाटं तेन संघर्षीत्यर्थः । शिष्टं स्पष्टम् ॥

 यथावा--

 परमपुरुषाश्रितो यः परवाक्छरबाधितोऽपि दृढभावात् । न पुरेव स परमरुषाश्रितो भवेन्नहि तथाविधस्सीदेत् ॥ १६१४ ॥

 यः पुमान् परमपुरुषाश्रितः सः परेषां वैरिणां वाग्भिश्शरैश्च । पक्षे शरतुल्याभिर्वाग्भिः बाधितोऽपि क्षतोऽपि दृढभावात् भगवदनुग्रहजनितशरीरदार्ढ्यात्तद्भक्तिदार्ढ्याच्च पुरेव भगवदाश्रयणात्पूर्वमिव परं अरुषा ‘व्रणेन व्रणोऽस्त्रियामर्मिमरुः' इत्यमरः । श्रितो न भवेत् । प्रह्लादादेरिव तस्य भगवत्प्रसादात्परैः प्रयुक्ताश्शरा न व्यथालेशमपि विधातुमीशरिन्निति भावः । पक्षे परमया रुषा क्रुधा श्रितो न भवेत् ‘न क्रोधो न च मात्सर्यम्' इत्याद्युक्तरीत्या क्षोदिष्ठमर्मस्पर्शिवाग्भिस्तस्य क्रोधानुदयादिति भावः । तथाहि तथाविधः महदाश्रितः न सीदेत् नावसीदेदित्यर्थः ॥

 पक्षे परमपुरुषाश्रितशब्दः न विद्यते पुः पुवर्णः यस्य नपुः नशब्देन बहुव्रीहिः । पुवर्णरहित एव परमरुषाश्रित इति जायते । तथाविधः पुवर्णविधुरतां प्राप्तोऽपि परमपुरुषशब्दः न हि सीदेत् निरर्थकतया नावतिष्ठेत किंतु अर्थवत्तयैव जागृयादिति भावः ।

 यथावा--

 इन्दुः कन्दुरपि त्वन्मुखवसुहारी क्षयं कमपि यातः । यो दुस्थितिमान् स्वान्ते स भवति भावान्तरेऽपि दुस्थितिमान् ॥ १६१५ ॥

 हे भगवन्! इन्दुः त्वन्मुखवसुहारी वदनप्रभाहरणशीलः त्वत्प्रभृतिधनहरणशील इति च गम्यते । ताच्छील्ये णिनिः । अतएव कमपि क्षयं सकलकलापचयरूपं राजयक्ष्माणं यातस्सन् कन्दुरपि कन्दुर्भवन्नपि कन्दुर्नाम अयोमय उत्तानो वर्तुलाकारो

होळकाद्यपूपनिर्वर्तनोपकरणभूतो वस्तुविशेषः । ‘क्लिबेऽम्बरीषं

भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्' इत्यमरः । कन्दुशब्दः वा ना वा पुंसीति कोशार्थः । स्वेदनीजन्म भजमानोऽपि तद्वन्निस्तेजस्को भवन्नपीति तु हृदयम् । पक्षे हारी इक्षयमिति च्छेदः । इन्दुः इन्दुशब्दः इक्षयं इकारलोपं यातः नैतावदेव, कमपि यातः । अपिस्समुच्चये । इकारस्थाने ककारं च यातः कन्दुरिति निष्पन्न इत्यर्थः । एवं कन्दुरूपं प्रपन्नोऽपि कमपि क्षयं यात इत्यावृत्त्या योजनीयम् । इन्दुत्वावस्थायामिव कन्दुत्वावस्थायामपि राजयक्ष्माणं प्राप्त एवासीत् न तु तमत्याक्षीदिति भावः । वस्तुतस्तु कमपि क्षयं गृहं महानसमिति भावः । तत्रैव कन्दोरवस्थानौचित्यात् ‘क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च' इति मेदिनी । यद्वा चुल्लीस्थित्यवसरलग्नधूममषीव्यपनयार्थकृतसिकतादिघर्षणभूयस्तया अपचयं यात इत्यर्थः । कथमस्य जन्मान्तरेऽपि क्षयानुवृत्तिरित्यत आह-- य इति । यः स्वान्ते मनसि ‘स्वान्तं हृन्मानसम्' इत्यमरः । दुस्थितिमान् नित्यं परस्वापहारादिदुराशयवान् । नित्ययोगे मतुप् । तदनुरूपक्षयाद्युपतापी च भवति । सः भावान्तरेऽपि ‘भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । दुस्थितिमानेव भवति । न हि नित्यमेव पापशीलानामकृततन्निष्कृतीनां जन्मातरेऽपि तत्फलानुभवस्सुकरापनोद इति भावः । वस्तुस्तु यः इन्दुशब्दः स्वान्ते स्वस्य चरमभागे दुस्थितिमान् इकारलोपेन तत्स्थाने ककारं प्राप्तोऽपि नित्यदुवर्णस्थितिमानिति भावः । सः इन्दुशब्दः भावान्तरेऽपि कन्दुरिति रूपान्तरे प्राप्तेऽपि दुस्थितिमानेव दुवर्णस्य

