सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः २)/समालंकारः (४१)

विकिस्रोतः तः

अथ समालंकारसरः. (४१)


यत्रानुरूपघटनं वर्ण्यते तत्समं विदुः ॥

 परस्परमनुरूपयोस्संसर्गस्य वर्णनं समालंकारः । अत्रापि संसर्गो विषम इव संयोगलक्षण उत्पत्त्यादिलक्षणश्चेतीदं सर्वप्रकारसाधारणं लक्षणम् । तत्र संयोगादिलक्षणस्य संसर्गस्यानुरूपता च द्वेधा-- स्तुतिपर्यवसायिनी निन्दापर्यवसायिनी चेति । इदं प्रथमविषमप्रतिद्वन्द्वि समम् ॥

 तत्राद्या यथा--

 स्थानं श्रीशैलस्तव नूनं त्वं श्रीनिवास एवासि । दानं श्रियश्श्रितेभ्यस्सानन्दं वितरसीति युक्तमिदम् ॥ १३०६ ॥

 यथावा--

 स्वालोकैर्वर्धयसे विबुधाग्रसरस्वतो हरे भुवनम् । कैरवमता तव श्रीर्मन्ये त्वं विधुरसीत्युचितमेव ॥ १३०७ ॥

 हे विबुधाग्रसर त्रिदशश्रेष्ठ! अग्रे सरतीत्यग्रसर इति विग्रहः । ‘पुरोऽग्रतोऽग्रेषु सर्तेः’ इति टः । ‘यूधं तदग्रसरगर्वितकृष्णसारम्' इत्यादाविव बाहुलकादग्रशब्दस्य एदन्तत्वनिपातनाभावः। हे हरे ! आलोकैः कटाक्षैः ‘तदैक्षत बहु स्याम्' इत्युक्तसंकल्पविशेषैर्वा स्वतः स्वभावत एव भुवनं लोकं, जात्यभिप्रायकमेकवचनं, वर्धयसे सृष्टिपूर्वकं समेधयसे । तव ईदृशस्य भवतः श्रीः संपत्तिः सर्वलोकेश्वरत्वरूपा कैः जनैः अवमता अवहेळिता, न कैरपीति भावः । पक्षे विबुधाग्र सरस्वतः इति च्छेदः । हे विबुधाग्र देवश्रेष्ठ! 'परार्थ्याग्रप्राग्रसरप्राग्र्या ग्र्याग्रीयमग्रियम्' इत्यमरः । आलोकैः प्रकाशैः स्वकिरणैरित्यर्थः। सरस्वतः सागरस्य भुवनं जलं अभिवर्धयसे उत्सेचयसे । तव श्रीः शोभा कैरवमता कैरवाणां कुमुदानां मता अभिमता । अतः त्वं विधुः चन्द्रः असीति उचितमेव मन्ये । विधुः भगवानिति तु तत्त्वम् ॥

 यथावा--

 भूयस्सु भूषणेष्वपि कलयसि कमलेश काञ्चिकां मध्ये । मध्यस्थतोचिताऽस्याः प्रतीपवचनेऽपि न विकृता यदियम् ॥ १३०८ ॥

 यत् यस्मात् कारणात् इयं काञ्चिका प्रतीपवचनेऽपि स्वप्रतिकूलभाषणेऽपि न विकृता अविकृतस्वभावा न्यायैकदृष्टितया स्वाभीप्सितविरुद्धभाषणेऽपि चित्तविकारं नैतीति भावः । अस्याः एवंविधाया मध्यस्थता मध्ये न्याय्येऽर्थे तिष्ठतीति मध्यस्थं तस्य भावः मध्यस्थता ‘शरदः कृतार्थता’ इत्यादाविव सामान्ये नपुंसकमित्यसकृदवोचाम । न्याय्यमार्गवर्तित्वमित्यर्थः । 'न्याय्येऽपि मध्यम्' इत्यमरः । 'अस्त्री मध्यं समे न्याय्येऽप्यवकाशावलग्नयोः' इति रत्नमाला च । पक्षे काञ्चिकाशब्दः प्रतिकूलतया पाठेऽप्यविकृतानुपूर्वीको भवतीत्यर्थः । अस्याः काञ्चिकायाः मध्यस्थता अवलग्नलग्नता उचितेति वस्तुस्थितिः । तस्याः मध्यैकभूषणत्वादिति भावः ॥

