अलङ्कारमणिहारः (भागः ३)/रत्नावळ्यलङ्कारः (७७)

विकिस्रोतः तः
               




   


द्रष्टव्यम् । अत्र क्रम इति पदेन चतुर्थपादादिमभूतेन स्वादिभूतककाररेफसंयोगस्य एतत्पद्यप्रदर्शितलक्षणलक्षितस्य क्रम इति संज्ञेति सूचनीयोऽर्थस्स्वानतिरिक्तोदाहरणेन तादृशसंज्ञाप्रयोजनेन च संह सूचितः । इयं च प्रकृताप्रकृतगोचरश्लेषेण प्रागुक्तोल्लासेन च संकीर्यत इति विशेषः । तुरीयपादादिमवर्णस्य लघुतरप्रयत्नेनोच्चारणे पद्यस्य विसंष्ठुलताऽपि न दृश्यत इति ध्येयम् । एवं नवरत्नमालाप्रबन्धे तत्तद्रत्ननामनिवेशनेन तत्तद्रत्नजातिसूचनम् । नक्षत्रमालाप्रबन्धे अग्न्यादिदेवतानामभिर्नक्षत्रनामसूचनमित्यादावयमेवालंकारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपीति दीक्षिताः ॥

इत्यलंकारमणिहारे मुद्रालंकारसरष्षट्सप्ततितमः.



अथ रत्नावळीसरः (७७)


प्रसिद्धसहपाठानामर्थानां न्यसनं यदि ।
रत्नावळी सा विख्याता सक्रमाक्रमताभिदा ॥

 लोकवेदादिप्रसिद्धसहपाठानामर्थानां न्यसनं रत्नावळीनामालंकारः । सा च सक्रमत्वाक्रमत्वाभ्यां द्विप्रकारा । सक्रमत्वं च प्रसिद्धसहपाठानामर्थानां क्रमेण न्यसनम् । अक्रमत्वं च प्रसिद्धक्रमे केषांचिदर्थानां वैकल्येन कथनं वैपरीत्येन कथनं सहपाठसद्भावेऽपि क्रमप्रसिद्धिराहित्यं च । प्रकारद्वयेऽपि क्रमिकाणामर्थानां प्रकृतान्वयित्वतदभावाभ्यां प्रत्येकं द्वैधी । प्रकृतान्वयित्वं

च यथाकथंचित्प्रकृतोपमानोपरञ्जकतादिप्रकारेण । तदनन्वयित्वं च क्रमेण तत्तन्नाम्नां यथाकथंचित् श्लेषभङ्ग्या मुद्रालंकारविधया वा निवेशनेन भवति । सर्वमिदमुदाहरणेषु स्पष्टीभविष्यति इयमपि दीक्षितोपज्ञमेव ॥

 तत्र प्रकृतान्वयवती सक्रमा यथा--

 विधिरिव सकलागमवान् हरिरिव पीताम्बरो विभाति तराम् । गिरिश इव शिरसि वहते सरसिजनयनाङ्घ्रिसरितमहिशैलः ॥ १७५६ ॥

 सकलाः अगमा तरवः आगमाः वेदाश्च तद्वान् । पीतं अम्बरं येन स तथोक्तः ‘निसर्गोदग्रेण प्रसभमुरसा पीतगगनः' इतिवत् स्वाभोगेनाक्रान्तगगन इत्यर्थः । सरसिजनयनः हरिः तदङ्घ्रिजां सरितं आकाशगङ्गां गङ्गांच । स्पष्टमन्यत् । अत्र सृष्टिस्थितिलयकर्तृतया पुराणादौ प्रसिद्धसहपाठानां ब्रह्मविष्णुमहेश्वराणां त्रयाणामुपमानविधया प्रकृतान्वयिनां क्रमेण न्यसनम् ॥

 यथावा--

 क्षितिरिव तितिक्षुरासीस्सलिलमिवाप्यायनोऽनल इव त्वम् । तेजस्वाननिल इव व्यापी वियदिव विनिर्मलश्शौरे ॥ १७५७ ॥

 अत्र उपमानरीत्या प्रकृतान्वयिनां ‘क्षित्यप्तेजोमरुद्व्योम’ इति पुराणादौ सहपठितानां पञ्चानां महाभूतानां क्रमेण न्यासः ॥

 सैव उपरञ्जकतया प्रकृतान्वयिनी यथा--

 अङ्करिता सुकृतवशात्पल्लविता देव तव गुण-

श्रवणात् । सुमिता च तदामननात्फलिता दृष्ट्या च मामिका भक्तिः ॥ १७५८ ॥

 सुमिता पुष्पिता । दृष्ट्या दर्शनेन । अत्र भक्तौ लतात्वारोपः । अत्राङ्कुरितेत्यादिना अङ्कुरपल्लवकुसुमफलानां चतुर्णां लोकसिद्धक्रमाणामुपरञ्जकतया विन्यासः ॥

 स्वामी त्वं श्रीसचिवस्सकलसुहृत्सर्वहृद्यकोशस्थः । चक्रधर तदपि तव पदमतिदुर्गं त्वत्प्रसादबलविधुरैः ॥ १७५९ ॥

 हे चक्रधर ! चक्रशब्देन राष्ट्रमपि गृह्यते ‘चक्रं राष्ट्रेऽपि' इत्यमरः । त्वं स्वामी सर्वेश्वरः 'एष सर्वेश्वरः' इत्यादिश्रुतेः । अनेन परत्वमुक्तम् । पक्षे कश्चिद्राजेत्यर्थः । श्रीः लक्ष्मीः सचिवा सहायो यस्य स तथोक्तः ‘मन्त्री सहायसचिवौ' इत्यमरः । लक्ष्म्यास्सचिव इति वा । पक्षे श्रीयुक्तसचिवो मन्त्री यस्य स तथोक्तः । अनेन पुरुषकारसांनिध्येन परमदयाळुता सूचिता । सकलसुहृत् । ‘निवासश्शरणं सुहृद्गतिर्नारायणः’ इति श्रुतेः । अनेन सौलभ्यमुक्तम् । पक्षे सकलाः कलासहिताः राजनयनिपुणा इत्यर्थः । तादृशाः सुहृदो मित्राणि यस्य स इत्यर्थः । सर्वेषां हृद्यः हृदयस्थितः कोशः तस्मिन् तिष्ठतीति तथोक्तः 'पद्मकोशप्रतीकाशम्' इत्यारभ्य ‘तस्मिन् सर्वं प्रतिष्ठितम्' इति श्रुतेः । अनेन वात्सल्यं व्यञ्जितम् । स एष वात्सल्याख्यो गुणः कठवल्ल्यामुक्तः--

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥


 इति । अस्याश्श्रुतेरर्थश्च उक्तविशेषणैः प्रत्यभिज्ञाप्यते । वात्सल्यं नाम दोषतिरस्कारिणी प्रीतिः । पक्षे सकलजनहृदयंगमहिरण्यादिकोशमध्यवर्तीत्यर्थः । एवं सकलचेतनहृदयस्थोऽपि त्वं दुर्दर्श इत्याह-- तदपीत्यादि । तदपि तथाऽपि तव पदं स्वरूपं त्वत्प्रसादबलविधुरैः जनैः दुर्गं अधिगन्तुमशक्यं 'तं दुर्दर्शं गूढमनुप्रविष्टं, तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुः’ इत्यादिश्रुतिभ्यः । पक्षे तत् प्रसिद्धं तव पदं स्थानमपि त्वत्प्रसादेन बलेन सैन्येन च विधुरैः दुर्गं गन्तुमशक्यमित्यर्थः । अत्र ‘स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च' इति प्रसिद्धसहपाठानां स्वाम्यादीनामुपरञ्जकतया प्रकृतान्वयिनां सप्तानां क्रमिको न्यासः ॥

 यथावा--

 हरिरेष शचिर्धर्मश्श्रितरक्षश्श्रीः पतिश्च भुवनानाम् । परिपाति जगत्प्राणः पुण्यजनेड्यश्शिवश्च मादृक्षान् ॥ १७६० ॥

 एष हरिः इन्द्रः भगवांश्च। शुचिः वह्निः अपहतपाप्मा च । धर्मः यमः । पक्षे ‘कृष्णं धर्मं सनातनम्’ इत्युक्तरीत्या धर्मस्वरूपः । श्रिता रक्षसां श्रीः येन सः नैऋत इत्यर्थः । पक्षे श्रितान् रक्षतीति श्रितरक्षी । कर्मण्यणि ‘टिड्ढ’ इति ङीप् । तादृशी श्रीः लक्ष्मीः यस्य स तथोक्तः । अनदीसंज्ञकत्वान्न कप् । यद्वा भगवत्पक्षे धर्मश्रितरक्षश्श्रीरित्येकमेव पदम् । धर्मं न्यासरूपं श्रितान् रक्षतीति धर्मश्रितरक्षी तादृशी श्रीः यस्य सः । अस्मिन् पक्षे धर्मश्रितेत्यत्र शकारस्य 'अनचि च' इति वैकल्पिकं द्वित्वम् ।

