अलङ्कारमणिहारः (भागः ३)/काव्यलिङ्गालङ्कारः (६२)

विकिस्रोतः तः
Jump to navigation Jump to search

तस्या अलंकारतासिद्धेश्च । इत्थं च त्वदुक्तार्थापत्त्युदाहरणे वक्ष्यमाणस्संभावनालंकारः ‘योऽन्यैर्यद्यर्थोक्तौ च कल्पनम्' इति यद्यर्थातिशयत्वेनोक्तः यद्यर्थातिशयोकौ आपाद्यापादकयोर्विपरीतार्थविश्रान्तत्वम् । इह तु आपादकस्य सिद्धत्वं आपाद्यस्य संभाव्यमानत्वमिति वैचित्र्यं तु तदवान्तरभेदतायास्साधकम् । न तु तद्वहिर्भूतताया इति न तत्राव्याप्तिशङ्काऽपीत्यलम्” इति ॥

इत्यलंकारमणिहारे काव्यार्थापत्तिसर एकषष्टितमः.


अथ काव्यलिङ्गसरः. (६२)



यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम् ।
समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते ॥

 अर्थान्तरन्यासवारणायानालीढान्तम् ॥

 यथावा--

 भो दोषा यष्माभिर्वस्तुं स्थानान्तराणि मृग्यन्ताम् । लभ्योऽत्र नावकाशो मय्यघकूलंकषो वसति कश्चित् ॥ १५४८ ॥

 अत्र दोषाणामवकाशालाभरूपः पूर्ववाक्यार्थः । तस्य च

सकलदोषनिश्शेषहरणचणश्रीहरिसांनिध्यप्रदर्शनरूपोत्तरवाक्यार्थेन समर्थनं काव्यलिङ्गम् ॥

 यथावा--

 त्वामाश्रितवत्सल इति वदतां नाच्युत विवेकलेशोऽपि । येन कृता रिपुसुहृदोर्विश्वाश्वगजावनीप्राप्तिः ॥ १५४९ ॥

 येन त्वया रिपुसुहृदोः विश्वाश्वगजावनीप्राप्तिः कृता । रिपुपक्षे-- विश्वा विगतः श्व इत्याकारकवर्णः यस्यास्सा । अश्वगजावनीप्राप्तिः श्ववर्णापाये अगजावनीप्राप्तिरिति निष्पद्यते । शैलप्रदेशगतभूम्यवाप्तिः तेषां सर्वस्वभ्रंशनाद्वनान्तरप्रापणं कृतमिति भावः । सुहृत्पक्षे-– विश्वं समस्तं यत् अश्वगजं तस्य अवनी पालयित्री प्राप्तिः अभ्युदयः ऐश्वर्यमित्यर्थः । ‘उदयेऽधिगमे प्राप्तिः' इत्यमरः । कृता । यद्वा विश्वाश्वगजं च अवनी च तासां प्राप्तिः लाभ इति । अत्रोत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनं श्लेषोत्तम्भिततुल्ययोगिताविशेषपरिष्कृतमिति पूर्वापेक्षया विशेषः ।

 ननु विश्वाश्वगजावनीशब्देन शैलप्रदेशगतभूम्यवाप्तिरूपार्थस्य कथं प्रतीतिः ? वाचकशब्दप्रयोगमन्तराऽर्थप्रतीतेरयोगात् । विश्वाश्वगजावनीशब्दस्य तदर्थवाचकशब्दस्वाभावादिति चेत्सत्यम् । विगतश्ववर्णस्याश्वगजावनीशब्दस्येत्यर्थान्तरस्य श्लेषमाहिम्ना उपस्थितौ तादृशशब्दस्यैवात्र विवक्षितत्वात् । तादृशशब्दस्य प्रकृतोपयोगित्वं न स्वतः । 'किंतूक्तार्थेनाभेदाध्यवसायसहकारात् । अभेदाध्यवसायनिमित्तं च योऽर्थस्स शब्दः इति तादात्म्यव्यवहारः । तादात्म्यं च मञ्जूषादौ व्यक्तमित्युत्प्रेक्षालंकारप्रकरणे ‘विद्युन्मुखे विकारम्' इत्यत्र स्फुटं न्यरूपयाम । यद्वा श्लेषमहिम्ना अगजावनीशब्दस्योपस्थितौ तदर्थस्याप्युपस्थितिरित्यालंकारिकसमयः । अतो नार्थप्रतीत्यनुपपत्तिरिति ॥

 पदवाक्यरत्नाकरे तु एकशब्दोपात्तयोर्वाच्यार्थयोरिव शब्दरूपव्यङ्ग्यार्थस्यार्थरूपवाच्यार्थस्य चाभेदाध्यवसाय इत्युक्तम् । अयं हि तद्ग्रन्थः "आलंकारिकास्तु व्यञ्जनया वृत्त्या उपस्थितानां पदानामन्वयबुद्धौ क्वचित्तादात्म्येन क्वचिद्वाच्यवाचकभावेन पदार्थानुप्रवेशः । तथाहि--

"दया तितिक्षां सत्यं च युक्तं व्यक्तं ननु त्वया ।
अपवर्गव्यञ्जनानि कथं स्युर्मिमभूमिप ॥

 इत्यत्र भीमाभिधाने राजनि प्रकृते भीमभूमिपपदस्य व्यञ्जनालभ्यस्य तादात्म्यमारोप्य तस्मिन्नपवर्गव्यञ्जनानामासन्नसिद्धिसूचकानां दयातितिक्षादीनां प्रस्तुतानां ध्वनिप्रतीतपवर्गेतरस्वरान्यवर्णाभेदेनासंभवः कथं स्युरित्यनेन प्रतिपाद्यते" इत्यादि । अधिकं तु तत्रैवानुसंधेयम् । एवंच तादात्म्यं शाब्दिकानामिवालंकारिकाणामप्यभिमतमित्यत्र न कोऽपि संदेहः । अनया दिशा 'मूकीभावो विशिष्यते’ इत्याद्युदाहरणेष्वपि निर्वाहो द्रष्टव्यः ॥

 यथावा--

 स्याज्जातु नापयातो भवदाधारो हरे पयोनिधिराट् । अपराजिततां प्राप्तो निरहिततां चापि योधिराड्भवति ॥ १५५० ॥

 हे हरे ! भवदाधारः भवान् आधारः आश्रयः यस्य स तथाभूतः, तत्त्वं तु भवतः अधारः अधिकरणमिति । भवतस्समुद्रशायित्वादिति भावः । पयोनिधिराट् जलधिराजः जात्वपि अपयातः रणे अपयानं प्राप्तः पराभूतः न स्यात् । भवदाश्रितस्यापयानं न भवेदिति भावः । वस्तुतस्तु न आपयात इति

छेदः । अपां समूहः आपं आपं यातं गतं यस्मात्स तथोक्तः विगतसलिलनिवह इत्यर्थः । न स्यात् सदाऽपि सलिलपूर्णत्त्वादिति भावः । पक्षे न अपयातः पेन पकारेण यातः पयातः न पयातः अपयातः न स्यात् । पयोनिधिराट्छब्दस्य पकारघटितत्वादित्यर्थः । शब्दार्थयोस्तादात्म्यम् । यः पयोनिधिराट् अपराजिततां अपराभूततां, निर्गताः अहिताः यस्य सः निरहितः तस्य भावः निरहितता । तां निस्सपत्नतां च प्राप्तस्सन् अधिराट् राजाधिराजो भवति । स कथमिव अपयातः स्यादिति योजना । पक्षे पयोनिधिराट्छब्दः अपराजिततां पवर्णभासुरत्वाभावं निरहिततां निवर्णराहित्यं च प्राप्तः योधिराट् भवति योधिराडिति निष्पद्यत इत्यर्थः । अत्राप्युत्तरार्धवाक्यार्थेन पूर्वार्धवाक्यार्थस्य समर्थनम् । वक्ष्यमाणपदार्थहेतुकस्यापीदमुदाहरणं भविष्यति ॥

 यथावा--

 इन्द्राधिकस्त्वदीयस्तन्द्राधिक एव भवति परकीयः । कथमनयोरैक्यं स्यादभिदधति तयोरितस्ततो भेदम् ॥ १५५१ ॥

 इन्द्राधिकः इन्द्रादप्यतिशयितश्रीः । तन्द्राधिकः अधिकतन्द्रः अलस इत्यर्थः । तयोः त्वदीयपरकीययोः इतस्ततः तत्रतत्र भेदं, पक्षे तयोः इन्द्रधिकतन्द्राधिकशब्दयोः इतः इकारेण ततः तकारेण च भेदं वैलक्षण्यं अभिदधति । जना इति शेषः । तयोस्तावानेव भेदो नान्य इति भावः । अत्र अभिदधतीत्यादिवाक्यार्थेन उत्तरेण पूर्ववाक्यार्थसमर्थनम् । भगवदीयान्यदी

ययोस्साम्यं गदितारं प्रत्युक्तिरूपतामभिप्रेत्येति ध्येयम् । अन्यथा तु पदार्थेन वाक्यार्थस्य समर्थनम् ॥

 यथावा--

 सङ्गस्य सतां महिमा निरवधिकोऽब्जाक्षसेविनां येन । द्युसदग्रणीर्ययातिर्द्युच्युतिमानपि सदग्रणीरासीत् ॥ १५५२ ॥

 अब्जाक्षसेविनां सतां सङ्गस्य महिमा निरवधिकः । येन सत्सङ्गमहिम्ना द्युसदां दिवौकसां अग्रणीः ययातिः द्युच्युतिमानपि त्रिदिवात्केनचिन्निमित्तेन भ्रष्टोऽपि सदग्रणीः सन्तः स्वदौहित्राः प्रतर्दनशिबिप्रभृतयः अग्रं नयन्तीयग्रण्यः उत्तारकाः यस्य स तथोक्त एवासीत् । त्रिदिवाद्भ्रेश्यन् यायातिस्सद्भिस्स्वदौहित्रैस्तारित इत्यैतिहासीकी कथा ॥

यथा यायातिस्सन्मध्ये पतितः पुनराप्तवान् ।
स्वःपदं तत्तथा सत्सु पतितो न विमुह्यति ॥

 इत्यादिप्रमाणान्यत्रानुसंहितानिः । पक्षे द्युसदग्रणीरितिशब्दः द्यु इति वर्णसमुदयच्युतौ सदग्रणीरिति निष्पन्न इत्यर्थान्तरमप्यत्र चमत्कारि । अत्राप्युत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनम् ॥

 यथावा--

 त्वच्चरणमेव शरणं त्वत्तोऽपि वरिष्ठमिति वृणे शरणम् । सुगतिं ददाति यदिदं जगतां सुगतिप्रदस्य भवतोऽपि ॥ १५५३ ॥