 यथावा--

 आद्यन्ततुल्यरूपं विभिन्नवर्णमपि मध्यतस्तव भगवन् । नयनं नलिनं च कदाऽप्यप्रतिकूलं तदुचितमनयोस्सख्यम् ॥ १३०९ ॥

 हे भगवन्! तव नयनं नलिनं च आद्यन्तयोः मूलापाङ्गयोः प्रथमचरमभागयोश्च तुल्यरूपं उभयोरप्यरुणवर्णत्वात्, तुल्याक्षरं च अनयोशब्दयोराद्यन्तयोर्नकारघटितत्वात् । मध्ये मध्यभागे विभिन्नवर्णं परस्परविलक्षणवर्णमपि नयनस्य मध्ये कनीनिकया नैल्यात् नलिनस्य तु कर्णिकया पिशङ्गत्वादिति भावः । पक्षे य लि इत्यन्योन्यविलक्षणमध्यमाक्षरमात्रमित्यर्थः । सदाऽपि अप्रतिकूलं अन्योन्यप्रातिकूल्यरहितं अविरुद्धभूयोधर्मवत्तया यत्किंचिद्विरुद्धधर्मवत्ताया अकिंचित्करत्वादिति भावः । शब्दपक्षे सदाऽपि आनुलोम्य इव प्रातिलोम्येऽपीति भावः । अप्रतिकूलं अविकृतानुपूर्वीकमेव । तत् तस्मात् अनयोः नयननलिनयोः सख्यं उचितमेव यत्किंचिद्धर्मवैलक्षण्येऽपि तयोर्भूयोधर्मवत्तायास्सद्भावात्साम्यं युक्तमिति भावः । किंच अत्र तव नयनमित्यनेन भगवतो भानुरूपं नयनमेव चेद्विवक्ष्येत तदाऽप्यमूनि विशेषणान्युभयसाधारणान्येव । यथा आद्यन्ततुल्यरूपत्वमनयोरुभयोरप्यरुणवर्णत्वात् । मध्ये विभिन्नवर्णत्वं च भानोर्मध्येऽप्यरुणवर्णत्वात्, नलिनस्य उक्तरीत्या मध्ये पिशङ्गवर्णत्वाच्च । सदाऽप्यप्रतिकूलत्वं तूभयोरानुकूल्यस्य लोकवेदविश्रुतत्वात् । तस्माद्भानुनलिनयोस्सख्यमुचितमेवेति । अन्यत्तुल्यम् ॥  यथावा--

 अपि यत्प्रसव्यभावे ननु घनसारो रसानघस्तदयम् । घनसारस्याच्युत तव रसानघस्योचितं ललाममिति ॥ १३१० ॥

