अलङ्कारमणिहारः (भागः ३)/परिसंख्यालङ्कारः (५५)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


 बिम्बानि विम्बीफलानि तावकीनानां त्वद्भक्तानां गृहेषु स्थिताः बालाः मुग्धललनाः माणवका वा । यद्यप्यत्र समृद्धिमद्वस्तुवर्णनात्मकोदात्तालंकारदत्तहस्ते दानादाने । अथापि न ते कविप्रतिभोन्मीलिते । क्रयस्य वास्तवत्वादिति नेदृशान्युदाहरणतामर्हन्ति ॥

 यदीदृशदानादानयोरपि कविप्रतिभोन्मीलितत्वमभ्युपगम्यते तदा इदमप्युदाहरणमेव, न तु अधिविपणीति पद्यवत्प्रत्युदाहरणम् ॥

इत्यलंकारमणिहारे परिवृत्तिसरश्चतुःपञ्चाशः.


अथ परिसंख्यालंकारसरः. (५५)


 एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम् । परिसंख्येति तत्प्राहुरलंकाराध्वयायिनः ॥

 एकानेकप्रस्तावादिहास्योक्तिः । एकं वस्तु यदाऽनेकत्र युगपत्संभाव्यते तदा तस्यासंभाव्यतया द्वितीयपरिहारेणैकत्र नियमनं परिसंख्या । कस्यचित्परिवर्जनेन क्वचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या । सा चैषा प्रथमं द्विधा शुद्धा प्रश्नपूर्विका चेति । द्विविधा चैषा आर्थी शाब्दीति पुनर्द्विविधेत्यस्याश्चत्वारः प्रभेदाः । यद्यपि पाक्षिकप्राप्तार्थनिवर्तको नियमः। युगपत्प्राप्तविषयकान्यव्वावृत्तिफलकस्तु परिसंख्येति पूर्वतन्त्रमर्यादा । तथाऽप्यस्मिन् दर्शने पाक्षिकप्रप्तिनित्यप्राप्तिरूपोऽवान्तरविशेषो न विवक्ष्यते, प्रयोजनाभावात् । अतएव 'पञ्च पञ्च-


नखा भक्ष्याः' इत्यत्र परिसंख्याया नियमपदेनोक्तिर्महाभाष्येऽपि दृश्यते । क्रमेणोदाहरणानि--

 यद्यस्ति तव दिदृक्षा साक्षाल्लक्ष्मीविलासिनं पश्येः । इष्टा चेत्परिचर्या पर्याप्तं तं त्वमङ्ग परिचर्याः ॥ १४५६ ॥

 अत्र यदिचेच्छब्दाभ्यां निवेदितस्य रागप्राप्तस्य दर्शनादेः कर्मतायाः भगवति श्रीनिवासे विषयान्तरे च प्राप्तत्वेन लिङर्थघटितवाक्यार्थवैयर्थ्यप्रसंगाद्विषयान्तरं न पश्येरित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यावृत्तिस्तात्पर्यविषयतया कल्प्यमानत्वादार्थी शुद्धा चेयम् ॥

 को रोगो भवयोगः को वैद्यस्स खलु यः पुमानाद्यः । किं भैषज्यं प्राज्यं यत्तन्नामानुवादसाम्राज्यम् ॥ १४५७ ॥

 अत्र भवयोगादिकमेव रोगादिकं नान्यदित्यर्थस्तात्पर्यमर्यादया प्रतीयत इत्यार्थीयं प्रश्नपूर्विका च ॥

 क्षेत्रं फणिवरगोत्रं स्थाने जानेऽन्यदूषरक्षेत्रम् । देवस्स वासुदेवस्सुतरामितरस्सविग्रहमृदेव ॥

 अत्र ऊषरक्षेत्रसविग्रहमृत्पदाभ्यां दिव्यक्षेत्रत्वदिव्यदेवत्वव्यावृत्तिः प्रतीयत इतीयं शाब्दी शुद्धा ॥

 यथावा--

 स्वान्तं मम मधुमथनेऽत्यन्तं विलगतु कदाचिदपि न धने । रतिरस्तु तस्य चरणेऽप्रतिमा न तु मे वृथा तपश्चरणे ॥ १९५९ ॥

