अलङ्कारमणिहारः (भागः ३)/विवृतोक्त्यलङ्कारः (९२)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


अथ विवृतोक्तिसरः (९२).


 विवतोक्तिश्श्लेषगूढं विवृतं कविना यदि ॥

 श्लेषेण गुप्तोऽर्थो यथाकथंचित्कविना स्वोक्त्या आविष्क्रियते चेत्सा विवृतोक्तिरित्यर्थः । इयमपि दीक्षितोपज्ञम् ॥

 यथा--

 एषा चरति सुखेन हि सुरभी रविजाप्रतीरजानुगता । पाल्या त्वयेत्यवादीदभिकृष्णं काऽपि गोपिका गोपम् ॥ १८९७ ॥

 एषा सुरभिः गौः ‘सुरभिर्गवि च स्त्रियाम् । वसन्तचैत्रयोः पुंसि त्रिषु सौम्यमनोज्ञयोः’ इति रत्नमाला । रविजायाः यमुनायाः प्रतीरजाः तरव इति यावत् । तेषु अनुगता सती सुखेन चरति तृणमिति शेषः । कबळयतीत्यर्थः । संचरतीति वा । त्वया पाल्या यथा अन्यत्र न यायात्तथा प्रतिपालनीयेत्यर्थः । हार्दोऽर्थस्तु-- सुरभिः सुगन्धिः । अनेनास्याः पद्मिनीजातित्वं सूचितम् । सौम्या मनोज्ञा वा । कोशस्तूक्तः। एष च अहमपीति भावः । कामपारवश्येनात्मन एव पारोक्ष्येण निर्देशः । न केवलमितरा एव महिलाः । किंत्वमहपीति चशब्दाभिप्रायः । रविजाप्रतीरे यमुनातटे जानुगता त्वद्रूपनिविष्टा सती । रतिसुखेन त्वया पाल्या प्रीणनीयेति यावत् । इति काऽपि गोपिका अभिकृष्णं कृष्णाभिमुखं अवादीत् । इदं परवञ्चनाय गुप्तस्याविष्करणम् । प्रतीयमानार्थान्तरेण कंचिद्गोपं

प्रत्यनुशासनरूपेण गुप्तस्य विवक्षितस्य श्रीकृष्णेन सहात्मनो यथेष्टविहारस्यार्थान्तरस्याभिकृष्णमित्यनेनाविष्करणात् ॥

 यथावा--

 गोपालसमुद्योगं त्वमेहि समया विलासयेमा गाः । पतिमिति वनमेष्यन्तं गोपी कृष्णाय तिष्ठमानाऽऽह ॥ १८९८ ॥

 इयं श्रीकृष्णेन सह रन्तुमुत्कण्ठितायाः कस्याश्चिद्गोपकामिन्यास्स्वभर्तारं प्रति वञ्चनोक्तिः । तथाहि-- हे गोपेति स्वभर्तुस्संबुद्धिः । त्वं अलसं मन्दं उद्योगं प्रयत्नं एहि । दूरजिगमिषायां हि महानुद्योगः कार्यः न तु सविधजिगमिषायामिति भावः । तदेतदाविष्कुर्वाणाऽऽह-- इमाः गाः धेनूः समया समीप एव विलासय विहारय इति स्वभर्तारं प्रत्युक्तिः । गूढाभिप्रायपक्षे तु— गोपाल समुत् योगं त्वं एहि सः मया विलासये मा गाः इति छेदः । हे गोपाल ! सः त्वं इयन्तमवधिं मया प्रतीक्षितस्त्वमिति भावः । समुत् विविक्तविहरणस्य प्रत्यासन्नत्वात्सानन्दस्सन् मया सह योगं संगतिं एहि रत्यर्थं मदुपान्तं प्राप्नुहीति भावः । सहसा त्वदुपान्तोपसर्पणे त्वं मां विलासयेर्वा न वेत्याशङ्कां परिहर्तुमाह--विलासये इति । रतिसुखवितरणेनानन्दये इति भावः । विलासवन्तं करोमीति वा । मा गाः अतस्त्वमिदानीमन्यतो मा व्राजीः । गच्छत्वेष पतिः पशुपालनाय । आवां स्वैरं रंस्यावहे इति भावः । इदमपि परवञ्चनाय गुप्तस्याविष्करणम् । कृष्णाय तिष्ठमाना स्वाभिप्रायं प्रकाशयन्तीत्यर्थः । तिष्ठतेः 'प्रकाशनस्थेयाख्ययोश्च' इति

