अलङ्कारमणिहारः (भागः ३)/समुच्चयाललङ्कारः (५७)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


 अत्र धात्रीभोगवैधात्रसंपत्प्राप्त्योः श्लाघ्यत्वेनौपम्यं विवक्षितम् । धात्वर्थयोरयं विकल्पः न तु धात्रीवैधात्रसंपदोः, तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यं, कर्तृरूपसाधारणधर्ममादाय औपम्यस्यात्र सुन्दरस्यानिष्पत्तेः । अन्यथा 'हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम्’ इत्यत्रेव ‘हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेरित्याहुः । एवंचास्मिन्नलंकारे विकल्प्यमानयोस्सुन्दरमौपम्यमलंकारताबीजं, तदादायैव चमत्कारोल्लासात् । अन्यथा तु विकल्पमात्रमिति रहस्यम् ॥

इत्यलंकारमणिहरे विकल्पसरष्षट्पञ्चाशः


अथ समुच्चयालंकारसरः (५७)


 यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः ॥

 यौगपद्यादिति यथासंख्यव्यावृत्त्यर्थं, न त्वेकक्षणप्रतिपत्त्यर्थम् । तेन शतपत्रपत्रशतभेदन्यायेन क्वचित्किंचित्कालभेदेऽपि न समुच्चयभ्रंशः । स तावद्द्विविधः धर्मिभेदधर्मैक्याभ्याम् । धर्मैक्येऽपि द्वैविध्यं कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये कारणतया एकधर्म्यन्वये चेति । एवं त्रिविधेऽस्मिन् प्राथमिकयोर्भेदयोः गुणानां क्रियाणां गुणक्रियाणां च । तृतीयप्रभेदे शोभनानाम-


शोभनानां शोभनाशोभनानां तथाविधैस्समन्वयः । अयं तृतीयप्रभेद एव । ‘अहंप्रथमिकाभाजामेककार्यान्वयोऽपि सः' इति द्वितीयसमुच्चयत्वेन लक्षितो दीक्षितैः । अस्यैव तत्कर इति नामाहुः प्राञ्चः । तदुक्तं ‘तत्सिद्धिहेतोरेकस्मिन् यत्रान्यस्तत्करं भवेत्’ इति । विकल्पप्रतिक्षेपेणास्या स्थितिः । न चास्मिन्तृतीयप्रभेदे वक्ष्यमाणसमाध्यलंकारत्वमाशङ्कनीयं, यत्र ह्येकेन कार्ये निर्वर्त्यमानेऽप्यन्येनाकस्मादापतता कारणेन सौकर्यादिरूपोऽतिशयस्संपाद्यते स तस्य विषयः । अस्मिंस्तु तृतीयसमुच्चये यत्रैककार्यं निर्वर्तयितुं युगपदनेके खले कपोता इवाहंप्राथमिकया समापतन्ति कार्यस्य च न कोऽप्यतिशयः सोऽस्य विषयः ॥

 तत्र भिन्नधर्म्यन्वयो यथा--

 शरदिन्दुकरैर्विशदं गगनं यमुनावनं तु हरिधाम्ना । आनीलं स्मररागादाताम्रं चापि गोपिकानयनम् ॥ १४८३ ॥

 स्निह्यति नयनयुगं त्वयि मुह्यति संमोदपरवशं चेतः । स्रवति प्रमोदबाष्पं द्रवति च तव सेवनाद्भयं भूमन् ॥ १४८४ ॥

 अत्राद्ये गुणानां द्वितीय क्रियाणां च यौगपद्येन भिन्नधर्म्यन्वयः ॥

 एकधर्म्यन्वयो यथा--

 मणिवरभासाऽरुणितं हाररुचा स्मेरमसितमा-

त्मरुचा । श्रीविहृतिकृते रचितं स्थलमिव चित्रं हरेरुरो भाति ॥ १४८५ ॥

 अत्र आरुण्यादिगुणानां यौगपद्येनैकस्मिन् धर्मिण्युरोरूपे आधेयतासंबन्धेनान्वयः । एवमुत्तरत्रापि यथायथं द्रष्टव्यः ॥

 कल्याणगुणगणौघस्मरणात्तव नाथ भाग्यवान्मनुजः । विन्दति हर्षं तर्षं निन्दति नन्दति च तावकोत्कर्षम् ॥ १४८६ ॥

 तर्षं विषयतृष्णां निन्दति । तावकोत्कर्षं नन्दति अभिनन्दतीत्यर्थः ॥

 ननु वासुदेव यं क्षणमचिन्त्यवैभव न चिन्त्यते स भवान् । भ्राम्यति सुजनश्श्राम्यति ताम्यति नितरां तदा न शाम्यति च ॥ १४८७ ॥

 अत्र ‘यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते’ इत्यादिप्रमाणार्थोऽनुक्रान्तः ॥

 रुष्यति सद्भ्यो दुष्यति हृष्यति दुस्सङ्गतस्त्वदनभिज्ञः । तुष्यति विषयैश्शुष्यति पुष्यति दुरितं विशिष्य मुरवैरिन् ॥ १४८८ ॥

 अत्रोदाहरणत्रयेऽपि क्रियाणां युगपदेकधर्मिण्यन्वयः । तत्राप्याद्ययोश्श्लाघ्ये धर्मिणि तृतीये त्वश्लाघ्ये ॥