 तपः कृछ्रचान्द्रायणादिः । अत्रापि शाब्दी व्यावृत्तिः पूर्ववदेव शुद्धा ॥

 साफल्यं क्वनु वचसां सारसनयनस्य वर्णने यशसाम् । न तु वितथनृपतिपाशप्रततिस्तोत्रेऽतिमात्रचित्रेऽपि ॥ १४६० ॥

 अत्र शाब्दी व्यावृत्तिः, प्रश्नपूर्विका च ॥
 इदं प्राचां मतम् । अन्ये तु व्यावृत्तेरार्थत्व एव परिसंख्यालंकारः । अन्यथा तु शुद्धा परिसंख्यैव । यथा हेतुत्वस्यार्थत्व एव हेत्वलंकारः । अन्यधा हेतुमात्रम् । अतो भेदद्वयमेवास्या इत्याहुः ॥

 अपरे तु—- व्यावृत्तेरार्थत्वेऽपि नालंकारत्वं, ‘पञ्च पञ्चनखा भक्ष्याः, समे यजेत, रात्सस्य, इत्यादावपि तदापत्तेः । किंतु कविप्रतिभानिर्मिता या तादृशव्यावृत्तेरेवालंकारत्वम् ॥

 सा यथा--

 आसर्गमविरतानां दुरितानां शान्तये दुरन्तानाम् । भगवन्मम शेषतया भवतो निर्वेश एव निर्वेषः ॥ १४६१ ॥

 हे भगवन्! आसर्गं आसृष्टेः अविरतानां दुरन्तानां दुरितानां शान्तये मम शेषतया शेषत्वेन भवतो निर्वेश एव त्वदेकशेषस्य मम शेषिणो भवतोऽनुसंधानमेव निर्वेषः प्रायश्चित्तम् । न तु कृच्छ्रचान्द्रायणादिरिति भावः ।

स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि ।
अत्मदास्यं हरेस्स्वाम्यस्वभावं च सदा स्मर ॥



यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनामखिलाशुभम् ॥
अयं हि कृतनिर्वेषो जन्मकोट्यंहसामपि ।
यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥

 इत्यादिप्रमाणान्यत्रानुसंधेयानि । शेषतयेत्यत्र शे षतयेति पदद्वयम् । शे शकारे षतया षकारतया शकारस्थाने षकारन्यासादिति यावत् । निर्वेशः निर्वेशशब्दः निर्वेषशब्दो भवतीति विच्छित्तिविशेषोप्यनुसंधेयः ॥

 यथावा--

 श्रीरजनिविधौ भगवति नीरजनयने विदोषमवति भुवम् । रजनिमुख एव नितरामजनि जनानां प्रदोषताख्यातिः ॥ १४६२ ॥

 श्रीः लक्ष्मीरेव रजनिः रात्रिः तस्याः विधौ चन्द्रमसीत्यर्थः

 यथावा--

 अवति हरे त्वयि भुवनं विपत्तिशब्दोऽपदातिसैन्येऽभूत् । अश्रावि कृछ्रशब्दः प्रायश्चित्तप्रसङ्ग एव जनैः ॥ १४६३ ॥

 इत्यादौ । विपत्तिशब्दः विपद्वार्ता । विगताः पत्तयो यस्मिंस्तत् विपत्ति विपत्तितिशब्दः । कृछ्रं कष्टं पराकादिकृछ्रं चेत्यर्थः । 'यस्मिन् शासति वसुमतीपाकशासने महानसेषु सन्तापः' इत्यादिपरकीयप्रबन्धेषु च ।

 अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तद्द्वारा तत्प्रतियोगिव्यावृत्तिर्निर्मिता । एवञ्च ‘यद्यस्ति तव दिदृक्षा'

इत्यत्र नान्यो द्रष्टव्य इत्यर्थस्य प्रतीतेः परिसङ्ख्याऽस्तु, न तु परिसङ्ख्यालंकारः, व्यावृत्तेर्वास्तवत्वेन कविप्रतिभाया अनपेक्षणात् । व्यावृत्तिर्व्यवच्छेदः । ‘को रोगो भवयोगः’ इत्यत्र तु प्रश्नपूर्वकं दृढारोपरूपकम् । अन्यथा 'न विषं विषमित्याहुर्बह्मस्वं विषमुच्यते’ इत्यत्रापि परिसङ्ख्यापत्तेः । ‘साफल्यं क्व नु वचसां’ क्षेत्रं फणिवरगोत्रं' इत्यत्रापि परिसंख्यैव शुद्धा, प्रागुक्ताद्धेतोरनार्थत्वात्’ तस्मात् ‘महानसेषु सन्तापः' इत्यादिकमेवास्या उदाहरणमिति वदन्ति ।

