अलङ्कारमणिहारः (भागः ३)/मुद्रालङ्कारः (७६)

विकिस्रोतः तः
Jump to navigation Jump to search

भवद्भवनदेहळीविकटतण्डुदण्डाहति-
स्फुटन्मकुटकोटिभिर्मघवदादिभिर्भूयते ॥

 इति तदुदाहृते पद्ये तिरस्कारस्य स्फुरणानापत्तेः" इत्यभाणीत् ॥

इत्यलंकारमणिहारे तिरस्कारसरश्चतुस्सप्ततितमः.


अथ लेशालंकारसरः (७५)


गुणो दोषतया दोषो गुणत्वेनाथवा यदि ।
वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥

 यत्र गुणोऽनिष्टसाधनतया दोषत्वेन, दोषश्चेष्टसाधनतया गुणत्वेन वर्ण्यते स लेशो नामालंकारः ॥

 यथा--

 भूयस्सु समुल्लासिषु भूभृत्सु धरातले निरातङ्कम् । हरिधृतिफलमिदमहिधर तव यत्सर्वे शिरोऽधिरोहन्ति ॥ १७३० ॥

 अत्र प्रथमार्धे शैलान्तराणां भगवद्धारणाभावदोषस्य निरातङ्कोल्लासानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे श्रीनिवासधारणगुणस्य सर्वजनकर्तृकशिरोधिरोहणकारणतया दोषत्वं कल्पितम् । अयं च निर्गुणेषु भूयस्सु भूपालेषु सुखवत्तयाऽवस्थितेषु निरतिशयौदार्यादिसुगुणशालिनो राज्ञः अर्थिजनकर्तृकसंमर्दादिक्लेशो भविष्यतीत्यप्रस्तुतव्यवहारपरिस्फूर्तिरूपसमासोक्त्यास्तुत्या

निन्दाभिव्यक्तिरूपया निन्दया स्तुत्यभिव्यक्तिरूपया व्याजस्तुत्या च पूर्वोत्तरार्धगतया संकीर्यते ॥

 असहनमेव ज्यायस्सहिष्णुतावैभवं धिगस्तु रमे । सुखिनोऽन्ये तव तु सखी सर्वैस्सर्वंसहेत्यधः क्रियते ॥ १७३१ ॥

 अत्रापि दोषगुणयोगुर्णदोषत्वेन वर्णनं, अर्थान्तरन्यासपरिष्कृतत्वं तु विशेषः ॥

 यथावा--

 सर्वगुणानां निधिरिति गर्वं मा गाः पयोनिधेस्तनये । यैरेव स्वजनयितुस्स्वच्छतमस्यापि मथनहेतुरभूः ॥ १७३२ ॥

 अत्र गुणस्य दोषत्वेन वर्णनं शुद्धम् । न चायमलंकारः व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्क्यं, मुखप्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानविरहात् । न हि 'सर्वगुणानां निधिः' इत्यस्मिन् पद्ये दारिद्र्यात् खिन्नस्य कस्यचिल्लक्ष्मीगुणोपालम्भरूपे श्रियस्स्तुतौ तस्य तात्पर्यम् । अपितु स्वजनकमथनहेतुत्वेन निन्दायामेव । एवं 'असहनमेव ज्यायः' इति श्लोके भूमीतरेषां निन्दा न विवक्षिता किंतु सुखावस्थानं, सर्वंसहाखेददर्शनदुःखितस्य वाक्येऽस्मिन् तदन्येषां निन्दाया अवक्तव्यत्वात् । प्रत्युतस्तुतेरेव वक्तुमुचितत्वात् । 'भूयस्सु समुल्लासिषु' इति श्लोकेव्याजस्तुतिरस्तिचेदस्तु नाम, तस्यास्सावकाशत्वेन एतद्बाधनायोगात् ॥

 प्रियतम एव भवत्यास्त्रिभुवनभिक्षौ स्थिते कुचेलसखे । सर्वजगद्दुर्विधतानिर्वापणतोऽम्ब गर्विताऽसि कथम् ॥ १७३३ ॥

 अत्र पर्यन्ते प्रतीयमानस्य भगवदतिरिक्तसकलजगद्दारिद्र्यनिर्वापणरूपस्य गुणस्य दोषत्वेनावर्णनात् दोषत्वेन वर्णयमानस्य भगवतस्त्रैलोक्यभिक्षुत्वकुचेलसखत्वानिराकरणदोषस्य गुणत्वेनाकल्पनाद्गुणदोषयोर्भिन्नविषयतयाऽवस्थानेन लेशस्पर्शलेशरहिता व्याजस्तुतिरिति व्यक्तमेव सावकाशत्वम् । अतएव लेशोऽपि न व्याजस्तुतेर्बाधक इति प्रागुदाहृते ‘भूयस्सु समुल्लासिषु’ इति पद्ये द्वयोरपि समावेश इत्यवधातव्यम् ॥

इत्यलंकारमणिहारे लेशसरः पञ्चसप्ततितमः.



