अलङ्कारमणिहारः (भागः ३)/काव्यार्थापत्त्यलङ्कारः (६१)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


किंतु तदवान्तरविशेषो भवितुम् । न हि पृथिव्यवान्तरभेदाद्घटात्पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति ॥

इत्यलंकारमणिहारे प्रत्यनीकसरष्षष्टितमः


अथ काव्यार्थापत्तिसरः. (६१)


दण्डापूपिकया यत्रार्थान्तरापतनं भवेत् ।
काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥

 दण्डापूपं विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः अहं शक्तोs शक्तोऽस्यां क्रियायामित्यहमहमिकेतिवन्मत्वर्थीयष्ठन् । दण्डापूपाविव दण्डापूपिका ‘इवे प्रतिकृतौ' इति कन्वा । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपूपभक्षणमप्यर्थसिद्धम् । एवंविधो न्यायो दण्डापूपिकाशब्देनोच्यते । यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायलक्षणादर्थान्तरमापतति साऽर्थापतिः । तान्त्रिकाभिमतार्थापत्तिव्यावर्तनाय काव्यपदम् । अयमेव कैमुतिकन्याय इत्यप्युच्यते । अत एव ‘कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते' इति लक्षणं प्रणीतं कुवलयानन्दे । नन्वेवमर्थादथान्तरप्रतीतेरनुमानमेवेदमिति चेन्न । समानन्यायस्य संबन्धरूपत्वाभात् । दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव । दण्डभक्षणेऽपि पृथक्प्रदेशावस्थानादिना केनापि निमित्तेन अपूपानामभक्षणस्यापि भावात् । अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनमित्यस्यास्ततः पृथग्भावः ॥

 तथाहि--

 तव तेजसि भाति विभो न रविर्न विधुर्न भानि न च तटितः । भान्ति कुतोऽग्नेर्वार्ता भान्तं त्वामनुविभाति सर्वमिदम् ॥ १५१५ ॥

 अत्र ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वम्’ इति श्रुतिप्रतिपादितप्रभावे भगवत्तेजसि सहस्रभानुप्रभृतीनामेव भानदौर्लभ्ये ततोऽप्यतिमात्रन्यूनस्य सलिलासेचनमात्रेणापि शाम्यतोऽग्नेर्भानदौर्लभ्ये कैमुतिकन्यायेन प्रतिपाद्यते ॥

 यथावा--

 हारलता याकाचिन्नाथ तवोरसि पदं यदि निदध्यात् । त्वद्दयिता जलधिसुता कृतास्पदाऽत्रेति नैतदाश्चर्यम् ॥ १५१६ ॥

 अत्र हारलताकर्तृकभगवद्वक्षोऽधिकरणकपदन्यासेन अप्रकृतेन भगवद्वक्षोऽधिकरणकश्रीपदन्यासनरूपस्य प्रकृतस्य सौकर्यं दण्डापूपिकया प्रतिपाद्यते । इयं च हारलतेति स्त्रीलिङ्गशब्देन नायिकात्वप्रतीतेस्समासोक्त्या संकीर्णा । एवमुत्तरत्रापि यथासंभवमूह्यम् ॥

 यथावा--

 दिनकरवितीर्णपूर्णद्युतिभरमब्जं जयेद्यदि पदं ते । वदनं तथेति सुधियो वदितुं के नाम नाथ संदिहताम् ॥ १५१७ ॥

 पदं वदनं च कर्तृ । अब्जं कर्म । कमलं चन्द्रमसं चेत्यर्थः । दिनकरेत्यादिविशेषणमुभयोस्तुल्यम् । वदनं तथेति दिनकरवितीर्णपूर्णद्युतिभरमब्जं जयतीति वदितुं के नाम सुधियस्संदिहतामिति योजना ॥

 यथावा--

 अर्थिजनार्दनचकितो भजसेऽच्युत चेत्त्वमेव गिरिदुर्गम् । किं चित्रं श्रयते श्रीस्त्वदुरोदुर्गं निसर्गतो भीरुः ॥ १५१८ ॥

 अर्थिजनानां अर्दनं पीडनं याचनं च । तस्मात् चकितः नेग चकित इति वा । भीत इत्यर्थः ।

 यथावा--

 देवस्य लोकबन्धोः प्रसादतः कमलमपि मुखे कविताम् । समुपेत्य यदि च विमलं भवति कविकुलं तथेति किं चित्रम् ॥ १५१९ ॥