पूर्वमप्यनपनतित्वात्तद्विशिष्ट एव भवति । इन्दुकन्दुशब्दयोरुभयोरप्यन्ते दुरितिवर्णसमुदयस्य तौल्यादिति भावः । शब्दार्थता

दात्म्यविजृम्भितश्लेषमूलकाभेदाध्यवसायानुप्रणितस्सामान्येनाप्रस्तुतेन विशेषसमर्थनरूप एवार्थान्तरन्यासः ॥

 विशेस्षय सामान्येन वैधर्म्येण समर्थनं यथा--

 संकल्पादेव जगद्वेङ्कटनाथस्सृजत्यवत्यत्ति । असमर्थो यः कार्येष्वपेक्षते स परमन्यसाहाय्यम् ॥ १६१६ ॥

 अत्र पूर्वार्धोक्तस्य विशेषस्य प्रकृतस्य उत्तरार्धोक्तेन सामान्येनाप्रकृतेन वैधर्म्येण समर्थनम् ॥

 यथावा--

 नितरां जननि कराभ्यां निजकरचरणेक्षणप्रतिस्पर्धि । नलिनं बत लालयसे न पराभविताऽरिमपि मृदुप्रकृतिः ॥ १६१७ ॥

 अत्र प्राथमिकचरणत्रितयप्रतिपादितस्य विशेषस्य चतुर्थचरणोदितसामान्येन वैधर्म्येण समर्थनम् ॥

 यथावा--

 लोकेशे नाकेशे काके कीशेऽपि तव कृपा सदृशी । न विशति हि महोदारो ननूत्तमाधमविभागकार्पण्यम् ॥ १६१८ ॥

 अत्रापि पूर्वार्धोक्तो विशेषः प्रकृत उत्तरार्धोक्तेन सामान्येनाप्रकृतेन वैधर्म्येण समर्थ्यते ॥

 यथावा--

 हुतवहमध्ये तप्त्वा द्रुतमुज्ज्वलितं भवान्तरे भर्म । वर्म तवाच्युत समजनि कल्याणस्य स्वतः किमप्राप्यम् ॥ १६१९ ॥

 हि अच्युत! भर्म स्वर्णं कर्तृ । हुतवहमध्ये पञ्चाग्निमध्ये अग्निमध्ये च तप्त्वा तपः कृत्वा तप्तं भूत्वा च अतएव द्रुतं शीघ्रं उज्ज्वलितं प्रकाशितं पक्षे द्रुतं द्रवतां गतं विलीनमित्यर्थः । उज्ज्वलितं पुटपाकेन शोभितमित्यर्थः । भवान्तरे जन्मान्तरे रूपान्तरे च तव वर्म कवचं अजनि । पक्षे भर्म भर्मेति पदं भवान्तरे वेन वकारेण अन्तरं अन्तर्धानं भस्य भकारस्य वान्तरं भवान्तरं तस्मिन् सति वकारस्य भकारेण तिरोधाने सति भकारस्थाने वकारोच्चारणे सतीति यावत् 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमर । वर्म अजनि । भर्मेति पदं वर्मेति निष्पन्नमित्यर्थः । स्वतः कल्याणस्य मङ्गळकृतः सुवर्णस्य च किमप्राप्यं सर्वं प्राप्यमेव ‘न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति’ इति गानादिति भावः । ‘कल्याणं मङ्गले स्वर्णे’ इति रत्नमाला । अत्रापि पूर्ववदेव समर्थनम् । श्लेषादिसंकीर्णत्वं विशेषः ।

 यथावा--

 भ्रमरोऽपि तव पदाब्जे लग्नोऽभ्रममेत्य भवति खल्वमरः । किंकिमलभ्यं त्वत्पदपङ्कजसक्तस्य

