अलङ्कारमणिहारः (भागः ३)/पूर्वरूपालङ्कारः (७९)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


 ‘हिरण्यवर्णाऽश्शुचयः’ इत्यादिश्रुत्युक्तं हिरण्यवर्णात्वमित्यर्थः । एषूदाहरणेषु स्वगुणत्यागपूर्वकान्यगुणग्रहणं स्पष्टमेव । आद्ये समालंकारेण द्वितीये भ्रान्तिमता तृतीये उपमया तुरीये गम्योत्प्रेक्षया चायं परिष्कृत इति परस्परं वैलक्षण्यं बोध्यम् ॥

इत्यलंकारमणिहारे तद्गुणसरोऽष्टसप्ततितमः.


अथ पूर्वरूपसरः (७९)


 स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते ।

 पूर्वं स्वगुणत्यागेन गृहीतान्यगुणस्य पुनर्निजगुणप्राप्तिः पूर्वरूपं नामालंकारः ॥

 यथावा--

 जलधेरधिरूढाया हृदयं स्वरुचा श्रियोतिनैल्यजुषः । वैलक्ष्यं वीक्ष्य हरिर्व्यधाद्यथापुरमिमां स्वमणिभासा ॥ १८१६ ॥

 वैलक्ष्यं हिरण्यवर्णाया अपि मम वल्लभहृदयपरिष्वङ्गसंभ्रमेण निरतिशयो नीलिमा समजनीति त्रपाविशेषः । स्वमणेः कौस्तुभस्य भासा इमां श्रियं यथापुरं पूर्ववदेव हिरण्यवर्णां व्यधात् । न चात्र

हिरण्यवर्णत्वेन श्रुतायाश्श्रियः पीतवर्णतया कौस्तुभभासोऽरुणतया च विभिन्नत्वात्कथं पूर्वरूपप्राप्तिरिति वाच्यं, पीतारुणवर्णयोरैक्यवर्णनस्य कविसमयसिद्धत्वात् । तथाचोक्तमलंकारशेखरे

कविसंप्रदायरत्ने षोडशमरीचौ--‘कमलासंपदोः’ इत्युपक्रम्य 'नीललोहितयोस्स्वर्णपरागाग्निशिखादिषु’ इत्युक्त्वा ‘ऐक्यमेवाभिसंहितम्’ इत्यन्तेन ॥

 यथावा--

 नीलायितं निजरुचा व्यालाचलनाथ मौक्तिकाकल्पम् । उरसि तव धवलयन्ती सरसिजनयना स्मितैः क्रियात्कुशलम् ॥ १८१७ ॥

 उदाहरणद्वयेऽपि पूर्वं परित्यक्तस्य स्वगुणस्य पुनः प्राप्तिस्स्पष्टैव ॥ अयमेव तद्गुण इति केचिद्व्यवाहार्षुः । तन्न चतुरश्रं, अत्र तद्गुणानवकाशात् । स्वगुणत्यागेनान्यदीयगुणपरिग्रहे हि तस्य प्रवृत्तिः । न चेह तत्संभवः श्रियो मौक्तिकाकल्पस्य च प्रथमं स्वगुणत्यागेनान्यदीयगुणग्रहणसद्भावेऽपि पश्चात् स्वगुणत्यागान्यदीयगुणग्रहणयोरभावात् । अतएव स्वगुणत्यागादिति तद्गुणलक्षणे स्वगुणेत्यत्र समासान्तर्हितगुणगुणिसंबन्धमात्रमागन्तुकानागन्तुकसाधारणं विवक्षितम् । ततश्च ‘विभिन्नवर्णा गरुडाग्रजेन' इत्यादौ गृहीतस्यारुणवर्णस्यापि स्वगुणतया तत्परित्यागेनान्यदीयगुणस्वीकारसद्भावात्तद्गुण एवेति निरस्तम् । तथाऽपि स्वकीयस्यैव गुणस्य प्राप्त्या अन्यदीयगुणाभावेन तद्गुणस्य दुर्वचत्वात् । किं च अयमेव तद्गुण इत्युक्ते ‘पद्मरागायते नासामौक्तिका तेऽधरत्विषा’ इत्यादिप्रसिद्धतद्गुणालंकारोदाहरणेषु तद्गुणालंकारो न स्यात् । न चेष्टापत्तिः, अनुभवसिद्धायाश्चमत्कृतेर्निरवलम्बनतापत्तेरिति दिक् ॥