 ननु अच्युत ! यत् यस्मात् घनसारः कर्पूरः प्रसव्यः प्रतिकूलः भावः स्वभावो यस्य तस्मिन्नपि जने रसानघः रसेन प्रीत्या अनघः निर्दोषप्रीतिरिति भावः । रसः अनघः यस्येति वा विग्रहः । अपिशब्देन अनुकूलस्वभावे रसानघत्वं कैमुतिकन्यायसिद्धमिति द्योतितम् । वस्तुतस्तु घनसारशब्दः प्रतिकूलत्वे रसानघ इति निष्पद्यत इत्यर्थः । ‘प्रसव्यं सव्य आयत्ते प्रतिकूलांनुकूलयोः' इति रत्नमाला । तत् तस्मात् अयं ईदृशो घनसारः घनस्सारः बलं यस्य तस्य घनसारस्य, प्रसव्यभावेऽपीत्येतदत्राण्यनुषज्यते । अनुकूलस्वभावे पुंसीव प्रतिकूलस्वभावेऽपि विषये इति तदर्थः । रसानघः निर्दोषप्रीतिशाली, न हि महोदारस्यास्य प्रीतिविषये प्रतिकूलानुकूलकक्ष्याविभागोऽस्तीति भावः । यद्रा रसः आनन्दोपलक्षितानन्तकल्याणगुणाकरः अनघः अखिलहेयप्रत्यनीक इत्यर्थः । चेतनः अनुकूलः प्रतिकूलोवाऽस्तु तदानुकूल्यप्रातिकूल्याभ्यां स्वाभाविकस्यैतदुभयलिङ्गत्वस्य न कश्चिद्विशेषस्संभवतीति भावः । ईदृशस्य तव ललामं दिव्यवदने पुण्ड्रं भवतीत्युचितं, उभयोरपि घनसारत्वरसानघत्वाभ्यामानुरूप्यादिति भावः । 'ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु' इत्यमरः । प्रसिद्धं हि श्रीनिवासस्य भगवतः कर्पूरोर्ध्वपुण्ड्रशोभमानफालफलकत्वम् ॥  यथावा--

 कर्पूरं तव मुखमपि चन्द्राभिख्योज्ज्वलं तथा सुरभि । उरगाचलशिखरशशिन्नुचितं खलु तस्य तल्ललामत्वम् ॥ १३११ ॥

 चन्द्राभिख्यया चन्द्रनाम्ना उज्ज्वलं ‘घनसारश्चन्द्रसंज्ञः’ इत्यनुशासनात् । पक्षे चन्द्रनिभशोभाविभासुरं । तथा तद्वत् सुरभि सुगन्धि, पक्षे मनोज्ञं 'सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभिस्स्मृतः’ इति विश्वः । तथासुरभीति समस्तं वा पदम् । लोकोत्तरसौरभशालीत्यर्थः । तस्य कर्पूरस्य तल्ललामत्वं त्वद्वदनस्य पुण्ड्रत्वं भूषणत्वं वा, कोशस्तूक्तः । अत्राद्य उदाहरणे परस्परमनुरूपयोः श्रीनिवासश्रीप्रदानयोः, द्वितीये स्वालोककरणकभुवनाभिवर्धनादिविधुत्वयोः, तृतीये काञ्चिकामध्यस्थत्वयोः तुरीये नयननलिनसख्ययोः, पञ्चमषष्ठयोरुदाहरणयोर्घनसारश्रीनिवासमुखललामत्वयोस्संसर्गस्य वर्णनम् ॥

 यथावा--

 फणिवृषभाचलभास्वन् शुभाश्रयं तव विभावयन्नन्तः । तत्क्रतुनयादिहैव हि शुभाश्रयोऽभवमरेफसंसर्गः ॥ १३१२ ॥

 हे फणिवृषभाचलभास्वन्! तव शुभश्चासावाश्रयश्च ध्यानालम्बनभूतो दिव्यमङ्गळविग्रहः तं अन्तः विभावयन् ध्यायन् अहं तत्क्रतुनयात् ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति' इति श्रुतिप्रतिपादितयथाक्रतुन्यायात् । क्रतुरुपासनम् । इहैव न त्वितः प्रेत्य । इदमाश्चर्यमिति भावः । रेफस्य गर्हितस्य अघस्येत्यर्थः । ‘निन्दितस्य च सेवनात्' इत्यादौ अघस्य निन्दितत्वोक्तेः। संसर्गस्संबन्धः स नास्ति यस्य सः अरेफसंसर्गस्सन् शुभाश्रयः मङ्गळविग्रहः अभवम् । पक्षे शुभाश्रयशब्दः अरेफसंसर्गः रवर्णसंबन्धरहितः शुभाशय इति निष्पन्न इत्यर्थः । शब्दार्थयोस्तादात्म्यम् । ‘रवर्णे पुंसि रेफस्स्यात् कुत्सिते वाच्यलिङ्गकः’ इत्यमरः । त्वद्दिव्यमङ्गळविग्रहानुध्यानेन निरस्तनिखिलाघः कल्याणाशयोऽभवमिति निर्गळितोऽर्थः । ‘आशयस्स्यादभिप्राये मानसाधारयोरपि' इति विश्वः । अत्र शुभाश्रयानुध्यानशुभाश्रयत्वप्राप्त्योरनुरूपयोर्वर्णनम् ॥