 वस्तुतस्तु व्यावृत्तेश्शाब्दत्वेऽपि कविप्रतिभोन्मीलितश्लेषादिना चमत्कारातिशयश्चेत्तत्रापि न निवार्यते परिसंख्यालंकृतिः ॥

 यथा--

 क्वचिदप्यनूनमम्ब स्वामित्वं ते त्वमेव तत्सेव्या । किं तेन शौरिणा नस्स यदूनां स्वामितां क्वचिदुदूहे ॥ १४६४ ॥

 सः शौरिः यत् यस्मात् क्वचित् समये ऊनां न्यूनां स्वामितां ईश्वरतां उदूहे, क्वचिदवसरे यदूनामिति समस्तं पदं, यदुवंश्यानां स्वामितामिति तु वस्तुस्थितिः । यदुशब्दस्तदपत्ये लाक्षणिकः। अत्र किं तेन शौरिणेति व्यावृत्तेश्शाब्दत्वेऽपि तस्याः श्लेषभित्तिकाभेदाध्यवसायमूलकातिशयोक्तिदत्तहेतूपन्याससमर्थितत्वेन चमत्कारातिशयस्य सहृदयैर्दुरपह्नवत्वाद्भवत्येव परिसंख्यालंकृतिः । एवञ्च ईदृशस्थले व्यावृत्तेश्शाब्दत्वेऽपि परिसंख्यालंकृतेरवश्याश्रयणीयतया अन्यत्रापि तस्या आत्मलाभो नापलपनीयः । तथाच उदाहरिष्यमाणेषु पद्येष्वपि परिसंख्यालंकारस्सुप्रसर एव । अतएव कुवलयानन्दकाराः ‘स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम्’ इत्युदाजह्रुः ॥

 यथावा--

 वित्तं वृत्तमिति द्वे भवदीयैर्वृत्तमेव रक्ष्यमिह । न तु वित्तमैति याति च तदेतयोर्विवृत एव ननु भेदः ॥ १४६५ ॥

 नन्विति भगवत आमन्त्रणे । तत् वित्तं एैति आयाति । याति गच्छति च । एतयोः वित्तवृत्तयोः भेदः विवृत एव ।

वृत्तमेव सदा रक्षेद्वित्तमायाति याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥

 इति स्मरद्भिर्मुनिभिर्वैलक्षण्यं व्याख्यातमेवेत्यर्थः । तयोः वित्तवृत्तशब्दयोः विवृत एव वि वृ इति वर्णाभ्यामेव, सार्वविभक्तिकस्तसिः । भेदः तावदेव वैलक्षण्यं अन्यवर्णतौल्यादित्यर्थोऽपि चमत्कारी । अत्र न तु वित्तमिति व्यावृत्तेश्शाब्दत्वेऽपि उपपादितचमत्कारातिशयपोषिततया भवत्येव परिसंख्यालङ्कारः अत्रोदाहरणे स्मृतिवचनगृहीतवृत्तवित्तशब्दयोः वैपरीत्येन ग्रहणं विवृत एव भेद इत्युपपादितचमत्कारानुरोधेनेति ध्येयम् ॥

 यथावा--

 शरणागतमेनं मां यदि गमयसि नायकं स्वमथ मधुमथनः । नायकमयमपि परमभिगमयेदव्यास्त्वमेव तत्किं तेन ॥ १४६६ ॥

 हे श्रीः! शरणागतं एनं मां स्वं निजं नायकं वल्लभं भगवन्तं गमयसि प्रापयसि यदि अथ अयं मधुमथनोऽपि परं स्वस्मादन्यं नायकं नाथं अभिगमयेत् स्वयं न रक्षेत् किंतु विष्टिभारमिवान्यं प्रापयेदिति भावः । संभावनायां लिङ् । तत् तस्मात्

