अलङ्कारमणिहारः (भागः ३)/विकल्पालङ्कारः (५६)

विकिस्रोतः तः
Jump to navigation Jump to search

णतरणशब्दयोर्मकारतकारमात्रवैषम्यादन्यतरमुपादायेत्यप्यर्थश्चमत्कृतिविशेषायोपस्कार्यः ॥

 प्रतियन्नखिलांहस्ततिमोचनवचनं व्रजामि शरणं त्वाम् । प्राप्तस्तस्यावसरः प्रतारणं वाऽस्तु तारणं वा तत् ॥ १४७६ ॥

 अखिलांहस्ततिमोचनवचनं ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इति तव वचः प्रतियन् विश्वसन् त्वां शरणं व्रजामीति चरमश्लोकार्थानुवादः । तस्य प्रतिज्ञातसर्वपापविमोचनस्य अवसरः प्राप्तः । सर्वपापशेवधिरूपमादृशविषयलाभादिति भावः । तत् तव वचनं प्रतारणं अतिसंधायकं वाऽस्तु तारणं संसृतिनिस्तारकं वा अस्तु ॥

 भक्त्याऽथवा प्रपत्त्या कृतापराधोऽपि नाथ विन्दे त्वाम् । मामेवं कुतयतनं गृहाण निगृहाण वा किमयशो मे ॥ १४७७ ॥

 एवं कृतयतनं अनुष्ठितोपायं मां गृहाण रक्षतया स्वीकुरु । निगृहण वा निगृहीष्व वा मे मम किमयशः का वाऽकीर्तिः, प्रत्युत प्रपन्ननिग्रहे तवैवाकीर्तिरिति भावः । अत्र मरणतरणयोः, प्रतारणतारणयोः ग्रहणनिग्रहयोश्च औपम्यप्रतीत्यभावात्केवलं विकल्पः । यथा-- जीवनं मरणं वाऽस्तु नैव धर्मं त्यजाम्यहम् इत्यादौ । अत्र जीवनमरणयोर्नौपम्यप्रतीतिरिति रसगङ्गाधरकारादयः ॥

 उदाहरणं--

 निश्शङ्कं शरणंगतमेष द्वेधाऽप्यरिं न बाधेत । राघवमाहवमथवा रजनिचरेश द्रुतं प्रपद्येथाः ॥

 इदं रावणं प्रत्यङ्गदवचनं । एषः राघवः द्वेधाऽपि निश्शङ्कं शरणंगतं अरिं न बाधेत निश्शङ्कं अयं मां बाधेतति संशयरहितं यथास्यात्तथा शरणं गतं अरिं न बाधेत, शरणागतपरित्राणधर्मधुरीणमूर्धन्यत्वात् । पक्षे निश्शं निर्गतश्शकारो यस्मात्तं तथोक्तं शरणं रणमित्यर्थः । गतं युद्धार्थमभिमुखागतं कं अरिं न बाधेत सर्वमप्यभियातिनं बाधत एवेत्यर्थः । तस्मात् राघवं द्रुतं प्रपद्येथाः शरणं व्रज । प्रपूर्वस्य पद्यतेस्तादृशार्थकत्वात् । अथवा आहवं युद्धं प्रपद्येथाः प्राप्नुहि । अत्र प्रपदने संधिविग्रहकर्तव्यताबोधकप्रमाणाभ्यां कर्मतया राघवाहवयोर्यौगपद्यासंभवात्पर्यायेण प्राप्तिः । कर्मणोः क्रियाफलेन प्रपदनेनैव समानधर्मेणौपम्यम् ॥

 नन्वत्र यथा प्रपूर्वकपदिधात्वर्थफलभूतप्रपदनरूपधर्मेक्यात्कर्मणोरौपम्यं गम्यते तथा ‘जीवनं मरणं वाऽस्तु’ इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयोः कर्त्रोरपि औपम्यं गन्तुं युज्यत इति चेत् युज्यते न तु गम्यते । अथ तत्कुतो हेतोरिति चेत् कवितात्पर्यविरहादिति गृहाण । न ह्यत्र मरणं जीवनं च समानमिति कवेस्तात्पर्यं, किंतु विषं भुङ्क्ष्व मा चास्य गेहे भुङ्था इतिवत् धर्माद्धेतोर्मरणमपि ज्यायः न तु धर्मत्याग इति निषिद्धगतद्वेषाधिक्ये । तदर्थं च मरणस्योपात्तत्वादविक्षिताधिकरणतया औपम्यस्यानिष्पत्तिरेवेत्याहुः । एवं मरणं वा तरणं वेति श्लोके गम्यमानप्रतिज्ञाहानरूपनिषिद्धमादाय तद्गतदोषाधिक्ये प्रतियन्निति श्लोके तु शरणव्रजनरूपविहितगतादराधिक्ये कवे