भुवनानां अपां पतिः वरुणः । पक्षे लोकानामधिनाथः । जगत्प्राणः समीरणः जगदुज्जीवयिता च ।

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुभौ श्रितौ ॥

 इति श्रुतेः । पुण्यजनेड्यः कुबेरः सुकृतिजनस्तुतश्च । शिवः शर्वः मङ्गळमूर्तिश्च 'शाश्वतं शिवमच्युतम्’ इति श्रुतेः । अत्र प्रसिद्धसहपाठानामष्टानामिन्द्रादिलोकपालानामुपरञ्जकतया प्रकृतान्वयिनां क्रमेण न्यसनम् । उपरञ्जकता चारोप्यमाणता । तदुक्तं--'उपरञ्जकतामेति विषयी रूपकं तदा' इति । अत्र हि श्रीनिवासस्य इन्द्रादितया उपरञ्जनम् ॥

 यथावा--

 भास्वान् राजा पार्थिव एष बुधो वाक्यपतिश्च काव्यप्रथितः । मैत्र्याख्यातश्चोत्तम उच्छ्रितजयकेतुराश्रितस्त्वां भगवन् ॥ १७६१ ॥

 पृथिव्यां विदितः पार्थिवः ‘तत्र विदितः' इत्यधिकारे ‘सर्वभूमिपृथिवीभ्यामणञौ’ इत्यञ् । पक्षे पृथिव्यां जातः पार्थिवः । भौम इत्यर्थः । काव्येन प्रथितः स्वविषयकप्रबन्धप्रख्यातकीर्तिरित्यर्थः । स्वप्रणीतेन काव्येन प्रख्यात इति वा पक्षे काव्य इति प्रथितः । मैत्र्या सर्वभूतसुहृत्तया ख्यातः । अन्यत्र मित्रस्य भानोः अपत्यं मैत्रिः मैत्रिरिति आख्यातः रविसुतश्शनिरित्यर्थः । उत्तमः श्रेष्ठः । पक्षे उन्नतं च तत् तमः राहुरित्यर्थः । 'तमस्तु राहुः' इत्यमरः । उच्छ्रितः जयकेतुः जयध्वजो यस्य सः । पक्षे उच्छ्रितजयश्चासौ केतुश्च । शिष्टं स्पष्टम् । अत्र भास्वदादिपदैः वर्णनीयस्य

भगवदाश्रितस्य भास्वदाद्यात्मता प्रतीयत इति प्रसिद्धसहपाठानां भास्वदादीनां नवानां ग्रहाणां क्रमेण प्रकृतान्वयितया न्यासः ॥

 यथावा--

 जहि कामं क्रोधं जय जहीहि लोभं जहाहि मोहं च । जहिहि मदं मत्सरमपि विसृज हरेर्ननु कटाक्षपात्रं स्याः ॥ १७६२ ॥

 अत्र प्रसिद्धसहपाठानां कामादीनां षण्णां समुच्चयालंकारविधया प्रकृतान्वयिनां क्रामिकत्वम् ॥

 प्रकृतान्वयशालिनी अक्रमा यथा--

 यममार्जय नियमं श्रय जितासनो विन्दसे सखे ब्रह्म । प्राणायामप्रत्याहारी ध्यायन् सधारणसमाधिः ॥ १७६३ ॥

 अत्र 'यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि’ इति पातञ्जलसूत्रोदितक्रमाणां यमादीनां समुच्चयविधया प्रकृतान्वयिनां किंचित्क्रमविपर्यासेन न्यसनम् ॥

 पृथ्वी संपत्तेजो निरवधिकं सर्वतोमुखं च यशः । भाति शुभस्पर्शनता तव गुणजातं त्वनन्तमेव हरे ॥ १७६४ ॥

 पृथ्वी महती ‘ओतो गुणवचनात्' इति ङीष् । पक्षे भूरित्यर्थः । तेजः प्रभावः, पक्षे अग्निः । सर्वतोमुखं विश्वतः प्रसृमरं पक्षे जलम् । शुभस्पर्शनता शुभं स्पर्शनं दानं यस्य

स तथोक्तः । तस्य भावः । अन्यत्र शुभः यः स्पर्शनः वायुः

तस्य भावः । अनन्तं अपरिच्छिनं, अन्यत्र आकाशः । अत्र पृथिव्यादिमहाभूतानां पञ्चानां किंचित्क्रमव्यत्ययेन प्रतिपादनमुपरञ्जकतया प्रकृतान्वयित्वं च ॥

 यथावा--

 धृष्टिं जयन्तमच्युत विजयं सिद्धार्थमर्थसाधकताम् । गतमाहुरशोकं तव गिरा सुमन्त्रं च मन्त्रपालं च ॥ १७६५ ॥

 हे अच्युत! धृष्टिं धैर्यं जयन्तं अभिभवन्तं समरारम्भे स्वजनान् योद्धुमवस्थितानभिवीक्ष्य शोकेन त्यक्तधैर्यमित्यर्थः । इदं च ‘सीदन्ति मम गात्राणि' इत्यादौ स्पष्टम् । विजयं अर्जुनं तव गिरा गीतारूपया 'न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः’ इत्यारभ्य ‘मोक्षयिष्यामि मा शुचः' इत्यन्तया अशोकं त्यक्तशोकम् । शोभनो मन्त्रः आलोचनं यस्य तथाभूतं मन्त्रं चरमश्लोकरूपं पालयतीति तथोक्तं 'निधिपायाप्रमादिने' इत्युक्तरीत्या मन्त्रं गोपायितारम् । अर्थस्य शत्रुविजयरूपप्रयोजनस्य साधकतां गतं प्राप्तं अत एव सिद्धः अर्थः प्रयोजनं यस्य तं तथोक्तं आहुः जना इति शेषः । गीतोपदेशेन त्यक्तमोहतया यथावत् क्षत्रधर्ममनुष्ठाय लब्धविजयमित्यर्थः । अत्र--

धृष्टिर्जयन्तो विजयस्सिद्धार्थो ह्यर्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥

 इति श्रीरामायणे प्रसिद्धसहपाठानां रघुकुलसचिवभूतधृष्ट्यादीनामष्टानां यत्किंचित्क्रमविपर्यासेन प्रकृतान्वयिनां वर्णनमुपरञ्जकतयेति ध्येयम् ॥

 इन्द्र इव पालितस्वस्थेमा शमन इव दक्षिणानुगतः । धनद इव राजराजो भवदीयो वरुण इव घनरसेशः ॥ १७६६ ॥

 पालितः स्वस्थेमा स्वर्गस्थैर्यं स्वस्य धनस्य स्थैर्यं च । दक्षिणा दक्षिणदिक् तया अनुगतः तदीश इति यावत् । दक्षिणैः उदारैर्जनैः अनुगतश्च । राजराजः राजराजनामा राजाधिराजश्च । घनरसस्य सलिलस्य ईशः । रसायाः ईशः भूपतिः घनश्चासौ रसेशश्चेति विग्रहः । स्पष्टमन्यत् । अत्रेन्द्रादीनां चतुर्णां लोकपालानां किंचित्क्रमव्यत्ययेन कथनं उपमानविधया प्रकृतान्वयित्वं च । इदमेवाष्टानां लोकपालानां मध्ये चतुर्णामेव निबन्धनात् क्रमवैकल्यस्याप्युदाहरणम् ॥

 द्विरदमुखसत्त्वहृद्यो भुजगाह्वयभूषणो भुवि गिरीशः । वनमाली च विचित्रं भाति सरोजातभाविताभ्युदयः ॥ १७६७ ॥

 द्विरदमुखैः गजप्रभृतिभिस्सत्त्वैः जन्तुभिः । अन्यत्र द्विरदमुखः विघ्नराजः तस्य सत्वेन स्थित्या हृद्यः । भुजग इति आह्वयः नाम भूषणं यस्य । अन्यत्र भुजगाह्वयानि फणिरूपाणि भूषणानि यस्य स तथोक्तः । गिरीशः शैलराजः शिवश्च । वनमाली काननपङ्क्तिमांश्च भगवानपीति च । सरोजातेन कासारनिवहेन पक्षे सरोजाते पद्मे भावितः अभ्युदयः उच्छ्रयः आविर्भावश्च यस्य स तथोक्तः । अत्र प्रसिद्धक्रमाणां ब्रह्मविष्णुशिवानां सर्वथा वैपरीत्येन कथनम् । उपरञ्जनविधया प्रकृतान्वयित्वं च ॥