 हे भगवन्! त्वच्चरणमेव त्वत्तोऽपि वरिष्ठं शरणं रक्षकं इति मत्वा शरणं वृणे उपायतया वृणोमि ।

उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् ।
वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥

 इत्यहिर्वुध्न्यसंहितोक्तेः । यदिदं त्वचरणं जगतां सुगतिं शोभनमुपाबं गम्यं स्थानं उत्तमदशां वा प्रददातीति तथोक्तः । तथाविधस्य भवतोऽपि सुगतिं ददाति, उक्त एवार्थः । रमणीयं गमनमिति तु वस्तुस्थितिः । ‘गतिः स्त्री मार्गदशयोर्ज्ञाने यात्राभ्युपाययोः' इति मेदिनी । अत्राप्युत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य समर्थनम् ॥

 यथावा--

 मा गास्तामससमतां माधवसक्तं कदाऽपि मानस भोः । सा न निवर्तेत ततस्सहस्रकृत्वोऽप्यधश्शिरःपतने ॥ १५५४ ॥

 भो मानस! त्वं माधवविमुखं सत् कदाऽपि तामससमतां तामसप्रकृतिभिस्तुल्यतां मा गाः । वैपरीत्ये अनिष्टमापद्येतेत्याह-- सेत्यादिना । ततः तामससमताप्त्यनन्तरं सा तामससमता सहस्रकृत्वः अधश्शिरःपतनेऽपि न निवर्तेत इति लोकोक्तिः । अतो मा तामसं भूरिति भावः । पक्षे सा तामससमतेति शब्दव्यक्तिः । अर्थगतं स्त्रीत्वं शब्दे आरोप्यत इत्यसकृदवोचाम । सहस्रकृत्वः अधश्शिरःपतनेऽपि वैपरीत्यप्राप्तावपीति यावत् । न निवर्तेत निवृत्तिप्रयुक्तवैलक्षण्यं नाप्नुयादिति यावत् । पूर्वानुपूर्वीविशिष्टैव भवतीति भावः । अत्राप्युत्तरार्धवाक्यार्थेन पूर्वा

र्धवाक्यार्थसमर्थनम् । अत्र तामससमतावाप्तिप्रतिषेधस्य माधवसङ्गरूपपदार्थेन समर्थनं वा ॥

 यथावा--

 कुरु दीर्घाकारां श्रीः कृपां विहितसंप्रसाराणां सदये । न तव ख्यायेत कृपा सुतरामयि संप्रसारणाकरणे ॥ १५५५ ॥

 हे सदये श्रीः! दीर्घः आकारः स्वरूपं यस्यास्तां तथोक्तां कृपां करुणां विहितं कृतं संप्रसाराणं सुदूरव्वापनं यया तां तथोक्तां कुरु । मय्यविच्छिन्नां कृपां प्रसारयेत्यर्थः । मयि त्वत्कृपावलम्बैकार्थिनीति भावः । संप्रसरणाकरणे तव सुतरा शोभनतरा कृपा न प्रख्यायेत न प्रथेत । त्वत्कृपैकशरणे दीने मयि त्वं कृपां न प्रसारयसि चेत्तव कृपायाः ख्यातिरेव नोन्मिषेदिति भावः ॥

 पक्षे दीर्घः अकारः अवर्णोऽन्ते यस्यास्तां आकारान्तामित्यर्थः । कृपां कृपेति शब्दव्यक्तिं विहितं वक्ष्यमाणसूत्रेणानुशिष्टं संप्रसारणं रेफरूपयण्स्थानिकसंप्रसारणसंज्ञकऋवर्णं यस्यास्तां तथोक्तां कुरु । सुतरां अयि इति छेदः । अयि श्रीरिति योजना । संप्रसारणाकरणे ‘क्रपेस्संप्रसारणं च’ इति बिदाद्यङ्संनियोगशिष्टसंप्रसारणस्य अकरणे कृपा कृपेति शब्दव्यक्तिरेव तव सुतरां न ख्यायेत । न सिध्येदिति यावत् । अत्र पूर्वार्धवाक्यार्थस्य

कृपासंप्रसारणावश्यकतारूपस्य तदकरणे तदख्यात्यापादनरूपो

त्तरार्धवाक्यार्थेन समर्थनम् । अत्रापि पूर्ववदेव सदयत्वरूपपदार्थो वा हेतुः ॥

 यथावा--

 त्वच्चरणशरणवरणादकुतोभयतामलप्स्महीदानीम् । कीनाशमनादरणात्कीशमिवेक्षामहे महेश वयम् ॥ १५५६ ॥

 हे महेश! भगवन्!

यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परस्स मेहश्वरः ॥

 इति श्रुतेः । अतएव ‘महेश हातुं तव पादपङ्कजम्' इति यमुनाचार्याश्चाहुः । अलप्स्ममहि अलभामहि । इदानीं ईदृशलाभानन्तरमित्यर्थः । कीनाशं कृतान्तं क्षुद्रमित्यपि गम्यते । ‘कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु' इत्यमरः । अनादरणात् निर्लक्ष्यमित्यर्थः । कीशमिव कपिमिवेक्षामहे अकिंचित्करं मम्यामहे

इति भावः । 'मर्कटो वानरः कीशः' इत्यमरः । पक्षे कीनाशशब्दं नः नाकारस्य आदरणं नादरणं ततो नञ्समासः अनादरणं तस्मात् नाकारत्यागादिति यावत् । कीशं कीशशब्दं ईक्षामहे । कीनाशशब्दं नाकारोत्सारणेन कीशशब्दं विद्म इत्यर्थः । इवशब्दो वाक्यालङ्कारे । स्पष्टमन्यत् । अत्र भगवच्चरणशरणवरणनिबन्धनाकुतोभयत्वप्राप्तिरूपपूर्ववाक्यार्थेन इदानीमित्यादेः कीनाशकीशतादर्शनरूपोत्तरवाक्यार्थस्य समर्थनम् । अयमेव पूर्वोदाहरणेभ्यो विशेषः । पूर्वत्र उत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनं हि कृतम् ॥

 यथावा--

 अग्रीयं शमवन्तं शरणं विन्दामहे शरण्य त्वाम् । पुर एवाशमयुक्तं पुनश्शरण्यान्तरं भजेम कुतः ॥ १५५७ ॥

 शरणे साधुः शरण्यः । तस्य संबुद्धिः हे शरण्य! भगवन् अग्रीयं परार्थ्यं निरतिशयमित्यर्थः । शं सुखं अवन्तं प्राप्नुव तं अवतेरवाप्त्यर्थकत्वेनानुशिष्टाच्छता । ‘कं ब्रह्म खं ब्रह्म’ इति निरतिशयविपुलसुखरूपत्वश्रवणात् ‘सुखविशिष्टाभिधानादेव च' इति सूत्रितत्वादिति भावः । त्वां, यद्वा अग्रीयं उक्तोऽर्थः शमवन्तं शान्तं अशनायाद्यूर्मिषट्कप्रतिभटमित्यर्थः । ‘यत्तच्छान्तमजरम्' इति श्रुतेः । इह अस्मिन् जन्मनि शरणं उपायं रक्षितारं च विन्दामहे । पुनः इतःपरमपीति यावत् । पुर एव आदावेव अशं सुखविहीनं अत एव अयुक्तं आश्रयणानर्हं च । यद्वा अशमयुक्तं अशान्तमित्यर्थः । शरण्यान्तरं अन्यं शरण्यं

तु कुतो भजेम । न भजेमैवेत्यर्थः । पक्षे हे शरण्य! रक्षणसाधो अग्रीयं आद्यं शं शकारं अवन्तं प्राप्नुवन्तं त्वां भवन्तं शरणं गृहं लब्ध्वा पुर एव आदावेव अशं शकाररहितं अयुक्तं शकारस्थाने अकारयुक्तं शरण्यान्तरं अरण्यान्तरमित्यर्थः । अन्तरं मध्यं कुतो भजेम । रक्षणसाधु गृहं लब्ध्वा असुखमयुक्तं अरण्यान्तरं कुतो भजेमेत्यर्थश्च चमत्कारी । अत्र शरण्यत्वादिगुणशालिभगवच्चरणलाभरूपपूर्ववाक्यार्थेन अतादृशशरण्यान्तरभजनौदास्यरूपोत्तरवाक्यार्थसमर्थनं श्लेषमूलकव्यतिरेकगर्भमुपपादितचमत्कारान्तरपोषितं चेत्यवधेयम् ॥

 यथावा--

 जगतां जननि भवत्या क्रमादनालोकितौ यदि भवेताम् । नाकेशो वा सत्यं लोकेशो वाऽपि केशभूतौ स्तः ॥ १५५८ ॥

 हे जगतां जननि! नाकेशः इन्द्रो वा लोकेशः ब्रह्मा वा । ‘हिरण्यगर्भो लोकेशः' इत्यमरः । क्रमात् यथापूर्वमनुग्रहात् अनालोकितौ अकटाक्षितौ भवेतां यदि तदा केशभूतौ केशप्रायौ स्तः अतिवेलनिस्सारौ भवत इति भावः । पक्षे नाकेशशब्दो लोकेशशब्दश्च क्रमात् अनालोकितौ अविद्यमानौ ना लो वर्णौ ययोस्तौ अनालोकौ ‘शेषाद्विभाषा’ इति कप् । अनालोकौ कृतौ अनालोकितौ भवेतां यदि क्रमेण नाकेशशब्दो नावर्णेन लोकेशशब्दो लवर्णेन च विरहितौ चेदित्यर्थः । केशभूतौ केशशब्दतया निष्पन्नावित्यर्थः । अत्र विवक्षिते लक्ष्मीकटाक्षलक्षितत्वाभावप्रतिषेधे उत्तरवाक्यार्थस्य हेतुत्वम् ॥

 यथावा--

 यो भाति वासुदेवः प्रथते यश्चापि वामदेव इति । श्रौतस्सुमतो भेदोऽस्त्यनयोरभिदां वदन्न किं मूर्खः ॥ १५५९ ॥

 अनयोः वासुदेववामदेवयोः भेदः श्रौतः सुमतः ‘नारायणाद्रुद्रो जायते’ इत्यादिश्रुतिप्रसिद्धतया सर्वसम्मत इत्यर्थः । अनयोरित्येतन्मध्यमणिन्यायेनोभयतोऽन्वेति । अनयोः एवं भिन्नत्वेन श्रुतिप्रसिद्धयोः अभिदां अभेदं वदन् जनः मूर्खो न किं मूर्ख