वेङ्कटाद्रिमणे ॥ १६२० ॥

 भ्रमरोऽपि तिर्यग्जन्तुरपि कामुकोपीति वा ‘भ्रमरः कामुके भृङ्गे' इति मेदिनी । तव पदाब्जे लग्नस्सन् अभ्रमं अन्यत्र भ्रमणं अभ्रान्तिं वा एत्य अमरो भवति देवो भवति । खल्विति प्रसिद्धौ । पक्षे भ्रमरशब्दः अभ्रममित्यत्र अभ्रं अं इति च्छेदः। अविद्यमानो भ्रः भ्रवर्णो यस्य तं भ्रंशितभ्रवणमिति यावत् अं अवर्णं एत्यभ्रवर्णस्थाने अकारं प्राप्येत्यर्थः । अमरः अभूत् उक्तरीया भ्रमरशब्दः अमरशब्दोऽभूदित्यर्थः । अत्रापि पूर्वदेव सर्वमनुसन्धेयम् ॥

 यथावा--

 अपि पामरस्तवाङ्घ्रावुपजातरुचिस्त्वया कृतोऽपापः । लभतेऽमरत्वमच्युत न भजेत्किं वा त्वदाश्रितोऽभीष्टम् ॥ १६२१ ॥

 हे अच्युत! इयं संबोधनं विवक्षितपापहरणसाभप्रायम् । यथा र्स्मयते--

अतिपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्क्तिपावनपावनः ॥

 इति । तव अङ्घ्रौ उपजातरुचिः पामरः नीचोऽपि त्वया अपापः कृतः निर्धूताखिलपूर्वोत्तराघः कृतस्सन् अमरत्वं ‘यत्र पूर्वे साध्यास्सन्ति देवाः' इत्युक्तप्रकारेण देवत्वं मुक्तत्वमिति यावत् लभते । पक्षे पामरशब्दः त्वया पं आप्नोतीति पापः । कर्मण्यण् । नपापः अपापः पवरर्णरहितः कृत इति यावत् । अमरत्वं अमर शब्दत्वं लभते इत्यर्थः ॥

 यथावा--

 आद्यन्तप्राप्तजयं मध्येऽपिच लेशतोऽप्यवि-

ध्वस्तम् । जयति जलेशयमम्ब त्वदाश्रितानां कदा परिभवस्स्यात् ॥ १६२२ ॥

 जलेशयं कमलं जलेशयमिति पदं च । आद्यन्तयोस्समर्थयोः अद्यन्तभागयोश्च प्राप्तः जयः उत्कर्षः यस्य तत्तथोक्तं, प्राप्तौ जयौ जकारयकारौ येन तदिति च । मध्येऽपिच मध्यकालेऽपि लेशतोऽपि लवमात्रतोऽपि अविध्वस्तं भ्रंशं नप्राप्तं, पक्षे लेशतः ले श इति वर्णाभ्यां अविध्वस्वं अध्वस्तलेशर्णमित्यर्थः । जयति सर्वोत्कर्षे प्राप्नोति । शब्दपक्षे जलेशयशब्दः एवंविधो जयतीत्यर्थः ॥

 यथावा--

 नहुषस्स वासवस्सन्नवलेपात्स्वान्त एव हसितोऽम्ब । वाहसभावमविन्दत्त्वदपाङ्गविपर्यये किमिव न स्यात् ॥ १६२३ ॥

 हे अम्ब! सः प्रसिद्धः नहुषः वासवस्सन् इन्द्रो भवन् सन् अवलेपात् त्रैलोक्यैश्वर्यमदात् स्वान्त एव मनस्येव ‘स्वान्तं हृन्मानसं मनः' इत्यमरः । हसितः मत्तुल्यः कोऽन्योस्तीति हसन्निति गर्वानुभावोक्तिः । कर्तरि क्तः । वाहसभावं अजगरत्वं ‘अजगरश्शयुर्वाहस इत्युभौ' इत्यमरः। अविन्दत् । पक्षे वासवशब्दः वस्य वकारस्य लेपः संबन्धः न वलेपः अवलेपः तस्मात् वकारसंबन्धाभावं प्राप्येति ल्यब्लोपे पञ्चमी । वकारलोपेन वास इति निष्पन्नः स्वान्त एव स्वस्य अन्ते मध्यभाग एव हसितः हेन हकारेण सितः बद्धस्सन् मध्ये हकारघटितस्सन्नित्यर्थः ।

वाहसभावं वाहसशब्दत्वं अविन्दत् वा स इति वर्णयोर्मध्ये हकारविन्यासे तथा निष्पत्तेरिति भावः । स्पष्टमन्यत् ॥

 यथावा--

 त्वच्चरणरुचेस्तौल्ये किसलयमुद्युक्तमेव चेदम्ब । मुखभङ्गात्सलयं स्यादीदृग्दर्शयति किं मुखं भग्नम् ॥ १६२४ ॥