त्वमेव अव्याः रक्षेः । तेन एवं नायकान्तरं प्रापयता भगवता किं न किमपि साध्यमस्तीति भावः । ‘गम्यमानाऽपि क्रिया कारकविभक्तौ प्रयोजिका' इति तृतीया । परमार्थतस्तु-- शरणागतमेनं मां त्वद्वल्लभं प्रापयसि चेत् अथ अविलम्बेनैवेति भावः । मधुमथनः अयं नायकमिति योजना । अयं अपगतयकारं नायकं नाकमित्यर्थः । परं नाकं परमं व्योम दिव्यं स्थानमित्यर्थः । अभिगमयेत् त्वयि वाल्लभ्यभूम्ना पुरुषकारभूतया त्वया स्वसंनिधिं प्रापितमविलम्बेनैव निश्श्रेयसेन योजयतीति भावः । तत् तस्मात् त्वमेव ईदृशविशेषलाभनिदानभूतेति भावः । अव्याः । किं तेनेत्येतत् लक्ष्म्यां गौरवातिभूम्ना । न तु भगवत्युदासीनतयेति रहस्यम् । अत्रापि पूर्ववदेव व्यावृत्तेश्शाब्दत्वादिकमनुसंधयम् ॥

 यथावा--

 निर्यातय भर्त्रे मामिति त्वयाऽभ्यर्थितोपि धरणिसुते । लङ्कामेव दशास्यो निर्यातयति स्म न तु जननि भवतीम् ॥ १४६७ ॥

 भर्त्रे भगवते दाशरथये । निर्यातय समर्पय 'निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपिच' इत्यमरः । अनेन ‘मां चास्मैप्रयतो भूत्वा निर्यातयितुमर्हसि' इति भगवत्यास्सीताया वाक्यं प्रत्यभिज्ञापितम् । लङ्कामेव निर्यातयति स्म दत्तवान् न तु भवतीम् । वस्तुतस्तु निस्सारितानि निश्शेषितानि वा यातूनि रक्षांसि यस्यास्सा निर्यातुः तथोक्तां करोति स्म निर्यातुशब्दात् णाविष्ठवद्भावे टिलोपः । अन्विष्यराक्षसां कृतवानित्यर्थः ॥

 यथावा--

 स्थालीबिलीयतण्डुलराशेरेवास्ति निष्फलीकरणम् । न तु सकलफलद भगवंस्त्वदीयपदविनतकाङ्क्षितार्थानाम् ॥ १४६८ ॥

 स्थालीबिलमर्हन्ति स्थालीबिलीयाः । पाकयोग्या इत्यर्थः । स्थालीबिलात्’ इत्यर्हार्थे छः । ये तडुण्लाः तेषां राशावेव निष्फलीकरणं फलीकरणस्याभावो निष्पीकरणम् । निर्मक्षिकमितिवदर्थाभावेऽव्ययीभावः । फलीकरणं नाम व्रीह्यादिधान्यस्य सूक्ष्मतुषः। अन्यत्र व्यर्थीकरणं नेत्यर्थः ॥

 यथावा--

 अखिलाघहृतिनिदाने मम हृदि नारायणे समिन्धाने । दुरितमरितां भजेद्यदि भजतु दुतं स्यात्तदेव न मनो मे ॥ १४६९ ॥

 दुरितं मयि अरितां विद्वेषं भजेद्यदि भजतु मां कदर्थयितुमुद्युञ्जीत चेदुद्युङ्क्तामिति भावः । तदेव दुरितमेव दुतं स्यात् परितप्तं स्यात् ‘टु दु उपतापे’ इति सौवादिकाद्धातोः क्तः । मे मनस्तु न दुतं स्यात् । भगवतो हरेस्तत्रैव निवासादिति भावः । पक्षे दुरितं दुरितमिति पदं अरितां अविद्यमानरिवर्णतां भजेच्चेत् दुतमित्येव निष्पद्येतेत्यर्थश्च चमत्कुरुते ।

 यथावा--

 संसाराकूपारेऽपारे घोरेऽत्र विलुठतश्शौरे ।

मम नासि पारदस्त्वं चपलतया पारदोऽहमेवासम् ॥ १४७० ॥

 त्वं--

संसारसागरं घोरमनन्तक्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥

 इत्युक्तमहाप्रभावोऽपीति भावः । अपारे घोरे संसाराकूपारे लुठतः मम पारदः परतीरप्रापकः नासि । औदास्याद्वा अशक्तत्वाद्वा न जाने इत्युपालम्भो द्योत्यते । किंतु चपलतया तावकपरतीरप्रापकताप्रतीक्षणाक्षमतयेत्यर्थः । अहमेव पारदः तव मम वा परतीरप्रापकः आसम् । परमार्थतस्तु-- चपलतया चञ्चलस्वभावतया पारदः रसः ‘रसस्सूतश्च पारदः' इत्यमरः । आसं तत्तुल्योऽभूवम् । इयन्तं समयं प्रतीक्ष्यमाणोऽपि भवजलनिधिपारमप्रापयिता त्वं कदा मां तारयेर्वेत्यवतप्ते नकुलस्थितमाश्रयामीति भावः ।