अथ मुद्रालंकारसरः (७६)


 प्रकृतार्थपरैश्शब्दैर्मुद्रा सूच्यार्थसूचनम् ।

 विवक्षितार्थप्रतिपादनपरैश्शब्दैस्सूचनीयस्यार्थस्य सूचनं मुद्रालंकारः । अयमपि दीक्षितोपज्ञमेव । प्रकृतार्थपरेण पदेन तदेकदेशेन वा पदसमुदायेन पदैकदेशसमुदायेन वा तदुभयसमुदायेन वा याथाकथंचित् ज्ञापनीयार्थविशेषस्य ज्ञापनं मुद्रेति निर्गळितोऽर्थः । पदैकदेशस्तु प्रकृते अर्थवान्वा निरर्थकोवाऽस्तु । सूच्यार्थश्च प्रकृतोऽप्रकृतोवाऽस्तु । न तत्राभिनिवेष्टव्यम् ॥

 यथावा--

 भजमनसागोपेता नियतर्षिगणाः पदोर्भजन्ते याम् । भृगुजगणजां यतीड्यां विद्यामविषमजयां सुगीतिमिमाम् ॥ १७३४ ॥

 अत्र लक्ष्मीवर्णनपरे पद्ये गीतिवृत्तपरतयाऽर्थान्तरमपि विवक्षितम् । तत्र लक्ष्मीपरत्वे एवमर्थः--नियतर्षिगणाः नियताः नियमितेन्द्रिया एकाग्रमनसा इति यावत् । एकान्तिन इति वा । ये ऋषिगणाः आगोऽपेताः आगसः अपराधात् अपेताः निरपराधास्सन्त इत्यर्थः । 'अपेतापोढ' इति पञ्चमीसमासः । यां श्रियं पदोः चरणयोः भजन्ते सेवन्ते । भृगुजगणजां भृगुजः भृगुनाम्नः ऋषेः जातः यो गणः धातृविधातृप्रभृतितत्पुत्रपौत्रप्रमुखस्संतानवर्गः तस्मिन् जातां प्रादुर्भूतां--

देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥

 इति विष्णुपुराणोक्तेः । यतीड्यां यतिभिः मस्करिभिः ईड्यां स्तव्यां अविषमजयां अविषमः न्याय्यः सर्वसंप्रतिपन्न इति यावत् । जयः उत्कर्षो यस्यास्तां अतएव सुगीतिं गीयत इति गीतिः गानं शोभना गीतिः यस्यास्तां प्रशस्तकीर्तिमिति यावत् । इमां विद्यां आत्मविद्यां श्रियमित्यर्थः । 'आत्मविद्या च देवि त्वं विमुक्तिफलसाधनी । विद्यासहायवन्तं माम्' इत्यादिभिर्विद्याशब्देन श्रियोऽभिधानात् । विद्येत्यत्र कार्यकारणयोरभेदोपचारः । मनसा भज उपास्वेति कस्यचिद्गुरोः कंचिदन्तेवासिनं प्रत्यनुशासनम् ॥

 गीतिवृत्तपक्षे तु-- यां गीतिं गोपेताः गसंज्ञकेन गुरुणा उपेताः युक्ताः अस्य अन्ते इत्येतदादिः अवसाने गुरुणा उपेता इत्यर्थः । ते च अनियताः क्रमनियमरहिताः यथायथं प्रयुक्ता इत्यर्थः ।

ज्ञेयास्सर्वादिमध्यान्तगुरवोऽत्र चतुष्कलाः ।
गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥

 इति सर्वादिमध्यान्तगुरूणां चतुर्लघूपेतानां चतुर्लघुरूपगणान्तरसहितानामनियमेनार्यावृत्तेषु प्रयोगस्यानुशासनात् । अत्र द्विगुरुक एको गणः । आदिमध्यान्तगुरवः भगणजगणसगणास्त्रयः चतुर्लघुक एक इत्येवं पञ्चगणा यथासंभवमार्यादिषु प्रयोज्या इति