 गुणक्रियाणां यौगपद्येनान्वयो यथा--

 चलितभ्रु ललितमधुरं लुलितालकचारु विवलितापाङ्गम् । जगदीश्वरीमुखं फणिनगनाथमनो धिनोति सततमपि ॥ १४८९ ॥

 अत्र ललितमधुरमिति गुणयोः चलितभ्रु इत्यादिक्रियाणां च सामस्त्येन युगपदेकधर्मिण्यन्वयः ॥

 एवं धर्मैक्यरूपे द्वितीयप्रभेदे कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वयरूपः प्राथमिको भेदः प्रदर्शितः । कारणतया एकधर्म्यन्वयरूपे प्रभेदे शोभनानां शोभनैस्समुच्चयो यथा--

 ज्ञानबलैश्वर्याद्या गाम्भीर्यास्थैर्यधैर्यमुख्याश्च । कल्याणगुणाः प्रथयन्त्यनितरसाधारणास्तवौन्नत्यम् ॥ १४९० ॥

 अत्र ज्ञानादिष्वेकेनाप्युत्कर्षसंभवे बलादयोऽप्युत्कर्षप्रकाशनार्थं स्पर्धये वा पतन्तः शोभनाः ॥

 यथावा--

 कमलाभं नयनयुगं कमलादयितानिलाशनाद्रिमणे । रूपं च नीलजलदसरूपं प्रथयति तवाखिलेशत्वम् ॥ १४९१ ॥

 अत्र ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । हीश्च ते लक्ष्मीश्च पत्न्यौ । नीलतोयदमध्यस्था' इत्यादिश्रुतिप्रसिद्धपुण्ड

रीकाक्षत्वादिषु त्रिषु एकेनापि जगदीश्वरत्वप्रख्यापनसंभवे संघर्षादिव त्रयोऽपि तदर्थमापतन्तश्शोभनास्समुच्चिताः ॥

 यथावा--

 प्रेमोदयः कुतूहलमामोदव्यतिकरश्च रोमाञ्चः । त्वामालोकयतो मम सीमां चित्तस्य लोलयति भूमन् ॥ १४९२ ॥

 अत्रापि प्रेमोदयादेस्समुच्चयः पूर्ववद्द्रष्टव्यः ॥

 इदं सर्वं शोभनैश्शोभनानां समुच्चये उदाहरणम् । अशोभनैरशोभनानां समुच्चयो यथा--

 दुर्वाराः खलु विषया दुर्दान्तानीन्द्रियाणि मम नाथ । दुष्कर्म च निरवधिकं मर्म निकृन्तन्ति चिन्त्यमानानि ॥ १४९३ ॥

 अत्र दुर्वारत्वादिनाऽशोभनानां विषयाणां दुर्दान्तत्वादिभिरशोभनैरिन्द्रियादिभिस्समुच्चयः । अत्र विषयदुर्वारत्वेनैकेनैव चिन्त्यमानेन मर्मनिकृन्तनसिद्धौ इन्द्रियदुर्दान्तत्वादिकमपि तदर्थमापतितं समुच्चीयते ॥

 शोभनाशोभनसमुच्चयो यथा--

 तव निर्वर्णनहीनं नयनं वर्णनविहीनमपि रसनम् । आकर्णनहीनं च श्रवणं प्रवणं मनः कथं त्वयि मे ॥ १४९४ ॥

 अत्र नयनादीनि स्वाभाव्याच्छोभनानीति न निन्दनीयानि विशेषणमाहात्म्याच्च । शोभनानि निन्दागोचरतां प्रपद्यन्त इति

शोभनाशोभनसमुच्चयः । शोभनाशोभनानामित्यत्र कर्मधारय आश्रितः । न द्वंद्वः । सहचरभिन्नत्वदोषापत्तेः ॥

 एवमशोभनशोभनानामप्येककार्यजननार्थमापततां समुच्चयस्संभवति ॥

 यथावा--

 काव्यं त्वच्चरितमयं भव्यभवन्नामकोमलं गीतम् । तिर्यक्त्वमपि गिरौ तव पर्याप्तं श्रेयसे श्रियःकान्त ॥ १४१५ ॥

 अत्र 'काव्यालापांश्च वर्जयेत् । न च रक्तो विरावयेत्' इत्यादिप्रमाणैः काव्यगीतादीनि स्वभावतोऽशोभनान्यपि विशेषणबलाच्छोभनानि समुच्चितानि । तव गिरौ तिर्यक्त्वं त्वद्गिर्यधियरणकं तिर्यक्त्वमित्यर्थः॥

 यथावा--

 त्वन्निध्यानजमश्रु त्वद्ध्यानजमहिगिरीश यज्जाड्यम् । त्वन्नामकथनजन्यं सगद्गदत्वं च सद्गतेस्सरणिः ॥ १४९६ ॥

 अत्राश्रुप्रभृतयो निसर्गतोऽशोभना अपि भेदकमहिम्ना शोभनाः ॥

 केचित्तु द्रव्यजात्योरपि समुच्चयं मेनिरे । स च विच्छित्तिविशेषविरहादस्माभिरुपेक्ष्यते ॥

इत्यलंकारमणिहारे समुच्चयसरस्सप्तपञ्चाशः.