अलङ्कारमणिहारः (भागः ३)/परिवृत्त्यलङ्कारः (५४)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


अथ परिवृत्त्यलंकारसरः (५४)


 निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः ॥

 निमयः विनिमयः । 'परिदानं परीवर्तो नैमेयनिमयावपि' इत्यमरः । समैः पदार्थेः समानामर्थानां असमैरसमानां वा विनिमयः उपादानं परिवृत्तिर्नामालङ्कारः । तत्र समपरिवृत्तिर्द्विधा उत्तमैरुत्तमानां न्यूनैर्न्यूनानां च । असमोऽधिको न्यूनश्च भवतीत्यधिकेन न्यूनेस्योपादाने न्यूनेनाधिकस्योपादाने चासमपरिवृत्तिर्द्विधेत्येवं चतुर्धा परिवृत्तिः ॥

 तत्राद्या यथा--

 स्तुतिममृतमयीं भुजगक्षितिधरचूडामणे त्वयि समर्प्य । प्रतिलभते त्वत्तः पुनरतिवेलं मादृगमृतमेव कृती ॥ १४३८ ॥

 अत्रामृतरूपस्तुतेरमृतस्य चोत्तमत्वेन समयोः परिवृत्तिः । इयममृतशब्दगतश्लेषमूलाभेदाध्यवसायनिर्व्यूढा ॥

 यथावा--

 आधाय कथमपि त्वयि मेधावी हृदयतरळमात्मानम् । प्रतिविन्दतेऽनघ त्वा श्रुतिसुदतीहृदयतरळमात्मानम् ॥ १४३९ ॥

 मेधावी विद्वान् हृदयतरळं वक्षस्स्थनायकमणिं हृदयेन हृदये वा तरळं चपलमानसामिति तत्त्वम् । यद्वा-

आत्मानमस्य जगतो निर्लेपमजरामरम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥

 इत्यस्त्रभूषणाध्यायोक्तक्रमेण कौस्तुभस्वरूपमिति । आत्मानं प्रत्यगात्मानं स्वम् । कथमपि अतिचञ्चलहृदयतया यत्नगौरवादित्यर्थः । त्वयि आधाय न्यस्य । श्रुतिसुदत्याः हृदये वक्षसि तरळं हारमध्यमणिवद्देदीप्यमानं श्रुतिप्रतिपाद्यमिति यावत् । आत्मानं परमात्मानं त्वां प्रतिविन्दते । 'तरळो हारमध्यस्थमाणौ ना चपले त्रिषु’ इति रत्नमाला । अत्र हृदयतरळभूतयोरात्मनोरुत्तमसमयोः परिवृत्तिश्श्लेषानुप्राणिता ॥

 यथावा--

 दत्वा लवमात्रमपां पुष्पमपि श्रीपते भवो भवते । लवमात्रमपां पुष्पं समुपादत्तेऽन्यदस्य को लाभः ॥ १४४० ॥

 भवः शम्भुः अपां लवमात्रं कणमात्रं ‘लवलेशकणाणवः' इत्यमरः । पुष्पमपि एकं कुसुममपि भवते दत्वा ‘पत्रं पुष्पं फलं तोयम्’ इत्युक्तरीत्या समर्प्य अन्यत् अपां लवमात्रं पुष्पं च लभते । तत्तीर्थं तन्निर्माल्यकुसुमं च विन्दते इत्यर्थः । अस्य समवस्तुदानेन समवस्तूपाददानस्य को लाभः न कोऽपि लाभ इति भावः। लवमात्रं कलामात्रं अपां पुष्पं ‘चन्द्रमा वा अपां पुष्पम्' इति श्रुतेः । समुपादत्ते इति वस्तुस्थितिः ।

भगवदर्चनमहिम्नाऽस्य चन्द्रशेखरत्वमिति भावः अत्राप्युत्तमत्वेन समयोः परिवृत्तिः श्लेषमूलाभेदाध्यवसायलब्धप्रसरा । यद्वा न्यूनतया समयोः परिवृत्तिरिति वक्ष्यमाणप्रभेदस्यैवेदमुदाहरणं भविष्यति ॥

 द्वितीयपरिवृत्तिर्यथा--

 दत्वा नश्वरभौतिकतनुमीदृशभूतदेहमाददताम् । वाराणसीजनानां नारायण को नु वा भवेल्लाभः ॥