 किसलयं मुखभङ्गात् पराभवादिति यावत् । लयः यत्र क्वापि वा लीनता तेन सह वर्तत इति सलयं स्यात् । केनाप्यदृश्यमानतयाऽवस्थितं स्यादिति भावः । पक्षे मुखवर्णविच्युतेः सलयं स्यात् किसलयमिति शब्दरूपं मुखवर्णभ्रंशे सलयमिति निष्पद्येतेत्यर्थः । ईदृक् एवं पराभूतो यःकोऽपि वा भग्नं मुखं दर्शयति किं ? जनानामिति शेषः । मुखभङ्गं प्राप्तवान्मानी कस्यचिदपि मुखं न दर्शयत्येवेति लोकेक्तिः । पक्षे ईदृक् सलयमिति निष्पन्नं किसलयं किसलयपदं कर्तृ, मुखं आदिभागविस्थितमिति यावत् किं कि इत्याकारकं वर्णं भग्नं दर्शयति च्युतं सूचयति । किसलयपदं सलयमिति श्रूयेतचेत् अस्य मुखे वर्णं स्रस्तमिति सूचयतीति भावः । शिष्टं स्पष्टम् । अत्र सामान्यमप्रस्तुतं समर्थकम् ॥

 यथावा--

 पुलिनमपुंभावं गतमम्ब भवत्या नितम्बतो विजितम् । कथमपि सदग्रभवनं पादधुतं किं प्रगल्भतां क्लीबम् ॥ १६२५ ॥

 हे अम्ब! पुलिनं अपुंभवं गतं स्वरूपत एवापुंस्त्वमापन्नं ‘तोयोत्थितं तत्पुलिनम्' इति क्लीबत्वानुशासनादिति भावः । पक्षे अपुं पुवर्णरहितं भावं स्थितिं गतं लिनमित्यवशिष्टमित्यर्थः । अत एव भवत्याः नितम्बतः पुंस्त्वभाज इति भावः ‘पश्चान्नितम्बः' इति पुल्लिङ्गतानुशासनात्तस्य । विजितं अथ कथमपि अग्रे नितम्बस्य समक्षं भवनं स्थितः यस्य तथाभूतं सत्, पक्षे अग्रभवः आदिभागस्थितिः नः नकारः यस्य तत्तथोक्तं नलिनं सदिति यावत् । तदाऽपि क्लीबत्वमत्यजदेवेति भावः । पादेन पुंस्त्वभाजेति भावः । धुतं क्षिप्तम् । पुलिनभावे नितम्बेन नलिनभावे पादेन च तिरस्कृतमिति निर्गलितोऽर्थः । कुत एवमित्यत आह-- किमिति । क्लीबं नपुंसकम् । किं प्रगल्भतां किमिति पुमानिव प्रागल्भ्यं लभेतेति भावः ॥

 यथावा--

 गोत्रप्रवरे भवनं यवयोरेकत्र माधव तथाऽपि । आसीद्विवाहयोगस्स्वैराः क्व नु विधिनिषेधवशगास्स्युः ॥ १६२६ ॥

 हे माधव! इदं लक्ष्मीपतित्वेन संबोधनं विवक्षितार्थोपष्टम्भाय । लक्ष्मीश्च त्वं च युवां तयोः युवयोः "त्यदादीनि सर्वैर्नित्यम्, त्यदादितश्शेषे पुन्नपुंसकतो लिङ्गवचनानि" इति पुल्लिङ्गयुष्मच्छब्दैकशेषः । एकत्र एकस्मिन् गोत्रप्रवरे गोत्रं च प्रवरश्च अनयोस्समाहारः गोत्रप्रवरं तस्मिन् स्मृतिप्रसिद्धे एकस्मिन्नेव गोत्रे प्रवरे चेयर्थः । पक्षे गोत्रप्रवरे गिरिश्रेष्ठे शेषाद्रावित्यर्थः । भवनं जन्म गृहं च भवति । तथाऽपि युवयोः विवाहयोगः परिणयरूपसंबन्धः । तथाऽपीत्यनेन-

"समानप्रवरां कन्यामेकगोत्रामथापि वा ।
विवाहयति यो मूढस्तस्य वक्ष्यामि निष्कृतिम्" ॥

