अलङ्कारमणिहारः (भागः ३)/लोकोक्त्यलङ्कारः (९४)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


णाकारगोपने व्याजोक्तिः । तदन्यव्यापारेणाशयगोपने युक्तिरित्येव व्यवस्थामाश्रित्य पृथगिमावलङ्कारौ लक्षितौ । दीक्षितानामपि व्याजोक्तिप्रकरणे ‘आयान्तमालोक्य’ इति पद्ये व्याजोक्तिरेवेति लेखनं मतान्तरानुरोधेन । युक्त्यलङ्कारप्रस्तावे तस्मिन्नेव पद्ये युक्तिरेवेति लेखनं तु तत्रैव स्वनैर्भर्व्यं प्रकाशयितुमिति न पूर्वोत्तरग्रन्थविरोध इति समाधेयम् । एवंच व्याजोक्त्यलङ्कारप्रकरणे उदाहृते 'यमुनातटीनिकुञ्जाद्व्रजम्' इति पद्येऽपि युक्त्यलंकार एव न तु व्याजोक्तिरिति दिक् ॥

इत्यलंकारमणिहारे युक्तिसरस्त्रिनवतितमः.


अथ लोकोक्तिसरः (९४)


 लोकोक्तिस्स्यादसौ लोकप्रवादानुकृतिर्यदि ॥

 लोकानां जनानां यः प्रकृष्टो वादः उक्तिः प्रकर्षश्च तत्तद्देशानुसारेण तत्तद्देशीयजनपरंपरागतत्वम् तादृशवादस्यानुकृतिः उल्लेखः यः स लोकोक्तिरित्यर्थः । अयमप्यलंकारो दीक्षितोपज्ञमेव ॥

 यथा--

 तव वेषवहनतोऽभवदवहसनपदं स पौण्ड्रको भगवन् । क्रोष्टेव चित्रकायं दृष्ट्वा तप्तायसा लिखन्कायम् ॥ १९०७ ॥

 चित्रकायं व्याघ्रं ‘पुण्डरीकः पञ्चनखश्चित्रकायमृगद्विषौ’ इत्यमरः । चित्रकायशब्दोपादानं वक्ष्यमाणजम्बुककर्तृकस्वाङ्ग

चित्रीकरणाभिलाषपूर्वकतप्तायश्शलाकाकरणकस्वाङ्गलेखनकर्मोत्तम्भनाभिप्रायेण । दृष्ट्वा तप्तायसा तप्तायश्शलाकयेति यावत् । कायं स्वाङ्गं लिखन् क्रोष्टा जम्बुक इव । स्पष्टमन्यत् । अत्रोत्तरार्धे कर्णाटान्ध्रदेशीयभाषाप्रसिद्धलोकप्रवादानुकृतिः ॥

 यथावा--

 शिक्षितमपि कौटिल्यं त्यक्ष्यति नैवासुरप्रकृति हृदयम् । अपि वेणुदळाबद्धं श्वापुच्छं किमु ऋजूभवेद्भगवन् ॥ १९०८ ॥

 शुनः पुच्छं श्वापुच्छं ‘शुनो दन्तदंष्ट्रा’ इत्यादिना दीर्घः । अत्रान्ध्रदेशप्रसिद्धलोकप्रवादानुकरणम् ॥

 यथावा--

 शौरे त्वदन्यदैवं प्रत्येत्य भवाब्धितरणमाशंसन् । विश्वस्य महाबुद्बुदमभिपतति प्रावृषेण्यसरिति जनः ॥ १९०९ ॥

 अत्राप्यान्ध्रदेशीयलोकप्रवादानुकृतिः ॥

 यथावा--

 महता योगेन त्वामिह तावदुपास्य यो महोदारम् । आलम्बेताल्पफलं शैलं खात्वाऽऽखुमेष गृह्णाति ॥ १९१० ॥

 यथावा--

 सत्स्वपि सुदर्शनादिषु नखरैः प्रतिचस्करे त्वया दैत्यः । ननु नरहरे किमर्था नखापनेये परश्वथापेक्षा ॥ १९११ ॥

 यथावा--

 समितौ सतां निविशतां न तावता त्वत्कथां खलो गायेत् । लोकेश किंनु काकः पञ्जरनिहितोऽपि पञ्चमं ब्रूयात् ॥ १९१२ ॥

 यथावा--

 त्वयि सर्वेऽप्युपचारा वन्ध्यास्स्युर्देवतान्तरासङ्गे । एकस्मिन् स्वैरत्वे नाथ सहस्रं व्रतानि नश्यन्ति ॥ १९१३ ॥

 यथावा--

 प्राक्त्वदनुग्रहहानादधुनाऽपि तवात्यनुग्रहविधानात् । अभजामाकिंचनतामेवंच पृथाभुवां न किल राज्यम् ॥ १९१४ ॥

 प्राक् अकिंचनतां दरिद्रतां अधुना अकिंचनतां उपायान्तरविधुरतां अभजाम । एवंच ऐहिकश्रीरस्माकं दवीयसीति बिम्बमनादृत्य एवंचेत्यादिप्रतिबिम्बवर्णनात् ललितोज्जीवितेयम् । पूर्वोदाहरणेषूपमानिदर्शनाद्युज्जीवितत्वं द्रष्टव्यं बुद्धिमद्भिः । एषु सर्वेष्वपि पद्येषु तत्तद्देशीयलोकप्रवादानुकृतिः ॥

इत्यलंकारमणिहारे लोकोक्तिसरश्चतुर्नवतितमः.


अथ छेकोक्तिसरः (९५)


स्याच्चेल्लोकोक्तिरन्स्यार्थगर्भा छेकोक्तिरिष्यते ।