 गारुत्मतकरसेव्यं मुक्तालम्बं प्रवाळसुकुमारम् । पश्येम पद्मरागं चरणं श्रीशस्य वज्रपाणिनुतम् ॥

 अत्र सहपाठसद्भावेऽपि क्रमप्रसिद्धिरहितानां गारुत्मतादीनां पञ्चानां रत्नानां उपरञ्जनादिविधया यथाकथंचित्प्रकृतान्वयिनां वर्णनमितीयमपि रत्नावळी अक्रमरूपैव ॥

 यथावा--

 घनशृङ्गसङ्गताङ्गाश्चटुलकलिङ्गास्तथा पृथुलवङ्गाः । प्रचुरमहाच्छविदर्भास्सुसंनिवेशाः फणीशगिरिदेशाः ॥ १७६९ ॥

 घनानि शृङ्गाणि तैः । पक्षे घनं शृङ्गं प्राधान्यं तेन संगतं अङ्गं येषां ते । पक्षे घनशृङ्गसंगताः अङ्गाः तन्नामानो देशाः येषां ते ‘शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । देशेषु मध्ये अङ्गस्य प्रथमपरिगणनात्प्राधान्यम् । चटुलाः कलिङ्गाः खगविशेषाः कलिङ्गदेशाश्च येषु ते पृथवः महान्तः लवङ्गाः लवङ्गतरवो येषु ते । पृथुलाः विशालाः वङ्गाः तन्नामानो देशविशेषाश्च येषु ते । स्पष्टमन्यत् । अत्राङ्गादिदेशतादात्म्यं फणिगिरिदेशानां प्रतीयत इति क्रमप्रसिद्धिरहितानामङ्गादिदेशानां न्यसनं प्रकृतान्वयि ॥

 प्रकृतानन्वयवती सक्रमा रत्नावली यथा--

 घनघृणिमणिप्रभावति कामं त्रातुं जगन्ति तापेभ्यः । आविरभूर्हरिभूभृति यत्रोत्सा हस्तिवरद भान्ति हिमाः ॥ १७७० ॥

 हे हस्तिवरद! घनाः सान्द्राः घृणयः किरणाः येषां तेषां मणीनां प्रभा अस्मिन्नस्तीति तथोक्ते जलदच्छविरत्नप्रभावतीति वा हरिभूभृति वेंकटाद्रौ जगन्ति कामं तापेभ्यः त्रातुं आविरभूः । यत्र गिरौ हिमाः शिशिराः उत्साः प्रस्रवणानि 'उत्सः प्रस्रवणम्' इत्यमरः । भान्तीति तद्गिरौ भगवत आविर्भावस्य तापनिवर्तनौपयिकत्वमुक्तम् । अत्र प्रभावमन्त्रोत्साहानां त्रयाणां प्रसिद्धसहपाठानां मुद्रालंकारविधया प्रकृतानन्वयिनां क्रमेण न्यसनम् । एवमुत्तरोदाहरणेष्वपि ॥

 यथावा--

 नलिनाक्ष यः फणीश्वरशिखरिस्थानन्त तावकीनानाम् । चरणाब्जरेणुविशमितकलुषो नीवृद्धि स खलु वासार्हः ॥ १७७१ ॥

 नीवृत् जनपदः । अत्र क्षयस्थानवृद्धीनां प्रागुक्तरीत्या क्रमेण न्यासः ॥

 यथावा--

 आनर्चाब्जभवोऽयं विनयजुषा मानसेन साम्नायम् । सोऽव्यादृगादिरूपो भव्यात्मा दिव्यसैन्धवो भगवान् ॥ १७७२ ॥

 साम्नायं ससंप्रदायं ‘अथाम्नायस्संप्रदाये’ इत्यमरः । ऋगादिरूपः 'ऋग्यजुस्सामरूपाय’ इति तन्मन्त्रवर्णात् । दिव्यसैन्धवः श्रीहयग्रीवः अत्र ‘ऋचो यजूंषि सामानि योऽधीते सकृदञ्जसा' इत्यादिशास्त्रप्रतीतसहपठनानामृग्यजुस्साम्नां क्रमेण न्यसनम् । ऋगादिरूपपदेन उक्तविधक्रमनिबन्धोऽत्र सूचनीयस्सूचित इति मुद्रालंकारशिरस्कता तु विशेषः ॥

 यथावा--

 अरिदमनदक्षिणाहव नीयन्ते स्म द्विषोऽपि तव धाम परम् । अहमेव गार्हपत्ये भव इह कियदवधि नाथ भवताऽऽयास्ये ॥ १७७३ ॥

 अरिदमने दक्षिणः चतुरः आहवः युद्धं यस्य तस्य संबुद्धिः हे नाथ! द्विषोऽपि चैद्यादयोऽपि भवता तव परं धाम नीयन्ते स्म । अहमेव सर्वात्मना त्वां प्रपन्न एव । इह भवे संसारे गार्हपत्ये गृहस्थधर्मोपलक्षिते तत्तदाश्रमकर्मणि गृहपतेः कर्म गार्हपत्यमिति विग्रहः । 'पत्यन्तपुरोहितादिभ्यो यक्' इति कर्मरूपार्थे यक् । कियदवधि भवता आयास्ये आयासितो भवामि वा न जाने इति भावः । अत्र दक्षिणाहवनीयगार्हपत्यानां क्रमिकत्वम् ॥

 यथावा--

 कृतमच्युत तीर्थगणैः कृतं च नस्त्रेतयाऽपि सेवितया । स्याद्वा परोऽत्र भवतो भवतोयधितारणे कलितदीक्षः ॥ १७७४ ॥

 कृतं अलम् । अत्र कृतादीनां युगानां चतुर्णां क्रमेण मुद्रालंकाररीत्या प्रकृतानन्वयिनां न्यसनमिति विशेषः ॥

 यथावा--

 देवोभिरामलक्ष्मणवक्षा रक्षार्थमहिगिरौ जगताम् । अवतीर्य कृपाभरतः स्फुरति हरिर्विनतनित्यशत्रुघ्नः ॥ १७७५ ॥

 अभिरामं रमणीयं लक्ष्मीरस्मिन्नस्तीति लक्ष्मणं, पामादित्वान्मत्वर्थीये नप्रत्यये ‘लक्ष्म्या अच्च’ इति लक्ष्मीशब्देकारस्य अत्वं ततो णत्वं च । ईदृशं वक्षो यस्य स तथोक्तः । कृपाभरतः दयाभारात् । सार्वविभक्तिकस्तसिः । विनतानां नित्यशत्रवः कामादयः तान् हन्तीति विनतनित्यशत्रुघ्नः मूलविभुजादित्वाद्धन्तेः कप्रत्ययः । अत्र रामादीनां चतुर्णां श्लेषोत्तम्भितमुद्रालंकाररीत्या प्रकृतानन्वयिनां क्रमेण न्यसनम् ॥

 यथावा--

 लसति हसितातसीता पवनोल्ललनोर्मिळाग्रसरसीका । ब्रह्माण्डव्यापिशिरा विश्रुतकीर्तिर्वृषाद्रिवरमूर्तिः ॥ १७७६ ॥

 अत्र प्रतीतपाठसाहित्यानां सीतोर्मिळामाण्डवीश्रुतकीर्तीनां पूर्ववदेव ग्रथनम् ॥

 यथावा--

 नित्यविभवासु देवासुरनरसंकर्षणोऽहिगिरिभूषु । प्रद्युम्नदो नतेभ्यो विहरत्यनिरुद्धशासनश्शौरिः ॥ १७७७ ॥

 देवासुरनराणां संकर्षणः गुणभूम्ना आकर्षकः नतेभ्यः प्रद्युम्नदः प्रकृष्टविभवप्रदः अनिरुद्धशासनः अप्रतिहताज्ञः शौरिः

नित्यविभवासु अहिगिरिभूमिषु विहरति । अत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धानां न्यसनम् ॥

 यथावा--

 धन्यश्चातकधर्मा यस्तत्प्रीत्यर्थमेव कृतकर्मा । कामं तमम्बुजाक्षं ध्यायति सानन्दबाष्पपरिमोक्षम् ॥ १७७८ ॥

 चातकस्य धर्म इव धर्मः ऐकान्त्यरूपो यस्य स तथोक्तः । पुमान् चातकवृत्तिः प्रपन्न इत्यर्थः । ‘प्रपन्नश्चातको यद्वत्' इति स्मरणात् । धन्यः । अन्यत्सुगमम् । अत्रापि चतुर्षु चरणेषु क्रमेण धर्मार्थकाममोक्षाणां चतुर्णां पुरुषार्थानां पूर्ववदेव प्रतिपादनम् ॥

 यथावा--

 सामजवरदो दानवभेदपटुर्दितिसुतेषु धृतदण्डः । भगवन्नुपायभूतो भव त्वमेवादरात्तव प्राप्तौ ॥