एवेत्यर्थः । किंच वासुदेववामदेवशब्दयोः सुमतः सुकारमकाराभ्यां सार्वविभक्तिकस्तसिः । भेदः श्रौतः कण्ठरवेणोक्तः । अनयोः एवं विधयोः शब्दयोः अभेदं वदन् मूर्ख एवेत्यर्थान्तरमपि चमत्कारातिशयमाधत्ते । अत्र यो भातीत्यादिपूर्ववाक्यार्थेन अनयोरभिदामित्याद्युत्तरवाक्यार्थस्समर्थ्यते ॥

 यथावा--

 वशिनं नारायणमिह वदन्ति सन्ततमनन्तनिगमान्ताः । यदि नशिवं तं ब्रूयाद्यः कश्चित्स प्रतीपदृङ्नूनम् ॥ १५६० ॥

 अनन्ताः निगमान्ताः ‘सर्वस्य वशी । एको वशी ’ इत्यादयः उपनिषदः संततं नारायणं ‘एक ह वै नारायण असीत् । अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेय' इत्यादिश्रुतिभिस्सर्वजगत्कारणत्वेन जोघुष्यमाणमिति भावः । वशिनं वशः प्रभुत्वं आयत्तत्वं वा । सोऽस्यास्तीति वशी । तं तथोक्तं वदन्ति ‘वशो जनिस्पृहायत्नेष्वायत्तत्वप्रभुत्वयोः' इति विश्वः । ‘जगद्वशे वर्ततेदम्’ इत्यादिकमपीह स्मर्तव्यम् । तं एवं वशिनं सर्वेश्वरं यःकश्चित् नशिवं नशब्देन समासः । अकल्याणगुणं ब्रूयाद्यदि स एव वक्ता प्रतीपदृक् नूनं विरुद्धार्थद्रष्टैव । सर्वेश्वरत्वौपयिककल्याणगुणगणपरिपूर्णमप्यशिवं ब्रूयाच्चेत् तस्य श्रुतिप्रतिकूलार्थदृक्त्वे कस्संदेह इति भावः । यद्वा सर्वं जगद्यदायत्तमिति ब्रवीतिश्रुतिः तस्य सर्वनियन्तुः ‘नारायणाद्रुद्रो जायते' इति शिवस्यापि कारणतया तथैव श्रुत्या प्रतिपादितस्य ‘शिवश्च नारायणः’ इति कण्ठरवेणोक्तं कार्यकारणत्वनिबन्धनं नियाम्यनि

यामकभावनिबन्धनं शरीरात्मभावनिबन्धनं वा सामानाधिकरण्यमविदित्वा तं नशिवं ब्रूयाद्यदि तस्य प्रतीपदर्शित्वे को विशय इति भावः । पक्षे वशिनमित्यानुपूर्वीमत्पदं नशिवमिति वदेच्चेत् सः प्रतिलोमदृष्टिरेव । उक्तानुपूर्व्याः प्रातिलोम्येन तथा निष्पत्तेरिति भावः । अत्रापि वशिनमित्यादिपूर्ववाक्यार्थेन स प्रतीपदृगित्युत्तरवाक्यार्थस्य समर्थनस् । पूर्वस्मिन्नुदाहरणे भगवतो रुद्रस्य च निष्कृष्टरूपनिबन्धनो भेद उक्तः । इह तु शरीरवाचकशब्दानां शरीरिपर्यन्तत्वनिबन्धनं कार्यकरणभावादिनिबन्धनं वा सामानाधिकरण्यमवलम्ब्याभेद इति बोध्यम् ॥

 यथावा--

 पद्मेऽत्यरुणरुचा तव चरणेन स्पर्धते तरणिरेनम् । भास्वरतरमप्याहुर्विसर्जनीयाग्रगण्यन्तम् ॥

 हे पद्मे! अरुणं भानुमतिक्रान्ता अत्यरुणा रुक् भाः यस्य तेन अतिमात्रारुणभासा वा तव चरणेन तरणिः भानुः स्पर्धते । अत एव तमेनं तरणिं भास्वरतरमपि अतिद्युतिशालिनमपि विसर्जनीयानां बहिष्कार्याणां अग्रगण्यं आहुः । सन्त इति शेषः । त्वच्चरणस्पर्धिनोऽप्यन्यः को नाम बहिष्कार्य इति भावः । वस्तुतस्तु एनं तरणिरिति शब्दं भास्वरौ तरौ तकाररेफौ यस्मिंस्तं विसर्जनीयः विसर्गः अग्रगः चरमभागविद्यमानः यस्य सः तादृशो णिः णिवर्णः अन्ते यस्य तं विसर्जनीयाग्रगण्यन्तमाहुः तरणिशब्दस्य तथाविधत्वादिति भावः । शब्दार्थयोन्तादात्म्यम् । अत्रापि पूर्वार्धवाक्यार्थेनोत्तरार्धवाक्यार्थसमर्थनम् । अप्रस्तुतप्रशंसासंकीर्णम् ॥

 यथावा--

 आदौ सश्रीकमथ त्वत्पदवसुहारिविप्रतीपमलम् । कमलं कलमत्वमयच्छ्रितान्यलिङ्गं वनान्तरेऽवात्सीत् ॥ १५६२ ॥

 हे पद्मे! इति पूर्वपद्यादनुषज्यते । कमलं आदौ सश्रीकं सशोभं सवैभवं वा सत् अथ अनन्तरं त्वत्पदवसुहारि त्वच्चरणश्रीहरं त्वद्भवनरुचिहरं च सत् अत एव विप्रतीपः अप्रतिद्वंद्वः मलः पापं मालिन्यं च यस्य तत्तथोक्तम् । जगज्जननीपदसंपदपहारादन्यत्किमतिशयितं दुरितं स्यादिति भावः । विगतः प्रतीपः प्रतिकूलः यस्य तदिति विग्रहः। कलमत्वं चोरत्वं व्रीहिसस्यत्वं च अगात् प्राप्नोत् । ततः अनन्तरं श्रितं अन्यलिङ्गं चिह्नान्तरं येन तत्तथोक्तं वेषान्तरप्रतिच्छन्नपूर्वरूपमिति यावत् । वने क्वापि विपिने जले चावात्सीत् वसति स्म । पक्षे कमलमिति पदं आदौ सश्रीः कः यस्य तथोक्तं प्रकाशमानकवर्णमित्यर्थः । अथ विप्रतीपौ मलौ मकारलकारौ यस्य तत्तथोक्तं व्यत्यासितमकारलकारमित्यर्थः । अत एव कलमत्वं कलमशब्दत्वं अगात् । श्रितं अन्यलिङ्गं लिङ्गान्तरं येन तत्तथोक्तम् । कमलशब्दत्वावस्थायां स्थितं क्लीबत्वं त्यक्त्वा पुल्लिङ्गतां प्राप्तमित्यर्थः । 'कलमो लेखनीचोरशालिकाक्षुरकेषु च' इति । कलमः पुंसि मेदिन्यां शालौ पाटच्चरेऽपि च' इति विश्वमेदिनीकोशाभ्यां कलमशब्दस्य पुल्लिङ्गतानुशासनादीति भावः । अत्रापि पूर्वोदाहरणवदेव सर्वं

द्रष्टव्यम् ।

 यथावा--

 कलयसि कमलविलोचन काञ्चन सुतरांहतिं हिताहितयोः । सर्वसमस्त्वं न कथं दर्वीकरशेखराद्रिनाथ भवेः ॥ १५६३ ॥

 हिताहितयोः काञ्चनसुतरांहतिं कलयसि । त्वं सर्वसमः कथमिव न भवेः । हितस्य जनस्य सुतरा शोभनतरा अंहतिः विश्राणनं काञ्चनस्य सुवर्णोपलक्षितविभवस्य सुतरांहतिः, तां 'अपसर्जनमंहतिः' इति विश्राणनपर्यायेष्वमरः । हन्ति दुरितमनया अंहतिः ‘हन्तेरंहश्च' इत्यौणदिके अतिप्रत्यये हन्तेरंहादेशः । अहितस्य तु काञ्चन अनिर्वचनीयां सुतरां अतिमात्रहतिं हिंसाम् । हन्तेः क्तिन् । ‘अंहतिस्त्यागरोगयोः' इति हेमचन्द्रकोशपर्यालोचनायां तु यद्यपि अहितपक्षेऽप्यंहतिशब्दमेवादाय अंहतिं रोगमिति व्याख्यानेऽपि विवक्षितसिद्धिर्भवत्येव । तथाऽपि पदभङ्गकृतविच्छित्तिविशेषसद्भावात्प्रागुक्तएवार्थश्श्रेयान् । यद्वा पुंवाक्येषु नानार्थकत्वस्य दोषाभावादर्थद्वयमप्यस्तु । शिष्टं स्पष्टम् । अत्र पूर्वार्धवाक्यार्थेन सर्वसमत्वमित्याद्युत्तरवाक्यार्थस्य समर्थनम् । इदं हित हितावृत्तितौल्यलक्षणतुल्ययोगितया श्लेषप्रतिभोन्मीलितया दत्तहस्तमिति ध्येयम् ॥

 यथावा--

 एका कुवलयबन्धुर्जगतां बन्धुः परा तु दृग्यस्य । अस्मादपि को बन्धुर्नमतां संभाव्यतां दयासिन्धुः ॥ १५६४ ॥

 अत्र पूर्वार्धवाक्यार्थेन जगद्बन्धुभूतलोचनद्वितयवत्त्वरूपेणोत्तरार्धगतस्य भगवतश्शरणागतबन्धुतानिर्णयरूपवाक्यार्थस्य कैमुत्येन समर्थनमिति विच्छित्तिविशेषः ॥

 यथावा--

 त्वदपाङ्गान्वयभाजस्तदभाजश्चापि भवति परभेदः । आद्यो विष्टपभृत्स्यादन्त्यः फणिशैलनाथ विष्टरभृत् ॥ १५६५ ॥

 परभेदः उत्कृष्टो भेदः महान् भेद इत्यर्थः । पकाररेफाभ्यां भेद इत्यर्थोऽप्युपस्कार्यः । आद्यः त्वदपाङ्गान्वयभाक् विष्टपभृत् भुवनभर्ता लोकपाल इत्यर्थः । अन्त्यः तदभाक् विष्टरभृत् परेषां पीठाद्यासनभृत् किंकर इति यावत् । दर्भमुष्टिधारी इतरयाजनादिकर्तेति यावदिति वा । ‘विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्' इत्यमरः । लोकपालान्यकिंकरयोर्महान् भेद इति भावः। विष्टपभृद्विष्टरभृच्छब्दयोः पकाररेफाभ्यामेव भेदः । अन्यवर्णानुपूर्व्या उभयत्र तुल्यत्वादिति परभेद इत्युक्तम् । अत्र पूर्वार्धप्रतिपादितपरभेदभवनरूपवाक्यार्थस्यैकस्योत्तरार्धवाक्यार्थाभ्यद्वाभ्यां समर्थनं व्यतिरेकगर्भमिति पूर्वेभ्यो वैलक्षण्यम् ॥