 "असगोत्रामसमानप्रवरां विन्देत” इत्यादिशातातपविष्णुप्रभृतिधर्मशास्त्रवचनविरोधस्सूचितः । पक्षे विः पक्षी गरुत्मान् स एव वाहः वाहनं तस्य योगः ‘अजिताकर्षणी नीतिर्गरुडा गरुडासना’ इति, ‘वाहनं वेदात्मा विहगेश्वरः' इत्यादिभिर्लक्ष्म्या अपि तद्वाहनात्वोक्तेरिति भावः । कुत एवं शास्त्रनिषिद्धे प्रवृत्तिरत्यत्राह-- स्वैरा इति । स्वैराः स्वेच्छाचारिणः क्वनु विधिनिषेधवशगाः स्युः न भवन्त्येवेति भावः 'अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी' इत्युक्तरीत्या भगवतस्स्वैरत्वमिति हृदयम् ॥

 यथावा--

 कचविजितोऽवध्वस्तश्शैवल इह शैलतां प्रपद्य पुनः । कुचविजितोऽभूल्लक्ष्म्याश्श्रिया जितः क्वनु जयाय कल्पेत ॥ १६२७ ॥

 शैवलः शैवालं अवध्वस्तः अवचूर्णितः ‘अवध्वस्तोऽवचूर्णितः' इत्यमरः । पक्षे वकारेण ध्वस्त इति वा वकारो ध्वस्तो यस्मादिति वा वध्वस्तः । शैलतां गिरितां शैलशब्दतां च प्रपद्य । स्पष्टमन्यत् ॥

 यथावा--

 देवि प्रसूर्न हि त्वत्पुष्टा म्लायन्ति सुमनसस्तापैः । म्लायन्ति तरुगतास्तु क्वनु न म्लानिः

प्रसूनताभाजाम् ॥ १६२८ ॥

 हे प्रसूः हे जननि! सुमनसः विपश्चितः कुसुमानि च । तापैः आध्यात्मिकादिभिः रविकरादिजन्यैश्च संतापैः । प्रसूनता प्रस्वा जनन्या ऊनता हीनत्वं पक्षे कुसुमत्वं तां भजन्तीति तथोक्ताः । सुगममितरत् ॥

 यथावा--

मकरन्दस्स्वकदलनेऽप्यनुज्झितस्वार्थ एव तव वचसः । सख्यमुपैन्न हि मधुरा वैरायन्ते निजासुहृद्भ्योऽपि ॥ १६२९ ॥

 हे देवि! मकरन्दः पुष्परसः मकरन्दशब्दश्च । तव वचसः हेतुभूताद्वचनात् स्वस्य कं स्वकं तस्य दळनेऽपि मस्तकफालनेऽपीति लोकोक्तिः । पक्षे स्वस्य कः कवर्णः तस्य दळने भ्रंशे सत्यपि अनुज्झितः स्वः निजः अर्थः प्रयोजनं येन स तथोक्तः । स्वप्रयोजनैकसाधनदृष्टिः । पक्षे अनुज्झितस्वार्थः अपरित्यक्तस्वाभिधेयः मकरन्दशब्दः कवर्णभ्रंशेऽपि मरन्द इति

निष्पन्नतया अपरित्यक्तस्वाभिधेय एव । मकरन्दमरन्दशब्दयोस्तुल्यार्थकत्वादिति भावः । वचस इत्येतन्मध्यमणिन्यायेनोत्तरत्राप्यन्वेति । तव वचसः वचनस्य सख्यं सौहार्दं उपैत् प्रापत् । स्वशिरोविदलनहेतुभूतेऽपि कुत एष न प्रत्यकार्षीदित्यत्राह-- मधुरा इति । मधुराः निसर्गत एव प्रियशीलाः स्वादुशीलाश्च ‘स्वादुप्रियौ तु मधुरौ' इत्यमरः । निजासुहृद्भ्योऽपि स्वप्राणहारिभ्योऽपि न वैरायन्ते तानुद्दिश्य वैरं न कुर्वन्तीत्यर्थः । ‘शब्दवैर’ इत्यादिना क्यङ् ‘तस्मै कः प्रथमाय मानिषु महावीराय वैरायते’ इत्यत्रेव ‘क्रुधद्रुह’ इत्यादिना चतुर्थी ॥

 यथावा--

 पातालं हरिमहिळऽपारहितं सख्यमेत्य तावकनाभेः । स्तनसख्यमप्यगात्क्वनु सर्वगुरु स्थितिमयत्सतां न सुहृत्स्यात् ॥ १६३० ॥

