अलङ्कारमणिहारः (भागः ३)/तद्गुणालङ्कारः (७८)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ तद्गुणसरः (७८)


 स्वगुणस्य परित्यागात्तद्गुणोऽन्यगुणग्रहः ।

 स्वगुणस्य परित्यागपूर्वकं स्वसन्निहितवस्त्वन्तरसंबन्धिगुणग्रहणं तद्गुणः । तस्य गुणोऽस्यास्तीत्यन्वर्थसंज्ञोऽयम् ॥

 यथावा--

 इन्दीवरसुषुमाभरमन्दीकृतिनिपुणतावकाङ्गरुचा । रञ्जित इह वृषगिरिरयमञ्जननामानुरूपमुल्लसति ॥ १८१२ ॥

 यथावा--

 मरकतनिभनिजरुचिविच्छुरितं गरुडं जनास्समारूढम् । सकलं जगद्विजेतुं शुकमधिरूढं स्मरं हरिमजानन् ॥ १८१३ ॥

 यथावा--

 अधररुचाऽधोऽरुणतममसितमुपर्यक्षितारकारुचिभिः । नासामौक्तिकमेतद्भासा गुञ्जायतेऽम्ब भवदीयम् ॥ १८१४ ॥

 यथावा--

सरसि निविशमानायां सलिलविहारे हिरिण्यवर्णायाम् । त्वय्यापः प्रणयन्ति श्रुतिकथितं स्वं

हिरण्यवर्णात्वम् ॥ १८१५ ॥

 ‘हिरण्यवर्णाऽश्शुचयः’ इत्यादिश्रुत्युक्तं हिरण्यवर्णात्वमित्यर्थः । एषूदाहरणेषु स्वगुणत्यागपूर्वकान्यगुणग्रहणं स्पष्टमेव । आद्ये समालंकारेण द्वितीये भ्रान्तिमता तृतीये उपमया तुरीये गम्योत्प्रेक्षया चायं परिष्कृत इति परस्परं वैलक्षण्यं बोध्यम् ॥

इत्यलंकारमणिहारे तद्गुणसरोऽष्टसप्ततितमः.


अथ पूर्वरूपसरः (७९)


 स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते ।

 पूर्वं स्वगुणत्यागेन गृहीतान्यगुणस्य पुनर्निजगुणप्राप्तिः पूर्वरूपं नामालंकारः ॥

 यथावा--

 जलधेरधिरूढाया हृदयं स्वरुचा श्रियोतिनैल्यजुषः । वैलक्ष्यं वीक्ष्य हरिर्व्यधाद्यथापुरमिमां स्वमणिभासा ॥ १८१६ ॥

 वैलक्ष्यं हिरण्यवर्णाया अपि मम वल्लभहृदयपरिष्वङ्गसंभ्रमेण निरतिशयो नीलिमा समजनीति त्रपाविशेषः । स्वमणेः कौस्तुभस्य भासा इमां श्रियं यथापुरं पूर्ववदेव हिरण्यवर्णां व्यधात् । न चात्र हिरण्यवर्णत्वेन श्रुतायाश्श्रियः पीतवर्णतया कौस्तुभभासोऽरुणतया च विभिन्नत्वात्कथं पूर्वरूपप्राप्तिरिति वाच्यं, पीतारुणवर्णयोरैक्यवर्णनस्य कविसमयसिद्धत्वात् । तथाचोक्तमलंकारशेखरे