यत्तु स्याद्विकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम् ।
पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥


 पूर्वावस्थापेक्षया विजातीयतां प्राप्तेऽप्यर्थे पूर्वावस्थानुवृत्तिरपि पूर्वरूपमलंकारः ॥

 यथावा--

 चित्रमिदं त्वत्कृपया बन्धविमोक्षं गतोऽपि पद्माक्ष । प्राप्नोति महाशुद्धप्रकृतिगुणामोचनं यदात्माऽयम् ॥ १८१८ ॥

 अयमात्मा जीवः त्वत्कृपया बन्धस्य प्रकृतिसंबन्धस्य विमोक्षं गतोऽपि महाशुद्धाः अतिमात्राशुचयः ये प्रकृतेर्गुणाः तमःप्रभृतयः तेषां आमोचनं बन्धं प्राप्नोतीति चित्रम् । तत्त्वं तु महाशुद्धाः अतिवेलनिर्मलाः ये प्रकृतिगुणाः स्वभावगुणाः अपहतपाप्मत्वादयः स्वाभाविका गुणा इत्यर्थः । ‘प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः' इति मेदिनी । तै: अमोचनं अविनाभावं आमोचनं संबन्धं वा प्राप्नोति आविर्भूतस्वाभाविकगुणाष्टको भवतीत्यर्थः । अत्र बन्धमोक्षेण पूर्वावस्थातो विलक्षणस्य प्रत्यगात्मनः श्लेषमहिम्ना महाशुद्धप्रकृतिगुणामोचनरूपपूर्वावस्थानुवृत्तेर्लक्षणानुगतिः ॥

 यथावा--

 जगतां सवितस्तावकदिव्यालोकेन तमसि गळितेऽपि । भूयोऽपि सत्तमश्श्रीर्भजतामनुवर्तते विचित्रमिदम् ॥ १८१९ ॥

 हे जगतां सवितः जगज्जनक! पक्षे जगतामित्येतत् भजतामित्यस्य विशेष्यतया योज्यम् । हे सवितः भानो ! तावकेन दिव्येन आलोकेन दर्शनेन तेजसा च । तमसि अज्ञाने तदुपलक्षितप्रकृतौ वा । अन्यत्र तिमिरे विगळितेऽपि भूयोऽपि भजतां सत्तमसः अधि

काज्ञानस्य अतिशयिततिमिरस्य च श्रीः विभवः अन्यत्र सत्तमा अतिशोभना ‘सत्तमश्चातिशोभने’ इत्यमरः । श्रीः ज्ञानादिसंपत् मुक्तैश्वर्यं वा अनुवर्तते । अत्रापि श्लेषमहिम्ना तमसि गळितेऽपि तदनुवृत्तिर्दर्शिता ॥

 यथावा--

 प्रागम्ब तव कटाक्षाद्येषां कण्ठेषु सतरळाहाराः । पश्चादपि हन्तासंस्तेषां कण्ठेषु सतरळाहाराः ॥ १८२० ॥

 हे अम्ब! तव कटाक्षात्प्राक् कटाक्षप्रसरणात्पूर्वं येषां जनानां कण्ठेषु गळबिलेषु सतरळाः तरळ्या यवाग्वा सहिताः आहाराः निहीनाभ्यवहारा इत्यर्थः । आसन् पश्चादपि त्वत्कटाक्षप्रसरेण संपदुत्कर्षलाभादनन्तरमपि तेषां कण्ठेषु सतरळाहाराः उक्ताभ्यवहारा एव । पक्षे ग्रीवासु सतरळाः मध्यमणिसहिताः हाराः मुक्तावळ्यः आसन् । हन्तेत्याश्चर्ये ‘तरळं चञ्चले षिद्गे भास्वरेऽपि त्रिलिङ्गकम्' । हारमध्यमणौ पुंसि यवागूसुरयोस्स्त्रियाम्' इति मेदिनी । अत्रापि सतरळाहारा इति श्लेषेण पूर्वावस्थानुवृत्तिर्दर्शिता ॥