 हे हरिमहिळे! पातालं कर्तृ । तव नाभेस्सख्यमेत्य तत्तुल्यं भूत्वेति हृदयम् । अपारं यथा स्यात्तथा हितं आप्तं सत् पक्षे पारहितमिति च्छेदः पावर्णविधुरं सत् स्तनयोस्सख्यमप्यगात् तालं तालफलं सत् कुचतौल्यमप्यलभतेति भावः । शब्दार्थतादात्म्यं न विस्मर्तव्यम् । तथा हि-- सर्वगुरु सर्वेषामपि पूज्यं सतां महतां स्थितिं मर्यादां अयत् प्राप्नुवत् वस्तु क्वनु कस्मिन्वस्तुनि सुहृत् न स्यात् ईदृशं सर्वसुहृदेव भवेदिति भावः । पक्षे सर्वे वर्णाः गुरवः यस्मिन् तत्तथोक्तं सतां ताकारसहितां स्थितिं अवस्थानं प्राप्तं, पातालमिति पदं गुरुभूतसर्ववर्णं ताकारसहितं चेति तथोक्तिः ॥

 एवं साधर्म्यवैधर्म्याभ्यां विशेषस्य सामान्येन समर्थने तयोः प्रस्तुतत्वाप्रस्तुतत्ववैलक्षण्यमनादृत्य समुदितान्येवोदाहरणानि यद्यपि प्रदर्शितानि । तथाऽपि अत्र प्रथमप्रभेदस्य ‘स्यालो हरेरितीन्दुः’ इत्यादिषूदाहरणेषु प्रस्तुतस्य विशेषस्याप्रस्तुतेन सामान्येन समर्थनं ‘त्वय्यत्यादरवांश्चेत् । त्वत्पदरुचिविद्वेषात्’ इत्युदाहरणयोः प्रस्तुतेन सामान्येनाप्रस्तुतस्य विशेषस्य समर्थनं

द्वितीयप्रभेदस्य तु ‘संकल्पादेव जगत्' इत्याद्युदाहरणेषु प्रस्तुतस्य विशेषस्याप्रस्तुतेन सामान्येन ‘भ्रमरोऽपि तव पदाब्जे, इत्याद्युदाहरणचतुष्टये ‘कचविजितोऽवध्वस्तः' इत्याद्युदाहरणे च अप्र

स्तुतविशेषस्यैव प्रस्तुतेन सामान्येन समर्थनमिति वैलक्षण्यं बोध्यम् ॥

 सामान्यस्य विशेषेण साधर्म्येण समर्थनं यथा--

 त्वादृशसदीश्वरजुषां स्वगुणाश्श्रीनाथ संप्रकाशेरन् । चन्द्राश्रितस्य सान्द्रश्श्यामलिमा भाति कृष्णसारस्य ॥ १६३१ ॥

 सन् प्रशस्तः ईश्वरः स्वामी । सतां नक्षत्राणां ईश्वर इति च तज्जुषाम् । अत्र पूर्वार्धोक्तस्य सामान्यस्य प्रकृतस्याप्रकृतेनोत्तरार्धोक्तेन विशेषेण साधर्म्येण समर्थनम् ॥

 यथावा--

 निरवधिका धनतृष्णा स्फुरति हि निरतिशयसंपदामेव । नतजनधनमादत्ते विततं यस्माद्रमानिवासोऽपि ॥ १६३२ ॥

 अत्र पूर्वार्धप्रतिपादितस्य सामान्यस्य प्रकृतस्य उत्तरार्धप्रतिपादितेन विशेषेण प्रकृतेन साधर्म्येण समर्थनमिति पूर्वस्माद्विशेषः ॥

 यथावा--

 नियतं जगदीशेन न्यक्क्रियते जिह्मगो धराभृदपि । अधरीकृतस्सरीसृपगिरीश्वरो यद्रमेश्वरेणायम् ॥ १६३३ ॥

 अत्रापि पूर्ववदेवाप्रकृतस्य सामान्यस्य प्रकृतेन विशेषेण समर्थनं, श्लेषसंकीर्णत्वं तु विशेषः ॥

 यथावा--

 ऋद्धिमतामेवाशा महती यन्नन्दमन्दिरे निवसन् । पीताम्बरोऽपि भगवान् बत पाटच्चरदशामुपादत्त ॥ १६३४ ॥

 पटच्चरस्येयं पाटच्चरी तां जीर्णवस्त्रसंबन्धिनीं दशां अञ्चलं, पक्षे पाटच्चरस्य चोरस्य दशां अवस्थां उपादत्त दधिनवनीतादिचौर्यलीलाया दर्शितत्वादिति भावः । ‘पटच्चरं जीर्णवस्त्रंं । प्रतिरोधिपरांस्कन्दिपाटच्चरमलिम्लुचाः' इति चामरः । ‘वर्त्यवस्थांशुकान्तेषु दशा’ इति रत्नमाला ॥

