अलङ्कारमणिहारः (भागः ३)/युक्त्यलङ्कारः (९३)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ युक्तिसरः (९३)


युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवञ्चनम् ॥

 केनचिद्व्यापारेण स्वाभिप्रायनिगूहनाय यत्परस्य वञ्चनं स युक्तिर्नामालंकारः । अयमपि दीक्षितोपज्ञम् । यद्यप्ययमलंकारो जयदेवेन चन्द्रालोके अलंकारप्रकरणे न लक्षितः, तथाऽपि काव्यलक्षणनिरूपणपरे तृतीयमयूखे काव्यलक्षणेष्वेकतमत्वेन युक्तिर्निरूपिता--

युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।
नवस्त्वं नीरदः कोऽपि स्वर्णं वर्षसि यन्मुहुः ॥

इति । दीक्षितैस्तु युक्तिरन्यधैव लक्षिता--

 "युक्तिः परातिसंधानं क्रियया मर्मगुप्तये" ।

इति ॥

 यथा--

 गोष्ठे कृतसंकेता गोविन्दाश्लेषकुतुकिनी सायम् । गोपी काऽपि स्वजनादुत्तस्थौ दामनीमुपादाय ॥ १९०५ ॥

 उत्तस्थावित्यत्र उत्पूर्वकत्वेऽपि तिष्ठतेरूर्ध्वकर्मत्वेन न तङ् । दामनीं पशुरज्जुम् । अत्र दामन्यादानपूर्वकोत्थानक्रियया सायं गोवत्ससंदानार्थोत्थानभ्रमजननेन गोविन्दाश्लेषौत्सुक्यरूपमर्मगोपनेन स्वजनवञ्चनं विवक्षितम् । इदं वर्तिष्यमाणगोपनम् ॥

 वृत्तगोपनं यथा--

 काऽपि क्षतरदवसना गोपकुमारेण गोपबिम्बो

ष्ठी । स्वैरमुपलालयन्ती कीरमुपागात्कलिन्दजातीरात् ॥ १९०६ ॥

 अत्र स्वैरकीरोपलालनक्रियया अधरबिम्बस्य तद्दंशनभ्रमजननेन नन्दनन्दनरदनक्षतिरूपमर्मगोपनेन परवञ्चनम् । बिम्बोष्ठीति विशेष्यं बिम्बीफलभ्रान्या शुकेन दष्टस्स्यादयमधर इति भ्रमोत्पादनोपष्टम्भकम् ॥

 अत्र व्याजोक्तावाकारगोपनम्, युक्तौ त्वाशयगोपनमिति भेदः । यद्वा व्याजोक्तावुक्त्या गोपनं, इह तु क्रियया गोपनमिति भेदः । एवंच 'आयान्तमालोक्य हरिं प्रतोळ्याम्’ इति पद्येऽपि युक्तिरेवेति कुवलयानन्दे स्थितम् ॥

 अत्रेदं चिन्त्यं-- उक्तिक्रियाकृतगोपनभेदादनयोर्भेद इति न युक्तं, व्याजोक्तिप्रकरणे दीक्षितैरेव उक्तिशब्दस्य गोपनसाधनान्तरप्रत्यायकव्यापारमात्रोपलक्षणतायाः स्फुटतया प्रतिपादितत्वात् । तथैव तत्रैव "आयान्तमालोक्य" इत्युदाहरणे स्पष्टतया लक्षणस्याप्यनुगमितत्वाच्च । अतो विवक्षितस्य वस्तुनः केन चिद्व्यापारेण परवञ्चनार्थं यद्गोपनं तद्व्याजोक्तिरित्येव व्याजोक्तिलक्षणं प्राचां युक्त्यलङ्कारं पृथगलक्षयतामभिमतं, स च व्यापारः क्वचिदुक्तिरूपः, क्वचित्तदन्यरूपः, गोपनीयश्च क्वचिदाकारः क्वचित्तदन्यदाशयादिकमिति विभागो युक्त इति न व्याजोक्तितोऽतिरिच्यते युक्तिरिति । अतः ‘आयान्तमालोक्य’ इत्यत्र युक्तिरेवेति पूर्वोत्तरविरोधेन लेखनं चिन्त्यमेव । लाघवेन व्याजोक्तेरेवोक्तरीत्या संभवादित्याहुः ॥

 अस्माभिस्तु--व्याजोक्तावुक्तिग्रहणस्याकारगोपनार्थहेत्वन्तरप्रत्यायकव्यापारमात्रोपलणताया अस्वीकारेण उक्तिरूपव्यापारे

णाकारगोपने व्याजोक्तिः । तदन्यव्यापारेणाशयगोपने युक्तिरित्येव व्यवस्थामाश्रित्य पृथगिमावलङ्कारौ लक्षितौ । दीक्षितानामपि व्याजोक्तिप्रकरणे ‘आयान्तमालोक्य’ इति पद्ये व्याजोक्तिरेवेति लेखनं मतान्तरानुरोधेन । युक्त्यलङ्कारप्रस्तावे तस्मिन्नेव पद्ये युक्तिरेवेति लेखनं तु तत्रैव स्वनैर्भर्व्यं प्रकाशयितुमिति न पूर्वोत्तरग्रन्थविरोध इति समाधेयम् । एवंच व्याजोक्त्यलङ्कारप्रकरणे उदाहृते 'यमुनातटीनिकुञ्जाद्व्रजम्' इति पद्येऽपि युक्त्यलंकार एव न तु व्याजोक्तिरिति दिक् ॥

इत्यलंकारमणिहारे युक्तिसरस्त्रिनवतितमः.


अथ लोकोक्तिसरः (९४)


 लोकोक्तिस्स्यादसौ लोकप्रवादानुकृतिर्यदि ॥

 लोकानां जनानां यः प्रकृष्टो वादः उक्तिः प्रकर्षश्च तत्तद्देशानुसारेण तत्तद्देशीयजनपरंपरागतत्वम् तादृशवादस्यानुकृतिः उल्लेखः यः स लोकोक्तिरित्यर्थः । अयमप्यलंकारो दीक्षितोपज्ञमेव ॥

 यथा--

 तव वेषवहनतोऽभवदवहसनपदं स पौण्ड्रको भगवन् । क्रोष्टेव चित्रकायं दृष्ट्वा तप्तायसा लिखन्कायम् ॥ १९०७ ॥

 चित्रकायं व्याघ्रं ‘पुण्डरीकः पञ्चनखश्चित्रकायमृगद्विषौ’ इत्यमरः । चित्रकायशब्दोपादानं वक्ष्यमाणजम्बुककर्तृकस्वाङ्ग