कारिकार्थः । ते च कतीत्यत्राह-- ऋषीति । ऋषिसंख्याका गणाः सप्तगणा इत्यर्थः । गोपेताश्च ते अनियतर्षिगणाश्चेति कर्मधारयः । ते च के इत्यत आह-- भजमनसा इति । भकारादिसंज्ञकाः । क्व च ते प्रयोज्या इत्यत आह-- पदोरिति । पदोः श्लोकचतुर्थांशयोः पूर्वोत्तरार्धरूपयोर्द्वर्योः पादयोरित्यर्थः । `पद्दन्' इति पादशब्दस्य पदादेशः । भजन्ते श्रयन्ते । अथ चतुष्कलानां गणानामनियमेन यथायथं प्राप्तौ नियमयति-- भृगुजेति । भृगुजः परशुरामः स च मत्स्यादिभगवदवतारेषु षष्ठतया गणितः । तेन प्रष्ठ इति लभ्यते । भृगुजः षष्ठः गणः जः जसंज्ञकः यस्यास्तां भृगुजगणजां जगणात्मकषष्ठगणामित्यर्थः । अनेन षष्ठेन जगणेन भाव्यमिति नियम उक्तः । अविषमजयां विषमे विषमांशे विषमगणस्थाने जं जगणं यातीति विषमजयाः यातेः क्विप् । सा न भवतीत्यविषमजया तां तथोक्तां प्रथमतृतीयादिविषमांशेषु जगणशून्यामित्यर्थः । अनेन विषमस्थानेषु जगणो न प्रयोज्य इति नियम उक्तः । यतिभिः विच्छेदैः 'विच्छेदो यतिसंज्ञकः' इत्यनुशासनात् । ईड्यां

रमणीयविच्छेदयुतामित्यर्थः । 'कृतयतिशोभाम्' इति तल्लक्षणे वक्ष्यमाणत्वात् । इमां सुगीतिं शोभनां गीतिं गीत्याख्यामार्यामित्यर्थः । विद्यां जानीयाम् । विदेर्लीङुत्तमैकवचनम् । अत्र--

लक्ष्मैतत्सप्तगणा गोपेता भवति नेह विषमे जः ।
षष्ठोयं न लघू वा प्रथमेऽर्धे नियतमार्यायाः ॥

इत्युक्तार्याप्रथमार्धलक्षणस्यैव उत्तरार्धेऽपि विद्यमानत्वात् ।

अर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेशः ॥

 इत्युक्तं गीतिलक्षणं सर्वमपि सुस्पष्टम् ॥

 अत्र श्रीलक्ष्मीवर्णनपरेण सुगीतिमिति पदेन अस्य वृत्तस्य गीतिनामतायाः भजमनसा इत्यादिना तद्गणनियमादीनां च सूच्यानामर्थानां सूचनमिति मुद्रालंकारः प्रकृताप्रकृतश्लेषोज्जीवितः । न चात्र प्रकृताप्रकृतश्लेष एव न मुद्रालंकार इति वाच्यं, श्लेषसद्भावेऽपि सूच्यार्थसूचनस्यापि स्फुटतया मुद्रालंकारस्य निरर्गलत्वात् । नाप्यस्य मुद्रालंकारस्य श्लेषतो विविक्तविषयदौर्लभ्यभ्रमः कार्यः, अनुपदमवे विविक्तस्य विषयस्य दर्शयिष्यमाणत्वात् । तस्मादत्र श्लेषमुद्रालंकारयोस्संकर एवेति दिक् ॥

 यद्यप्यत्रालंकारग्रन्थे वृत्तनाम्नोऽवश्यं नास्ति सूचनीयत्वं, तथाऽप्यस्य पद्यस्य एवंविधलक्षणाभिन्नलक्ष्यघटितच्छन्दश्शास्त्रमध्यपाठे तस्य सूचनीयत्वं संभवतीति लक्षणानुगतिः कार्या । अत एव--

सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः ।
नित्यम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ॥

 अत्र नायिकावर्णनपरेण युग्मविपुलापदने अस्यानुष्टुभो युग्मविपुलानामत्वरूपस्सूच्यार्थसूचनं मुद्रा । यद्यप्यत्र ग्रन्थे वृत्त