 नश्वरीं भौतिकीं पञ्चभूतात्मिकां तनुम् । ईदृशं नश्वरं पञ्चभूतात्मकं च शरीरम् । वस्तुतस्तु 'पिशाचो गुह्यकस्सिद्धो भूतोऽमी देवयोनयः’ इयुक्तभूतयोनिविशेषशरीरमित्यर्थः । पाञ्चभौतिकत्वं तस्याप्यस्त्येवेति प्रागुपदर्शितार्थस्वीकारेऽपि यद्यपि विवक्षितसिद्धिर्भवत्येव । तथाऽपि अनन्तरोक्तार्थः श्लेषेण चमत्कारातिशयं पुष्णातीत्यवधेयम् । प्रसिद्ध्यति हि वारणासीवासिनां शरीरन्यासानन्तरं भूतदेहप्राप्त्यवश्यंभावः । अत्र न्यूनत्वेन समयोर्भौतिकशरीरयोः परिवृत्तिः । श्लेषाद्यनुप्राणितत्वं च पूर्ववदेव । वाराणसानिवासीनां त्वदभिव्यक्तिक्षेत्रपुरवासिनामिवावसाने दिव्याप्राकृतदेहलाभो न भविष्यतीति भावः ।

 यथावा--

 भस्मान्तवर्ष्मदानात्तादृशतनुमेव यद्गिरिशभक्ताः । आददते तद्भगवंस्तुषवितरणतः फलीकरणलाभः ॥ १४४२ ॥

 भस्म अन्तः अन्ते वा यस्य तत् भस्मान्तं वर्ष्म गात्रं तस्य दानात् । 'अथेदं भस्मान्तग्ं शरीरम्' इति श्रुतेः ‘कळेबरं विट्कृमिभस्मसंज्ञितम्' इति पुराणवचनाच्च दाहे भस्मसंज्ञितत्वं कळेबरस्येति बोध्यम् । भस्मस्वरूपमिति वा । तादृशतनुमेव भस्मान्तशरीरमेवेति न्यूनतया समयोः परिवृत्तिः भस्मना अन्तं रम्यं भस्म अन्ते अन्तिके यस्येति वेति तु तत्वम् ।

‘अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽपि मनोहरे’ इति विश्वः । सर्वधा भस्मोद्धूळितमिति भावः । भगवद्भक्तास्तु दिव्याप्राकृतं 'शतं माल्यहस्ताः’ इत्याद्युक्तप्रकारेण दिव्यमाल्यानुलेपनाभरणवसनादिब्रह्मालंकारालंकृतं रूपमेव दधते । न तु गिरिशभक्ता इव भस्मोद्धूलितां पैशाचिकीं तनुमिति भावः ।

 यथावा--

 अचलदरं प्रचुरगदं विसृज्य वपुरहिमहीभृति ततोऽन्यत् । तादृग्वपुराददतो जनस्य मौग्ध्येन को न विस्मयते ॥ १४४३ ॥

 अचलः दरः भयं शङ्खश्च यस्य तत् । प्रचुरः प्रचुरा च गदः रोगः गदा कौमोदकी च यस्य तत्तथोक्तम् । अत्रापि पूर्ववदेव न्यूनसमपरिवृत्तिः। शेषाद्रौ वपुर्विसृजतो जनस्य भगवत्सारूप्यं भवतीति भावः ।

 यथावा--

 आददति साधुकृत्यां ब्रह्मविदस्तत्र दत्तसौहार्दाः । विन्दन्ति पापकृत्यां न्यस्तदोषास्तु तस्य ननु मनुजाः ॥ १४४४ ॥

 साधुश्चासौ कृत्या क्रिया 'कृत्या क्रियादेवतयोः' इत्यमरः । सुकृतमित्यर्थः। एवं पापकृत्यां दुष्कृतमित्यर्थः । तत्रेत्युत्तरार्द्धेऽप्यन्वेति । तत्र ब्रह्मावदि । न्यस्तद्वेषाः । तस्य ब्रह्मविदः। अत्र पूर्वार्धे उत्तमसमपरिवृत्तिः । उत्तरार्धे न्यूनसमपरिवृत्तिः । इयं शुद्धा ‘तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां' द्विषन्तः

पापकृत्याम्’ इति श्रुत्यर्थानुवादिनीति च पूर्वोदाहरणेभ्यो वैलक्षण्यम् ॥

 दीक्षितास्तु— इमं समपरिवृत्तिं नाद्रियन्ते, किंत्वसमपरिवृत्तिमेव । तथाच तदीयं परिवृत्तिलक्षणं— ‘परिवृत्तिर्विनिमयो न्यूनाभ्याधकयोर्मिथः’ इति ॥