 यथावा--

 दूरेऽपसर तमस्त्वं चक्रधरो मम चकास्ति हृदि नित्यम् । यदि चेष्टसेऽल्पमपि वा तवावशिष्येत नोत्तमाङ्गमपि ॥ १५६६ ॥

 हे तम इति तमोगुणाभेदेनाध्यवसितस्य राहोस्संबुद्धिः । अत्र तमसो दूरापसर्पणं अनपसर्पणेन यत्किंञ्चिदपि चेष्टसे पूर्ववहुत्त

माङ्गावशेषणमपि दुर्लभमित्येतौ पूर्वोत्तरवाक्यार्थौ । चक्रधरो मे चकास्ति हृदीति स्वहृदयाधिकरणकराहुशिरश्छेत्त्तृसुदर्शनायुधधरभगवत्प्रकाशरूपवाक्यार्थेन मध्यमणिकल्पेन समर्थितावित्येकेन वाक्यार्थेन वाक्यार्थेद्वयसमर्थनं पूर्वेभ्यो विच्छित्तिशालि ॥

 मालारूपमपीदं दृश्यते । यथा--

 त्वां य उदास्ते माधव मदवृत्तिस्स मनुजोऽपि दनुजस्स्यात् । नित्यमुपास्ते यस्त्वां दमवृत्तिस्स दनुजोऽपि मनुजस्स्यात् ॥ १५६७ ॥

 हे माधव! मदवृत्तिः मदे गर्वे वृत्तिर्यस्य स तथोक्तः । स मनुजोऽपि मानवोऽपि मत्ततया उदासितृत्वाद्दनुज एव स्यात् आसुरस्वभाव एव भवेत् । पक्षे मनुजशब्दः मकारस्थाने दकारन्यासे दनुज इति निष्पद्येतेत्यर्थः । यस्तु त्वां नित्यं दमे दान्तत्वे वृत्तिर्यस्य स तथोक्तः । दकारस्थाने मकारन्यासे इत्यर्थः । स दनुजोऽपि मनुजः दमशीलत्वान्मनुजतुल्य एव भवेत् । पक्षे दनुजशब्दो मनुज इति निष्पद्येतेत्यर्थः । अत्र विवक्षितयोरुदासनप्रतिषेधोपासनावश्यकतयोः पूर्ववाक्यार्थयोरुत्तरवाक्यार्थाभ्यां समर्थनमिति मलारूपत्वम् । एवमुत्तरत्रापि यथायथं द्रष्टव्यम् ॥

 यथावा--

 आलोकितात्स्वया ये भवन्ति ते लोकपालभृत एव । ते पुनरलोकिता यदि जननि भवेयुः कपालभृत एव ॥ १५६८ ॥

 अलोकिताः अदृष्टाः, अविद्यमानः लोवर्णो येषां ते अलोकाः 'शेषाद्विभाषा’ इति कप् । अलोकाः कृताः अलोकिताः । अत्रापि पूर्ववदेव मालारूपत्वम् ॥

 यथावा--

 शममभिवर्धय सततं मम शङ्कामत्र यदि तनोषि त्वम् । कामो भविता वृद्धः क्षेमो मे स्यात्ततः कथं शौरे ॥ १५६९ ॥

 हे शौरे! सततं मम शमं शान्तिं अभिवर्धय । अत्र शान्त्यभिवर्धनविषये त्वं शङ्कां विशयं तनोषि यदि कामः विषयाभिलाषः वृद्धः अभिवृद्धो भवेत् । ततः अनन्तरं मे क्षेमः संसारोत्तारादिकुशलं ‘कुशलं क्षेममस्त्रियाम्' इत्यमरः । कथं स्यात् विषयलोलुपतायां न कथंचिदपि श्रेयस्सुलभमिति भावः । अत्र शंकां इति पदद्वयं ‘वा पदान्तस्य’ इति शमो मकारस्थानिकानुस्वारस्य वैकल्पिकः परसवर्णः । शं शमशब्दे शकारं कां काकारं तनोषि चेत् शमशब्दः कामशब्दो भवन् वृद्धस्स्यात् । आद्यचो वृद्धसंज्ञकत्वाद्वृद्धसंज्ञको भवति । ‘वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इति वृद्धसंज्ञाविधानात् ततः शकारस्थाने काकारन्यासानन्तरं क्षेमः कथं स्यात् काकारन्यासे काम इत्येव शब्दस्स्यान्न तु क्षेम इतीत्यर्थान्तरमप्यनुसंधेयम् । अत्र शमाभिवर्धनौदास्यरूपवाक्यार्थेन कामाभिवृद्धिभवनरूपवाक्यार्थस्य तेन च क्षेमभवनसंदेहरूपवाक्यार्थस्य च पूर्वपूर्वेणोत्तरोत्तरोत्तरस्य समर्थनमिति मालारूपत्वम् ॥

 यथावा--

 मम चेतना विचेयाकाराऽच्युत यातनामयी भवभयतः । याचेकृतावभीतेः क्व यातना तर्हि चेतनैव स्यात्सा ॥ १५७० ॥

 हे अच्युत! मम चेतना बुद्धिः भवभयतः संसृतिभीतेः यातनामयी प्रचुरतीव्रवेदना सती । प्राचुर्यार्थे मयट् । विचेयाकारा विचेयः गवेषणीयः आकारः आकृतिः यस्यास्सा तथोक्ता भवति । संसारोद्वेगजनितवेदनाप्रचुरतया विनष्टप्राया भवतीत्यर्थः । अतः अभीतेः अभयस्य कृतौ करणे विषये याचे । अभयप्रदाने त्वां प्रार्थये इत्यर्थः । ततः किं तव सेत्स्यतीत्यत्राह-- क्वेति । तर्हि तदा त्वदभयदानानन्तरमित्यर्थः । यातना पूर्वोक्तवेदना क्व स्यात् न स्यादेव, किंतु सा चेतनैव पूर्वोक्ता बुद्धिरेव स्यात् सत्तां लभेतेत्यर्थः । त्वदभयवितरणानन्तरं मम बुद्धिरस्तीति व्यवहार्या भवेदिति भावः । पक्षे चेतना चेतनेति शब्दव्यक्तिः विचेयाकारा विभ्रंशितः चेः चे इत्याकारकवर्णः येन स तथोक्तः

विचेः याकारः यावर्णः यस्यास्सा तथोक्ता विभ्रंशितचेकारातत्स्थानप्रापितयावर्णा सती यातनामयी 'तत्प्रकृतवचने मयट्' इत्यत्र तदिति योगविभागात्स्वार्थिको मयट् । यातनेति रूपं प्राप्ता भवतीत्यर्थः । अभीतेः विद्यमानवर्णभ्रंशनतत्स्थानवर्णान्तरन्यसनाभ्यां शब्दरूपं विपरीतं स्यादिति भयराहित्यादिति भावः । याचेकृताविति समस्तं पदम् । यावर्णस्थाने चेवर्णकरणे यातना क्व । उक्तरीत्या याकारस्थाने चेकारन्यासेन यातनेति शब्दरूपं क्व स्यात् । तत्स्वरूपस्यैव गतत्वादिति भावः ।

प्रत्युत सा पूर्वोक्ता चेतनैव चेतनेति शब्दव्यक्तिरेव स्यात् । यातनात्वं प्राप्ता चेतनेति शब्दव्यक्तिश्चेतनेत्येव सत्तां प्रपद्येत । आगन्तुकयाकारस्थाने पुनश्चेकारन्यासादिति भावः । अत्र भवभययातनामूलकबुद्धिभ्रंशरूपवाक्यार्थेन भगवदभययाचनरूपवाक्यार्थस्य तेन च यातनानिवृत्तिरूपवाक्यार्थस्य तेन च चेतनास्वास्थ्यरूपवाक्यार्थस्य समर्थनमिति ध्येयम् ॥

 यथावा--

 भवदव वल्गसि कियदिव दूरं स्फारं हरेः कृपापूरम् । मयि सृत्वरमतिसत्वरमभिपश्य तदा विनश्यति मदस्ते ॥ १५७१ ॥

 अत्र कृपापूरदर्शनेन वाक्यार्थेन मदविनाशवाक्यार्थः तेन भवदववल्गनोपसंहाररूपवाक्यार्थस्समर्थितः । अत्र मध्यगतपूर्ववाक्यार्थहेतुकोत्तरवाक्यार्थेन तत्पूर्ववाक्यार्थसमर्थनम् । पूर्वोदाहरणेभ्यो विशिष्टमिदं मालारूपं रूपकसंकीर्णं चेति ।

 पदार्थहेतुककाव्यलिङ्गं यथा--

 अन्योन्यजयप्रेप्साशुङ्गाशृङ्गिप्रसङ्गिणोरुभयोः । तुन्नः पन्नगगिरिणा कनकगिरिर्मेरुरित्यूचे ॥ १५७२ ॥

 कनकगिरिः पन्नगगिरिणा तुन्नस्सन् शृङ्गेण विद्धस्सन्नित्यर्थः । कर्मणि निष्ठानत्वं च । अत एव मे मम अरुः व्रणमजनीति ऊचे उक्तवान् । ब्रूञः कर्तरि लिट् 'ब्रुवो वचिः' इति वच्यादेशः । पक्षे मेरुः सुमेरुरिति ऊचे उच्यते स्म जनैरिति शेषः । कर्मणि लिट् । अत्र मेरुरित्यूचे इति वाक्यार्थस्तुन्न इति पदा

र्थेन समर्थितः श्लेषभित्तिकाभेदाध्यवसायानुप्राणितवक्ष्यमाणनिरुक्त्युत्तंभितः ॥

 यथावा--

 राजासनहृदयङ्गमवृत्तिरपि त्वयि निरासहृदय इह । जायेत जगदधीश्वर जानङ्गमवृत्तिरेव जन्तुरहो ॥ १५७३ ॥