 अत्रापि सामदानभेददण्डानां प्रकृतान्वयं विना क्रमेण न्यसनम् । उपायभूत इति प्रकृतार्थपरेण पदेनास्मिन् पद्ये उपदर्शितोपायनामानि निबद्धानीति सूच्यार्थस्यापि सूचनान्मुद्रालंकारश्चेति तच्छेखरितेयं रत्नावळीति विशेषः ॥

 यथावा--

 ब्रह्मनुतो नलिनाक्ष त्रासहरस्फाटिकत्विषा वै श्येतः । आशूद्द्रावितदुरितश्चातुर्वर्ण्यं धराधरः प्रथयति ते ॥ १७८० ॥

 हे नलिनाक्ष! ब्रह्मणा चतुर्मुखेन नुतः । त्रासहरः भयहारी । स्फाटिकत्विषा श्येतः श्वेतः । ‘शुक्लशुभ्रशुचिश्वेतविशदश्येत

पाण्डुराः' इत्यमरः । आशु उद्द्रावितं प्रद्रावितं ‘प्रद्राविद्द्राव सन्द्रावाः' इत्यमरः । दुरितं येन सः ।

वें पापमिति संप्रोक्तं कटस्तस्य तु दाहकः ।
पापानां दाहकत्वाद्धि वेंकटाद्रिरितीर्यते ॥

 इति तस्य पापहारित्वप्रसिद्धेः । ते भवतः धराधरः शेषाद्रिरित्यर्थः । चातुर्वर्ण्यं चतुरक्षरत्वं धराधरशब्दस्य तथाविधत्वादिति भावः । प्रथयति । अत्र ब्रह्मक्षत्रवैश्यशूद्राणां क्रमेण न्यसनम् । चातुर्वर्ण्यपदेन उपपादितब्रह्मक्षत्रादिसूचनान्मुद्राच पूर्ववदेव ॥

 यथावा--

 त्वद्दिव्यचरितवर्णी न्यासेन त्वां गृहीतवान्मतिमान् । त्वद्भावनस्थितोऽयति परमं धामाश्रमान्वितो भगवन् ॥ १७८१ ॥

 हे भगवन्! तद्दिव्यचरितं वर्णयतीति तथोक्तः । न्यासेन भरन्यसनेन त्वां गृहीतवान् वशीकृतवान् गृहीतवानित्यनेन उपयाम गृहीतोऽसि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत' इति न्यासकरणमन्त्रगतं गृहीतपदं प्रत्यभिज्ञाप्यते । तव भावने स्थितः मतिमान् आश्रमेण उपायान्तरानुष्ठानप्रयासराहित्येनैव परमं धाम अयति प्राप्नोति 'इटकिटकटि’ इत्यत्र प्रश्लिष्टस्य इधातो: लट् । अत्र ब्रह्मचारिगृहस्थवनस्थयतीनामाश्रमिणां स्मृत्यादिषु

सहपठितानां क्रमिको न्यासः । अयमेवाश्रमेणेति पदेन सूच्योर्थस्सूचित इति पूर्ववदेव सर्वम् । वर्णिगृहिशब्दाभ्यां ब्रह्मचारिगृहस्थौ गृह्येते ॥

 यथावा--

 भूयांसमन्वयं त्वयि दधतं भवभाविरोधपरिहृत्यै । शुभसाधनफललिप्सुश्चतुरध्यायी श्रये हरिं कमले ॥ १७८२ ॥

 हे कमले ! त्वयि भूयांसं अन्वयं संबन्धं दधतं हरिं शुभानां साधनं यत्फलं निश्श्रेयसरूपं प्रयोजनं लिप्सुस्सन् अतएव भवेन संसारेण जन्मना वा भावी यो रोधः निर्बन्धस्तय परिहृत्यै शान्त्यै चतुरं निपुणं यथातथा ध्यायतीति चतुरध्यायी सन् श्रये । अत्र समन्वयाविरोधसाधनफलानां ब्रह्ममीमांसाचतुरध्यायीप्रतिपाद्यानां क्रमेण सूचनम् । चतुरध्यायीति सूच्यार्थसूचनान्मुद्रा च । तच्छिरस्का रत्नावलीयं पूर्ववदेव । किंच भूयांसमन्वयं त्वयि दधतं हरिमित्यनेन प्राप्यस्य ब्रह्मणस्स्वरूपं, श्रये इत्यनेन प्राप्तुः प्रत्यगात्मनस्स्वरूपं, चतुरध्यायीति प्राप्त्युपायः, शुभसाधनफलेति फलस्वरूपं, भवभाविरोध इत्यनेन स्वरूपोपायफलप्राप्तिविरोधस्वरूपं च किंचित्क्रमवैपरीत्येन वर्णितमिति विशेषश्चात्र विभावनीयः ॥

 सत्यं धर्मं विन्दति स भीमसेनो रणे विजयशाली । व्रजति सुशोभनकुलतां लक्ष्म्या सह देव सेवते यस्त्वाम् ॥ १७८३ ॥

 अत्र श्लेषोपश्लिष्टमुद्रालङ्काररीत्या युधिष्ठिरादीनां पञ्चानां पाण्डवानां प्रसिद्धक्रमेण प्रतिपादनमिति पूर्वोदाहरणेभ्यो विच्छित्तिविशेषः ॥

 यथावा--

 कामं दारादिमजुषमपारिजातं श्रितं ससन्तानसुखम् । सामोदं कल्पयसे हरिचन्दन दैवतरुचिरश्रीदस्त्वम् ॥ १७८४ ॥

 हे हरिचन्दन! हरिरेव चन्दनः तस्य संबुद्धिः । त्वं दैवतानामपि रुचिरा रमणीया तैरपि श्लाघ्येति यावत् । या श्रीः संपत् शोभा वा तां ददातीति तथोक्तस्सन् । हरिचन्दनेत्यनेन देवतरुविशेषोऽपि गृह्यते । तदा दैवतानां रुचिरां श्रियं ददातीति तथोक्त इत्यप्युपस्कार्यम् । श्रितं स्वाश्रितं जनं कामं पर्याप्तं यथातथा दारादिमान् जुषतीति तं तथोक्तं आदिमशब्देन बन्ध्वादिर्गृह्यते । अपास्तं अरिजातं वैरिवृन्दं येन तं अपारिजातं संतानसुखेन सह वर्तत इति ससंतानसुखं अतएव सामोदं सानन्दं ससौरभं च । हरेश्चन्दनतया रूपितत्वादिति भावः । कल्पयसे रचयसि । स्वोपासितारं सर्वप्रकारविभवजुषं तनोषीति भावः । अत्र मन्दारपारिजातादीनां पञ्चानां देवतरूणां क्रमेण न्यसनम् । दैवतरु इति पदैकदेशेन श्लोकघटितदेवतरुरूपसूच्यार्थस्यापि सूचनान्मुद्रालङ्कारावतंसितेयमिति पूर्ववदेवानुसंधेयम् ॥

 यथावा--

 चरणारविन्दशरणगमशोकयन्नात्मचरमवचसापार्थम् । कुतसहकारश्रीमल्लीलो नीलोत्पलोज्ज्वलोऽवतु स पुमान् ॥ १७८५ ॥

 चरणारविन्दशरणगं पार्थं आत्मचरमवचसा 'सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' इति वचनेन अशोकयन् कृतः सह

कारः साचिव्यं यया सा तथोक्ता श्रीमती लीला सारथ्यलीला यस्य स तथोक्तः नीलोत्पलोज्ज्वलः स पुमान् अवतु । मामिति शेषः । अत्र ‘अरविन्दमशोकं च' इत्यादिप्रसिद्धक्रमपञ्चबाणन्यसनम् ॥

 यथावा--

 प्राणयितारं स्वकथापानविधातॄन्पिशङ्गसंव्यानम् । कलयेय मुदाऽनन्तम् समानयन् हृदयपुण्डरीकं तम् ॥ १७८६ ॥

 स्वकथापनविधातॄन् जनान् प्रणयितारं । पिशङ्गसंव्यानं पीताम्बरोत्तरीयं ‘संव्यानमुत्तरीयं स्यात्' इत्यमरः । तं सकललोकवेदप्रसिद्धं अनन्तं भगवन्तं हृदयपुण्डरीकं समानयन् प्रापयन् सन् मुदा कलयेय इति योजना । अत्र श्रुत्यादिप्रसिद्धानां प्राणापानव्यानोदानसमानानां क्रमिको न्यासः ॥

 यथावा--

 शब्दैकगम्यमुज्झितदोषस्पर्शं निरूपणातिगसुगुणम् । तामरसनयन तनुयां सुभगं धर्मेण चेतसो विषयं त्वाम् ॥ १७८७ ॥