 तृतीयपरिवृत्तिर्यथा--

 अष्टाङ्गयोगभूम्ना नाथ षडङ्गेन वा प्रपदनेन । त्वत्तोऽपवर्गदातुः केचित्क्रीणन्ति हन्त कैवल्यम् ॥

 अत्राष्टाङ्गयोगषडङ्गप्रपदनाभ्यामधिकाभ्यां न्यूनस्य कैवल्यस्य परिवृत्तिः । कैवल्यं केवलात्मानुभवः ॥

 यथावा--

 दारागारापत्यश्रीराज्यादिं समर्प्य विभवं ते । वेंकटगिरिपरिबृढ तव कैंकर्यं केऽपि हन्त विन्दन्ति ॥ १४४६ ॥

 अत्राप्यधिकेन राज्यादिविभवेन न्यूनस्य कैंकर्यस्य परिवृत्तिः । इदं ‘सर्वं परवशं दुःखम्’ इति लोकदृष्ट्या कैंकर्यस्य न्यूनतामभिसंधायोदाहृतम् । वस्तुतत्सु दारागारादिविभवापेक्षया भगवत्कैंकर्यस्य ज्यायस्तया न्यूनेनाधिकपरिवृत्तेर्वक्ष्यमाणाया एवेदमुदाहरणं संमन्येरन् ब्रह्मवेदिनः ॥

 अणुतरमात्मानं त्वयि फणिगिरिनाथार्पयन्त इह सन्तः । महतोऽपि महान्तं त्वां विहितोपाया वितन्वते क्रीतम् ॥ १४४७ ॥

 ‘एषोऽणुरात्मा । महतो महीयान्' इति श्रुतिरत्रानुसंधेया । विहितः अनुष्ठितः उपायः भक्तिप्रपत्त्यन्यतरसाधनं यैस्ते तथोक्ताः । क्रीतं वितन्वते । ‘भावक्रीतो जनार्दनः । भक्तिक्रीतो जनार्दनः' इत्युक्तेरिति भावः ॥

 यथावा--

 धानापूर्णप्रसृतेर्दानात्त्वत्तो रमापतेऽक्रीणात् । दीनावन मानातिगनानाविधसंपदं कुचेलमुनिः ॥

 धानापूर्णप्रसृतेर्दानादित्यत्र विशेष्यभूतायाः प्रसृतेर्दानायोगात्प्रसृतिपूर्णधानादानादिति विशेषणभूतधानासु दानस्यान्वयः । स्वर्गी ध्वस्त इत्यादिवत् । वदन्ति हि ‘सविशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसंक्रामतः’ इति न्यायविदः । हे दीनावनेति संबुद्ध्यन्तं पदं रमापते इत्यस्य विशेषणम् ॥

 यथावा--

 पदसलिलमयीं कामपि दत्वा स्रोतस्विनीं पयोनिधये । तेजस्विनीमुपादास्तस्मात्कन्यामणिं मणिं च विभो ॥ १४४९ ॥

 विभो भगवन्! पयोनिधये स्रोतस्विनीं दत्वेत्यनेन अनपेक्षितदानमुक्तम् । स्रोतस्विनी नदी । अत्रोदाहरणत्रयेऽपि न्यूनेनाधिकपरिवृत्तिस्स्पष्टा । इमानि अष्टाङ्गयोगेत्यादीनि पञ्चोदाहरणानि शुद्धानि ॥

 यथवा--

 वसुधातनयास्तनयोस्समर्पयन् पञ्चशाखमतिकुतुकात् । ताभ्यां सहस्रशाखं प्रमोदमनुविन्दतेऽरविन्दाक्षः ॥ १४५० ॥

 वसुधायाः धरणीदेव्याः तनया पद्मावती तस्याः । पञ्च शाखाः यस्य तं कञ्चिद्वस्तुविशेषं, पाणिमिति तु तत्त्वम् । सहस्रशाखं अनन्तशखान्वितं अतिविपुलमति तत्त्वम् ॥

 यथावा--

 यत्कींचिच्छदमच्युत भुवनलवं चापि तव पदे दत्वा । अधिपत्वं भुवनानामाददिरे बहुपरिच्छदं कृतिनः ॥ १४५१ ॥