 राजासनेन राजार्हसिंहासनेन राजासने वा हृदयङ्गमा हृद्या वृत्तिः स्थितिः यस्य स तथाभूतोऽपि त्वयि विषये निरासे औदास्ये तिरस्कारे वा हृदयं चित्तं यस्य स तथोक्तः । हे जगदधीश्वर! जन्तुः जनङ्गमः अन्त्यजः तस्येयं जानङ्गमी वृत्तिः जीविका यस्य स एव भविता । त्वदुदासिता महाराजोऽपि ‘यो विष्णुं सततं द्वेष्टि तं विद्यादन्त्यरेतसम्’ इत्युक्तरीत्या चण्डालवृत्तिरेव भवेदित्यर्थः । जनङ्गम इत्यत्र ‘गमश्च’ इति सूत्रेण संज्ञायां खच्प्रत्ययः ‘अरुर्द्रषदजन्तस्य’ इति मुम् । ‘चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः' इत्यमरः । जनाद्गच्छति दूरमपसर्पतीति जनङ्गम इति विग्रहः । तस्येयं जानङ्गमी अण्णन्तलक्षणङीष् ताद्दशी वृतिर्यस्य । पुंवद्भावः । पक्षे राजासनहृदयङ्गमवृत्तिशब्दः निगताः रासहृदय इत्याकारका वर्णाः यस्य स तथोक्तः । अत एव जानङ्गमवृत्तिरित्याकारकवर्णानामेव पारिशेष्याज्जानङ्गमवृत्तिरिति निष्पद्यत इत्यर्थः । अत्र राजासनहृदयङ्गमस्यापि जानङ्गमवृत्तितावाप्तिरूपवाक्यार्थः त्वयि निरासहृदय इति पदाभ्यां समर्थितः । चमत्कारविशेषस्तु व्यक्त एव ॥

 यथावा--

 तव सुतराम्बरहिततां स्ववर्णतोऽम्बानुविन्दती

कबरी । मधुरिपुहृत्पद्माकरविलोडने बत करी भवति ॥ १५७४ ॥

 हे अम्ब! सुतरा अतिमात्रशोभना तव कबरी स्ववर्णतः स्वकीयश्यामलिम्ना । सार्वविभक्तिकस्तसिः । अम्बराय व्योम्ने हिततां मित्रतां अनुविन्दती सती व्योमतुलनां प्राप्तवती सती । मधुरिपुहृदेव पद्माकरः पद्मनामावासभूतस्तटाकः तस्य विलोडने विक्षोभणे करी भवति गजस्संपद्यते । तत्तुल्यो भवति पटूभवतीति यावत् । पक्षे कबरी कबरीति शब्दव्यक्तिः सुतरां अतिमात्रं स्ववर्णतः स्वस्मिन्विद्यमानेषु वर्णेषु पूर्ववत्सार्वविभक्तिकस्तसिः । वरहिततां ववर्णविधुरतां अनुविन्दती सती करी भवति कबरीशब्दो बवर्णराहित्ये करीति निपद्यत इत्यर्थः । अत्र कबर्याः करीभवनमघटमानं सुतराम्बरहिततामित्याद्यनेकपदार्थैस्समर्थ्यते । इदं च श्लेषपरंपरितरूपकाभ्यां परिपोषितमिति द्रष्टव्यम् ॥

 यथावा--

 ननु दुग्धसागरः प्राक्कौर्मे रूपेऽगमथनतो भगवन् । समतानि दुग्धसारो भवता कौस्तुभरमे समाददता ॥ १५७५ ॥

 हे भगवन्! अगमथनतः अगेन मन्दरेण मथनं ‘साधनं कृता' इति समासः । तस्मात् अगमथनतः अगमथनं कृत्वेति ल्यब्लोपे कर्मणि पञ्चम्यास्तसिः । कौस्तुभः रमा लक्ष्मीश्चेत्येते समाददता स्वीकुर्वता ‘लक्षणहेत्वोः' इति सौत्रनिर्देशेन

पूर्वनिपातप्रकरणस्यानित्यताज्ञापनात्कौस्तुभशब्दस्य पूर्वनिपातः ।

भवता दुग्धसागरः दुग्धसारः दुग्धः विरेचितः सारः स्थिरांशः यस्य स तथोक्तः समतानि । सारतमश्रीकौस्तुभादानेन दुग्धसागरस्याखिलस्सारोऽपि दुग्ध इति भावः । पक्षे दुग्धसागरशब्दः रूपेगमथनत इत्यत्र गथनत इति छेदे गस्य गकारस्य मथनथः विलोपनादिति यावत् दुग्धसारः दुग्धसारशब्दः समतानि । गकारोत्सारणेन तथा निष्पादित इत्यर्थोऽपि चमत्कारी । अत्रापि अगमथनपूर्वककौस्तुभरमासमादानरूपैर्बहुभिः पदार्थैः दुग्धसागरस्याप्रसिद्धं दुग्धसारत्वं समर्थ्यते ॥

 यथावा--

 सूर्यकरः क्वचनार्यो भूत्वाऽनुकसङ्गमम्ब जहदासीत् । अपरित्यक्ताद्योत्तमवर्णस्सूरीभवंस्त्वदङ्घ्रिरुचिः ॥ १५७६ ॥

 हे अम्ब ! सूर्यकरः भानुकिरणः क्वचन आर्यः कुलीनः न्याय्यः साधुर्वा भूत्वा ‘गौर्यामार्या त्रिषु त्वेष कुलीनन्याय्यसाधुषु' इति रत्नमाला । अनुकानां कामुकानां अनुकामयत इत्यर्थे ‘अनुकाभिक' इत्यादिना अनोः कन्निपात्यते ‘कमुके कामिताऽनुकः' इत्यमरः । विषयरसलालसानामिति यायत् । सङ्गं संबन्धं जहत् त्यजन् ‘नाभ्यस्तात्' इति नुन्मिषेधः । अपरित्यक्तः आद्यः प्रथमभवः अत एव उत्तमः श्रेष्ठः वर्णो यस्य स तथोक्तः

अनुपेक्षितब्राह्मणवर्णः आभ्यां प्रतिकूलवर्जनानुकूलावर्जने दर्शिते । ब्राह्मणवर्णोचिताचारशील इति यावत् । यद्वा क्वचनार्य इत्यत्र क्वचन अर्यइति छेदः। अर्यः वैश्यो भूत्वा ‘अर्यस्स्वामिवैश्ययोः इति निपातनात्साधुः 'स्यादर्यस्स्वामिवैश्ययोः' इत्यमरः । अनु

कसङ्गतिं जहत् उक्त एवार्थः । अपरित्यक्ताद्योत्तमवर्णः अपरित्यक्तौ अनुसृताविति यावत् । तादृशौ आद्यौ स्वापेक्षया पूर्वौ उत्तमौ स्वस्माद्वरिष्ठौ वर्णौ ब्रह्मक्षत्रवर्णौ येन स तथोक्तः । ब्रह्मक्षत्रवर्णमानयितेति यावत् । अत एव सूरीभवन् असूरिस्सूरिस्संपद्यमानो भवन् ब्रह्मविद्भवन् त्वदङ्घ्रौ रुचिरभिरतिर्यस्य स तथोक्तः आसीत् । पक्षे सूर्यकरशब्दः क्वचन अर्यः अविद्यमानर्यवर्णः भूत्वा अनुकसङ्गं अनु अनन्तरविद्यमानस्य कस्य कवर्णस्य सङ्गं जहत् र्यक इति वर्णसमुदयं त्यजन्नित्यर्थः । अपरित्यक्तौ आद्यः प्राथमिकः उत्तमः अन्तिमश्च आद्योत्तमौ वर्णौ सूर इत्याकारकौ वर्णौ येन स तथोक्तः ‘उत्तमौ प्रवरान्तिमौ' इति रत्नमाला । ‘उत्तमं च नैदाघम्’ इत्यादयः प्रयोगाश्च । अत एव सूरीभवन् असूरस्सूरस्संपद्यमानो भवन् सूर्यकरशब्दः र्यवर्णत्यागे सूर इति निष्पन्न इत्यर्थः । त्वदङ्घ्रेः रुचिरिव रुचिर्यस्य स तथोक्त इति वस्तुस्थितिः । शब्दार्थयोस्तादात्म्येन सूरशब्दस्य श्रीचरणतुल्यत्वमित्यवधेयम् । अत्र सूर्यकरस्य सुरीभवनमप्रसिद्धतया समर्थनसापेक्षमनेकपूर्वपदार्थसमर्थितम् । श्लेषमूलाभेदातिशयोक्त्युत्तम्भितत्वादिकश्चमत्कारस्तु व्यक्त एव ॥

 यथावा--

 स्वर्णं स्वस्मादुत्तमवर्णं श्रीदेहमधमवर्णं स्वं च । अवयत्तमुत्तमर्णं विदधत्स्वस्याधमर्णमभवत्सर्णम् ॥ १५७७ ॥

 स्वर्णं कनकं कर्तृ । श्रियो देहं दिव्यविग्रहं स्वस्मात् उत्तमवर्णं स्वं च आत्मानं च अधमवर्णं निकृष्टवर्णं अवयत् जान

त्सत् । अवपूर्वादिणश्शतरि ‘इणो यण्' इति यणादेशः । तं श्रीदिव्यदेहं स्वस्य आत्मनः उत्तमर्णं वर्णरूपऋणप्रयोक्तारं विदधत् तन्वत्सत् ‘लक्षणहेत्वो:’ इति शता । उत्तमर्णकरणेन हेतुनेत्यर्थः । अधमर्णं वर्णरूपऋणग्राहकं अत एव सर्णं ऋणसहितमेवाभूत् । न तु त्वत्प्रत्यर्पणक्षममिति भावः । स्वर्णमिति नाम्ना स्वत एव ऋणवत्त्वं च प्रतीयते ॥

 पक्षे-- स्वर्णमिति पदं कर्तृ उत्तमवर्णमिति पदं अवयत् अविद्यमानवकारं कुर्वत् उत्तमर्णमिति कुर्वत् । अधमवर्णमिति पदं तथा कुर्वत् अधमर्णं आत्मानं स्वर्णमिति पदं तथा कुर्वत् सर्णं चाभूदित्यर्थान्तरं चमत्कारमतिशाययति । अत्र स्वर्णस्याधमर्णत्वादिकमलौकिकतया संमर्थनापेक्षं स्वस्मादुत्तमवर्णमित्यादिपदार्थैस्समर्थ्यते । तच्च लक्ष्मीदिव्यविग्रहस्वर्णयोरुत्तमर्णत्वाधमर्णत्वासंबन्धेऽपि तत्संबन्धवर्णनरूपातिशयोक्तिप्रसादसमासादितसाम्राज्यमिति ध्येयम् । ‘उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात्' इत्यमरः ॥

 यथावा--

 त्वद्वचनसुधाहरणात्स्वाद्यस्समजनि सुधाकरो भूत्वा । स्वाद्यः कथंन्वितरधा सोऽयं स्यात्कुमुदबान्धवो वान्तः ॥ १५७८ ॥

 हे भगवन्निति प्रकरणाल्लभ्यते । कुमुदबान्धवः चन्द्रमाः त्वद्वचनसुधायाः हरणात् अपहारादेव सुधाकरः सुधायाः आकर: स्थानं भूत्वा । पक्षे सुधाकरः अमृतकिरण इत्यर्थः । स्वाद्यः आस्वादनीयः सुकारः आद्यवर्णो यस्य स तथोक्त इति तत्त्वम् ।

शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । समजनि अजायत इतरधा प्रकारान्तरेण उक्तवैपरीत्येनेत्यर्थः । वान्तः वमनकर्मीभूतः ऊद्गीर्ण इत्यर्थः । सोऽयं कुमुदबान्धवः चन्द्रमाः पक्षे कुमुदबान्धवशब्दश्च तस्यान्ते वकारश्रवणात् वान्तत्वं बोध्यम् । कथं स्वाद्यस्स्यात् । वान्तस्य वस्तुनः कथमितरैरास्वाद्यत्वं स्यात् अन्तरा त्वद्वचनसुधाहरणहेतुकसुधाकरत्वप्राप्तिमिति भावः । पक्षे कुमुदबान्धवशब्दस्य वान्तत्वं संभवेत् न तु स्वाद्यत्वं, तस्य क्वाद्यत्वादिति भावः । अत्र वान्तस्य कुमुदबान्धवस्य स्वाद्यत्वान्यधानुपपत्त्या भगवद्वचनसुधाहरणहेतुकसुधाकरत्वं कल्प्यत इति वक्ष्यमाणार्थापत्तिरूपप्रमाणालंकारो महावाक्यार्थः । तत्रावान्तरवाक्यार्थद्वयं चन्द्रमसस्स्वाद्यत्वसमर्थने भगवद्वचनसुधाहरणहेतुकसुधाकरत्वं स्वाद्यत्वाक्षेपसमर्थने वान्तत्वं चेति पदार्थौ हेतू इति काव्यलिङ्गद्वयरूपमिति विशेषः । श्लेषोत्तम्भितत्वेन चमत्कृतिविशेषः पूर्ववदेव । वस्तुतस्त्विदमर्थापत्तेरेव प्राधान्यात्तदुदाहरणतार्हमेवेति युक्तम् ॥

 यथावा--

 त्वद्वर्णोत्कर्षेप्सं साध्वस्तमथापि तत्र सङ्गमितम् । कासारजलमखिलेश्वरि कासरजं को नु वा न जानीयात् ॥ १५७९ ।।

 हे अखिलेश्वरि! कासारजं सरसिजं त्वद्वर्णादपि उत्कर्षे ईप्सा अप्तुमिच्छा यस्य तत्तथोक्तम् । तव वर्णोत्कर्षे ईप्साऽस्येति तथोक्तं वा । अत एव साधु यथा तथा अस्तं त्वया निरस्तं पक्षे कासारजमिति पदं साध्वस्तं ध्वस्तसावर्णमित्यर्थः । अथापि एवमपि तत्र त्वद्वर्णोत्कर्षेप्सायां सङ्गं अभिषङ्गं इतं प्राप्तं

इणः कर्तरि क्तः । तत्र ध्वस्तस्य साकारस्य स्थाने साधु यथा तथा सं ह्रस्वसकारं गमितं प्रापितं कासरजं महिषजातं कासरजशब्दं च कोनु वा न जानीयात् । अदौ दुर्लभवस्तुविशेषप्रेप्सया प्रवृत्तस्सम्यक्पराहतश्च सन् महिषतुल्यमतिर्न चेत्कोवा तदर्थं पुनः प्रवर्तेतेति भावः । अत्र कासारजस्य कासरजत्वमलौकिकतया समर्थनसापेक्षमनेकैः पूर्वपदार्थैस्समर्थ्यते । चमत्कारान्तरं तु स्फुटमेव ॥

 यथावा--

 संख्यावतां कुलं त्वय्यनुरक्तं स्वान्तरे शमुपयातम् । निश्श्रेयससाम्राज्यं साधयितुं कुशलमेव भवति हरे ॥ १५८० ॥

 संख्यावतां विदुषां कुलं बृन्दं त्वयि अनुरक्तं अत एव स्वान्तरे निजचित्ते शं सुखं आनन्दं उपयातं सत् निःश्रेयससाम्राज्यं साधयितुं कुशलमेव भवति । पक्षे कुलमिति पदं स्वान्तरे वर्णद्वयात्मकस्य स्वस्य मध्ये शं शकारं उपयातं सत् कुशलमित्येव निष्पद्यत इत्यर्थः । अत्र संख्यावत्कुलस्य निश्श्रेयससाम्राज्यसाधनकुशलत्वं त्वय्यनुरक्तमित्यादिपदार्थहेतुकम् ॥

 यथावा--

 प्रस्तरवरकौस्तुभमणिसौवस्तिकमम्बुजाक्ष तव हृदयम् । अरिगणशरकिणदन्तुरमत्यन्तं मयि कठोरमित्युचितम् ॥ १५८१ ॥

 अत्र श्रीनिवासहृदयकठोरत्वं प्रस्तरवरेत्यादि-अरिगणेत्यादिपदार्थाभ्यां समर्थितम् ।

 यथावा ममैव श्रीहयवदनस्तुतौ--

 अमृतकरे वससि हरे क्षीररुचिस्त्वं निसर्गतो मधुरः । तव सैन्धव इति वादो भविता कण्ठोपरीत्युचितमेव ॥ १५८२ ॥

 हे हरे! श्रीहयवदन! अमृतकरे सुधाविधायके पीयूषकिरणे इति तु तत्त्वम् । वससि । अनेनागन्तुकं माधुर्यमुक्तम् । निसर्गतः स्वभावत एव मधुरः मधुररसविशिष्टः जगतां प्रिय इति तु तत्त्वम् । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । अत एव क्षीरस्य दुग्धस्य रुचिः स्वादिमेव रुचिः स्वादिमा यस्य स तथोक्तः । तव ईदृशस्य सैन्धवः लवणमिति वादः उक्तिः कण्ठोपरि कण्ठादूर्ध्वं प्रवृत्तः अहृदय एव । न तु हृदयपूर्वक इत्युचितमेव । अतिमात्रमधुरस्य लवणमिति कथनं कथं मनःपूर्वकं भवेदिति भावः । परमार्थतस्तु-- सैन्धवः अश्व इति वादः कण्ठादुपरि तव हयास्यत्वादिति भावः । ‘सैन्धवो लवणे न स्त्री हये ना सिन्धुजे त्रिषु' इति रत्नमाला । अत्र अमृतकरे वससिति वाक्यार्थेन क्षीररुचिः निसर्गतो मधुर इति पदार्थाभ्यां च सैन्धवतावादस्य कण्ठादुपरि प्रवृत्तत्वौचित्यरूपस्य समर्थनमिति विशेषः ॥

 क्वचित्पदार्थवाक्यार्थौ परस्परसापेक्षौ हेतुभावं भजतः । यथा--

 तज्जयतु कनकमकुटं यज्जगदीशो बिभर्ति शिरसैव । कनकगिरिणाऽस्य तुलना सकलसुरैरप्यधः कृतेन कथम् ॥ १५८३ ॥

 अत्र कनकगिरेभर्गवत्किरीटसादृश्याभावे यज्जगदीशो बिभर्ति शिरसैवेति वाक्यार्थः सकलसुरैरप्यधःकृतेनेति पदार्थश्चेत्युभयं संभूय हेतुतामश्नुते । ननु सकलसुरैरप्यधःकृतेनेति पदार्थः कनकगिरिनिष्ठत्वेन तन्निष्ठे भगवत्किरीटसादृश्याभावे हेतुभावं भजतां, यज्जगदीशो बिभर्तीति वाक्यार्थस्तु तदवृत्तितया कथं नाम तत्र हेतूभवितुमर्हतीतिचेत् साध्यकिरीटसादृश्याभावानुप्रविष्टकिरीटगततयोपनिबध्यमानो वाक्यार्थस्तथाविधकिरीटघटितसाम्याभावप्रायोजकतया हेतुरित्युभयं संभूय हेतुतां भजत इति गृहाण ॥

 यथावा--

 निर्विद्येऽहमविद्ये विद्येत मया न ते सुखलवोऽपि । विजहीहि मामकिंचनमकिंचनजनाश्रयं श्रितं किञ्चित् ॥ १५८४ ॥

 निर्विद्ये निर्विण्णोऽस्मि । अकिंचनजनानां दरिद्राणां उपायान्तरविधुराणां च आश्रयं कंचित्पुरुषं भगवन्तमिति वस्तुस्थितिः अत्राविद्यायाः स्वपरित्यागे पूर्वार्धवाक्यार्थः, अकिंचनजनेत्यादिपदार्थश्चेत्युभयं हेतुः । वाक्यार्थपदार्थयोस्सापेक्षताविरहेऽपि हेतुत्वमिति पूर्वस्माद्विशेषः । समासोक्तिसंकीर्णं चेदमित्यपरोऽपि विशेषः ॥

 यथावा--

 वितरति बहुप्रसादो विपुलां विनताय संपदं भगवान् । ननु कथमिव नित्यश्रीरसान्वितोऽयं

बहुप्रदो न स्यात् ॥ १५८५ ॥

 भगवान् बहुप्रसादस्सन् विनताय विपुलां संपदं वितरति । नित्यश्रीः अयं रसान्वितः अनुग्रहान्वितश्चेत् कथमिव बहुप्रदो न स्यात् श्रीसमृद्धिमत्त्वे अनुग्रहशालित्वे च विनताय बहुप्रदानं नाश्चर्यमिति भावः । पक्षे बहुप्रसादशब्दः नित्यश्रीः असान्वित इति छेदः । असान्वितः सा इत्याकारकवर्णहीनश्चेत् बहुप्रद इत्येव श्रूयत इत्यर्थः । अत्र विनतोद्देश्यकविपुलसंपत्प्रदानरूपवाक्यार्थो बहुप्रसाद इति पदार्थेन ननुकथमिवेत्युत्तरवाक्यार्थेन च समर्थ्यत इति विशेषः । उत्तरवाक्यार्थेऽपि नित्यश्रीः रसान्वित इति पदार्थाभ्यां बहुप्रदत्वं समर्थ्यत इत्यपरोऽपि विशेषः । चमत्कृतिविशेषस्तु स्फुट एव ॥

 क्वचित्समर्थनीयार्थसमथनार्थे वाक्यार्थे पदार्थो हेतुः ।

 यथा--

 विषयचलः प्रागधुना त्वद्गुणविवशस्तवेश न स्मर्ता । आनन्दनिमग्नोऽग्रेऽप्यागस्करणं त्रिरस्य सह्यमिदम् ॥ १५८६ ॥

 अत्र त्रिरागस्करणं समर्थनीयम् , अस्फुटहेतुकत्वात् । तत्समर्थनं च भगवद्विस्मरणरूपैर्वाक्यार्थैर्निबद्धम् । तत्र प्रतिवाक्यार्थं विषयचलत्वादयस्त्रयो हेतवः पदार्थरूपाः । तवेत्यत्र ‘अधीगर्थ' इत्यादिना षष्ठी । न स्मर्तेत्यत्र अयमिति अहमिति वा सह्यमित्यत्र त्वयेति चाध्याहारः ॥