 हे तामरसनयन! उज्झितदोषस्पर्शं निरूपणातिगाः वाङ्मनसाविषयाः सुगुणाः यस्य तं 'यतो वाचो निवर्तन्ते' इति श्रुतेः । अनेन पदत्रितयेन ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी स एष सर्वेभ्यः पाप्मभ्य उदितः । स एष ये चास्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानाम्' इत्यन्तरादित्यविद्योक्तं दिव्यमङ्गळविग्र

होपलक्षकं पुण्डरीकाक्षत्वं अपहतपाप्मत्वं सर्वलोककामेशितृत्वादिगुणाकरत्वं चोक्तं भवति । अत्र ‘अपहतपाप्मा' इत्यादि 'सत्यसंकल्पः' इत्यन्ताः निरवद्यंनिरञ्जनम् । यस्सर्वज्ञः’ इत्यादिश्रुतयोऽप्यनुसंधेयोः । अतएव सुभगं शोभनः भगः--

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः।
ज्ञानवैराग्योश्चैव षण्णां भग इतीरणा ॥

 इत्युक्तं षाड्गुण्यं यस्य तं तथोक्तं भगवच्छब्दवाच्यमिति यावत् । शब्दैकगम्यं 'तं त्वौपनिषदं पुरुषम्' इति श्रुतेः 'शास्त्रयोनित्वात्' इति सूत्राच्च । उपदर्शितमस्य रूपादिकं शास्त्रैकसमधिगम्यमिति भावः । ईदृशं त्वां धर्मेण-–

सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः ।
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥

 इत्युक्तेन अर्चनवन्दनस्तवनाद्युत्तमधर्मेण चेतसः विषयं तनुयां विशुद्धेन मनसा गृह्णीयां ‘मनसा तु विशुद्धेन' इति श्रुतेः । अत्र शब्दस्पर्शरूपरसगन्धानां लोकवेदप्रसिद्धानां पञ्चानां विषयाणां प्रकृतानन्वयिनां क्रमिक उपन्यासः । विषयमित्यनेन क्रमविन्यस्ता इमे विषया इति सूच्यस्यार्थस्य सूचनान्मुद्रालंकारश्च । तदुत्तंसितेयं रत्नावळीति ध्येयम् ॥

 यथावा--

 शुभकृत्तद्धितदायी समासहस्रं त्वदेकशेषं माम् । कल्याणवृत्तिमच्युत कलय सनाद्यन्तधातुरूपस्त्वम् ॥ १७८८ ॥

 हे अच्युत! शुभकृत् मङ्गळकारि तत् शास्त्रप्रसिद्धं यत् हितं उपायरूपं तत् ददातीति तथोक्तं सकलकल्याणास्पदभक्तिप्रपत्तिरूपं त्वत्प्राप्त्युपायं वितरन्नित्यर्थः । ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ इति गानात् । न विद्येते आद्यन्तौ यस्य सः नाद्यन्तः नशब्देन समासः । उत्पत्तिनाशविधुरः यः धातुः धाता 'सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्' इत्यनेन औणादिकस्तुन्प्रत्ययः । उदन्तोऽयं शब्दः । एतच्च ‘धातुप्रसादान्महिमानम्' इति श्रुतिव्याख्यानावसरे श्रुतप्रकाशिकोपनिषद्भाष्ययोर्व्यक्तम् । तद्रूपः जन्मनाशोपलक्षितभावविकारराहित्येत सर्वजगतां धर्ता पोष्टा चेत्यर्थः । सः त्वं समानां वत्सराणां सहस्रं बहुतिथं कालमिति यावत् । त्वदेकशेषं यावदात्मभावि तवैव शेषभूतमिति भावः । मां कल्याणी श्रेयस्करी वृत्तिः कैंकर्यरूपा यस्य तं तथोक्तं कलय । अत्र स्वरूपोपायपुरुषार्थाः यथास्थानमनुसन्धेयाः । अत्र ‘कृत्तिद्धतसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः' इति शाब्दिकगोष्ठीप्रसिद्धानां पञ्चानां वृत्तीनां क्रमेण कथनम् । कल्याणवृत्तिशब्देन उपासादितवृत्तयोऽत्र निबद्धा इति सूच्यस्यार्थस्य सूचनं च पूर्ववदेव । अत्र सनाद्यन्तेत्यादेस्सौत्रनिर्देशानुवादरूपत्वान्न ङमुडागमप्रसक्तिरित्यवधेयम् । अतएव "द्वादशामी सनादयः । एतच्छास्त्रमुणादिषु । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्' इत्यदयो ङमुडघटिताः प्रयोगास्संगच्छन्ते ॥

 यथावा--

 यत्तु स्वार्थं द्रव्यं नालिङ्गति तव पदाब्जमब्जाक्ष । संख्यातिगमपि नॄणां तन्न स्यात्प्रीतिकारकं विदुषाम् ॥ १७८९ ॥

 हे अब्जाक्ष! नॄणां यद्द्रव्यं स्वार्थमेव सत् तव पदाब्जं नालिङ्गति त्वच्चरणाम्भोजार्पितं न भवतीत्यर्थः । तद्द्रव्यं संख्यातिगं अपरिमितमपि विदुषां ब्रह्मविदां प्रीतिकारकं न स्यात् । व्यर्थमेव तदिति भावः । अत्र स्वार्थद्रव्यलिङ्गसंख्याकारकाणां प्रातिपदिकार्थानां शाब्दिकगोष्ठीप्रसिद्ध्यनुसारतः क्रमिकत्वम् ॥

 यथावा--

 अविषयमविशयमागमवचसामपि पूर्वपक्षमिह तमसाम् । लोकोत्तरफलदं त्वां जगतामधिकरणमाश्रये भगवन् ॥ १७९० ॥

 हे भगवन्! आगमवचसामपि अविषयं अगोचरं तमसां अज्ञानानामेव तिमिराणां पूर्वपक्षं शुक्लपक्षं तन्निर्मूलयितारमिति भावः । लोकोत्तरं यत्फलं निश्श्रेयसरूपं तद्ददातीति तथोक्तं जगतां अधिकरणं आधारं त्वां अविशयं निस्संदेहं यथा तथाऽऽश्रये । अत्र--

विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् ।
प्रयोजनं च पञ्चैते प्राञ्चोऽधिकरणं विदुः ॥

 इति पूर्वोत्तरमीमांसाप्रसिद्धाधिकरणाङ्गपञ्चकस्य क्रमेण न्यासः । अधिकरणमित्यनेन सूचनीयार्थसूचनं च ॥

 यथावा--

 कामं जितशक्रो धनविभवैस्सुकलो भयं क्षमो हर्तुम् । भानुमदंशुश्रीमत्सरोजलोचन भवेद्भवद्दृष्टः ॥ १७९१ ॥

 सुकलः दाता भोक्ता च ‘सुलको दातृभोक्तरि’ इत्यमरः । भयं स्वस्य स्वाश्रितानां च त्रासं हर्तुं क्षमः शक्तः भीताभयदातेत्यर्थः । भानुमदंशुभिः श्रीमत् उज्ज्वलं यत्सरसिजं तदिव लोचनं यस्य तस्य संबुद्धिः । अत्र कामक्रोधलोभमोहमदमत्सराणां षण्णां क्रमेण न्यास इति पूर्वोभ्यो विच्छित्तिशालिनीयम् ॥

 यथावा--

 काममवक्रो धर्मैर्विमलो भगवन् भवेत्तमोहतिशीलः । श्रमदमन नमत्सरसिजभव तव भक्तो जितारिषड्वर्गश्च ॥ १७९२ ॥

 श्रमदमनः सांसारिकखेदविमोचनः तस्य संबुद्धिः । नमन् सरसिजभवः ब्रह्मा यस्य सः तस्य संबुद्धि: हे भगवन् ! तव भक्तः कामं अवक्रः अकुटिलशीलः । धर्मैः सामान्यैर्विशेषैश्च धर्मैः विमलः निर्मलः ‘धर्मेण पापमपनुदति’ इति श्रुतेः । अतएव तमसः तमोगुणस्य हतिः निरासः तस्यां शीलं यस्य स तथोक्तः । जितः अरिषड्वर्गः कामादिः येन स तथोक्तश्च भवेत् ।

न क्राधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥

 इत्युक्तेरिति भावः । अत्रापि प्रकारान्तरेण कामक्रोधादीनामेव क्रमेण ग्रथनम् । ईदृशविशेषरूपसूच्यार्थस्य जितारिषड्वर्ग इत्यनेन सूचनान्मुद्रा चेति विशेषः ॥

 यथावा--

 सुश्लिष्टसंधिविग्रहमिभपतियानं शरासनसनाथम् । राममभिवीक्ष्य तेन प्रेप्सन्तोऽद्वैधमाश्रयन्मुनयः ॥ १७९३ ॥

