अलङ्कारमणिहारः (भागः ३)/अतद्गुणाङ्कारः (८०)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


 इत्यादिप्रमाणादिति भावः । प्रतीकेन अवयवेन शरीरेणेति यावत् । मुक्तोऽपि प्रतीकान्मुक्तोऽपीति वा । एतद्देहप्रहाणपूर्वकं निश्श्रेयसं प्राप्तोऽपीति यावत् । ऐक्यं तस्य भगवतः अभेदं कदाचिदपि न भजेत् न प्राप्नुयात् । किंतु तादृगेव तत्सदृश एव स्यात् । ‘निरञ्जनः परमं साम्यमुपैति’ इति परमसाम्यश्रवणात् ।

अनेन--

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥

 इति श्रुत्यर्थो वर्णितः । अस्याश्श्रुतेरयमर्थः-- शुद्धे शुद्धं जलं प्रक्षिप्तं तत्सदृशमेव भवति न तु किंचिदपि विसदृशम् । एवं मनननिदिध्यासनशीलस्यात्माऽपि परमात्मसदृश एवेति न त्वभेदं प्राप्नोति, तादृक्छब्दश्रवणात् । तादृक्छब्दस्तत्सदृशवाची । सादृश्यं च भेदघटितमेवेति । किंच तादृगेव सदादास एव स्यात् न तु स्वयं सर्वशेषीति भावः । पक्षे सदादासशब्दः प्रतीकं प्रतिप्रतिलोमं यथास्यात्तथा ‘प्रतिकूले प्रतीकं स्यात्' इत्यमरः । उक्तोऽपि पठतोऽपि तादृगेव सदादास एव स्यात् न तु विभिन्नानुपूर्वीक इति भावः । अत्रापि पूर्वावस्थानुवर्तनं पूर्ववदेव । इदं पूर्वरूपप्रकारद्वयमपि जयदेवोपज्ञम् ॥

इत्यलंकारमणिहारे पूर्वरूपसर एकोनाशीतितमः.



अथातद्गुणसरः (८०)


 अतद्गुणं संगतान्यगुणानङ्गीकृतिं विदुः ।

 गुणवत्सन्निधावपि तदीयगुणानङ्गीकारोऽतद्गुणालंकारः ॥

 यथा--

 विदलितवलरिपुमणिवरकान्ते फणिशैलनाथहृदयान्ते । अपि सततकृतनिवासा नासादयसेऽम्ब किंचिदपि नैल्यम् ॥ १८२८ ॥

 यथावा--

 शुचितरफणिवररुचिभरशोणफणामणिमरीचिनिचयेन । निचुलितरुचिरपि नितरां फणिशयन जहासि नासितत्वं स्वम् ॥ १८२९ ॥

 यथावा--

 परिहितमप्यनवरतं पीताम्बरमम्बुजाक्ष भवतेदम् । न जहाति पीततां स्वां परिदधदपि तद्भवानसिततां च ॥ १८३० ॥

 यथावा--

 अपि कमलानिलय हरे त्वद्रुचिकमलारुची मिथो मिळिते । प्रविविक्ते एव भृशं भातो यमुनासरस्वतीतुल्ये ॥ १८३१ ॥

 अत्राद्योदाहरणे परगुणाग्रहणं शाब्दम् । स्वगुणत्यागाभाव अर्थः । अनन्तरयोरुदाहरणयोः स्वगुणत्यागाभावश्शाब्दः। परगुणाग्रहणं त्वार्थम् । अनयोरपि द्वितीयोदाहरणे पीताम्बरभगवतोः ते परस्परमिति विशेषः । तुरीयोदाहरणे तूभयमप्यार्थमित्यवधेयम् ॥

 न चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकाराभ्यां तद्गुणातद्गुणयोर्गतार्थतेति वाच्यम् । उल्लासावज्ञालक्षणघटको गुणशब्दो दोषप्रत्यनीकवाची । अन्यगुणेनान्यत्र गुणोदयानुदयौ च न तस्यैव गुणस्य संक्रमासंक्रमौ । किंतु सदाचार्योपदेशेन सदसच्छात्रयोर्बोधोदयानुदयवत्तद्गुणजन्यतया संभावितयोर्गुणान्तरयोरुदयानुदयौ । तद्गुणातद्गुणयोस्तु गुणशब्दो रूपरसगन्धादिवाची । तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटिकवसनमालिन्यादिन्यायेनान्यदीयगुणेनैवानुरञ्जनानुरञ्जने विवक्षिते तथैव च दर्शितान्युदाहरणानि । एवंच प्रदर्शयिष्यमाणे उदाहरणे नातद्गुणालंकारः । किंत्ववज्ञालंकार एव ॥

 शतकोटितोऽपि शतकोट्यधिककठोरे फणीन्द्रगिरिशिखरे । निवसन्नप्यविरतमिह नैष्ठुर्यं नाथ नाश्नुषे क्वापि ॥ १८३२ ॥

 अत्र कठोरतारूपगुणस्यानुपरञ्जकत्वात्तदनङ्गीकारो नातद्गुणः ॥

 यथावा--

 निहिताऽपि विधौ प्रसभं न हि तादृशशुद्धिमेति चपला धीः। वृद्धाऽपि समानतया न सैरिभी भजति सौरभीवृत्तिम् ॥ १८३३ ॥