 यथावा--

 विनतानन्दननिपुणौ द्वावपि विश्वंभराभिवहनचणौ । तन्नभिदा काऽप्यनयोर्मैत्र्युचिता पतगपन्नगाधिपयोः ॥ १३१३ ॥

 द्वावपि पतगपन्नगाधिपावुभावपि विनतानन्दननिपुणौ विनतायाः विनतानां च आनन्दने निपुणौ । विश्वंभरस्य विश्वंभरायाश्च अभिवहनेन वित्तौ अभिवहनचणौ । ‘तेन वित्तः' इति चणप्प्रत्ययः । प्रथित इत्यर्थः । तत् तस्मात् अनयोः पतगपन्नगाधिपयोः गरुत्मदनन्तयोः काऽपि भिदा वैलक्षण्यं नास्ति । अतोऽनयोः मैत्री उचिता, उभयोरपि तुल्यधर्मकत्वादिति भावः । पक्षे पतगाधिपपन्नगाधिपशब्दयोः, तन्नभिदेति समस्तं पदम् । तकारद्वित्वघटितनकाराभ्यामेव भेदः, पकारगकारादिवर्णानामुभयत्र तौल्यादिति भावः । अत्र पतगपन्नगाधिपयोरन्योन्यमैत्र्या आनुरूप्यम् ॥  यथावा--

 व्यत्ययसमयेऽप्यविकृतभावैर्यैर्वैष्णवैस्स्थितं भगवन् । तादृक्षा एव हि तैस्सेव्यन्ते त्वत्पदश्रिता यतयः ॥ १३१४ ॥

 हे भगवन् ! व्यत्ययसमये विपर्ययकालेऽपि अतिकृछ्रदशावसरेऽपीति यावत् । यैः वैष्णवैः अविकृतभावैः यथाऽवस्थितभगवच्छेषत्वादिस्वभावैरेव स्थितं, भावे क्तः । तैः वैष्णवैः तादृक्षाः व्यत्ययसमयेऽप्यविकृतस्वभावा एव त्वत्पदश्रिताः त्वच्चरणं शरणं गताः । यद्वा त्वत्पदं त्वच्चिह्नं त्रिदण्डमित्यर्थः । ‘त्रिदण्डं वैष्णवं लिङ्गम्' इति स्मरणात् । श्रिताः त्रिदण्डिन इत्यर्थः । यतयः संयमिनः सेव्यन्ते, न त्वतादृशा इति भावः । पक्षे वर्णविपर्याससमयेऽप्यविकृतस्वभावैः वैष्णवैः, अस्य वैष्णवैरित्यानुपूर्वीविशिष्टस्य पदस्य विपर्ययेण पठनेऽपि तथैवावस्थानादिति भावः । तादृक्षाः उक्तविधाः यतयः अस्यापि पदस्य वैपरीत्ये यथापूर्वमेवावस्थितेरिति भावः । अर्थगतस्य बहुत्वस्य पदे आरोपः । अत्र वैष्णवानां त्रिदण्डिनां प्रपन्नानां वा यतीनां चानुरूपस्संसर्गः ॥

 यथावा--

 जगतामधिभूर्भगवान् श्रीरधिभूस्त्वमपि तदिदमनुरूपम् । प्रायेण विभक्तावपि पौंस्ने स्त्रैणे यदैकरूप्यजुषौ ॥ १३१५ ॥