 कमलं लोकबन्धोर्देवस्य भानोः ‘स नो बन्धुर्जनिता’ इत्युक्तरीत्या निर्व्याजलोकबान्धवस्य भगवतश्च । प्रसादात् प्रकाशात् अनुग्रहाच्च । मुखे वदने अग्रभागे च । कवितां कवनं कस्य कवर्णस्य वितां विवर्णत्वं समुपेत्य विमलं भवत्येव शुचि भवत्येव ‘विप्रश्शुचिः कविः’ इति श्रुतेः । विमलमिति शब्दरूपं निष्पद्यत इति तत्त्वम् ॥

 यथावा--

 समतायां चेद्यतते सुधा भवति नाथ तववाचा । अन्यत्तां तुलयेदिति वार्ता वार्तैव भुजगशिखरीन्दो ॥ १५२० ॥

 हे नाथ! सुधा तव वाचा समतायां तुल्यतायां यततेचेत् मुधा भवति व्यर्थोद्यमा संपद्यते । निस्सारत्वान्न तत्तुल्या स्यादिति भावः । सुधा सुधेति शब्दव्यक्तिः समतायां सस्य सकारस्य मतायां मवर्णतायां यततेचेत् मुधा भवति मुधेति निष्पद्यत इति चमत्कारातिशयः । अन्यत् वस्त्वन्तरं तां तुलयेदिति वार्ता संभावनाऽपि वार्तैव फल्गुरेव ‘वार्तं फल्गुन्यरोगे त्रिषु' इत्यमरः ॥

 यथावा--

 पटुरुचिना येन जितः कल्याब्जव्यूह एव तस्यास्य । तव वदनस्य कियानिह भविता जडराजमण्डलस्य जयः ॥ १५२१ ॥

 अत्र वदनस्येति शेषे षष्ठी । राजमण्डलस्येत्यत्र तु कर्मणि । तेन ‘उभयप्राप्तौ कर्मणि’ इति नियमस्य नायं विषय इति ध्येयम् । कर्तृकर्मणोर्युगपत्कृतिप्राप्तावेव तन्नियमप्रवृत्तेः । यद्वा ‘शेषे विभाषा' इति वार्तिके विभाषाङ्गीकारात् शब्दानामनुशासनमाचार्येणाचार्यस्य वेत्यादाविव उक्तनियमाप्रवृत्तेः । कर्तृकर्मणोरुभयोरपि षष्ठी निष्प्रत्यूहैव । कल्यः नीरोगः दक्षो वा

सज्जो वा ‘कल्यमहर्मुखे । कल्या कल्याणवाचि स्यात्रिषु नीरोगदक्षयोः' इति रत्नमाला । ‘कल्यौ सज्जनिरामयौ, इत्यमरः । तस्य तादृशस्य कस्यचिद्राज्ञ इति गम्यते । यः अब्जव्यूहः पद्माकारस्सेनाविन्यासविशेषः तस्थो वीरजन इति यावत् । वस्तुतस्तु कल्यं प्रभातं तस्मिन् यः अब्जप्यूहः पद्मसमूह इत्यर्थः । जडः स्तब्ध: बुद्धिहीनो वा । ‘जडस्स्तब्धे बुद्धिहीने हिमग्रस्तेऽपि वाच्यवत्’ इति रत्नमाला । तथाविधो यो राजा नृपतिः तस्य यत् मण्डलं राष्ट्रं तस्य । परमार्थतस्तु जडः शिशिरः यः राजा चन्द्रः तस्य मण्डलं बिम्बं तस्येत्यर्थः । अन्यत्तुगमम् । अत्र कल्याब्जव्यूहनिर्जेतुर्वदनस्य जडराजमण्डलजयः कैमुतिकन्यन्यसिद्धः । श्लेषसमासोक्त्युत्तम्भितेयम् ॥

 यथावा--

 सर्वज्ञश्लाघ्ये तव वदनेन सता कलानिधौ विजिते । स्वत एव भङ्गभाजो जडजातस्य तु जयेऽत्र को विशयः ॥ १५२२ ॥