 यथावा--

 दुर्मतिता क्रोधनता दुर्मुखिता वाऽपि भर्मशिखरीन्दो । वत्सरविशेष एव त्वत्संश्रितसमुदये तु न कदाऽपि ॥ १४७१ ॥

 प्रादिगण एव भगवन् दुर्गतिवार्ता च दुरुपसर्गकथा । त्वच्चरणनलिनशरणे विप्रादिगणे तुनोन्मिषति जातु ॥ १४७२ ॥

 दुर्गतिवार्ता दारिद्र्यनरकादिवार्ता ‘दुर्गतिनरके नैस्स्व्ये' इति मेदिनी । दुरुपसर्गाणां दुष्टोत्पातानां ‘अजन्यं क्लीबमुत्पात उपसर्गस्समं त्रयम्' इत्यमरः । पक्षे दुरित्यस्याव्ययस्य गतिवार्ता गतिसंज्ञेति यावत् । दुरित्यस्य उपसर्गस्य कथा कथनं

च प्रादिगण एव ‘प्रादयः । गतिश्च' इति सूत्राभ्यां प्रादिगणपठितानां शब्दानामुपसर्गगतिसंज्ञयोरुभयोर्विधानाद्दुरित्यस्य तत्र पठितत्वादिति भावः । विप्रादिगणे प्रादिगणविरुद्धे इत्यप्यर्थ उपस्कार्यः॥

 एषूदाहरणेषु व्यवच्छेदस्य शाब्दत्वेऽपि श्लेषमूलकाभेदाध्यवसायसंभिन्नतया चामत्कारातिशयाद्भवत्येव परिसंख्यालंकारः । एवंच परिसंख्यालंकृतेरार्थीत्वशब्दीत्वाभ्यां द्वैधी द्रष्टव्या । अस्याः प्रश्नपूर्वकत्वतदभावाभ्यां द्वैविध्यं प्राक्तनैरुदाहृतमपि विच्छित्तिविशेषविरहात्कुवलयानन्दकारैरुपेक्षितम् । अस्याश्च श्लेषानुप्राणितत्वे अतिमात्रचमत्कारिता यथा अनुपदमेवोदाहृतेषु पद्येषु पारदनिष्फलीकरणादिशब्दश्लेषेणात्यन्तचारुता प्रतीयत इत्यवधेयम् ।

 अस्यां च परिसंख्यालंकृतौ व्यवच्छेदनियमनयोर्न पौवोपर्यनियमः । यथा शुद्धापह्नुतौ निह्नवारोपयोः । तथाच व्यवच्छेदपूर्वकतायामपि नियमनपूर्वकतायामिव परिसंख्यालंकृतिरक्षतैव ।

 न प्रकृतिवैपरीत्यादनर्थदो नन्दनन्दन भवेस्त्वम् । त्वत्तोऽन्यस्तु तथा स्याद्ब्रह्मा रुद्रोऽथवा न संदेहः ॥ १४७३ ॥

 हे नन्दनन्दन त्वं प्रकृतिवैपरीत्यात् ‘यत्सत्वं स हरिर्देवः, महान्प्रभुर्वै पुरुषस्सत्वस्यैष प्रवर्तकः' इत्याद्युक्तसत्त्वस्वभावविपरीतत्वात् अनर्थदः रजस्तमःप्राचुर्यप्रयुक्तं पुरुषार्थं दाता न भवेः ।

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तकः ॥


 इत्युक्तरीत्या सत्वोन्मेषणपूर्वकं निश्श्रेयसरूपपरमपुरुषार्थप्रदाता त्वं कथं हेयपुरुषार्थं दद्या इति भावः । त्वत्तोऽन्यस्तु ब्रह्मा चतुर्मुखः रुद्रो वा तथा स्यात् प्रकृतिवैपरीत्यादनर्थदस्स्यात् नात्र सदेहः ।

पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः।
रजसा तमसा चास्य मानसं समभिप्लुतम् ॥

 इत्युक्तरीत्या रजस्तमःप्रवर्तकतया हेयपुरुषार्थप्रदावेव स्यातां, न तु त्वमिव परमपुरुषार्थप्रदाविति भावः । पक्षे नन्दनन्दनेेति शब्दः प्रकृतेः उक्तविधप्रकृतेः वैपरीत्यात् प्रातिलोम्येन पाठात् अनर्थदः यथोक्तार्थाप्रकाशकः न भवेः । नन्दनन्दनेति प्रकृतेर्वैलोम्येन पाठेऽपि स्वर्थाप्रहाणादिति भावः । त्वदन्यः ब्रह्मा बह्मेतिशब्दः रुद्रः रुद्र इति शब्दो वा तथा स्यात् प्रकृतिवैलोम्ये पूर्वानुपूर्विव्यत्ययात्कस्याप्यर्थस्य प्रकाशको न भवेदिति भावः । अत्र व्यवच्छेदपूर्वकता, पूर्वोदाहरणेषु नियमपूर्वकतेति विभावनीयम् ॥

 एषूदाहरणेषु स्वभावतो वा श्लेषभित्तिकाभेदाध्यवसायेन वा उभयत्र प्रसिद्धसंबन्धस्य वस्तुन एकत्र विधानेनान्यत्र निषेधः प्रतिपादितः। केचितु एकत्र प्रसिद्धसंबन्धस्यापि वस्तुनोऽन्यस्मिन् धर्मविधानेन तत्प्रसिद्धिशालिनि धर्म्यन्तरे तत्प्रतिषेधः प्रतिपाद्यते ॥ यथा--

 यस्तुभ्यमभ्यसूयति तेन विगीतेन दुर्विनीतेन । भूरतिभारवतीयं शैलैस्सालैश्च नाथ न विशालैः ॥

 शैलादीनामेवातिमात्रभूभारता प्रसिद्धा, न तु भगवदभ्यसूयकस्य जनस्य । अत्रच पद्ये तादृशजने अतिमात्रभारत्वविधानं

शैलादौ तन्निषेधश्चेत्युक्तपरिसंख्याभेदो व्यक्त एव । अयं च तादृशजनस्य तादृशभारत्वासंबन्धेऽपि तत्संबन्धकथनरूपातिशयोक्तिशबलितेति ध्येयम् ॥

इत्यलंकारमणिहारे परिसंख्यालंकारसरः पञ्चपञ्चाशः.


अथ विकल्पालंकारसरः (५६)


 विकल्पः पाक्षिकप्राप्तिर्वर्ण्यते चेद्विरुद्धयोः ॥

 एकस्मिन् धर्मिणि स्वस्वप्रापकप्रमाणप्राप्तयोः अत एव तुल्यबलयोर्विरुद्धयोर्विरुद्धत्वादेव युगपप्राप्तेरसंभवात्पाक्षिक्येव प्राप्तिः पर्यवस्यति 'अयं च वक्ष्यमाणसमुच्चयप्रतिद्वंद्वी व्यतिरेक इवोपमायाः' इत्यलंकारसर्स्वस्वकृदनुयायी रसगङ्गाधरकृत् ‘समुच्चये हि द्वयोरपि युगपदवस्थानं, इह त्वन्यधेति तत्प्रतिद्वंद्वित्वम्’ इति विमर्शिनीकारः । दीक्षितास्तु-- वक्ष्यमाणकारकदीपकमलंकारान्तरं वर्णयन्तस्तस्य प्रथमसमुच्चयप्रतिद्वंद्वितां तदनन्तरभाविनस्समाधेर्द्वितीयसमुच्चयप्रतिद्वंद्वितां चाहुः ।

 मरणं तरणं वा स्तान्महाम्बुधेरित्यशायि मतभेदात् । जलधितटे बत भवता रघुवर भवजलधितारकेणापि ॥ १४७५ ॥

'अद्य मे मरणं वाऽस्तु तरणं सागरस्य वा'

 इति श्रीरामायाणश्लोकोऽत्रानुसंहितः । मतभेदात् विकल्पादिति यावत् । ल्यब्लोप पञ्चमी । विकल्पमभिसंधायेत्यर्थः । मर