नाम्नो नास्ति सूचनीयत्वं, तथाऽप्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दश्शास्त्रमध्यपातित्वे तस्य सूचनीयत्वमस्तीति तदभिप्रायेण लक्षणं योज्यम्” इति कुवलयानन्दग्रन्थस्संगच्छेत । अत्र छन्दश्शास्त्रमध्यपातित्वेनेति तृतीयान्ततया केषुचित्कोशेष्वर्वाक्तनेषु दृश्यमानः पाठोऽस्वच्छः, भूयस्सु प्राचीनकोशेषु मध्यपातित्वे इति सप्तम्यन्तपाठस्यैव दर्शनात् तथैव तद्व्याख्यायां रसिकरञ्जन्यां व्याख्यातत्वाच्च । तथाच तद्ग्रन्थः-- "नन्वत्र तरुणीवृत्तान्तवर्णनप्रस्तावे वृत्तस्यालक्षणीयतया तन्नाम्नस्सूचनीयत्वाभावान्नेह मुद्रालंकार इत्याक्षिपति-- यद्यपीति । सत्यं, नात्र वृत्तनाम सूचनीयं, तथाऽपि ‘यस्यां लस्सप्तमो युग्मे सा युग्मविपुला मता' इति विपुलालक्षणोत्तरार्धे यदि 'नितम्बगुर्वी तरुणी’ इत्युत्तरार्धमुदाहरणं भवेत् तदा तव वृत्तस्य सूचनीयत्वमस्तीत्यभिप्रेत्यात्र मुद्रालंकारोदाहरणमिति परिहरति--तथाऽपीति” । एतेन छन्दश्शास्त्रमध्यपातित्वेनेति तृतीयान्तपाठमेव बहुमन्यमानाः ‘नितम्बगुर्वी’ इत्याद्युत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दश्शास्त्रमध्यपातिन एवात्र लक्ष्यतयोदाहृतत्वात्तादृशस्यैव प्रस्तुतसूच्यार्थसूचिनो मुद्रालंकारत्वं न तु तदन्यकाव्यान्तर्गतस्याप्रस्तुतसूच्यार्थसूचनस्यापीत्यागृह्णानाः केचित्परास्ताः । सति च तृतीयान्ततया पाठे उपदर्शितरीत्या व्याख्यानव्याख्येययोरन्योन्यमुखानवलोकनापत्तेः ।

येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः ।
प्रायस्त एव तेषामितरेषामभिनवा विरच्यन्ते ॥

 इति जयदेवप्रणीतचन्द्रालोकादृश्यमानानामलंकाराणां कुवलयानन्दकारैरेव लक्ष्यलक्षणयुक्तश्लोकप्रणयनस्य प्रतिज्ञाततया अत्र

ग्रन्थान्तरगतपद्यघटनावाचोयुक्तेरयुक्तत्वात् । तादृशलक्ष्यलक्षणयुक्तच्छन्द्रोग्रन्थस्याप्रसिद्धेश्च । वस्तुतस्तु प्रकृतार्थस्यैव सूचनं मुद्रालंकार इति परमाग्रहः । प्रकृतस्य वा अप्रकृतस्य वा सूच्यस्यार्थस्य सूचनं मुद्रालंकार इत्येव ग्राह्यम् । 'सुच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः' इति हि तच्छरीरम् । तथाच कवि संरम्भानुरोधेनतादृशलक्ष्यलक्षणयुक्तप्रबन्धानन्तःपातित्वेऽपि तदतिरिक्तकाव्येषु यत्रयत्र 'कृत्वा हाटकताटकेयहरिणे शार्दूलविक्रीडितम् । पर्यायेण स्तनकलशयोरङ्गुळीयं मदीयम्’ इत्यादौ अप्रकृतवृत्तालंकारादिसूचनेऽप्यक्षत एवायमलंकारः । अन्यथा रामादिचरितं ग्रथयितॄणां कविकुलाग्रयातॄणां महता प्रयत्नेन यत्रक्ववा वृत्तालंकारादिसूचकशब्दप्रयोगवैचित्र्यवैयर्थ्यापत्तेः । अलंकारकौस्तुभकृतो बुक्कपत्तनवेंकटार्यास्तु--

प्रकृतार्थपरैश्शब्दैः कविनाऽप्रकृतं यदि ।
सूच्यं सूच्येत जगदुस्तदा मुद्रामलंकृतिम् ॥

 इत्यप्रकृतसूच्यार्थसूचनमेव मुद्रेत्यमुमलंकारं लक्षयन्तः--

'नीलश्रीरलकेषु शङ्खगरिमा कण्ठे कुचे माकरी
रेखा कुन्दवरद्युतिस्स्मितसुधाकान्तेषु दन्तेषु च ।
पादौ कच्छपभूषितौ करयुगं यस्यास्सपद्मं महा
पद्माऽऽनन्दमयी मुकुन्दरमणी सद्यः प्रसद्यान्मम ॥

 इत्युदाहृत्य 'अत्र नीलादिशब्दैर्निधिनवकसूचनम्' इत्यप्रस्तुतं निधिनवकमेवासूसुचन् । न हि लक्ष्मीवर्णनप्रस्तावे निधिनवकसूचनं प्रस्तुतम् । अन्यत्सर्वं प्रपञ्चितं हंससंदेशरसास्वादिन्यां 'पर्यायेण स्तनकलशयोः' इत्यत्रास्माभिः ॥

