अलङ्कारमणिहारः (भागः ३)/गूढोक्त्यङ्कारः (९१)
यथा--
तत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम् । काळिन्दीतटकुञ्जे कामं दीव्यति हि तत्र सुलभैषा ॥ १८९३ ॥
इति काचिद्व्रजललना गां निजयूधच्युतां विचिन्वानम् । पृच्छन्तं नन्दसुतं कामयमाना जगाद साकूतम् ॥ १८९४ ॥
इति । तस्मादस्माभिः प्रागुदाहृतेषु 'परतरुणीहारिद्रच्छुरितकपोलम्' इत्यादिषु येषु भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥
इत्यलंकारमणिहारे व्याजोक्तिसरो नवतितमः
अथ गूढोक्तिसरः (९१)
गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥
यं प्रति किंचिद्गदितव्यं तन्माज्ञासिषुस्तटस्था इति तदितरं यंकंचित्प्रति यत् श्लेषणोच्यते तत् गूढोक्तिर्नामालंकारो दीक्षितोपक्रमम् ॥यथावा--
त्वं वत्सजातलालस आयातस्तज्जिघृक्षुरसि बाढम् । अविदूरे चरति प्रिय एष ततो गोपबाल किं त्वरसे ॥ १८९५ ॥
इदं वक्षोजग्रहणोत्सुकं भगवन्तं नन्दनन्दनं प्रति वक्तव्यं गोवत्सग्रहणौत्सुक्यशालिनं सविधभुवि सञ्चरन्तं वल्लवमाणवकं कञ्चिन्निर्देश्य कयाचिद्गोपकामिन्या कथ्यते । हे गोपबाल वल्लवकुमार ! पक्षे हे कृष्णेति संबुद्धिः । त्वं वत्से तर्णके जाता लालसा औत्सुक्यं ‘लालसे प्रार्थनौत्सुक्ये' इत्यमरः । आयातः । अन्यत्र त्वं वत्सजातयोः वक्षोजयोः 'वत्सः पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबम्' इति मेदिनी । लालसः उत्सुकस्सन्नित्यर्थः ‘लोलुपो लोलुभो लोलो लम्पटो लालसश्च सः’ इति त्रिकाण्डशेषः । आयातः तज्जिघृक्षुः तर्णकग्रहेच्छुः वक्षोजग्रहेच्छुश्च । असि । तं जिघृक्षुः तौ जिघृक्षुरिति च विग्रहः 'न लोक' इति षष्ठीनिषेधेन कर्मणि द्वितीयायां 'गम्यादीनामुपसंख्यानम्’ इति समासः । बाढं साध्वेतदित्यङ्गीकारे । एष प्रियः प्रीत्यास्पदभूतो वरसः । पक्षे एष प्रियः मद्भर्ता अविदूरे उपकण्ठ एव चरति तृणं भक्षयतीत्यर्थः । 'चरतिर्भक्षणेऽपि’ इत्यनुशासनात् । पक्षे सञ्चरति । कुतस्संत्वरसे मोत्सुको भूरिति भावः । न नु नन्दनन्दनं प्रति वक्तव्ये प्रस्तुते अप्रस्तुतान्यगोपमाणवकवृत्तान्तवर्णनादप्रस्तुतप्रशंसैवेयमिति चेन्न, कार्यकारणसामान्यविशेषसारूप्यैरनभिव्यज्यमानत्वात् । नापि प्रकृताप्रकृतश्लेषमात्रं, तत्र ह्यप्रस्तुतार्थस्य प्रस्तुतार्थोपमानभावेन विवक्षाऽस्ति । नेह तथा अप्रस्तुतार्थस्य विवक्षा । अत्राप्रस्तुतस्य केवलमन्याति सन्धानाय निर्दिष्टतया विच्छित्तिविशेषसद्भावेन पारिशेष्याद्गूढोक्तिरित्यलङ्कारान्तरमेव युक्तमाश्रयितुम् । न चात्र तटस्थातिसंधानरूपव्यङ्ग्यस्य स्वोक्त्याऽविष्करणविरहाद्ध्वनिरेवायं नालङ्कार इति वाच्यम्, श्लेषतस्तस्यार्थस्याविष्करणेन ध्वनेरसम्भवादित्याहुः ॥
यथावा--
करुणार्द्रचित्तभवतापाल्या परिदीनमानसा सेयम् । नान्यत्काङ्क्षति नाथ त्वदपाङ्गविलासलाभवैभवतः ॥ १८९६ ॥
हे करुणार्द्रचित्त हे नाथ जगदीश्वर! परिदीनमानसा सेयं तन्वी । त्वदपाङ्गविलासलाभवैभवतः त्वत्कटाक्षप्रसरणावाप्तिविभवात् अन्यत् न काङ्क्षति । अतः भवता त्वया पाल्या रक्षणीयेति भगवन्तं प्रति प्रार्थना । गूढार्थस्तु-- हे करुणार्द्र हे नाथ वल्लभ! चित्तभवतापात्येति समस्तं पदम् । चित्तभवतापानां मनसिजतापानां आल्या पङ्क्त्या कन्दर्पज्वरपरंपरयेत्यर्थः । परिदीनमानसा सेयं तन्वी । त्वदपाङ्गेत्यत्र त्वदिति भिन्नं पदं पञ्चम्येकवचनान्तम् । त्वत् त्वत्तः अपाङ्गः अनङ्गः तस्य विलासः रतिरित्यर्थः । तस्य लाभः प्राप्तिरेव वैभवं तस्मात् तत्तः । अन्यत् न काङ्क्षति । अत्र नाथेति नन्दनन्दनं सम्बोध्य तस्माद्रतिमेव प्रार्थयमानायाः कस्याश्चिद्व्रजललनायास्तटस्थवञ्चनाय भगवन्तं प्रत्यात्मनस्संसारतापदीनत्वेन कटाक्षमात्राशंसनस्य प्रत्यायनम् ॥
इत्यलङ्कारमणिहारे गूढोक्तिसर एकनवतितमः ॥