 सुश्लिष्टाः संधयः संधिबन्धाः यस्य तादृशो विग्रहो यस्य तम् । अनेन वक्ष्यमाणमुनिजनमानसाकर्षकस्सौन्दर्यातिशयस्सूचितः । यथोच्यते--

अङ्गप्रत्यङ्गकानां स्यात्संनिवेशो यथोचितम् ।
सुस्निग्धसन्धिबन्धो यस्तत्सौन्दर्यमितीर्यते ॥

 इति । इभपतेः यानमिव यानं यस्य तम् । शरासनसनाथं रामं अभिवीक्ष्य मुनयः तेन रामेण सह अद्वैधं गाढालिङ्गनेनैकीभावं प्रेप्सन्तस्सन्तः । तं आश्रयन् दण्डकारण्यं प्रविष्टस्य भगवतो दाशरथेस्सौन्दर्येण मोहिताः वनिता इव मुनयस्तमालिङ्गितुमुत्सुका बभूवुरिति पद्मपुराणकथाऽत्रानुसंधेया । यद्वा तेन अद्वैधं अविवादं प्रेप्सन्तस्तमाश्रयन् 'अविवादस्तु तस्यैव पदयोरात्मनोऽर्पणम्’ इत्युक्तरीत्या तच्चरणारविन्दे अत्मरक्षाभरार्पणमभीप्सन्त आश्रयन्नित्यर्थः । अत्र ‘संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः' इति प्रसिद्धसहपाठानां संध्यादीनां क्रमेण षण्णां न्यसनम् ॥

 यथावा--

 सुरभीतिहरभुजोष्मा शरवर्षासारविशमिताशरदावः । परमहिमानीको यो दिशिदिशि शिरसा नमामि तं दाशरथिम् ॥ १७९४ ॥

 यः सुरभीतिहरः भुजोष्मा बाहुप्रतापः यस्य शरवर्षासारः बाणवर्षासार एव जलवर्षासार: तेन विशमितः आशराः निशिचरा एव दावा यस्य परमहिमा अनीकः सैन्यं यस्य पक्षे परमा हिमानी हिमसंहतिः यस्य सः परमहिमानीकः । ‘नदृयतश्च' इति कप् । तं दाशरथिं दिशिदिशि शिरसा नमामि 'नमः

पुरस्तादथ पृष्ठतस्ते नमोनमस्सर्वत एव सर्व’ इत्युक्तप्रक्रियया प्रतिदिशं प्रणमामीत्यर्थः । अत्र सुरभीत्यादिपदैकदेशैः ऊष्मेत्यादिशब्दश्लेषेण च वसन्तादीनां षण्णामृतूनां क्रमेण वर्णनम् ॥

 यथावा--

 सृष्ट्यादिकर्मकर्ता करणनियन्ता त्वया विनाऽच्युत कोऽन्यः । सकलशुभसंप्रदानं कुरुते पादानताधिकरणहतिं च ॥ १७९५ ॥

 हे अच्युत ! सृष्ट्यादीनां जगत्सर्जनादीनां कर्मणां कर्ता अनेन ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः' इति श्रुतिः प्रत्यभिज्ञाप्यते । करणानां इन्द्रियाणां नियन्ता ‘श्रोत्रस्य श्रोत्रम्' इत्यादिश्रुतेः । पादानतानां चरणप्रणतानां आधिः मनोव्यथा तस्य करणाः कर्तार: करणानि साधनानि वा तेषां हतिं क्षतिं, सकलशुभसंप्रदानं तेषामेव सर्वकल्याणवितरणं च । आभ्यामिनिष्टनिरासेष्टप्रापणे अभिहिते । त्वया विना कोऽन्यः कुरुते इति योजना । अत्र--

कर्म कर्ता च करणं सप्रदानं तथैव च ।
अपादानाधिकरणे इत्याहुः कारकाणि षट् ॥

 इति शाब्दिकोक्तानां षण्णां कारकाणां क्रमेण न्यसनम् ॥

 यथावा--

 लवणाशाली क्षुभितासुरेन्द्रराज्योदधीशभुजदण्डः । नलिनाक्षीराजितहृज्जलजाक्षो जयतु सप्तभुवननिधिः ॥ १७९६ ॥

 लवणाशब्दः स्वाभाव्यात् स्त्रीलिङ्गः लावण्यवाची । 'लवणैव लावण्यम्' इति 'लावण्यश्रिय इव शेषसङ्गनायाः' इत्यादौ मल्लिनाथादिभिस्तत्रतत्र व्याख्यातत्वात् । 'लवणो रसरक्षोऽब्धिभेदेषु लवणा त्विषि, इति विश्वः । तया शालत इति लवणाशाली । क्षुभितः असुरेन्द्राणां हिरण्यकशिपुनरकप्रभृतीनां राज्यमेव उदधीशः । समुद्रराजः येन तादृशो भुज एव दण्डः मन्थानदण्डो यस्य सः नलिनाक्ष्या श्रिया राजितं हृत् वक्षः यस्य सः सप्तसंख्याकानां भुवननां भूरादिलोकानां निधिः जलजाक्षः जयतु । अत्र 'लवणेक्षुसुरासर्पिर्दधिक्षीरजलार्णवाः' इति पुराणादिप्रसिद्धसहपाठानां सप्तानामुदन्वतां क्रमेण प्रतिपादनमिति पूर्वोदाहरणेभ्यो विशेषः । सप्तभुवननिधिरिति पदेन सूच्यसमुद्रसूचनान्मुद्रा च ॥

 यथावा--

 भूरिदयं जलधिभुवः प्रियं सुवर्णाभमहरधिपबिम्बस्थम् । सुजनोग्रतपोगम्यं व्याहृतयो नोऽभिदधतु सत्यं देवम् ॥ १७९७ ॥

 नः अस्माकं व्याहृतयः व्याहाराः भूरिदयं निरवधिककृपं, तत्र हेतुः जलधिभुवः प्रियमिति । अत्र 'नित्यश्रीर्ब्रध्नबिम्बे' इत्याचार्यश्रीसूक्तिस्स्मर्तव्या । अतएव सुवर्णाभं अहरधिपबिम्बस्थमिति तदुपस्कारकम् । अत्र ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' इत्यन्तरादित्यविद्योक्तं दिव्यात्मविग्रहरूपमनुसंहितम् । सुजनानां सतां उग्रेण तीव्रेण तपसा गम्यं प्राप्यं, सत्यं निरुपाधिकसत्तायोगिनं 'सत्यं ज्ञानम्' इति श्रुतेः । मुक्तामुक्तनियन्तारं वा ‘अथ यत्तत्सदमृतं अथ यत्ति तन्मर्त्यं अथ यद्यं तेनोभे यच्छति'

इति दहरविद्यायां श्रवणात् । देवं नारायणं अभिदधतु वदन्तु

अस्मद्वचनानि संततं दिव्यमङ्गळविग्रहं परं ब्रह्म पुरुषोत्तमं श्रीनिवासमेव परिचिन्वताम् । तद्विषयकप्रबन्धानेव प्रणयन्तामिति भावः । अत्र श्रुतिप्रसिद्धसहपाठानां भूरादिसप्तव्याहृतीनां क्रमेण विन्यासः । व्याहृतय इत्यनेन तादृशसूच्यार्थसूचनं चेति पूर्ववदेव मुद्राशिरस्कत्वम् ॥

 यथावा--

 अरुणाब्जवर्णमङ्गळसौम्याङ्गिरसावभासित नुहसिते । असिताक्षि मातराहुर्लोकेऽतुल्याऽनवग्रहेति त्वाम् ॥ १७९८ ॥

 अरूणाब्जस्य वर्ण इव वर्णो यस्य तत् ‘पद्मवर्णाम्' इति श्रुतेः । तथोक्तं मङ्गळं सौम्यं सुंन्दरं 'सौम्यं तु सुन्दरे सोमदैवते' इत्यमरः । तादृशं अङ्गं यस्यास्सा तथोक्ता तस्यास्संबुद्धिः 'अङ्गगात्र' इति ङीष् । रसेन शृङ्गाररसेन दयारसेन वा अवभासि प्रकाशमानं न तु 'स्मयन्निव नृपो हन्ति’ इतिवत्परातिसंधायकं, तनुहसितं मन्दहासो यस्यास्सा तथोक्ता । अनेन भगवन्मन्दहसितादप्यस्या मन्दहसितं गुणवत्तरमिति द्योतितम् । तद्धि हासो जनोन्मादकरी च माया’ इत्युक्तरीत्या जनोन्मादकारिमायारूपं तस्यास्संबुद्धिः रसावभासितनुहसिते । हे असिताक्षि! 'तं चेयमसितेक्षणा’ इत्युक्तेः । हे मातः! त्वां अतुल्या असदृक्षा अनवग्रहा अप्रतिबन्धा सर्वव्यापिनीत्यर्थः । 'अवग्रहो दृष्टिरोधे प्रतिबन्धे गजाळिके’ इति मेदिनी । यद्वा अनवग्रहा निरङ्कुशस्वातन्त्र्या अपर्यनुयोज्यस्य भगवत्स्वातन्त्र्यस्यापि तदधीनत्वात् । यथोक्तं ‘यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलम्' इत्यादि । इति वदन्ति सन्त इति शेषः।