तङ् । ‘श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः' इति सम्प्रदानसंज्ञायां कृष्णशब्दाच्चतुर्थी ॥

 यथावा--

 शिथिलयति करेणाग्रिमभागेऽन्दुकबन्धमेष पुन्नागः । हृष्येच्च तद्वशाऽसाविति शौरिगिरा नतानना गोपी ॥ १८९९ ॥

 इयं गोपतरुणीपयोधरपरिष्वङ्गेच्छोर्भगवतश्शौरेः करेणुमुद्दिश्योक्तिः । एषः पुन्नागः मतङ्गजपुङ्गवः अग्रिमभागे पुरःप्रदेशे करेण शुण्डादण्डेन अन्दुकबन्धनं निगळबन्धं स्वस्य करिण्याश्चेति भावः । ‘अन्दुको निगळोऽस्त्री स्यात्' इत्यमरः । शिथिलयति । तत् तस्मात् बन्धविस्रंसनाद्धेतोः असौ वशा करिणी च ‘करिणी धेनुका वशा' इत्यमरः । हृष्येत् स्वैरविहारलिप्सया प्रमोदेत । गूढार्थस्तु-- अग्रिमभाः गेन्दुकबन्धं इति छेदः । अग्रिमा श्रेष्ठा भाः दीप्तिः यस्य स तथोक्तः । एषः पुन्नागः पुरुषश्रेष्ठ इति स्वस्यैव साहसिकत्वप्रत्यायनायान्यत्वेन निर्देशः । करेण हस्तेन गेन्दुकयोः कन्दुकत्वेनाध्यवसितयोः पयोधरयोः बन्धं कञ्चुळीबन्धनं शिथिलयति श्लथयतीति वर्तमानसामीप्ये भविष्यति वर्तमानवन्निर्देशः । असौ त्वमिति

वक्तव्ये परवञ्चनायादश्शब्देन गोपिकाया निर्देशः । एवमनुपदवस्यमाणतच्छब्दप्रथमपुरुषयोरप्यूह्यम् । तद्वशा तस्य कञ्चुळीविस्रंसयितुर्ममेति भावः । वशा आयत्ता सती हृष्येत् । रतिसुखेनानन्देदित्यर्थः । इति शौरिगिरा भगवद्वचनाकर्णनेनेति यावत् । गोपी नतानना अभूत् । इदमपि परवञ्चनाय गुप्ताविष्करणमेव ॥

 ममैव रङ्गराजविलासे यथावा--

 माधवमभिवीक्ष्यामुं भुजङ्गशयमद्य हृदि कुरुष्वेति । नैजसखीं प्रत्युक्तं कयाचन निशम्य जोषमास युवा ॥ १९०० ॥

 इदं भगवतो रङ्गराजस्योत्सवसमये महाजनसम्मर्दे स्वपयोधरदत्तहस्तमसमयज्ञं कञ्चित्कामिनं प्रति वक्तव्यस्यार्थस्य स्वसखीं प्रति कस्याश्चिद्विदग्धायाः कामिन्या वचनम् । भुजङ्गशयं शेषशायिनं अमुं माधवं श्रीवल्लभं श्रीरङ्गराजं अभिवीक्ष्य अभितो दृष्ट्वा प्रत्यवयवं विविच्य विलोक्येत्यभिप्रायः । हृदि कुरुष्व ध्यायेः । गूढार्थस्तु---मा धवं इति, भुजङ्ग शयं इति च पदद्वयम् । हे भुजङ्ग हे पल्लविक ! अमुं विप्रकृष्टस्थितं ‘अदसस्तु विप्रकृष्टे' इत्यनुशासनात् । धवं मद्भर्तारं वीक्ष्य हृदि मम वक्षसि शयं पाणिं मा कुरुष्व । मद्भर्ताऽयमदूरावस्थित एव मा मत्पयोधरौ स्प्राक्षीरिति भावः । इदमपि परातिसन्धानार्थगुप्ताविष्करणम् ॥