 यथावा--

 दशमुखशमनात्त्रिदिविक्षोभे दशरथसुतेन शमितेऽपि । संकुलिता द्यौर्बत मदविशृङ्खलैरावणोद्भटविलासैः ॥ १८२१ ॥

 द्यौः स्वर्गः मदेन विशृङ्खलैः निरर्गळैः रावणस्य दाशाननस्य उद्भटविलासैः संकुलिता संबाधिता । पक्षे मदेन विशृंखलः विग

ळितनिगळः ऐरावणः ऐरावतः तस्य उद्भटविलासैः दशमुखावस्थानावसरे तद्दोर्दण्डप्रतापशोषितमदतयाऽवस्थित ऐरावतस्तस्मिन्नस्तमिते प्ररूढमदतया निरर्गळप्रचारोऽजनीति भावः । अत्र दशमुखशमनेऽपि दिवः पूर्वावस्थानुवृत्तिश्लेषोज्जीविता ॥

 यथावा--

 असमाधिक एव भवन् पुरा मुरारेऽथ तव पदं प्रेप्सुः । दधदपि समाधिमुच्चैरसमाधिक एव भवति बत मनुजः ॥ १८२२ ॥

 असमः आधिर्यस्य सः अविद्यमानस्समार्ध्यिस्य स इति च । असमाधिक एव असदृशाधियुक्त एव । समाधिरहित एव । निस्समाभ्यधिक एवेति च । अत्रापि असमाधिकत्वरूपपूर्वावस्थानुवृत्तिश्लेषगर्भिता ॥

 यथावा--

 प्रविसरति तव कटाक्षे विश्राणयतेऽन्नमम्ब सुगुणो यः । अपि तस्मिन्विकले बत विश्राणयतेऽन्नमेष सुगुणतया ॥ १८२३ ॥

हे अम्ब ! तव कटाक्षे प्रविसरति सति यः पुमान् सुगुणः--

स श्लाघ्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान् ।
स शूरस्स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥

 इत्युक्तरीत्या कल्याणगुणवान् सन् अन्नं विश्राणयते वितरति ‘श्रण दाने’ चौरादिकादस्मात्स्वार्थे ण्यान्ताल्लट् । एष पुमान् तस्मिन् तव कटाक्षे विकलेऽपि स्वस्मिन् परावृत्तेऽपि सुगुणतया

अन्नं विश्राणयते । बतेत्याश्चर्ये । परिहारस्तु गुणस्य सूदस्य भावः गुणता सुष्ठु गुणता सुगुणता । पाकशिक्षितसूदत्वमित्यर्थः तया 'गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागशौर्यादिसत्त्वादिसंध्याद्यावृत्तिरज्जुषु' इति मेदिनी । अन्नं विश्राणयति विस्राविता श्राणा यावागूः यस्य तत्तथोक्तं करोति परगृहे अन्नविस्रावयिता पाचको भवतीति भावः । 'यवागूरुष्णिका श्राणा' इत्यमरः । अत्रापि पूर्वावस्थाऽनुवृत्तिश्लेषेण वर्णिता ॥

 यथावा--

 कश्चिद्द्विजाग्रगण्यो मनुष्यधर्माधिकश्रियं शौरे । अवलम्ब्य तव कटाक्षाद्भूयस्सुखगोऽभवत्किल विचित्रम् ॥ १८२४ ॥

 द्विजाग्रगण्यः विहगश्रेष्ठः विप्राग्रणीः कुचेल इति तत्वम् । मनुष्यधर्मैः मनुजधर्मैः अधिकां कुबेरादप्यधिकामिति वस्तुस्थितिः भूयः पुनः सुखगः शोभनो विहगः भूयः भूरि यत् सुखं तद्गच्छतीति तथोक्त इति वास्तवार्थः । अभवत् । किलेत्यैतिह्ये । स्पष्टमन्यत् । अत्रापि पूर्वावस्थाऽनुवृत्तिर्दर्शिता ॥

 विध्वस्तदशमुखश्रीविभीषणवशंगताऽपि बत लङ्का । अभिवृद्धबहुमुखश्रीरासीद्रघुवीर तेजसा भवत: ॥ १८२५ ॥

 अभिवृद्धा बहुमुखस्य दशाननस्य श्रीः यस्याः नानाविधा समृद्धिरस्या इति तु तत्त्वम् । सर्वं प्राग्वत् ॥