अत्र सूर्यादीनां नवानां ग्रहाणां प्रकृतान्वयं विना क्रमेण न्यासः । नवग्रहेत्यनेन सूच्यार्थसूचनान्मुद्रा च । प्रागुदाहृतं ‘भास्वान् राजा’ इत्यादिपद्यं तु प्रकृतान्वयि भगवद्विषयश्चेति वैलक्षण्यम् ॥

 यथावा--

 भुजगाचलशृङ्गारो वीरः करुणाद्भुतो महास्यरुचिः । स्वभया न कं नु वशयेद्बीभत्तितरौद्ररिपुरयं शान्तः ॥ १७९९ ॥

 करुणया अद्भुतः विस्मयावहकृप इत्यर्थः । महती आस्यरुचिः मुखप्रभा यस्य बीभत्सिताः विकृताः कुताः रौद्राः दारुणाः रिपवः येन सः । शान्तः ऊर्मिषट्कप्रतिभटः स्वभया निजप्रभया कं नु न वशयेत् सर्वमपि स्वतेजसैव वशीकुर्यादित्यर्थः । अत्र--

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।
बीभत्सरौद्रशान्ताश्चेत्येते नव रसाः स्मृताः ॥

 इति कश्चित्प्रसिद्धक्रमाणां नवानां रसानां क्रमेण न्यासः ।

क्वचित्तु--

शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥

 इति क्रमः पठ्यते । तदनुसारे तु वक्ष्यमाणक्रमवैपरीत्यादेरुदाहरणं भविष्यति ॥

 यथावा--

 मधुहर माधव तनुयाश्शुक्रशुचिं ननु नभस्सदामपि मान्यम् । भाद्राश्वयुजोर्जस्वलसहायतैषं

समाघनतपस्यं त्वाम् ॥ १८०० ॥

 इदं कस्यचिदैहिकापवर्गिकपुरुषार्थं प्रार्थयितुर्भक्तस्य वचनम् । हे मधुहर मधुवैरिन् ननु माधव हे श्रीनिवास । सः त्वं घना तपश्चर्या यस्य तं मा मां भद्राणां गजविशेषाणां समूहो भाद्रं अश्वानां समूहः आश्वं उभयत्र सामूहिकोऽण् । ताभ्यां युज्यत इति भाद्राश्वयुजः इगुपधलक्षणः कः । ऊर्जस्वलः बलिष्ठश्च सहायः यस्य स तथोक्तः । तस्य भावः तत्तातां इष्यते गच्छतीति भाद्राश्वयुजोर्जस्वलसहायतैषः तं ‘इषगतौ' दिवादिः तस्मात्कर्मण्यण् । चतुरङ्गसेनायुक्तमहासहायशालिनमित्यर्थः । एतेन ऐहिकसमृद्धिरर्थिता । शुक्रः वह्नि 'शुकस्स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान्' इति मेदिनी । तमिव शुचि शुद्धं अनेनापवर्गसाधनसर्वप्रकारशुद्धिमत्ता सूचिता । 'शुचिश्शुद्धेऽनुपहते शृङ्गाराषाढयोस्सिते’ इति विश्वः । नभः स्सदां अर्चिरादिकानामातिवाहिकानां देवानां मान्यं पर्यवसाने तैस्सेव्यमपि तनुयाः । 'भुक्त्वा च भोगानखिलानन्ते हरिपदं व्रजेत्’ इत्युकरीत्या ऐहिकसाम्राज्यानुभवपूर्वकमन्ते निश्श्रेयससाम्राज्यानुभवशालिनमपि कुर्वीथा इति भावः । अत्र 'मधुश्च माधवश्च शुक्रश्च शुचिश्च' इत्यादिश्रुतिस्मृत्यादिपठितानां मधुमाधवादीनां द्वादशानां मासानां क्रमो निबद्धः ॥

 यथावा--

 स्यामेष वृषाद्रिस्थं मिथुनमकर्क्यङ्गजारिरमणीड्यमहम् । अतुलाळिकं विचापलमसमकरं वीक्ष्य विनतसकलशमीनम् ॥ १८०१ ॥

 अत्र ज्यौतिषादिप्रसिद्धसहपाठानां मेषवृषादिमीनान्तानां द्वादाशानां राशीनां मुद्रालङ्कारविधया क्रमेण वर्णनम् । अङ्गजारिः

कामवैरी तस्य रमणी गौरी तया ईड्यं स्तुत्यं अतुलं असदृशं अळिकं ललाटं यस्य तत् विचापलं अचञ्चलशीलं वीक्ष्येति क्रियाया विशेषणं वा । असमौ असदृशौ करौ पाणी यस्य तत् । शम एषामस्तीति शमिनः तेषां इनाः प्रभवश्शान्ताग्रण्य इत्यर्थः । विनताः सकला शमीनाः यस्य यस्मिन्वा तत्तथोक्तं वृषाद्रिस्थं मिथुनं श्रीश्रीनिवासरूपं स्त्रीपुंसात्मकं द्वंद्वं वीक्ष्य दृष्ट्या ध्यात्वा वा कर्कं कल्कं रलयोरभेदात्पापं ‘कल्कोऽस्त्री शमलैनसोः' इत्यमरः । तदस्यास्तीति कर्की स न भवतीत्यकर्की, विनष्टाश्लिष्टपूर्वोत्तराघः एषः अहं स्यामिति योजना । भवेयमित्यर्थः ॥

 प्रकृतानन्वयवती अक्रमा यथा--

 मधुरामा यास्तासां दाता कांचिच्छुचं विजितकाशी । सदयो ध्यातोऽस्तु वहन् हृदि नतसद्वारकामवन्तीं लक्ष्मीम् ॥ १८०२ ॥

 याः मधोः तन्नम्नोऽसुरस्य रामाः स्त्रियः तासां कांचित् शुचं वैधव्यप्रयुक्तं शोकं दाता । ददातेस्तृन् । मधुदैत्यसंहर्तेति भावः । विजितेन विजयेन भावे क्तः काशत इति विजितकाशी काशतेर्णिनिः ‘वानरा जितकाशिनः’ इतिवत् । नताः सतां वाराः निवहाः यस्यां सा नतसद्वारका तां अवन्तीं सर्वलोकपालयित्रीं लक्ष्मीं हृदि वहन् अतएव सदयः पुमान् परमपुरुषः श्रीनिवास इति भावः । ध्यातः अस्तु । मयेति शेषः। अत्र--

अयोध्या मधुरा माया काशी काञ्चिरवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥

 इति प्रसिद्धक्रमपाठानां क्रमव्यतिक्रमेण न्यसनम् ॥

 यथावा--

 पुष्कलशाल्मलिजम्बूप्लक्षः क्रौञ्चकुशमेदुरः फणिशैलः । आक्रान्तमहाशाकस्सप्तद्वीपाधिको जयत्ययमेकः ॥ १८०३ ॥

 पुष्कलाः अतिशोभनाः 'पुष्कलस्स्यात्सत्तमश्चातिशोभने' इत्यमरः । शाल्मलिजम्बूप्लक्षाः वृक्षविशेषाः यस्मिन् सः । क्रौञ्चैः पक्षिविशेषैः कुशैः दर्भैः जलैर्वा मेदुरः आक्रान्ताः स्वाभोगेन व्याप्ताः महत्यः आशाः दिशः येन स तथोक्तः 'शेषाद्विभाषा' इति कप् 'के णः' इति प्राप्तस्य हृस्वस्य 'आपोऽन्यतरस्याम्' इति विकल्पितत्वादाशाशब्दस्य न हृस्वः । अयं फणिशैलः एक एव सप्तद्वीपाधिको जयति । अत्र 'जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कलाः' इति पुराणादिषु सहपठितस्य द्वीपसप्तकस्य क्रमातिक्रमेण न्यसनम् । सप्तद्वीपपदेन सूच्यार्थसूचनं च ॥

 यथावा--

 स्तुवताङ्गिरस्सदा मे मरीचिमत्त्रियुगसपुलहर्षकरम् । विपुलस्त्यानक्रतुभुग्वसिष्ठसुखदं तवाम्ब नयनयुगम् ॥ १८०४ ॥