 सता विदुषा प्रशस्तेन च तव वदनेन सर्वज्ञश्लाघ्ये विद्वन्मणिश्लाघनीये धूर्जटिशिरोविधृते च । कलानिधौ सर्वविद्यानिवासभूते विदुषि चन्द्रमनसि च । विजिते सति । स्वत एव भङ्गं पराभवं तरङ्गं च भजतीति तथोक्तस्य जडजातस्य स्तब्धजन्मनः । निसर्गत एव जडजन्मनः सर्वत्र पराभवजुषश्चोति भावः । ईदृशस्य जये अभिभवे को विशयः कस्संदेहः न कोऽपीति भावः । अत्रापि महाविद्वज्जयिनो वदनस्य निसर्गभङ्गशालिजडजातविजयरूपार्थो दण्डापूपिकया निबद्धः ॥

 यथावा--

 करिकुम्भविजयिनस्तब हरिमहिळे परमुरोजयुगळस्य । अचलविजयः कियान् स्याद्यदसावविरेव विश्रुतो जगति ॥ १५२३ ॥

 अबिरेव श्रुतः मेष इत्येव ख्यातः । अविशब्दो गिरिमेषोभयवाची । ‘अवयशैलमेषार्काः’ इत्यनुशासनात् । करिकुम्भविजयिनो मेषजयः कियानिति भावः । अत्र यद्यपि न गिरिः करिकुम्भतो न्यूनः। येन तज्जयः कैमुतिकन्यायेन न्यूनस्स्यात् । तथाऽपि अविशब्दप्रतिपाद्यमेषशैलरूपार्थद्वयस्य श्लेषभित्तिकाभेदाध्यवसायेनैकीकरणान्न्यूनत्वमिति ध्येयम् । एवं ‘पटुरूचिना येन जितः कल्यब्जव्यूह एव’ इति प्रागुदाहृते पद्येऽपि द्रष्टव्यम् ॥

 यथावा--

 नाकोऽपि त्वद्धाम्नो नारक एवान्ततो भवेदितरः । मध्ये लोपगतोऽच्युत नरलाको नरक इति किमाश्चर्यम् ॥ १५२४ ॥

 हे अच्युत! नाकः स्वर्गोऽपि अन्ततः सम्यग्विमर्शे सति तव धाम्नः दिव्यस्य स्थानस्य इतरः प्रसिद्धनरकेभ्यो विलक्षणः नारकः नरक एव भवेत् ।

रम्यानि कामचारीणि विमानानि सभास्तथा ।
आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः ॥
एते वै निरयस्तात स्थानस्य परमात्मनः ।


 इति भारतोक्तेरिति भावः । ‘स्यान्नारकस्तु नरकः' इत्यमरः । मध्येलोपगतः । मध्या स्वर्गपातालयोर्मध्यवर्तिनी या इला भूरिति उपगतः अवगतः ज्ञात इत्यर्थः । नरलोकः मर्त्यलोकः नरको भवतीति किमाश्चर्यम् । महासुखत्वेन पुराणादिप्रतीतस्य स्वर्लोकस्यैव नरकप्रायत्वे दुःखसहस्रनिरन्तरकबळितो मर्त्यलोको नरकप्रायो भवतीति किमु वक्तव्यमिति भावः ॥

 पक्षे-- नाकोऽपि नाक इति शब्दोपि अन्ततः मध्ये इतर: प्राप्तरेफः इतः रः येन स इति विग्रहः। नारक एव नारकशब्द एव भवेत् । नरलोकः नरलोक इति शब्दः मध्ये अन्तराळे लोपगतः लो इति वर्णः अपगतो यस्मात्स तथोक्तः । आहिताग्न्योदेराकृतिगणत्वान्निष्ठायाः परनिपातः । अपगतलोवर्णः नरक इति निष्पद्यत इति किमाश्चर्यम् ॥

 यथावा--

 शरवर्षैस्तव शमितो मुरोऽग्निनिभ इति किमद्भुतं शौरे । स पुरस्कुरुतामन्यं मुरमयमपि मुर्मुरो भवञ् शाम्येत् ॥ १५२५ ॥