 यथावा--

 प्रह्लादिमबध्नास्त्वं मुग्धोऽतितराममूमुचः क-

ङ्कम् । स्वातंत्र्यदौर्ललित्यं सोढा कोऽच्युत तवेश्वरस्यापि ॥ १५८७ ॥

 हे अच्युत! अतितरां मुग्धः मूढः सौम्यश्च त्वं ‘मुग्धस्सौम्ये नवे मूढे’ इति रत्नमाला । प्राह्लादिं प्रह्लादगोत्रापत्यं बलिं अबध्नाः वरुणपाशैरिति शेषः । प्राह्लादिमित्यनेन अतिमात्रान्तरङ्गता द्योत्यते । कङ्कं जटायुं अमूमुचः अमोचयः मुक्तभवबन्धमकरोः कङ्कमित्यनेन तिर्यक्तया अतिवेलोदासीनता द्योत्यते । किंच कमपि कमपीत्यज्ञातशीलमतिबहिरङ्गमित्यर्थोऽपि व्यज्यते । अत्र भगवतः स्वातन्त्र्यदौर्ललित्यं समर्थनसापेक्षं, अव्यक्तहेतुकत्वात् । तत्समर्थनं च अन्तरङ्गभूतबलिबन्धनोदासीनतमगृध्रमोचनलक्षणवाक्यार्थाभ्यां क्रियते । तत्र प्रतिवाक्यार्थं मुग्ध इति पदार्थो हेतुः ॥

 यथावा--

 भव्यगुणायत्तोऽविदमीश्वरमात्मानमेव पूर्वमहम । न्यस्तभरोऽपि तथैवेत्यच्युत मन्तुद्वयं क्षमेथा मे ॥ १५८८ ॥

 पूर्वं भरन्यसनात्प्राक् अहं भव्याः भवे साधवः ‘तत्र साधुः इति यत् । संसारौपयिका इति यावत् । ये गुणाः रजःप्रभृतयः तेषु आयत्तः अधीनः । यद्वा भवी अगुणायत्त इति छेदः भवी संसारी अहं अगुणायत्तः अगुणाः अप्रशस्तगुणाः मात्सर्यादयः नञत्राप्राशस्त्ये । यद्वा भगवत्कटाक्षलाभौपयिकशान्त्यादिगुणाः तेषामनधीनस्सन्निस्यर्थः । आत्मानं मामेव ईश्वरं त्वां

अविदं अहमेव ब्रह्मेति स्वस्वरूपादभिन्नमविदम् । यद्वा 'ईश्वरो

ऽहमहं भोगी’ इत्युक्तरीत्या स्वतन्त्रात्मभ्रमवानस्मीत्यर्थः । न्यस्तभरोऽपि त्वयि समर्पितात्मात्मीयरक्षाभरोऽपि तथैवाविदम् । भव्यगुणायत्तः आत्मानमेवेश्वरमज्ञासिषमित्यर्थः । इति एवंप्रकारं भरार्पणपूर्वोत्तरकालकृतं मे मम मन्तुद्वयं अपराधयुग्मं क्षमेथाः । वास्तवार्थस्तु-- भरन्यसनोत्तरं भव्याः कल्याणाः ये गुणाः सौशील्यादयस्तावकाः शान्त्यादयो मामकाश्च तेष्वायत्तस्सन् आत्मानमेव ईश्वरमविदं परमात्मानं त्वामेव शेषिणमज्ञासिषम् । यद्वा आत्मानं प्रत्यगात्मशरीरकं ईश्वरमविदम् । ईश्वरशरीरभूतमात्मानमविदमिति भावः । अनेन स्वतन्त्रात्मभ्रमो निवर्त्यते । अत्र तावदपराधद्वयं समर्थनीयमस्फुटहेतुकत्वात् । तत्समर्थनं च भरार्पणपूर्वापरकालयोरैकरूप्येण श्लेषमूलकेन यत् आत्मन ईश्वरत्ववेदनं तद्रूपाभ्यां वाक्यार्थाभ्यां क्रियते । अत्र वाक्यद्वयेऽपि भव्यगुणायत्त इत्येष उक्तरीत्या एकपदार्थोऽनेकपदार्थो वा हेतुः श्लेषभित्तिकाभेदाध्यवसायानुप्राणितत्वं पूर्वतो विशेषः ॥

 क्वचित्समर्थनीययोरन्योन्यमविरुद्धयोरुभयोः क्रमादुभौ हेतुभावं भजेते ।

 यथा--

 यस्य रमां दयिततमां तनयं प्रतिलोमतदभिधावाच्यम् । आहुस्तस्य तवाच्युत विभवं रूपं च को गदितुमीष्टाम् ॥ १५८९ ॥

 प्रतिलोमा व्यत्यस्ता तस्याः रमायाः अभिधा आख्या तस्याः वाच्यं अभिधेयं मारमित्यर्थः । अत्र भगवद्विभवरूपयोर्निरतिश

यत्वे यस्य रमां दयिततमां तनयं प्रतिलोमतत्पदार्थं चेत्युभौ हेतुतया निबद्धौ ॥

 क्वचित्परस्परविरुद्धयोर्द्वयोः क्रमादुभौ हेतुभावमश्नुवाते ।

 यथावा--

 श्रुतनक्राक्रान्तद्विपदीननिनादो हरे भवानथ च । प्रविमृष्टतदैकान्त्यः खेदं मोदं च युगपदगात् ॥ १५९० ॥

 हरे! इति संबोधनं गजेन्द्रमोक्षार्थगृहीतावतारत्वज्ञापनाय । ऐकान्त्यं भगवत्येकस्मिन्नेव अन्तः शरण्यत्वेन निश्चयो यस्य स एकान्तः तस्य भावः ऐकान्त्यं, एकश्चासावन्तश्च एकान्तः सोऽस्यास्तीत्येकान्ती तस्य भाव इति वा । तत् प्रविमृष्टं सम्यग्विचारितं येन स तथोक्तः । अत्र भगवतः युगपत्खेदमोदयोः परस्परविरुद्धयोः क्रमात् नक्राक्रान्तगजेन्द्रार्तनिनादश्रवणं तदीयैकान्त्यविमर्शनं चेत्युभौ पदार्थौ हेतुतया निबद्धौ ॥

 क्वचित्परस्परविरुद्धयोरुभयोस्समर्थनीययोरेक एव हेतुः ।

 यथावा--

 आकाङ्क्षितावलोकं लोकाधीशं चिराद्विलोकितवान् । निर्वेदं खर्वेतरमविन्दमप्यहममन्दमानन्दम् ॥ १५९१ ॥

 अपेक्षितदर्शनं सर्वलोकेश्वरं श्रीनिवासं चिराय पश्यतो मम इयन्तमपि समयं वृथैव ईदृशदिव्यमङ्गळविग्रहनिर्वर्णनं नाघटतेति

निर्वेदः तल्लाभेनानन्दः । अत्र निर्वेदानन्दयोर्द्वयोर्विरुद्धयोर्भगवद्विलोकनमेकमेव हेतुः ॥

 अत्र दीक्षिताः-- ननु साभिप्रायपदार्थवाक्यार्थविन्यसनरूपात्परिकरादस्य काव्यलिङ्गस्य को भेद इतिचेत् श्रूयताम् । परिकरे पदार्थवाक्यार्थबलात्प्रतीयमानावर्थौ वाक्योपस्कारकतां भजतः । काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजत इति भेदः । तथाहि ‘सुधांशुकलितोत्तंस’ इत्यादौ विशेषणबलात्प्रतीयमानस्य तापनिवारकामृतकिरणसन्निधानस्य तापहरणरूपवाच्योपस्कारकता, न तु पदार्थवाक्यार्थयोस्तत्रोपस्कारकता । अतस्तत्र काव्यलिङ्गसंभवात्परिकर एव युक्तः । काव्यलिङ्गे तु पदार्थवाक्यार्थयोरेव हेतुत्वं न तु प्रतीयमानार्थापेक्षा । ‘सुखालोकोच्छेदिनि । अग्रेऽप्यनतिमान्' इत्यादिपदार्थवाक्यार्थहेतुककाव्यलिङ्गोदाहरणे च सुखालोकोच्छेदित्वोत्तरकालानमनरूपाभ्यां पदार्थवाक्यार्थाभ्यामेव प्रतीयमानार्थनैरपेक्ष्येण वाच्यार्थस्य समर्थनादुभयोर्विविक्तविषयतया भेद इति वदन्ति । एवं प्राचामनुरोधेन काव्यलिङ्गं प्रदर्शितम् ॥

 रसगङ्गाधरकारस्तु-- "अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम् । उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम् । अनुमानार्थान्तरन्यासयोर्वारणायानालिङ्गितान्तम् । उपमादिवारणाय उपपादकत्वेनेत्यन्तम् । पञ्चम्यादिशब्दप्रतिपादितहेतुताकस्य हेतोरेव वारणायोपपादकत्वेन विवक्षित इति । न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम् । तेन ‘भयानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्यः, इत्यादौ नायमलंकारः ।

गम्यमानहेतुताकस्यैव हेतोस्सुन्दरत्वेनालंकारिकैः काव्यलिङ्गताया अभ्युपगमात् । तच्च सुबन्ततिङन्तार्थत्वाभ्यां तावद्द्विविधम् । आद्यमपि शब्दान्तरार्थविशेषितशरीरं शुद्धैकसुबन्तरूपं चेति द्वेधा । अत्राप्याद्यं साक्षात्परंपरया वा वाक्यार्थविशेषितं सुबन्तार्थमात्रविशेषितं चेति द्विभेदम् । तिङन्तार्थभूतमपि साक्षात्परंपरया वा वाक्यार्थविशेषितं सुबन्तार्थमात्रविशेषितं चेतिद्विप्रकारम् । शुद्धभेदस्तु तिङन्तार्थस्य न संभवति । क्रियायाः कारकविशेषितत्वावश्यंभावात्" इत्याह । तत्प्रकारेणोदाहरणानि--

 अञ्जलिमात्रचिकीर्षोस्त्वं जगधिकां श्रियं ददद्भगवन् । जानन्नालं तदिदं वदान्यमूर्धन्य इति नुतौ त्रपसे ॥ १५९२ ॥

 अत्र ह्यनितरसाधारणत्वेन वर्णितायाः भगवतःश्रीनिवासस्य वदान्यमूर्धन्यताप्रयोज्यलज्जया आपाततोऽघटमानाया उपपादनाय अञ्जलिचिकीर्षुमुक्त्यैश्वर्यदानसमानाधिकरणः पर्याप्त्यभावस्सुबन्तमात्रार्थविशेषितात्मा सुबन्तार्थो हेतुत्वेनोपनिबद्धः ॥