 यथावा--

 हारसमेतो भोगी राहोः कालो रविप्रवेकेषु । गगनचराणां वारेष्वास्तेऽन्तर एष सन्ततमरिष्टः ॥

 हारेण वैजयन्तीरूपेण समेतः भोगी निरतिशयभोगवान् भूम्नि प्रशंसायामतिशयने वा मत्वर्थीयः । राहोः कालः शत्रुः भगवान् रविप्रवेकेषु आदित्यादिषु गगनचराणां दिविषदां ग्रहाणां च वारेषु समूहेषु वासरेषु च । अन्तर: अन्तस्स्थितः 'य एषोऽन्तरादित्ये । य आदित्ये तिष्ठन्नादित्यादन्तरः । सर्वान्तरः' इत्यादिश्रुतेः । आस्ते । एषः सर्वान्तर्यामितयाऽवस्थितोऽपि संततं नित्यं रिष्टं अशुभं तन्नास्त्यस्येत्यरिष्टः अपहतपाप्मेत्यर्थः । सर्वान्तर्यामित्वेऽपि तद्गतदोषगन्धासंस्पृष्ट इति भावः । अत्रादित्यादिवासरेषु राहुकालहारसमेतोभोगीति कचटादिवर्णज्ञाप्यसंख्याक्रमेणाष्टमद्वितीयाद्यर्धयामपरिमाण आस्ते । तद्यथा रविवारे अष्टमोऽर्धयामो राहुः कालः । इन्दुवारे द्वितीयोऽर्धयामस्स इत्यादि द्रष्टव्यम् । स च संततमरिष्टः कार्येष्वशुभद इति ज्योतिश्शास्त्रमर्यादायास्सूच्यायास्सूचनम् ॥

 यथावा--

 नतसमनवनिर्निद्रां नलिनेक्षणहृदयवसतिमक्षुद्राम् । कामपि करुणामुद्रां पथ्यामार्यां श्रये भद्राम् ॥ १७३६ ॥

 अत्र पथ्यामार्यामिति पदाभ्यामर्थवद्भ्यामस्य पद्यस्य--

त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याश्छन्दोविद्भिस्समाख्यातम् ॥


इत्युक्तलक्षणपथ्यार्यानामत्वरूपसूच्यार्थसूचनम् ॥

 एवं ‘कामपि करुणामुद्राम्' इत्यत्र मुद्रापदेनास्मिन् पद्ये प्रतिपादितस्यालंकारस्योक्तलक्षणमुद्रानामत्वसूचनमर्थवत्पदैकदेशेनेत्यन्याऽपि मुद्रा ॥

 यथावा--

 त्वद्दीप्तिधूतरोचिस्तटिल्लता । क्वापि हन्त जीमूते । लीनाऽपि भीतिभारात्पयोधिनन्दिन्यभूच्चपला ॥ १७३७ ॥

 क्वापि जीमूते जलदे पर्वते च 'जीमूतौ मेघपर्वर्तौ' इत्यमरः । अत्र चपलेत्यर्थवता श्लिष्टेन पदेन अस्य पद्यस्य--

उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याः ।
चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥

 इति लक्षितगुरुद्वयमध्यगजगणात्मकद्वितीयचतुर्थगणवदुभयार्थशालिचपलाख्यार्यानामतालक्षणसूच्यार्थसूचनम् ॥

 यथावा--

 यस्य न करुणालेशस्तस्यानन्तं वृषाचलेश सुखम् । भजसि कृपाविवशस्त्वं परदुःखनिराचिकीर्षया क्लेशम् ॥ १७३८ ॥

 अत्र करुणालेशवैधुर्यरूपदोषस्यानन्तसुखवत्त्वरूपगुणत्वकल्पनं कृपापारवश्यरूपगुणस्य परदुःखनिराचिकीर्षानिमित्तकक्लेशवत्तारूपदोषत्वकल्पनं चेत्यनुपदोक्तलक्षणलेशालंकारः । स च

अनर्थकपदैकदेशरूपलेशशब्देन तन्नाम्नो ज्ञापनीयस्य ज्ञापनम् ॥

 यथावा--

 नवनलिनाक्षः फणिगिरिदुर्गनिवासे निसर्गतः कुतुकी । कृष्णघनजिष्णुरुचिराकृतिस्स लक्ष्मीपतिश्चिरं जीयात् ॥ १७३९ ॥