 हे शौरे! तव शरवर्षैः बाणवर्षैः सलिलवर्षैश्च । आग्निनिभः मुरः तन्नामा दैत्यः शमित इति किमद्भुतम् । सः मुरः अन्यं मुरं मुरासुरं पुरुस्कुरुतां त्वद्विजयय स्वापेक्षया प्रबलं मुरान्तरमेवाग्रे कुरुतां 'प्रैषातिसर्ग’ इत्यादिना अतिसर्गार्थे लोट् । अतिसर्गः कामचारानुज्ञा । सोऽपि अन्यो मुरोऽपि मुर्मुरः तुषाग्निः भवन् शाम्येत् । 'मुर्मुरस्तु तुषानलः' इति विश्वः । पक्षे मुर इति शब्दः अन्यं स्वापेक्षया भिन्नं मुरं मुर्

इत्याकारकं शब्दं पुरस्कुरुतां स्वमुखभागे कुरुताम् । अयमपि मुरशब्दोऽपि मुर्मुरः मुर्मुर इति निष्पद्यमान इत्यर्थः । अत्र प्रबलतरसुरान्तरस्यैव तुषाग्नितुल्यतया शान्तौ मुरासुरस्याग्निनिभस्य शान्तिः कैमुतिकन्यायेन सिद्धा ॥

 यथावा--

 सकृदीक्षसेऽम्ब यं त्वं स एव कल्याणगुणगणनिधिश्चेत् । तव नित्यनिवासोऽयं तादृग्भवतीति विस्मयः कोऽत्र ॥ १५२६ ॥

 अत्र--

स श्लाघ्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान् ।
स शूरस्स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥

इत्यस्यार्थोऽनुसंहितः ॥

 यथावा--

 इन्दीवरमेव हरे विन्देच्छ्रुतिशिखरशेखरत्वं चेत् । त्वं तद्भजसीत्येतत्कस्य पुनर्विस्मयाय कल्पेत ॥ १५२७ ॥

 इन्दीवरमेव भगवत्सवर्णमेवेत्यभिप्रायः । श्रुतिशिखरशेखरत्वं कर्णावतंसत्वं वेदान्तवेद्यत्वं च ॥

 व्यवधायकोऽव्ययश्चेद्वधायकस्स्यात् क्षमो हिरण्यस्य । प्रह्लादस्य विपत्तौ वरहिततां प्रप्य धायकश्च भवेत् ॥ १५२८ ॥

 अव्ययः भगवान् । नाशरहितोऽपिति भावः 'अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु' इति मेदिनी । प्रह्लादस्य विपत्तौ आपदवसरे हिरण्यस्य हिरण्यकशिपोः वधाय वधं कर्तुं विधायकश्चेत् व्यवधानं चासंसक्ततयाऽवस्थानं औदासीन्यभाक्चेदिति यावत् । व्यवपूर्वकाद्दधातेः कर्तरि ण्वुल् । कः क्षमः । कोऽन्यस्तद्वधसमर्थ इत्यर्थः । किंच वरहिततां प्राप्य । प्रह्लादस्येति क इति चानुषज्यते । प्रह्लादस्य वरहिततां वरदानेनानुकूल्यं प्राप्य । धायकश्च पोषकोऽपि को भवेत् ‘यत्रामृतः पुरुषस्सोऽव्ययात्मा । अव्ययः पुरुषस्साक्षी' इत्यव्ययतया प्रथितः परमपुरुष एव हिरण्यकशिपुवधतन्नन्दनपोषणयोरुदासीनश्चेत्कस्तत्संहार्योऽन्यः प्रभवेदिति भावः ॥

 पक्षे ब्यवधायकः व्यधायकशब्दः अव्ययः व्यं व्य इत्याकारकवर्णसमुदयं यातीति व्ययः स न भवतीत्यव्ययः । व्यशब्दोपपदकाद्यातेः ‘आतोनुपसर्गे कः' इति कप्रत्यये ‘आतो लोप इटि च' इत्यालोपः । व्यकाररहितश्चेदित्यर्थः । वधायकस्स्यात् वधायक इति निष्पद्येत । अवपूर्वकाद्दधातेर्ण्वुलि 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इति अवेत्युपसर्गावयवाकारलोपः । ततः वरहिततां वकारविधुरतां प्राप्य धायकश्च धायक इति शब्दोऽपि भवेत् ॥

 यथावा--

 गोपायापायान्मां पापमपि द्विप इतीममपि भगवन् । पयसिजनयन कियदिदं द्विपावनं लोकपावनस्य तव ॥ १५२९ ॥