 ननु ‘लक्षणहेत्वोः' इति सूत्रविहितशत्रन्तेन जानन्नित्यनेन साक्षाद्धेतोरभिधानात्कथंकारं काव्यलिङ्गम् । तादृशहेतुवाचकपदेन हेतोरभिधाने तदनवतारस्य सर्वालंकारिकसंप्रतिपन्नत्वादिति चेन्मैवम् । तद्विहितश्शता न हेतुवाचकः येनैवं शङ्क्येत । किंतु तद्द्योतकः । तथाच तत्सूत्रशेखरग्रन्थः । ‘इह लक्षणादि द्योत्यं

शत्राद्यर्थस्तु कर्त्रादिरेव' इति । एवं शानजन्तहेतुस्थलेऽपि बोध्यम् । अतएव ‘यदा पुनः पदार्थस्य हेतुत्वं तदा यदि तृतीयान्तं पञ्चम्यन्यं वा पदमुपादीयते तदा हेतुमात्रं नालंकारः, यदा तु

विशेषणद्वारा कारणोपनिबन्धः तदा पदार्थवृत्ति काव्यंलिङ्गम्' । इत्येकावळीकारेण तृतीयापञ्चमीविभक्त्यन्तयोरेवेदृशस्थले हेतुत्वमसुन्दरमिति कण्ठत एव वर्णितम् । अतएव रसगङ्गाधरकारस्य ‘इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये पुनानासर्वेषामघमथनदर्पं दलयसि' इति काव्यलिङ्गोदाहरणं दर्शयतः पवित्रीकरणस्यान्याघदर्पदलनसमर्थकतोक्तिस्संगच्छते । अस्य चायमभिप्रायः-- हेतोश्शाब्दतायामेव न काव्यलिङ्गावतारः ‘लक्षणहेत्वोः’ इति विहितशतृशानजन्तस्थले हेतुहेतुमद्भावस्य संसर्गतया तृतीयापञ्चम्यन्तस्थल इव हेतोर्न शाब्दत्वमिति । यद्यपि पुनानेत्यत्र ताच्छील्यार्थे शक्त्यर्थे वा चानशा निर्वाहस्सुकरः तस्याहेत्वर्थकत्वात् । तथाऽपि ‘नमन्मुक्तस्संप्रीत' इत्यादौ हेत्वर्थविहितशत्रन्तस्य नमन्नित्यादिपदस्य मुक्तत्वं प्रति हेतुत्ववर्णनात् शतुर्हेतुत्वमशाब्दमित्येवावसेयम् । न हि चानश इवास्य शतुस्ताच्छील्याद्यर्थकत्वेनान्यधासिद्धिश्शक्या कर्तुं, तादृशानुशासनादर्शनात् । एवमुदाहृतसूत्रविहितशानजन्तस्थलेऽपि द्रष्टव्यमित्यन्यत्र विस्तरः ॥

 यथावा--

 उपगूहितादधीयन्नुदधिसुताकुचयुगात्कठोरत्वम् । तद्धारयन् हृदी हरे दीनेषु भवेः कथं नु मृदुहृदयः ॥ १५९३ ॥

अत्र दुर्घटस्य भगवतो मृदुहृदयताभावस्योपपादनाय उदधिसुताकुचयुगापादानककठोरताध्ययनसमानाधिकरणस्तद्धृदयधारणरूपस्सुबन्तमात्रार्थविशोषितस्सुबन्तार्थो हेतुतयोपात्तः । अधीयन् धारयन्नित्यत्र ‘इङ्धार्योश्शत्रवृच्छिणि’ इत्यकृच्छ्रार्थे शता ॥

 यथावा--

 अपि नाथ ब्रह्माण्डान्यधिजठरं धारयन्नखिन्नस्त्वम् । न्यस्तो मयाऽवनभरः कियानपि स्यात्ततो नु बिभियाः किम् ॥ १५९४ ॥

 कियानपि स्यात् अल्पीयान्वा भवेन्महीयान्वा । अत्रानन्यसामान्यतया प्रतिपादितस्य भगवत आत्मरक्षाभरवहनभयाभावरूपोत्कर्षस्यापाततो घटमानस्योपपादनायानन्तकोटिब्रह्माण्डाक्लेशधारणसमानाधिकरणः खेदाभावस्सुबन्तमात्रार्थाविशेषितस्सुबन्तार्थो हेतुतयोपनिबद्धः । धारयन्नित्यत्र पूर्ववदेवाकृछ्रार्थे शता । इमानि त्रीण्यप्युदाहरणानि तुल्यानि ॥

 यस्य स्मरणायापि त्रस्यन्ति चतुर्मुखादयो लेखाः । तद्ब्रह्म हृदि निबध्नन्नलज्जयत्कोऽपि तानसुरडिम्भः ॥ १५९५ ॥

 स्मरणाय त्रस्यन्ति स्मरणं कर्तुमपि बिभ्यति । कोऽपि असुरडिम्भः प्रह्लाद इत्यर्थः । तान् चतुर्मुखादीन् अलज्जयत् । तद्ध्यानागोचरमपि ब्रह्म स्वहृदि निबध्नन् तान् त्रपाविष्टानकरोदिति भावः । अत्र चतुर्मुखादिकर्मकलज्जाप्रयोजकत्वसिद्धये तथाविधपरब्रह्मकर्मकहृदयाधिकरणकबन्धनं कविना निबद्धं, तच्चेतरसुकरत्वात्ताद्दशसिद्ध्यसमर्थं विशेषकान्तरमपेक्षत इति चतुर्मुखादिकर्तृकपरब्रह्मानुस्मरणत्रासरूपवाक्यार्थः परब्रह्मरूपकर्मद्वारा विशेषक उपात्तः, तद्विशिष्टं च तादृशहृदयाधिकरणकबन्धनमसुरडिम्भारूढं तादृशलज्जाप्रयोजकत्वरूपकार्योपपादनसमर्थमिति भवति हेतुः ॥

 श्रुतिशिखरदुर्गमाद्भुतविभव हरे तावकान् गुणानखिलान् । भणितुं विजृम्भितवतो डिम्भस्यागस्त्वयैव सोढव्यम् ॥ १५९६ ॥

 अत्र डिम्भत्वं शुद्धैकसुबन्तार्थः अपराधसोढव्यत्वे हेतुः । तथा अद्भुतविभवत्वमचिन्तनीयैश्वर्यत्वं सुबन्तार्थविशेषितसुबन्तार्थरूपं श्रुतिशिखरदुर्गमत्वे । एवं तादृशभगवद्गुणकर्मकवर्णनमागसि तादृशवर्णने च उच्छृङ्खलतया विजृम्भणमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम् ॥

 दयितोऽपि तव मयाऽम्ब त्वदाश्रयमदादुदासनमनायि । यदिमुञ्चसीममधुना रक्षेति तमेव किमिति शरणमियाम् ॥ १५९७ ॥

 हे अम्ब! त्वदाश्रयमदात् त्वदवलम्बगर्वात् तव दयितो भगवानपि उदासनं उपेक्षणं अनायि प्राप्यत । सर्वशरण्यं तमप्पुपेक्षितवानिति भावः । अधुना त्वदुपेक्षावसरे अमुं मामिति भावः । मुञ्चसि यदि । अधुनेत्येतत् मध्यमणिन्यायादुभयतोऽन्वेति । अधुना तमेव पूर्वं गर्वादुपेक्षितमेव तव दयितं किमिति शरणमियां, इयं लोकोक्तिः । कृतापराधस्तदग्रतः किमानुकूल्यं मयाकृतमिति शरणं प्राप्नुयामिति भावः । अत्र इममित्यादिना अभिव्यक्ते वक्तृनिष्ठानन्यशरणताहेतुुकाश्रयान्तरपाराङ्मुख्ये आत्मकर्तृकभगवत्कर्मकोदासीनताप्रापणरूपसुबन्तार्थविशेषिततिङन्तार्थ उपपादकः ।

 द्रुह्यन्ति ये जगद्भ्यस्त्वद्दयितायापि हन्त तेभ्योऽपि । वितरसि विविधं विभवं सुतरां मुग्धाऽसि

दुग्धसिन्धुसुते ॥ १५९८ ॥

 अत्र भगवत्या जगज्जनन्या मौग्ध्योपपादने तिङन्तार्थस्य वितरणस्य सुबन्तार्थविशेषितस्य तस्यैव विविधविभववितरणात्मनो वा असामर्थ्याज्जगदादिद्रोग्धृत्वरूपपूर्ववाक्यार्थविशेषितं वितरणं हेतुः । विशेषणत्वं च संप्रदाने विशेषणत्वात्परंपरया बोध्यमिति ॥

 इदं सर्वमपि प्राचीनालंकारिककल्पितपदार्थवाक्यार्थरूपप्रभेदस्यैव प्रकारान्तरेण कथनं व्युत्पत्तिवैचित्र्यप्रदर्शनायैवेति ध्येयम् । अत्र रसगङ्गाधरकारः-- "काव्यलिङ्गं नालंकारः, कविप्रतिभानिर्मितत्वप्रयुक्तचमत्कारविशेषात्मकविच्छित्तिविरहात् हेतुहेतुमद्भावस्य लोकसिद्धत्वात्, श्लेषादिसंमिश्रणजन्यस्तु चमत्कारः श्लेषप्रयुक्तत्वात्तदंशस्यैवालंकारतां कल्पयति न तु काव्यलिङ्गस्य । तत्प्रयोज्यकचमत्कारान्तरविरहात्" इति । अत्र वदन्ति-- नेदं युक्तं, लौकिकत्वेऽपि कविप्रतिभामात्रगम्यतया चमत्काराधायकत्वात् 'इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये पुनाना सर्वेषामघमथनदर्पं दलयसि’ इत्येतदीयहेतुहेतुमद्भावस्य लोकसिद्धत्वाभावाच्च । न हि ‘सुखालोकोच्छेदिनि मोक्षनामनि महामोहे’ इत्यादौ सुखालोकोच्छेदादीनां महामोहतादात्म्यादिहेतुत्वं क्वचित्सिद्धम् । किंच एवमप्युपमादेरप्यलंकारता न स्यात् । सादृश्यस्य वास्तवत्वेन कविप्रतिभाकल्तितत्वविरहात् । न च तत्राप्युपमाप्रयोजकसाधारणधर्माभेदांशे तत्कल्पितत्वमेवेति वाच्यं, रमणीयत्वादिनिमित्तधर्मस्यापि लोकप्रसिद्धत्वात् चमत्कारस्य लौकिकस्याप्यलंकारत्वे बाधकाभावात् । अन्यथा सर्वालंकारोच्छेदापत्तेश्चेति ॥

इत्यलंकारमणिहारे काव्यलिङ्गसरो द्विषष्टितमः.