स्तात्पर्यं, न तु मरणे वा प्रतारणे वा । एवं भक्त्येति श्लोकेऽपि बोध्यम् ॥

 यथावा--

 शङ्कातङ्कविदूरैर्लङ्काद्वारं न्यरोधि हरिवीरैः । सीतां वितर स्फीतां युधमथवा कोसलाधिनाथाय ॥ १४७९ ॥

 अत्र ‘सीतां वाऽस्मै प्रयच्छ त्वं सुयुद्धं वा प्रदीयतम्’
 इति श्रीरामायणश्लोकानुसारिणि रावणं प्रति सारणवाक्ये रावणविषये संधिविग्रहप्रमाणप्राप्तयोरत एव तुल्यबलयोर्युगपदसंभवतोस्सीतायुद्धवितरणयोः पाक्षिकान्यतरप्राप्त्यनुपमर्देनान्यतरप्रतिक्षेपलक्षणस्य विकल्पस्य वर्णनं कर्मणोस्सीतायुद्धयोः क्रियाफलेन वितरणेनैव समानधर्मेणौपम्यम् ॥

 यथावा--

 नागेशगिरिमणे भययोगेन त्वां प्रपन्न एष जनः । भोगं वा योगं वा देहि कियान् स्यात्तवैष भयभेदः ॥ १४८० ॥

 नागेशगिरिमणे शेषाद्रिशिरोमणे एष जनः भययोगेन भीतिसंबन्धेन त्वां प्रपन्नः । भोगं सांसारिकसुखं वा योगं भोगनिवृत्तिकारणभूतं भक्तियोगं वा त्वदनुभवं वा देहि निरङ्कुशस्वतन्त्रतया यथेष्टं वितर । तव एष भयभेदः प्रपन्नभीतिनिराकरणं कियान् स्यात् न दुष्कर इत्यर्थः । भोगयोगशब्दयोर्भकारयकाराभ्यां भेदः कियान् अकिंचित्करः वर्णान्तरैकरूप्यादिति चाभि

प्रायः । अत्र भोगयोगयोरन्योन्यविरुद्धयोर्यौगपद्यायोगाद्विकल्पः । अत्रापि कर्मणोर्भोगयोगयोः क्रियाफलेन दानेनैव समानधर्मेणौपम्यम् ॥

 यथावा--

 नतरक्षणकृतदीक्षस्त्वमिति त्वां नाथ शरणमभिनाथे । आर्तिर्वा मम शाम्यतु कीर्तिर्वा तव नतावनैकान्ता ॥ १४८१ ॥

 त्वं रक्षसि चेन्ममार्तिश्शाम्यति ।

तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम् ।
यावन्न याति शरणं त्वामशेषाघनाशनम् ॥

 इत्युक्तेः। नचेत् तव शरणागतपरित्राणपरायणत्वनिबन्धनकीर्तिश्शाम्यति ।

विनष्टः पश्यतस्तस्य रक्षिणश्शरणागतः ।
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ।
अस्वर्ग्यं चायशस्यं च बलवीर्याविनाशनम् ॥

 इत्युक्तेः। अत्रोदाहृततुल्यबलप्रमाणाभ्यामार्तिशान्तिकीर्तिशान्त्योर्युगपत्प्राप्तयोरितरेतरविरुद्धतया युगपद्भावासंभवाद्विकल्पः । आर्तिकीर्त्योश्शमनरूपसमानधर्मेणौपम्यं ज्ञेयम् ॥

 क्वचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः ॥

 यथावा--

 किंचिद्वा भूयो वा पञ्चायुधमञ्च मुञ्च जाड्यमये । धात्रीमेतां भोक्ष्यसि वैधात्रीं प्राप्स्यसि श्रियं वाऽपि ॥ १४८२ ॥

 अत्र धात्रीभोगवैधात्रसंपत्प्राप्त्योः श्लाघ्यत्वेनौपम्यं विवक्षितम् । धात्वर्थयोरयं विकल्पः न तु धात्रीवैधात्रसंपदोः, तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यं, कर्तृरूपसाधारणधर्ममादाय औपम्यस्यात्र सुन्दरस्यानिष्पत्तेः । अन्यथा 'हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम्’ इत्यत्रेव ‘हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेरित्याहुः । एवंचास्मिन्नलंकारे विकल्प्यमानयोस्सुन्दरमौपम्यमलंकारताबीजं, तदादायैव चमत्कारोल्लासात् । अन्यथा तु विकल्पमात्रमिति रहस्यम् ॥

इत्यलंकारमणिहरे विकल्पसरष्षट्पञ्चाशः