 हे भगवन् ! पापमपि दुष्कृतिनमपि अत्रापिर्विरोधे । इममपि मामपीति भावः । अत्रापिस्समुच्चये । द्विप इति । द्विरद इति पापशब्दस्य पकारद्वयघटितत्वाच्छब्दार्थयोस्तादात्म्यात्तदर्थस्यापि द्विपत्वमिति हार्दोऽभिप्रायः । अपायात् विपदः । गोपाय रक्ष । लोकपावनस्य सकललोकपालानां रक्षकस्य द्विपावनं गजरक्षणं कियत् । द्वौ पातीति द्विपः तस्य वस्तुद्वयपालयितुः गोपनं कियदित्यप्यर्थो गम्यते । द्विपावनमित्यत्र शेषषष्ठ्या कर्मणि षष्ठ्या वा समासः । लोकपावनस्य सकलभुवनपावयितुः द्विपावनं द्वयोः गजस्य मम चेत्युभयोः पवित्रीकरणं इदं कियदित्यप्यर्थः प्रतीयते । तदा पूर्वार्धे गोपनं पवित्रीकरणरूपमित्यनुसंधेयम् । इमानि सर्वाण्युदाहरणानि प्राचामनुरोधेन ॥

 रसगङ्गाधररीत्या त्विदं लक्षणम्--

अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेत् ।
अपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते ॥

 केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिः काव्यार्थापत्तिः । न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा । प्रत्येकमर्थान्तरस्य साम्याधिक्यनूनत्त्वैर्द्वादशधा । ततो भावाभावत्वाभ्यां चतुर्विंशतिभेदा ॥

 प्रकृतेन प्रकृतस्यापादनं यथा--

 सहजश्रीत्वाद्यदि ते हृद्यत्वं कौस्तुभः प्रपद्येय । सहजश्रीको न कुतः प्रपद्यतां हृद्यतां मणिकिरीटः ॥ १५३० ॥

 हृद्यत्वं च हृदयस्थितत्वं हृदयप्रियत्वं च । अत्र आपादकात्प्रकृतादापाद्यमानस्य प्रकृतस्य साम्यम् ॥ श्लेषोत्तम्भितमिदम् ॥

 नाथ सुमहाच्छविद्युत्पुष्करपुष्कलविकासि तव भासा । असिताभ्रं यदि विजितं जितमसिताब्जमिति तत्समं स्थाने ॥ १५३१ ॥

 हे नाथ! सुमहाच्छा अतिमात्रनिर्मला विद्युत् तटित् यस्मिंस्तत् । अन्यत्र सुमहती च्छविः दीप्तिः तया विद्योतत इति सुमहाच्छविद्युत् । द्योततेः क्विप् । पुष्करे व्योम्नि सलिले च । पुष्कलं अतिशोभनं यथातथा विकासि विजृम्भमाणं उत्फुल्लं च । असिताभ्रं नीलजलदः तत्समं । असिताब्जं इन्दीवरं च । स्थाने युक्तम् । सुगममितरत् । अत्र द्वयोरपि प्रकृतत्वं साम्यं च ॥

 मद्रक्षणोन्मुखा यदि रक्षोक्त्या सा रमैव तव दयिता । तर्हि हरे तदधीना क्षमाऽपि भविता तथेति नाश्चर्यम् ॥ १५३२ ॥

 हे हरे ! रक्षोक्त्या रक्ष त्रायस्व इत्युक्तिमात्रेणैव सा जगदीश्वरत्वेन दिव्यमहिषीत्वेन च प्रथिता तव दयिता रमैव मद्रक्षणोन्मुखा यदि तर्हि तदधीना रमाया वशंवदा क्षमा भूदेव्यपि । यद्वा तदधीना उक्त एवार्थः । क्षमा भगवतः क्षान्तिरपि भगवत्कर्तृकाश्रितापराधक्षमायाः लक्ष्मीपुरुषकारत्वनिष्पाद्यत्वादिति भावः । तथा मद्रक्षणोन्मुखा भवितेति नाश्चर्यम् । ‘नित्योन्नतो नृपतिरव वशीकृतश्चेत्किं कुर्वते परिजना इति कः प्रयत्नः' इति न्यायादिति भावः । पक्षे रमा रमेति शब्दव्यकिः रक्षोक्त्या