 हे श्री: ! भगवान् जगतां अधिभूः अधीश्वरः 'एष सर्वेश्वरः' 'पतिं विश्वस्य' इत्यादिश्रवणात् । ‘अधिभूर्नायको नेता' इत्यमरः । त्वमपि जगतां अधिभूः अधीश्वरी ‘ईशाना देवी भुवनस्याधिपत्नी, अस्येशाना जगतो विष्णुपत्नी' इत्यादिश्रुतेः । तदिदं युवयोरधीश्वरत्वं अनुरूपम् । उभयोरधिभूत्वे हेतुमाह-- प्रायेणेत्यादिना । यत् यस्मात् पौंस्ने पुंसमूहे स्त्रैणे स्त्रीसमूहे च विभक्तावपि--

देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः ।
स्त्रीनाम्नी लक्ष्मीर्मैत्रेय नावयोर्विद्यते परम् ॥
यो यो भवति पुंभाचस्स विष्णोरिति निश्चयः ।
य यस्तु नारीभावस्स्यात्तत्र लक्ष्मीर्व्यवस्थिता ॥

इति वैष्णवब्राह्मपुराणाद्युक्तरीत्या परस्परेच्छाविशेषेण कृतविभागावपि ऐकरूप्यजुषौ जगद्व्याप्त्यादिलक्षणस्वभावैक्यभाजौ,

मया यथा जगद्व्याप्तं स्वरूपेण स्वभावतः ।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ॥
मया व्याप्ता तथा साऽपि तया व्याप्तोऽहमीश्वरः ।

इति विष्वक्सेनसंहिताद्युक्तेः । प्रायेणेत्युक्त्या--

मम तस्याश्च सेनेश वैलक्षण्यमिदं श्रुणु ।
मच्छेषभूता सर्वेषामीश्वरी वल्लभा मम ॥
तस्याश्च जगतश्चाहमीश्वरो वेदविश्रुतः ।

इत्याद्युक्तं किंचिद्वैलक्षण्यमस्तीति सूचितम् । अतो युवयोरधिभूत्वमनुरूपमेवेति । पक्षे अधिभूशब्दावुभावपि पौंस्ने पुंस्त्वे स्त्रैणे स्त्रीत्वे च 'स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' इत्यपत्यादिभवनाधिकारपर्यन्तमुक्तेष्वर्थेषु नञस्नञोर्विधानात्समूहार्थे भावार्थे च पुंशब्दात् स्नञ्, स्त्रीशब्दान्नञ् च प्रत्ययः । विभक्तौ स्वादिविभक्तौ परत इति शब्दशास्त्रमर्यादालभ्यं, प्रायेण भूम्ना ऐकरूप्यजुषौ तयोश्शब्दयोः पुल्लिङ्गस्त्रीलिङ्गयोरैकरूप्यस्य दर्शनादिति भावः । स्त्रीलिङ्गे ङिति आमि च विभक्तौ रूपान्तरस्यापि विधानात्प्रायेणेत्युक्तम् । तस्मात्पुंस्त्रीवाचकयोरुभयोरप्यधिभूशब्दयोरानुरूप्यमिति ॥

 यथावा--

 यद्यादिदेव सत्वं हृद्याविर्भावभाक्परं सुकृतात् । विद्याम तदा सत्त्वं हृद्याविर्भावभागिति स्थाने ॥