 सामान्यस्य विशेषेण वैधर्म्येण समर्थनं यथा--

 शरणगमीश भवदृक्करुणात्मा न त्यजेन्निहीनमपि । विनिधायोत्सङ्गे स्वे विधुः कुरङ्गं श्रितं हि लालयति ॥ १६३५ ॥

 अत्र पूर्वार्धोदीरितस्य सामान्यस्य प्रकृतस्याप्रकृतेन विशेषेण वैधर्म्येण समर्थनम् ॥

 यथावा--

 यो हि निसर्गाच्छ्रेयान् स जगति मूर्धन्यतां स्वयं भजते । कमिह पुरस्कुर्वंस्त्वं मूर्धन्याकारभाग्भवसि कृष्ण ॥ १६३६ ॥

 हे कृष्ण! कं पुरस्कुर्वन् पूजयन् आश्रयन्नित्यर्थः । मूर्धन्यः सकलभुवनशिरोमान्यः यः आकारः स्वरूपं तं भजतीति तथोक्तो भवसि । न कस्यचिदपि पुरस्कारेण त्वं मूर्धन्याकारभाक् किंतु स्वभावत एवेति भावः । पक्षे हे कृष्णेति कृष्णशब्दस्यैव संबोधनम् । त्वं कं कवर्णं पुरस्कुर्वन् मुखतः कुवन् मूर्धन्याः मूर्धस्थानकाः ऋकारषकारणकाराः ‘ऋ टु रषाणां मूर्धा’ इत्यनुशासनात् । ते च अकारश्च मूर्धन्याकाराः तान् भजतीति तथोक्तः भवसि संबुद्ध्यन्तकृष्णशब्दस्य ककारऋकारषकारणकाराकारभाक्त्वात्तथोक्तिः । अत्रापि पूर्ववदेव । श्लेषचमत्कारस्तु विशेषः ॥

 समर्थ्यसमर्थकयोरुभयोरपि प्रकृतत्वेऽप्ययं दृश्यते । यथा--

 दुर्लभमिह भविता श्रीवल्लभ किमु मे त्वदनुगृहीतस्य । त्वत्कृपया यद्दर्वीकरोऽपि भूभृद्वरेण्य एवासीत् ॥ १६३७ ॥

 दर्वीकरः शेषः सूदश्च । भूभृद्वरेण्यः गिरिराजः राजमुख्यश्च । अत्र समर्थ्यसमर्थकयोर्द्वयोरपि प्रकृतत्वम् । एवमग्रेऽपि ॥

 यथावा--

 रक्षेरिति वरणकृतोऽच्युत विदधद्वंशमेव मम मुख्यम् । तं शरणकृतं रचयेर्न हीयते जात्वपि त्वदीयजनः ॥ १६३८ ॥

 हे अच्युत! रक्षेरिति गोपायिता भवेरिति वरणकृतः त्वां वृतवतः मम वंशं कुलमेव मुख्यं श्रेष्ठं विदधत्सन् ‘लक्षणहे

त्वोः' इति हेत्वर्थे शता । तं वंशं शरणकृतं भरन्यसनरूपोपायानुष्ठातारं रचयेः कुर्या एव । मद्वंशस्यैव श्रैष्ठ्यविधाने प्रवृत्तस्त्वं तं प्रपन्नं कथं न रचयेरिति भावः । त्वदीयजनः त्वदनुगृहीतो जनः जात्वपि न हीयते । ‘कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति’ इति गानादिति भावः । अत्रार्थान्तरं— वरणकृतः वरणकृच्छब्दस्य मुख्यं मुखे भवं वं वकारं शं शकारं विदधत्सन् ते वरणकृच्छब्दं शरणकृतं शरणकृच्छब्दं रचयेः । वरणकृच्छब्दस्यादिमवकारस्थाने शकारविन्यासे शरणकृदिति निष्पत्तेरिति ॥

 यथावा--

 तव कृपया राम पुरा वलीमुखोऽपि च चतुर्मुखो भवति । पङ्कजपलाशलोचन किंकिं न करोति तव कृपा स्वैरा ॥ १६३९ ॥

 हे राम! वलीमुखः कपिरपि हनूमानिति भावः । तव कृपया र्चतुमुखः पुरा भवति भविष्यति । पुराशब्दयोगेन ‘यावत्पुरा । इति भविष्यत्यर्थे लट् । स्पष्टमन्यत् ॥

 यथावा--

 त्वमिव श्रीवल्लभ ते श्रीवत्सश्श्रीनिवासतामयते । स श्रीसध्र्यङ् भवति हि यस्तव हृद्यस्सुलक्षणत्वमियात् ॥ १६४० ॥