रेफस्य क्षकारोक्त्या तदधीना क्षकारवश्या सती क्षमा भवितेति क्षमेति निष्पत्स्यत इति नाश्चर्यमित्यप्यर्थश्चमात्कारमतिशाययति । अत्र त्वद्दयितरमारूपप्रकृतार्थापेक्षया प्रकृतायाः क्षमायाः तदधीनत्वेन न्यूनत्वम् ॥

 यथावा--

 करुणामयि कृतमन्तुं त्वमेव मां यदि रमे परित्यजसि । क्रोधोष्मलोऽपराधिषु नाथोऽपि सुदूरमेव संत्यजति ॥ १५३३ ॥

 अत्रपि प्रस्तुतेनापाद्यमानस्य प्रस्तुतस्य न्यूनत्वम् । तच्च करुणामयि क्रोधोष्मल इति विशेषणाभ्यामवगम्यते । अत एवेयं परिकरोत्तेजिता । पूर्वा तु श्लेषसंकीर्णेति विशेषः ।

 पुरुषोत्तम पाप्मानं मम यदि हन्तुं त्वमेव नाशक्नोः । किमिदं नु विस्मयपदं क्षमाऽपि तव नैव शक्ष्यति निहन्तुम् ॥ १५३४ ॥

 तव क्षमा क्षान्तिः । अत्र पापस्य अतिमहत्तरत्वेन भगवताऽपि दुरूच्छेदत्वं सिद्धवत्कुर्तुः कस्यचिदुक्तिः परमपुरुषापेक्षया क्षमायाः स्त्रीत्वेन न्यूनत्वम् । अत एव किं विस्मयपदमिदमित्युक्तम् । अत्रापाद्यापादकयोर्द्वयोरपि प्रकृतत्वम् ॥

 अप्रकृतेन अप्रकृतस्यापादनं यथा--

 यदि कश्चित्तव तुलनां हृदि वाञ्छति जन्तुरच्युत तदानीम् । भूमेर्धौरन्धर्यं सौमेरवमेव वहति परमाणुः ॥ १५३५ ॥

अत्राप्यप्रकृतात् अपादकात् अप्रकृतस्यापाद्यमानस्याधिक्यम् ॥

 प्रकृतेन अप्रकृतस्यापादनं यथा--

 सर्वज्ञ यदि तवाग्रे वर्वर्ति मदीयमेतदपि कवनम् । सुरवैणिकवरसंसदि निरजीयत तर्हि मशकगानेन ॥ १५३६ ॥

 निरजीयत निर्जितम् । निः पूर्वकाज्जयतेर्भावे लङ् । अत्र वर्वतीति विद्यमानतारूपात्प्रकृतार्थात् निरजीयतेत्यापाद्यमानस्याप्रकृतार्थस्य सर्वोत्कृष्टतयाऽवस्थानरूपस्याधिक्यम् ॥

 जाग्रति रमापते त्वयि जगदवनार्थे यतेत चेदन्यः । सुलभं विलसति तार्क्ष्ये शलभस्य तदा शकुन्तसाम्राज्यम् ॥ १५३७ ॥

 अत्र यतत इति यतनरूपात्प्रकृतार्थात् आपाद्यमानस्य साम्राज्यलाभरूपस्याप्रकृतस्याधिक्यम् ॥

 भूमीभिक्षावसरे भगवानेवातिखर्वमूर्तिश्चेत् । सर्वोऽप्यन्यः कृपणः खर्वीभवतीति किं नु वक्तव्यम् ॥ १५३८ ॥

 भूमिभिक्षावसरे इत्येतदुत्तरार्धेऽप्यन्वेति ॥

 अर्थिनिवहेप्सितार्थांस्त्वमेव चेन्ननु रमेश न ददीथाः । इतरो भिक्षाकः किं सकृत्तिको मृत्तिकामपि ददीत ॥ १५३९ ॥

 अत्राभावेनाभावापादनम् । प्रकृतादप्रकृतस्यापाद्यमानस्य न्यूनत्वं च ।

 यथावा--

 क्षमयाऽप्यसमधिगम्ये रमया हरिहृदयसदनया साम्ये । इतरासां महिषीणां सुतरां वार्ताऽपि तस्य दूरतरा ॥ १५४० ॥

 अत्राप्यभावेनाभावापादनम् । प्रकृतादप्रकृतस्य न्यूनता च ॥

 अप्रकृतेन प्रकृतस्यापादनं यथा--

 अधिजलधि निमज्जन्तं मधुसूदन मन्दरं तमुदधार्षीः । भवजलधौ प्लवमानं मामुद्धर्तुं कियान्प्रयासस्ते ॥ १५४१ ॥