 अत्र पादचतुष्टयाद्यवर्णयुग्मरूपार्थवत्पदैर्मिलितैः--

 'नवदुर्गकृष्णकृतिंः' इति प्रबन्धकर्तृनाम्नस्सूचनीयस्य सूचनम् ॥

 अत्र नक्षत्रमालादिस्तुतिवत्केनाप्यक्षुण्णचरी काऽपि श्रीहयग्रीवदेवदिव्यमहिषीविषया अलंकरणमालिकाख्या बवबालवादिकरणनामसूचनी अस्माभिरेव प्रणीता स्तुतिरुदाह्रियते । तस्या इमे आद्ये पद्ये--

 कमलवनावलिभोग्यं कलशपयोराशिराजसौभाग्यम् । किमपि हयाननभाग्यं कलयतु मां स्वगुणविनुतिकृतियोग्यम् ॥ १७४० ॥

 हरणायाखिलविपदां करणान्येकादशापि विनियम्य । श्लोकैरेकादशभिर्लोकेशित्रीं स्तुवे प्रसीदतु सा ॥ १७४१ ॥

 एकादशसंख्याकानि करणानि इन्द्रियाणि । पक्षे बवबालवेत्यादिचरस्थिरसंज्ञकानि करणानि तान्यप्येकादशसंख्याकान्येव । विनियम्य विषयेभ्यः प्रत्याहृत्य । पद्यानामेकदेशेषु ग्रथित्त्वा च । अत्र करणान्येकादशापि विनियम्येति पदैः श्लिष्टैरर्थवद्भिः वक्ष्यमाणस्तुतिपद्येषु क्रमेण करणनाम्नां सूचनं भविष्यतीति सूचितम् ॥

 अंब वधूमणि भवतीमम्बुरुहाक्षोऽपि वक्षसि बिभर्ति । किं बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ १७४२ ॥

 अत्र अंबवधू इतिपदैकदेशाभ्यां अनर्थकाभ्यां बवकरणनामरूपसूच्यार्थस्य प्रस्यायनम् ॥

 निरुपमवरतमसुगुणाङ्कुरनिकुरुंबालवालभूतां त्वाम् । तुरगवदनस्य तरुणीं तरुणाम्बुजलोचनां श्रये शरणम् ॥ १७४३ ॥

 अत्र निकुरुम्बालवालेत्यनर्थकपदैकदेशाभ्यां बालवकरणनामसूचनम् ॥

 शुभदायकौ लवणिमप्रभवौ ननु जननि तव विदितविभवौ । पादौ वितीर्णमोदौ श्रीदौ स्यातां ममाब्जदायादौ ॥ १७४४ ॥

 लवणिमा लावण्यं 'लवणिमगुणनाणीयस्तराम्भोधिवेणी' इति शृङ्गारतरङ्गिणीप्रयोगात् । अत्र दायकौ लवणिमेत्यनर्थकपदैकदेशाभ्यां कौलवकरणनामसूचनम् ॥

 हरिदर्शनसविकसनं हारि ममामोदि षट्पदोल्लसनम् । हृदयाब्मुजं शरण्या हयमुखदयितैतु ललितलावण्या ॥ १७४५ ॥

 हरेः भगवतः भानोश्च दर्शनेन सविकसनं उन्निद्रं उल्लासि च । हारि मनोहरं आमोदि प्रमोदवत् सुरभि च । उलसन्त्यस्मिन्नि

युल्लसनम् । षट्पदस्य शरणागतिमन्त्रस्य षट्पदानां भ्रमराणां च उल्लसनम् । अन्यत्सुगमम् । अत्र दयितैतु ललितेत्यर्थवन्निरर्थकपदैकदेशसमुदायेन तैतुलकरणनामसूचनम् ॥

 शिशिरमयूखावरजं वशितहयग्रीवममृतसागरजम् । भजतां भवभरतापं नयतां नः किमपि धाम तल्लोपम् ॥ १७४६ ॥

 शिशिरमयूखः अवरजः यस्य तत्, भवभरतापं लोपं नयतामित्यन्वयः । अत्र सागरजमित्यनर्थकेन पदैकदेशेन गरजकरणनाम सूचितम् ॥

 कश्चित् वणिग्जन इव न्यासधनी मौग्ध्यमम्ब तव वीक्ष्य । त्वयि विक्रीयाणुतमं स्वमहो लभते महाविभूतिं त्वत् ॥ १७४७ ॥

 न्यासधनी भरन्यासधनवान् न्यासरूपधनवांश्च । न्यासो नाम केनचित् रक्षणायान्यवशे उपनिहितं वस्तु ‘पुमानुपनिधिर्न्यासः' इत्यमरः । न्यस्यत इति न्यासः कर्मणि घञ् । मौगध्यं सौन्दर्यं मौढ्यं च अणुतमं अणीयस्स्वरूपं अत्यल्पं च । स्वं आत्मानं धनं च । विक्रीय विनिमितं कृत्वा च महाविभूतिं श्रीनिवासं महतीं सम्पदं च लभते । अत्र वणिग्जेत्यनर्थकेन पदैकदेशेन वणिग्जकरणनामसूचनम् ॥