 हे श्रीवल्लभ ! ते तव श्रीवत्सः तन्नामा लाञ्छनविशेषः त्वमिव श्रीनिवासतां श्रीनिकेतनत्वं अयते ‘श्रीदश्श्रीशश्श्रीनिवासः ।

ब्रह्मणि श्रीनिवासे' इति भवत इव तस्यापि श्रीनिवासत्वप्रसिद्धेः । तथाच तन्मन्त्रवर्णः ‘श्रीवत्साय श्रीनिवासाय नमः' इति । लक्ष्मीनिवासस्थानत्वादेव हि तस्य श्रीनिवासत्वव्यवहारः । यः पदार्थः तव हृद्यः हृदयप्रियः वक्षसि भवश्च । सुलक्षणत्वं शोभनानि लक्षणानि ‘शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः’ इत्युक्तानि चिह्नानि यस्य स तथोक्तः । पक्षे शोभनं च तल्लक्षणं च तत्त्वं इयात् । सः सहाञ्चतीति सध्र्यङ् । श्रियस्सध्र्यज् श्रीसहचारी भवति । भगवन्मनःप्रियश्शुभलक्षणश्च चेतनरूपः पदार्थः अपरित्यक्तज्ञानैश्वर्यादिसमृद्धिर्भवतीति भगवद्वक्षस्यवस्थितश्चिह्नरूपः पदार्थः नित्यं श्रिया सहैव वसतीति च निगळितोऽर्थः ॥

 तयोरप्रकृतयोरप्ययं दृश्यते । यथा--

 शुभकृच्छ्रेयो विन्देत्त्वद्वच इव सरलसारतामाप्तुम् । तप्त्वाऽधश्शीर्षं यद्रसालरस एव सरलसारोऽभूत् ॥ १६४१ ॥

 शुभकृत् शुभकारी श्रेयः विन्देत् । ‘शुभकृच्छुभमाप्नोति' इत्युक्तेरिति भावः । रसालरसः इक्षुरसः माकन्दरसो वा । त्वद्वच इव सरलसारतां उदाररसतां आप्तुं अधश्शीर्षं तप्त्वा सरलसार एव अभूत् । रसालरसशब्दस्य विलोमतया पठने तथा निष्पत्तेरिति भावः । अत्र समर्थ्यसमर्थकयोर्द्वयोरप्यप्रकृतत्वम् ॥

 अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थश्शब्दश्चालंकारताप्रयोजकः । न तु काव्यलिङ्गे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यस्मात् इत्यादेः प्रतिपादकस्याभावे आर्थ: । स च ‘असमर्थो यः कार्येष्वपेक्षते स परमन्यसाहाय्यम्' इत्यादौ । तत्सत्त्वे शाब्दः । सोऽपि ‘न विशति हि महोदारः ।

त्वत्कृपया यद्दर्वीकरः' इत्यादौ दर्शितः । अत्र वक्तव्यमन्यत्सर्वमुदाहरणालंकारनिरूपणावसरे दर्शितमिति नात्र प्रतायते । अथ हि प्रतिज्ञाहेत्ववयवयोरिव आकाङ्क्षाक्रमप्राप्तं समर्थ्यसमर्थकवाक्ययोः पौर्वापर्यमिति न मन्तव्यम् । न ह्यत्र समर्थकं समर्थ्यानुपपत्त्युन्मीलितायामाकाङ्क्षायां सत्यामेवाभिधीयत इत्यस्ति नियमः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थं कविभिस्तस्याभिधानात् । एवं काव्यलिङ्गेऽपि । एवं च तयोर्वैपरीत्येऽपि न दोषः ॥

 यथावा--

 सरिदधिपे शिखरिणि वा सदृशं वर्षति घनाघनस्सलिलम् । अवधीरितनिम्नोन्नतविभागमच्युत भवादृशौदार्यम् ॥ १६४२ ॥

 अत्र पूर्वार्धगत एव विशेषः उत्तरार्धगते समान्ये प्रस्तुते समर्थकः ॥

इत्यलंकारमणिहारे अर्थान्तरन्याससरस्त्रिषष्टितमः.



अथ विकस्वरालंकारसरः (६४)


सामान्येन विशेषस्य क्रियते यत्समर्थनम् ।
पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥

 कस्यचिद्विशेषस्य समर्थनं सामान्येन विधाय तत्प्रसिद्धावपरितुष्यता कविना पुनर्विशेषेण तत्समर्थनमुपमानरीत्या अर्थान्तरन्यासविधया वा क्रियते स विकस्वरो नामालंकारः ॥