 अत्राप्रकृतात्तथाविधमज्जन्मन्दरोद्धरणवृत्तान्तात् प्रकृतस्यापततो भवजलधिप्लवमानोद्धरणस्य न्यूनता । किंच आपततः पुनरर्थान्तरस्योपादानानुपादानाभ्यां संभवत्यस्या वैचित्र्यम्। तत्रापततोऽर्थस्योपादाने उदाहरणानि दर्शितानि ॥

 अनुपादाने यथा--

 वरुणालयधरणीगतमणयोऽपि क्वचन गणयितुं शक्याः । फणिगिरिमणेस्तु सुगुणा गणयितुममुनैव नैव शक्यास्स्युः ॥ १५४२ ॥

 अमुनैव श्रीनिवासेनैव । अत्र श्रीनिवासादन्येषां का कथेत्यापतदर्थान्तरमनुपात्तम् ॥

 यथावा--

 त्वन्महिमपरिज्ञाने सर्वज्ञोऽप्यज्ञ एव देव भवेत् । पूर्णं तं वर्णयितुं चतुरास्योऽप्यचतुरास्य एव हरे ॥ १५४३ ॥

 अत्राप्यन्येषां का वार्तेत्यापतदर्थान्तरमनुपात्तम् । विरोधाभाससंकीर्णत्वं तु विशेषः ॥

 यथावा--

 जाग्रति नाकीशे त्वयि भवेकाधीनगो हि यो जन्तुः । स भवेद्बालिश एव स्यादपि नगबालिकाधीशः ॥ १५४४ ॥

 हे भगवन्! अकं दुःखं पापं च एषामस्तीत्यकिनः । ते न भवन्तीति नाकिनः तेषां देवानामिति तु हृदयम् । अधीशे अधीश्वरे त्वयि जाग्रत्यपि । ‘षष्ठी चानादरे’ इति सप्तमी । त्वामनादृत्येत्यर्थः । यो जन्तुः प्राणी अकाधीनगः अकस्य सांसारिकदुःखस्य अधीनान् गच्छतीति तथोक्तः ।

आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः ।
प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥

 इत्याद्युक्तरीत्या भवदुःखभाजो ब्रह्मादयः तान् श्रित इत्यर्थः । सः नगबालिकाधीशस्स्यादपि सर्वज्ञश्शम्भुरेव भवन्नपीति भावः । बालिश एव वैधेय एव भवेत् । निरतिशयानन्ददायिनमानन्दमयं भगवन्तमुपेक्ष्य कर्मवशगचतुराननाद्याश्रयकारी सर्वज्ञोपि मूर्ख एव स्यात् । किमुतान्ये इति भावः । पक्षे नगबालिकाधीशशब्दः

अविद्यमानाः क धी न गा इति चत्वारो वर्णाः यस्य सः अकाधीनगश्चेत् बालिश इति निष्पद्यत इत्यर्थः । अत्र लुप्यमानानां वर्णानां क्रमो न विवक्षितः । अत्र किमुतान्ये इत्यापतदर्थान्तरमनुपात्तम् ॥

 सावरणान्ब्रह्माण्डान् कबळयतो युगपदमिततरशक्तेः । नाकादयोत्र लोकास्स्तोकाः केऽमी तवाच्युत पुलाकाः ॥ १५४५ ॥

 अत्र भगवतो युगपदनेकब्रह्माण्डकबळनेन तदन्तर्गतानां नाकादिलोकानां कबळनस्यार्थिकत्वं कैमुतिकन्यायेन प्रतिपाद्यते ॥

 यथावा--

 अखिलजगद्दुरितमुषो मद्दुरितमिदं जनार्दन कियत्ते । प्रलयाब्धिशोषणपटोः प्रचण्डकिरणस्य को नु वेशन्तः ॥ १५४६ ॥

 को नु कः पदार्थ इत्यर्थः । अत्र प्रतिवस्तूपमा महावाक्यार्थः । दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च । तत्रोपमेयवाक्यार्थगतायामर्थापत्तौ आपाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यर्थौ प्रकृतौ । उपमानवाक्यार्थगतायां त्वप्रकृतावितीदमेव पूर्वोदाहरणेभ्यो वैलक्षण्यम् । अनया दिशा अन्यदप्यूह्यम् ॥