 भुवनावननिर्निद्रा सवनाशननाथकृतनुतिकृपार्द्रा । धुवतात्काचिन्मुद्रा भवतापं भव्यदायिनी भद्रा ॥ १७४८ ॥

 अत्र भद्राशब्देनार्थवता भद्रकरणनामसूचनम् । मुद्रेति मुद्रालंकारस्यापि सूचनमिति विशेषः ॥

 शकुनिध्वजाविभाज्यं सकलं तत्किमपि तस्य साम्राज्यम् । दत्तां विभवं प्राज्यं तत्तादृशमखिलविबुधपरिपूज्यम् ॥ १७४९ ॥

 अत्र शकुनीत्यर्थवत्पदैकदेशेन शकुनिकरणनाम्नस्सूचनम् ॥

 सुचतुरमतिरपि यस्ते न चरणकमलद्वयं नमेज्जातु । अचतुष्पात्खर एव स न च विशयोऽत्रास्ति वचननिचयैः किम् ॥ १७५० ॥

 अत्र चतुष्पादिति पदैकदेशेनार्थवता चतुष्पात्करणनामसूचनम् ॥

 नागवरभोगबाहौ रागवती भगवतीह वागीशे । द्रागवतात्प्रचुरभवोद्वेगवतोऽस्मान् कृपाझरी काऽपि ॥ १७५१ ॥

 अत्र नागवरेति पदैकदेशभूतेन नागवेति वर्णत्रयेण नागवाख्यकरणनामसूचनम् ॥

 भवभरतपर्तुतापा भवन्ति तेऽमी चिरं न साटोपाः । कमलापाङ्गा मानसकेकिंस्तु घ्नन्त्यमून् घनस्मेराः ॥ १७५२ ॥

 हे मानसकेकिन् ! चित्तमयूरेति संबुद्धिः । तेऽमी भवभरतपर्तुतापाः ग्रीष्मागमोष्माणः चिरं साटोपाः सावष्टम्भाः न भवन्ति । कुत इत्यत आह-- कमलेति । घनस्मेराः प्रावृषेण्यजलदमनोहराः । इदं विशेषणं तापाटोपलोपनैपुण्याभिप्रायगर्भम् ।

कमलायाः श्रियः अपाङ्गाः कटाक्षाः अमून् तापान् घ्नन्ति । तुशब्दोऽवधारणे ‘स्युरेवंतुपुनर्वैवेत्यवधारणवाचकाः' इत्यमरः । घ्नन्त्येवेत्यर्थः । अतस्ते न चिरं स्थास्यन्तीति भावः । अत्र केकिंस्तुघ्नन्तीत्यानुपूर्व्या अर्थवन्निरर्थकपदैकदेशोभयसमुदायरूपया किंस्तुघ्नेति करणनामसूचनम् ॥

 कल्याणगुणस्यूतां कान्त्याश्लेषेण सन्ततं स्फीताम् । तनुतां हृद्यां जगतां माताऽलंकरणमालिकामेताम् ॥ १७५३ ॥

 जगतां माता श्रीः कल्याणगुणैः सुवर्णतन्तुभिः पक्षे मङ्गळैः श्रियः गुणैः सौशील्यवात्सल्यादिभिः स्यूतां कान्तेः आश्लेषेण पक्षे कान्त्या ‘अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते' इत्युक्तलक्षणेन श्लेषेण ‘मिथस्संश्लिष्टपदता श्लेष इत्यभिधीयते' इत्युक्तलक्षणेन च कव्योत्कर्षहेतुभूतेन गुणेन स्पीतां एतां अलंकरणमालिकां भूषणमालात्वेनाध्यवसितां स्तुतिं हृद्यां वक्षस्स्थां हृदयप्रियां च तनुताम् । अत्र अलंकरणमालिकामिति पदेन अस्या स्तुतेः बवबालवादिकरणमालानामघटितत्वरूपसूच्यार्थसूचनम् ॥

 अस्याः स्तुतेरयमन्तिमः श्लोकः--

 एषा महिशूरेश्वरकृष्णक्ष्मापालरत्नवंशगुरोः । उदिता कृतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रपरकालात् ॥ १७५४ ॥