 ममैव नृसिंहविलासे यथावा--

 घनरत्नश्रीवत्साङ्कमनालोक्यापि वल्लभं कस्मात् । मां पश्यसीति गदिते सखीं प्रति कयाऽपि निववृते विटराट् ॥ १९०१ ॥

 इयं भगवतो नृसिंहस्योत्सवसंमर्दे प्रत्यासन्नमपि भर्तारं रागान्धतयाऽनालोक्यात्मानं पश्यन्तं कञ्चित्कामुकं प्रति निगदितव्यस्यार्थस्य स्वसखीं प्रति कस्याश्चित्प्रौढाया उक्तिः । वल्लभं

दयितं सर्वलोकेश्वरं वा ‘त्रिष्वध्यक्षेऽपि वल्लभः' इत्यमरः । घनं रत्नं कौस्तुभो यस्य स तथोक्तः । स चासौ श्रीवत्साङ्कः भगवान् तं अनालोक्यापि कस्माद्धेतोः मां श्रियमेव पश्यसि । भगवन्तमपि पश्येति भावः । गूढार्थस्तु--हे कमन कामुक ! वल्लभं मद्भर्तारं आलोक्यापि घना च सा रत्नश्रीश्च सा वत्से वक्षसि यस्यास्तां घनरत्नश्रीयुक्तं वत्सं यस्या इति वा । मा कस्मात्पश्यसि । मद्भर्तुस्समक्षं मा द्राक्षीरिति भावः । इदमपि परवञ्चनार्थगुप्ताविष्करणमेव ॥

 त्रपागुप्ताविष्करणं यथा--

 स्मरदीनामेनां त्वं सुभगोविन्दातप्तहृदयां माम् । नाथ विमृशन्विविक्तामिति गोप्या शौरिरिङ्गितमबोधि ॥ १९०२ ॥

 स्मर दीनां एनां त्वं सुभगः विन्द अवतप्तहृदयां मां इति प्राथमिकार्थकक्ष्यायां पदच्छेदः । शोभनः भगः ऐश्वर्यादिषाड्गुण्यं यस्य सः सुभगः तस्य संबुद्धिः हे नाथ सर्वेश्वर ! त्वं एनां मामिति भावः । दीनां स्मर । एषा कृपणेति जानीहीति भावः । अत एव अवतप्तहृदयां तापत्रयक्षुभितमानसां मां विन्द प्राप्नुहि । रक्ष्यत्वेन स्वीकुरुष्वेति यावत् । स्वपरिग्रहे हेत्वन्तरं चाभिप्रयन्ती प्राह --विविक्तां पवित्रशीलां शरण्यान्तरचिन्तनासंवलिततया स्वच्छामिति भावः । ‘विविक्तौ पूतविजनौ' इत्यमरः । विमृशन् सम्यग्विचारयन् विन्देत्यन्वयः गूढाभिप्रायपक्षे तु— स्मरदीनां एनां त्वं सुभ गोविन्द अव तप्तहृदयां मां इति छेदः । हे नाथ प्रिय! सर्वानपि पुरुषार्थान् त्वमेव याचनीय इति भावः । हे गोविन्द! त्वं स्मरेण दीनां अत एव

तप्तहृदयां विरहतापशिथिलितमानसां एनां मां विविक्तां निश्शलाकस्थानावस्थितां विमृशन् इयमिदानीं रहस्यवस्थितेति सम्यग्विजानन् अव प्रीणय । अवतेः प्रीणनार्थकाल्लोण्मध्यमैकवचनम् । अत्र स्फुटप्रतीयमानेन भगवदभ्यर्थनरूपेण त्रपया गुप्तस्य विवक्षितश्रीकृष्णसंभोगाभ्यर्थनरूपस्यार्थान्तरस्य इङ्गितमबोधीत्यनेन स्फुटीकरणम् । इदं शब्दशक्तिक्रोडीकृतगुप्ताविष्करणम् ॥