 यत्किंचिच्छदं तुलस्यादिदलं भुवनलवं जलकणं च तव पदे दत्वा ‘पत्रं पुष्पम्’ इत्युक्तरीत्या बहवः परितः छदाः दलानि यस्मिन्, पक्षे बहवः परिच्छदाः सचिवादिपरिवाराः यस्य तत्तथोक्तं भुवनानां उदकानां लोकानां च अधिपत्वं वरुणत्वमिन्द्रत्वं धातृत्वं वा आददिरे स्वीचक्रिरे । कृतिन इति विशेष्यं यत्किंचिन्न्यूनवस्तुदानेनातिमात्राभ्यधिकवस्तूपादानचातुर्याभिप्रायगर्भम् । अत एवेयं श्लेषपरिकराङ्कुरोत्तेजितेति पूर्वस्माद्विशेषः पूर्वं तु श्लेषमात्रोपस्कृतम् ॥

 यथावा--

 श्रुतियुवतीसीमन्तप्रतियत्नमनर्घमसितरुचिरत्नम् । श्लक्ष्णप्रवाळदानाच्छशिवदना काऽपि गोपिकाऽक्रीणात् ॥ १४५२ ॥

 श्लक्ष्णः अल्पः ‘श्लक्ष्णं दभ्रं कृशं तनु' इत्यमरः । यः प्रवाळः विद्रुमः तस्य, पक्षे श्लक्ष्णः स्निग्धः ‘मसृणे श्लक्ष्णसोमालचिक्कणाः’ इति वैजयन्ती । यः प्रवाळ: तत्त्वेनाध्यवसितोऽधरः तस्य प्रदानात् । स्पष्टमन्यत् ॥

 यथावा--

 आकाशराजतनया राकाशशिदास्यदास्यरुचिनिचया । जगदीश्वरमक्रैषीत्प्रगुणतमं कनककलशकोशाभ्याम् ॥ १४५३ ॥

 प्रगुणतमं अतिशयेन ऋजुस्वभावं "ऋजावजिह्मप्रगुणौ' इत्यमरः । अनेन परकृतातिसन्धानानभिज्ञत्वं व्यञ्जितम् । कनककलशकोशाभ्यामित्यनेन हेमकुम्भन्यस्तार्थनिवहाभ्यामिति च गम्यते । अत्र श्रुतियुवतीत्युदाहरणे असितरत्नत्वेन भगवतः श्लक्ष्णप्रवाळत्वेनाधरस्य चाध्यवसानाद्रूपकातिशयोक्तिः । तदुत्तम्भिता न्यूनाधिकपरिवृत्तिः । आकाशराजेत्युदाहरणे कनककलशकोशाभ्यामिति रूपकातिशयोक्त्या उक्तरीत्या प्रगुणतममिति साभिप्रायविशेषणरूपपरिकरालंकारेण चोपस्कृता सेति विशेषः ॥

 एषूदाहरणेषु दानादानव्यवहारः कविकल्पित एव । न तु वास्तवः । यत्र वास्तवस्तत्र नांलकारः ॥

 यथावा--

 अधिविपणिसरणि फणिगिरिरमणमनःप्रीणनाय सुमणिगणान् । क्रीणन्ति द्युमणिघृणीन्कतिचन कृतिनस्सुतुल्यमूल्येन ॥ १४५४ ॥ ।

 द्युमणेः घृणयो रश्मय इव घृणयो येषां तान् । अतितेजस्विन इत्यर्थः । नात्र दानादाने कविप्रतिभाकल्पिते ॥

 शम्बरधरमणिकदम्बैः क्रीणन्त्यखिलाम्ब जाम्बवफलानि । कुरूविन्दकनिकुरुम्बैर्बिम्बानि च

तावकीनगृहबालाः ॥ १४५५ ॥

 बिम्बानि विम्बीफलानि तावकीनानां त्वद्भक्तानां गृहेषु स्थिताः बालाः मुग्धललनाः माणवका वा । यद्यप्यत्र समृद्धिमद्वस्तुवर्णनात्मकोदात्तालंकारदत्तहस्ते दानादाने । अथापि न ते कविप्रतिभोन्मीलिते । क्रयस्य वास्तवत्वादिति नेदृशान्युदाहरणतामर्हन्ति ॥

 यदीदृशदानादानयोरपि कविप्रतिभोन्मीलितत्वमभ्युपगम्यते तदा इदमप्युदाहरणमेव, न तु अधिविपणीति पद्यवत्प्रत्युदाहरणम् ॥

इत्यलंकारमणिहारे परिवृत्तिसरश्चतुःपञ्चाशः.