 यथावा--

 संयोगोऽग्रे पादे भवतो वर्णस्य कस्यचिद्वा

यस्स्यात् । युक्तोऽयमहिगिरीश्वर क्रमोऽत्र परतस्तु गुरुरपि लघुश्च स्यात् ॥ १७५५ ॥

 हे अहिगिरीश्वर! अग्रे परार्थ्ये ‘परार्थ्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्' इत्यमरः । कस्यचिद्वा यस्यकस्यापि वर्णस्य ब्राह्मणादेः भवतः पादे चरणे यः संयोगः प्रपत्तिकृतस्संबन्धः स्यात् । अयं अत्र अस्मिन् लोके युक्तः उचितः क्रमः श्लाघनीया परिपाटिः ‘शक्तौ चरणविक्षेपे परिपाट्यामपि क्रमः’ इति रत्नमाला । अयं क्रमः युक्तः इति वा योजना । परतस्तु त्वदितरस्मिन् देवे संबन्धस्तु गुरुरपि श्रमाधिक्येन महानपि लघुः अल्पश्च स्यात् । चशब्दोऽवधारणे । अश्लाघ्य एव भवेदित्यर्थः । पक्षे पादे पद्यचतुर्थांशे अग्रे आदौ भवतः विद्यमानस्य कस्यचिद्वा यस्यकस्यापि वा वर्णस्य ककारादेरक्षरस्य यस्संयोगः 'हलोऽनन्तरास्संयोगः’ इत्युक्तलक्षणं संयुक्तत्वं स्यात् भवेत् । युक्तः संयुक्तः अयं संयोगः क्रमः क्रमसंज्ञकः । अत्र अस्मिन् क्रमसंज्ञके वर्णे परतस्तु परत्र विद्यमाने तु गुरुरपि 'संयोगे गुरु’ इत्युक्तलक्षणसंयुक्तवर्णपरकत्वहेतुकगुरुत्वशाली पूर्ववर्णोऽपि लघुश्च ‘हृस्वं लघु’ इत्युक्तलक्षणलाघवशाल्यपि स्यात् । लघुश्चेत्यनेन क्वचिदेवेति ज्ञाप्यते । यथोक्तं--

पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ।
परस्थितेन तेन स्थाल्लघुताऽपि क्वचिद्गुरोः ॥

 इति । यथा अत्रैव पद्ये चतुर्थपादादिमवर्णे संयोगरूपे विद्यमानेऽपि तत्पूर्ववर्णस्य लघुत्वमवश्यमेष्टव्यम् । 'अल्पव्ययेन सुन्दरि ग्राम्यजनो मृष्टमश्नाति' इतिवत् । अन्यधा छन्दोभङ्गादिति

द्रष्टव्यम् । अत्र क्रम इति पदेन चतुर्थपादादिमभूतेन स्वादिभूतककाररेफसंयोगस्य एतत्पद्यप्रदर्शितलक्षणलक्षितस्य क्रम इति संज्ञेति सूचनीयोऽर्थस्स्वानतिरिक्तोदाहरणेन तादृशसंज्ञाप्रयोजनेन च संह सूचितः । इयं च प्रकृताप्रकृतगोचरश्लेषेण प्रागुक्तोल्लासेन च संकीर्यत इति विशेषः । तुरीयपादादिमवर्णस्य लघुतरप्रयत्नेनोच्चारणे पद्यस्य विसंष्ठुलताऽपि न दृश्यत इति ध्येयम् । एवं नवरत्नमालाप्रबन्धे तत्तद्रत्ननामनिवेशनेन तत्तद्रत्नजातिसूचनम् । नक्षत्रमालाप्रबन्धे अग्न्यादिदेवतानामभिर्नक्षत्रनामसूचनमित्यादावयमेवालंकारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपीति दीक्षिताः ॥

इत्यलंकारमणिहारे मुद्रालंकारसरष्षट्सप्ततितमः.



अथ रत्नावळीसरः (७७)


प्रसिद्धसहपाठानामर्थानां न्यसनं यदि ।
रत्नावळी सा विख्याता सक्रमाक्रमताभिदा ॥

 लोकवेदादिप्रसिद्धसहपाठानामर्थानां न्यसनं रत्नावळीनामालंकारः । सा च सक्रमत्वाक्रमत्वाभ्यां द्विप्रकारा । सक्रमत्वं च प्रसिद्धसहपाठानामर्थानां क्रमेण न्यसनम् । अक्रमत्वं च प्रसिद्धक्रमे केषांचिदर्थानां वैकल्येन कथनं वैपरीत्येन कथनं सहपाठसद्भावेऽपि क्रमप्रसिद्धिराहित्यं च । प्रकारद्वयेऽपि क्रमिकाणामर्थानां प्रकृतान्वयित्वतदभावाभ्यां प्रत्येकं द्वैधी । प्रकृतान्वयित्वं