 विधौ भगवति चन्द्रे च । निहिताऽपि धीः तादृशीं तत्प्राप्त्यनुगुणां विधुसदृशीं च शुद्धिं नैर्मल्यं विजातीयप्रत्ययासंवलितत्वमिति यावत् । पक्षे धवलिमानं नैति हि । कुत इत्यत्राह-- चपलेति । चपलत्वादेवेति भावः । समानतया वृद्धाऽपि सौर

भीभिस्सहाभिवृद्धाऽपि सैरिभी महिषी । जातिलक्षणो ङीष् । सौरभी सुरभिः गौः सुरधेनुर्वा 'सुरभिर्गवि च स्त्रियाम्' इत्यमरः तस्या इयं सौरभी, अण्णन्तलक्षणो ङीष् । तत्संबन्धिनी वत्सतरी तस्याः वृत्तिं स्थितिं न भजति । वत्सतर्या एव वृत्तिं न भजति किंपुनस्साक्षात्सुरभिवृत्तिमिति भावः । पक्षे समानतया सौरभीशब्देन सह तुल्यतया वृद्धा वृद्धसंज्ञां प्राप्ताऽपि उभयोरप्यचामादेर्वृद्धत्वात् ‘वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इतिह्यनुशासनम् । सैरिभी सैरिभीति शब्दः । अर्थगतस्त्रीत्वस्य शब्दे आरोपः । सैरभीवृत्तिं सौरभीशब्दस्य स्थितिं न भजति । उभयोरपि शब्दयोर्वृद्धत्वेऽपि तयोरन्योन्यं विजातीयत्वादिति भावः । किंच सैरिभीशब्दः सौरभीशब्दस्य वृत्तिं न भजति । सुरभेरियं सौरभीति तद्धितवृत्तिमत्वात्तस्य, स्वस्य च केवलरूढतया तादृशवृत्तिमत्त्वाभावादिति भावः । अत्र दृष्टान्तरूपो महावाक्यार्थः, बिम्बप्रतिबिम्बभावापन्नत्वात् । तत्र दार्ष्टान्तिकवाक्यार्थः विधुप्रभृतिशब्दप्रतिपाद्यभगवच्चन्द्रादिरूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायानुप्राणितातद्गुणालंकाररूप एव । दृष्टान्तवाक्यार्थस्तु पूर्वोक्तरीत्याऽवज्ञालंकाररूप इति पूर्वोदाहरणेभ्यो विच्छित्तिविशेषः ॥

 अत्र गुणग्राहकापेक्षया सन्निहितस्य गुणवत उत्कृष्टत्वसमत्वाभ्यां द्वैविध्यमिति सर्वस्वकारः । तस्यायमाशयः--अपकृष्टसंबन्धिगुणाग्रहणस्य स्वाभाविकत्वेन वैचित्र्यानाधायकत्वादनलंकारतैवेत्यपकृष्टत्वेन तृतीयः प्रकारस्तु न संभवतीति । अन्ये अवान्तरचमत्कारविशेषविरहात् द्वैविध्यमापि नेति वदन्ति । यद्यपि गुणवद्वस्तुसांनिध्यलक्षणकारणसद्भावेऽपि गुणानुदयस्यावज्ञालंकारातद्गुणयोस्सद्भावादिमौ

विशेषोक्तितो नातिरिच्येते 'कार्या

जनिर्विशेषोक्तिस्सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात् । तथाऽपि उल्लासतद्गुणप्रतिद्वंद्विना विशेषाकारेणालंकारान्तरतया परिगणितावित्याहुः ॥

इत्यलंकारमणिहारे तद्गुणसरोऽशीतितमः.


अथानुगुणसरः (८१)


स्वसजातीयगुणवदन्यसांनिध्यतो यदि ।
उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ॥

 स्वसमानगुणवदन्यसन्निधानात्प्राग्विद्यमानस्वकीयगुणोत्कर्षवर्णनमनुगुणालंकारः । अयं च जयदेवोपक्रमम् ॥

 यथावा--

 संसिद्धित इन्दीवरसंसद्धितरुचि ततोऽञ्जनेनाक्तम् । त्रिगुणाञ्जनमिव रमणावलोकने तद्रुचाम्ब तव नयनम् ॥ १८३४ ॥

 संसिद्धितः स्वभावतः 'संसिद्धिप्रकृती समे’ इत्यमरः । इन्दीवराणां संसत् सभा समूहः तस्याः हितं तत्सदृशमिति यावत् । अत्र प्रकृत्यैव सिद्धस्य लक्ष्मीनयनश्यामलिम्नः अञ्जनादिना उत्कर्षः ॥

 यथावा--

 नवपद्मरागकाञ्चीछविमसृणितकनकवसनजनितरुचा । छुरितं तव जगदम्ब स्फुरति वपुर्दिव्यमतिपिशङ्गतया ॥ १८३५ ॥

इत्यलंकारमणिहारे अनुगुणसर एकाशीतितमः.