 यथावा--

 विपरीतदशायामपि विशिष्टवर्णा गिरां तव समानाः । सारसरसास्सुधाम्बुधिसुते न जहति स्ववर्णपरिपाटीम् ॥ १८२६ ॥

 हे सुधाम्बुधिसुते! इदं तद्वाचोमाधुर्यातिशयं द्योतयितुम् । विशिष्टः श्रेष्ठः वर्णः येषां ते ब्राह्मणवर्णा इत्यर्थः । प्रशस्ताक्षरा इति तु तत्त्वम् । अतएव तव गिरां समानाः मनसहिताः त्वद्वाचा बहुमानिता इति यावत् । माधुर्येण त्वद्वाक्तुल्या इति तत्त्वम् । सारसरसाः पञ्चरसाः मकरन्दाः, साराः श्रेष्ठाः सरसाश्चेत्यप्युपस्कार्यम् । अतएव विपरीतदशायां धर्मविपर्याससमयेऽपि स्ववर्णपरिपाटीं ब्राह्मणवर्णोचितक्रमं न जहति । यथापुरमेव वर्तन्त इति भावः । वस्तुतस्तु प्रातिलोम्येन पठनावसरेऽपि स्ववर्णानां निजाक्षराणां परिपाटीं अनुक्रमं न जहति । सारसरसा इत्यस्यानुलोमविलोमपठनयोस्तुल्यानुपूर्वीकत्वादिति भावः । अत्र पूर्वावस्थानुवृत्तिश्शब्दार्थतादात्म्यमूलकश्लेषोज्जीवितेति विशेषः ॥

 यथावा--

 निखिलजगच्छेषिण इह संप्रति शौरेर्भवन् सदादासः । नैक्यं भजेत्कदाऽपि प्रतीकमुक्तोऽपि तादृगेव स्यात् ॥ १८२७ ॥

 निखिलजगच्छेषिणः शौरेः संप्रति अधुना एतद्देहसंबन्धितादशायामिति यावत् । सदादासो भवन् जनः--

दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥


 इत्यादिप्रमाणादिति भावः । प्रतीकेन अवयवेन शरीरेणेति यावत् । मुक्तोऽपि प्रतीकान्मुक्तोऽपीति वा । एतद्देहप्रहाणपूर्वकं निश्श्रेयसं प्राप्तोऽपीति यावत् । ऐक्यं तस्य भगवतः अभेदं कदाचिदपि न भजेत् न प्राप्नुयात् । किंतु तादृगेव तत्सदृश एव स्यात् । ‘निरञ्जनः परमं साम्यमुपैति’ इति परमसाम्यश्रवणात् ।

अनेन--

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥

 इति श्रुत्यर्थो वर्णितः । अस्याश्श्रुतेरयमर्थः-- शुद्धे शुद्धं जलं प्रक्षिप्तं तत्सदृशमेव भवति न तु किंचिदपि विसदृशम् । एवं मनननिदिध्यासनशीलस्यात्माऽपि परमात्मसदृश एवेति न त्वभेदं प्राप्नोति, तादृक्छब्दश्रवणात् । तादृक्छब्दस्तत्सदृशवाची । सादृश्यं च भेदघटितमेवेति । किंच तादृगेव सदादास एव स्यात् न तु स्वयं सर्वशेषीति भावः । पक्षे सदादासशब्दः प्रतीकं प्रतिप्रतिलोमं यथास्यात्तथा ‘प्रतिकूले प्रतीकं स्यात्' इत्यमरः । उक्तोऽपि पठतोऽपि तादृगेव सदादास एव स्यात् न तु विभिन्नानुपूर्वीक इति भावः । अत्रापि पूर्वावस्थानुवर्तनं पूर्ववदेव । इदं पूर्वरूपप्रकारद्वयमपि जयदेवोपज्ञम् ॥

इत्यलंकारमणिहारे पूर्वरूपसर एकोनाशीतितमः.



अथातद्गुणसरः (८०)


 अतद्गुणं संगतान्यगुणानङ्गीकृतिं विदुः ।

 गुणवत्सन्निधावपि तदीयगुणानङ्गीकारोऽतद्गुणालंकारः ॥