 अर्थशक्तिमूलगुप्ताविष्करणं यथा--

 त्वं किल कृपानिधिर्मां प्रतीक्षमाणां दृशाऽपि नागृह्णाः । इति साकूतं ब्रुवती परिरब्धा शौरिणा व्रजेन्दुमुखी ॥ १९०३ ॥

 त्वं किल कृपानिधिरिति विपरीतलक्षणा । कुत इत्यत्राह--प्रतीति । प्रतीक्षमाणां चिररात्राय हृदयविपरिवर्तमानत्वदुपभोगाशासनेन त्वां प्रतिपालयमानामिति भावः । दृशाऽपि नागृह्णाः । उपभोगप्रत्याशा तावदास्तां दूरे कटाक्षलेशप्रसारेण वा न मामाद्रियथा इति भावः । कृपानिधिरेव न चेदेवं कुतस्तनुया इत्युपालम्भः । अत्र एवंविधया वचनभङ्ग्या चिरोत्कण्ठितत्वदुपभोगौपयिकसमयलाभेन त्वामहं प्रत्यैक्षिषि । स च न प्राप्त इत्यर्थशक्तिलभ्यं वस्तु साकूतमित्यनेन विवृतम् । सर्वमिदं कविनिबद्धवक्तृगुप्ताविष्करणोदाहरणम् ॥

 कविगुप्ताविष्करणं यथा--

 प्रकृते प्रतीपदर्शिनि निजैर्गुणैर्मां विमोहयसि नित्यम् । किंचिद्दयस्व वामे त्वयाऽवियुक्तो लभेय नित्यसुखम् ॥ १९०४ ॥

 दयस्व वामे त्वया अवियुक्तः इति छेदः । प्रकृते प्रस्तुते समये हे प्रतीपदर्शिनि! हे वामे सुन्दरि! निजैः गुणैः वक्त्रिममानादिभिः मा विमोहयसि । किंचिद्दयस्व । मा स्मैवं मोमुह इति भावः । त्वया अवियुक्तः अविश्लिष्टस्सन् । नित्यं अनारतं सुखं लभेय प्राप्नुयाम् । पक्षे दयस्व वा मे त्वया वियुक्त इति छेदः । हे प्रकृते ! इति मूलप्रकृतेस्संबोधनम् । ‘प्रधानं प्रकृतिः स्त्रियाम्' इत्यमरः । हे प्रतीपदर्शिनि! 'मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं’ इति गदितप्रकारेण सर्वं प्रतीपं प्रतिकूलं दर्शयतीति तथोक्ता । णिजन्ताद्दृशेर्णिनिः । तस्यास्संबुद्धिः निजैः गुणैः सत्वादिभिः मां नित्यं विमोहयसि विपरीतदर्शिनं करोषि । मे मम ‘दैवीं गुणमयीं मायां दासभूतश्शरणागतोऽस्मि तवास्मि दास इति वक्तारं मां तारय’ इत्युक्तरीत्या त्वां शरणं गतस्येति भावः । वाशब्दो भिन्नक्रमः । किंचिद्वा दयस्व । परिपूर्णदयाकरणाभिप्रायाभावे किंचिदपि वा दयां कुर्वीथा इत्यर्थः । तावता को लाभ इत्यत आह--त्वयेति । त्वया वियुक्तः वियोगं प्राप्तस्सन् । इदमेव तव दयाकार्यं यथाऽहं मुच्येयेति भावः । ततश्च किं तवेत्यत आह--नित्येति । नित्यसुखं मुक्तानन्दं लभेयेति । अत्र तावत् ईर्ष्याकलुषितनायिकाप्रसादनव्यापारविधिः प्रतीयते । प्रकृतिगुणकलुषितस्य प्रकृतिं प्रत्याक्रोशो विवक्षितार्थः । स च सप्तम्यन्तस्य प्रकृते इति पदस्य प्रतीपदर्शिनीति संबुद्ध्यन्तपदान्तरसमभिव्याहारपूर्वकमुच्चारणेन संबुद्ध्यन्ततामवगमय्याविष्कृतः । कविनिबद्धवक्तृगुप्तं परवञ्चनार्थं, कविगुप्तं तु स्वप्रौढिदर्शनार्थमिति भिदा ॥

इत्यलङ्कारमणिहारे विवृतोक्तिसरो द्विनवतितमः