 अत्र विचार्यते—- नेयं वाक्यवित्संमतायामर्थापत्तौ निविशते, आपादकस्यार्थस्यापतितमर्थं विना अनुपपत्तेरत्राभावात् । नापि यद्यर्थातिशयोक्तौ, तस्या विपरीतार्थ एव द्वयोर्विश्रान्तेः, न चेह तथा, आपादकस्य सिद्धत्वादापततश्च संभाव्यमानत्वा

द्यथाश्रुत एव द्वयोर्विश्रान्तेः । तस्माद्येन न्यायेनैकोर्थस्सिद्धस्तेनैव न्यायेनापरोप्यर्थस्सेद्धुमर्हतीत्येवंरूपेयमर्थापत्तिः । अस्यां चार्थान्तरं लोके अविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदाऽलंकारत्वं, यथा “सुरवैणिकवरसंसदि’ इत्यादौ । अन्यथा तु कैमुतिकन्यायतामात्रं यथा 'सावरणान् ब्रह्माण्डान्’ इत्यादौ । प्राचीनरीत्या तदुदाहृतमस्माभिः । अत एव तत्र कैमुतिकन्यायेनेत्युक्तम् । यत्तु ‘कैमुत्येनार्थसंसिद्धि:’ इति कुवलयानन्दकृद्भिर्लक्षणमुक्तं तन्नातीवहृदयङ्गमं, कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकाद्यर्थापत्तावव्याप्तेः । यथा--

 त्वच्चरणशरणगतमप्यभिभवति श्रीश यदि च भवतापः । पीयूषकिरणमप्यभिभविता शनकैर्निदाघभवतापः ॥ १५४७ ॥

 अत्र शनकैश्शब्दमहिम्ना भगवत्प्रपन्नेषु भवतापाभिभवापेक्षया पीयूषकिरणे ग्रीष्मतापकर्तृकाभिभवो दुष्कर एवेति विदितमपि न्यायसाम्यादापाद्यते । न तु कैमुतिकन्यायेन ॥

 अत्र वैद्यनाथः-- "केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरर्थापत्तिः । न्यायश्चात्र कारणम् । इति रसगङ्गाधरोक्तलक्षणमयुक्तं, का वार्ता सरसीरुहामिति कैमुत्यन्यायविषयार्थापत्तावव्याप्तेः । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्यायत्वाभावादापादनाप्रतीतेश्च । न चात्र कैमुत्यन्यायतामात्रं न त्वलंकारत्वमिति युक्तं, अलंकारतत्वविदामभियुक्तानां प्राक्तनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात् । लोकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारित्वानुभवेन तेनैव न्यायेन

तस्या अलंकारतासिद्धेश्च । इत्थं च त्वदुक्तार्थापत्त्युदाहरणे वक्ष्यमाणस्संभावनालंकारः ‘योऽन्यैर्यद्यर्थोक्तौ च कल्पनम्' इति यद्यर्थातिशयत्वेनोक्तः यद्यर्थातिशयोकौ आपाद्यापादकयोर्विपरीतार्थविश्रान्तत्वम् । इह तु आपादकस्य सिद्धत्वं आपाद्यस्य संभाव्यमानत्वमिति वैचित्र्यं तु तदवान्तरभेदतायास्साधकम् । न तु तद्वहिर्भूतताया इति न तत्राव्याप्तिशङ्काऽपीत्यलम्” इति ॥

इत्यलंकारमणिहारे काव्यार्थापत्तिसर एकषष्टितमः.


अथ काव्यलिङ्गसरः. (६२)



यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम् ।
समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते ॥

 अर्थान्तरन्यासवारणायानालीढान्तम् ॥

 यथावा--

 भो दोषा यष्माभिर्वस्तुं स्थानान्तराणि मृग्यन्ताम् । लभ्योऽत्र नावकाशो मय्यघकूलंकषो वसति कश्चित् ॥ १५४८ ॥

 अत्र दोषाणामवकाशालाभरूपः पूर्ववाक्यार्थः । तस्य च सकलदोषनिश्शेषहरणचणश्रीहरिसांनिध्यप्रदर्शनरूपोत्तरवाक्यार्थेन समर्थनं काव्यलिङ्गम् ॥