 हे अम्ब ! मरीचिमत् अंशुमत् त्रियुगस्य भगवतः सपुलहर्षकरं सपुलकप्रमोदावहं 'पुलस्स्यात्पुलके पुंसि विपुले वाच्यलिङ्गकः' इति मेदिनी । विपुलं विशालं स्त्यानानां स्निग्धानां 'स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि' इति मेदिनी । क्रतुभुजां वसिष्ठाः वसीयांसः श्रेष्ठाः तेषां लोकपालानामित्यर्थः । वसुशब्दः प्रशस्तवाची । तत आतिशायनिके इष्ठनि वसिष्ठ इति रूपम् ।

एतच्च ‘श्वसो वसीयश्श्रेयसः’ इति सूत्रे कौमुदीग्रन्थे स्पष्टम् । सुखदं ‘लोकेशेशविभूतीनां कारणं यन्निरीक्षणम्’ इत्युक्तेः । विपुलं च तत् स्त्यानक्रतुभुग्वसिष्ठसुखदं चेति विशेषणोभयपदकर्मधारयः । यद्वा विपुलं अतिशयितं स्त्यानं आलस्यं दुर्वासश्शापजनितस्वाराज्यभ्रंशप्रयुक्तमपाटवं यस्य स तथोक्तः क्रतुभुग्वसिष्ठः इन्द्रः तस्य सुखदमिति तव नयनयुगं मे मम गिरः सदा स्तुवता स्तुवन्तु । अत्र--

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं च महातेजास्सोऽसृज्जत्सप्त मानसान् ॥

 इति पुराणोक्तानां महर्षीणां किंचित्क्रमातिलङ्घनेन न्यसनम् ॥

 यथावा--

 यशसैष सार्वभौमेनैरावतकुमुदपुष्पदन्तरुचा ते । लोकोऽञ्जननायक सुप्रतीक वामन सुपुण्डरीकाक्ष सितः ॥ १८०५ ॥

 हे वामन ! स्वेच्छागृहीतवामनावतार । हे सुप्रतीक 'आ प्रणखात्सर्व एव सुवर्णः’ इत्युक्तप्रकारदिव्यमङ्गळविग्रह ! हे सुपुण्डरीकाक्ष ! शोभनं यत्पुण्डरीकं तदिव अक्षि यस्य तस्य संबुद्धिः । सुशब्देन गम्भीराम्भस्समुद्भूतसुमृष्टनाळरविकरविकसितत्वरूपः ‘तस्य यथा कप्यासम्’ इति श्रुतिस्थकप्यासशब्दार्थस्सर्वोऽपि

संगृहीतः । अञ्जननायक अञ्जनाख्यगिरिनेतः ऐरावतः कुमुदपुष्पं दन्तः गजदन्तः तेषां रुगिव रुक् प्रभा यस्य तथोक्तेन सार्वभौमेन सर्वभूमौ विदितेन ते यशसा जगत् सितं शुभ्रमिति योजना । अत्र 'ऐरावतः पुण्डरीकः’ इत्युक्तानां दिग्गजानां क्रमातिलङ्घनम् ॥

 प्रलयसरस्वति वटदळशयितस्त्वमदीदृशस्स्वमहिमानम् । मार्कण्डेयमुनेश्श्रुतिसुभगङ्गेयं पुरा फणिगिरीन्दो ॥ १८०६ ॥

 इदमुपाख्यानमरण्यपर्वणि प्रसिद्धम् । अत्र ‘इमं मे गङ्गे यमुने सरस्वति' इति संबुद्ध्यन्ततया क्रमेण श्रुतौ पठितानां गङ्गायमुनासरस्वतीनां सर्वात्मना व्युत्क्रमेण न्यसनं पूर्वोभ्यो विशेषः ॥

 यथावा--

 दुरितोपसंहृतिचणा रविमर्शविकासिपद्मगर्भेन्धे । तटगान्प्रति मुखरमुखभ्रमरा सौस्नातिकी वृषाद्रिनदी ॥ १८०७ ॥

 रवेः मर्शः स्पर्शः तत्करस्पर्श इति यावत् । तटगान् तीरस्थान् प्रति सौस्नातिकी सुस्नानप्रष्टी ‘पृच्छतौ सुस्नातादिभ्यः' इति ठक् । सुस्नातान् पृच्छतीति विग्रहः । अत्र 'मुखं प्रतिमुसं गर्भस्सावमर्शोपसंहृतिः ’ इति प्रसिद्धक्रमपाठानां मुखादीनां पञ्चानां नाटकसन्धीनां सर्वात्मना व्युत्क्रमेण न्यसनम् । गम्योत्प्रेक्षासंकीर्णमिति च विशेषः ॥

 यमनियमासनदक्षप्राणायामा हरे भवत्पारिषदाः । प्रत्याहरन्ति यमभटगृहीतमपि नामधारणादेव ॥ १८०८ ॥

 हे हरे ! अनेन--

ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेवच ।
प्रसह्य हरते यस्मात्तस्माद्धरिरितीर्यते ॥


 इत्युक्तप्रकारेण यमोपसंहरणशक्तिमत्ता प्रकृतार्थोपस्कारिणी द्योतिता । ‘हरिर्हरति पापानि’ इत्युक्तपापनिराकरणशक्तता च । तव पारिषदाः सुनन्दनन्दप्रभृतयः पारिषद्याः । तान्विशिनष्टि-- यमेत्यादिना । यमस्य समवर्तिनः नियमः नियमनं ‘पातकिनो मत्सकाशमानेयाः’ इत्याज्ञा तस्य असने निरासे दक्षः प्राणस्य शक्तेः ‘शक्तिः पराक्रमः प्राणः' इत्यमरः । आयामः दैर्घ्यं येषां ते कृतान्तकृताज्ञानिराकरणधुरीणविपुलपराक्रमा इत्यर्थः । अत एव यमभटैः: गृहीतमपि नरं अजामिळतुल्यमिति भावः । तव नाम्नः धारणादेव ग्रहणादेव एवकारेण तदितरोपायलेशस्पर्शः तस्यापि बुद्धिपूर्वकत्वं च व्युदस्यते । प्रत्याहरन्ति यमभटहस्तादाच्छिद्य स्ववशं नयन्तीति भावः । अत्र--

अयं हि कृतनिर्वेषो जन्मकोट्यंहसामपि ।
यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥

 इत्यादिप्रमाणशतं स्मर्तव्यम् । अत्र योगशास्त्रप्रसिद्धसहपाठानां यमनियमासनप्राणायामप्रत्याहारधारणानां ध्यानसमाधिविकलानां क्रमेण न्यसनम् ॥

 यथावा--

 मधुरां गिरं रमायाश्शृण्वन्कांचिदथ भवदवं तीव्रं त्वम् । सुगुणमयो ध्यातुर्मे शमय दृशा नाथ कालिकाशीतलया ॥ १८०९ ॥

 मधुरां ‘किमेवं निर्दोषः क इह जगति’ इत्याद्युक्तप्रकारतयाऽतिरमणीयां कांचित् यांकांचित् न तु भूयसीमिति भावः । तावतैव तत्परन्त्रस्य तव चित्तप्रसादस्सुकर इति भावः । रमायाः

त्वदवाप्तिपुरुषकारभूताया इति भावः । गिरं शृण्वन् अथ श्रव

णानन्तरमेव हे नाथ! सुगुणमयः कारुण्यवात्सल्यादिगुणप्रचुरः त्वं कालिका मेघरेखा सेव शीतला तया दृशा ध्यातुः मे तीव्रं उग्रं भवदवं शयम । तीव्रं शयमेति वा योजना । अत्र ‘अयोध्या मधुरा’ इत्यादिप्रसिद्धस्य पुरीसप्तकस्य किंचिद्वैकल्येन क्रमातिक्रमेण च वर्णनम् ॥

 यथावा--

 शुभभा रतीशजननी जलधिभवा नीरजातवनभवना । क्रोधवशचीरवासश्शापध्वस्तेन्द्रविभवदा जयतात् ॥ १८१० ॥

 अत्र पुराणादौ सहपठितानामपि भारतीभवानीशचीनां क्रमप्रसिद्धिरहितानां न्यसनम् ॥

 यथावा--

 विधिवामदेववनिताविनुतौ सुभगौ तमोविजयनिपुणौ । चरणौ मूर्ध्नि निधत्तां ममाब्धिजा बालिकाऽतिसुकुमारौ ॥ १८११ ॥

 अत्र--

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनो गौतमश्च सुयज्ञो विजयस्तथा ॥

 इति प्रसिद्धसहपाठानामपि क्रमप्रसिद्धिविधुराणां वामदेवगौतमविजयजाबालीनां चतुर्णां वर्णनम् ॥

इत्यलंङ्कारमणिहारे रत्नावळीसरः सप्तसप्ततितमः.