 हे आदिदेव ! अखिलजगत्कारणभूत भगवन् ! अनेन ‘आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः’ इत्येतत् स्मारितम् । सुकृतात् यादृच्छिकप्रासङ्गिकानुषङ्गिकभेदभिदुरात्सुकृतविशेषात् परं श्रेष्ठं सत्वं सत्वगुणः हृदि मनसि अविर्भावभाग्यदि आविर्भूतं चेत् आहारशुद्धिमूलकसत्त्वगुणलाभेन चित्तशुद्धिर्भवेच्चेदिति भावः । तदा सः सकलजगत्कारणत्वनियन्तृत्वादिना प्रसिद्धः त्वं हृदि चित्ते अविर्भावभाक् । यद्वा हृद्यः हृदयस्य प्रियः यः अविर्भावः तं भजतीति तथोक्तः । दर्शनसमानाकारध्रुवानुस्मृतिरूपध्यानगोचरो भवसीति स्थाने युक्तं विद्याम जानीयाम । विदेर्लिङुत्तमबहुवचनम् । अत्र ‘आहारशुद्धौ सत्त्वश्रुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः’ इति श्रुत्यर्थच्छायाऽनुस्मृता । अत्र सत्त्वशुद्धिभगवदाविर्भावयोरनुरूपयोर्वर्णनम् ॥

 यथावा--

 वृषगोत्रशेखरं त्वामुषसि स्मरतां हरेऽच्युतात्मवताम् । भद्रत्वं चोक्षत्वं प्राप्यं यद्भवति तदिदमनुरूपम् ॥ १३१७ ॥

 हे हरे ! इदं च संबोधनं वक्ष्यमाणप्रत्यूषस्मरणानुगुण्याय । ‘उत्तिष्ठंश्चिन्तय हरिम्' इति स्मरणाम् । अनेनैवास्य वक्ष्यमाणभद्रत्वप्रापणानुकूलं मङ्गळत्वमपि द्योतितम् ।

नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्गळम् ।
येषां हृदिस्थो भगवान् मङ्गळायतनं हरिः ॥

इति स्मरणात् । हे अच्युत! अनेन वक्ष्यमाणचोक्षत्वसंपादनानुगुणं पावनत्वं व्यञ्जितम् । यथाचोच्यते--

अतिपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्क्तिपावनपावनः ॥

इति । उषसि प्रत्यूषे वृषगोत्रशेखरं शेषाद्रिशेखरं त्वां स्मरतां आत्मवतां ज्ञानिनां यत् भद्रत्वं मङ्गळायतनत्वेनोक्तस्य हरेस्तवस्मरणेन यत्कल्याणत्वमिति भावः, प्राप्यं भवति तत् अनुरूपम् । यत् चोक्षत्वं शुद्धत्वं च प्राप्यं पावनतमत्वेनोक्तस्याच्युतस्य तव स्मरणेन यत्पवित्रत्वं लभ्यमिति भावः, तदिदमप्यनुरूपम् । ‘चुक्ष संशुद्धौ’ अस्मात्पचाद्यच् । ‘भद्रश्शिवे खञ्जरीटे वृषभे च कदम्बके' इत्युपक्रम्य 'क्लीबं मङ्गळमुस्तयोः' इति 'चोक्षो गीते शुचौ दक्षे तथाऽभीक्ष्णमनोज्ञयोः' इति मेदिनी । पक्षे वृषगोत्रशेखरं वृषभकुलावतंसं त्वां स्मरतां भद्रत्वं वृषभत्वं यत् प्राप्यं तदनुरूपम् । च उक्षत्वमिति छेदः । उक्षत्वं च प्राप्यमिति यत् तदिदमप्यनुरूपमित्यर्थः । वृषभकुलावतंसस्मर्तॄणामिदं फलमुचितमेवेति भावः । अत्र वृषगोत्रशेखरस्मरणस्य भद्रत्वावाप्त्यादेश्चानुरूप्यम् ॥

 यथावा--

 अच्युतशोभनभोगस्पर्शनतस्फातिमान् घनाघनराट् । अतिमात्रमुन्नतश्श्रीस्तनतीत्युचितं पयोधरो ह्येषः ॥ १३१८ ॥  अच्युता अप्रच्युता शोभा यस्य सः नभः गच्छतीति नभोगश्च । विशेषणोभयपदकर्मधारयः । अच्युतशोभं यन्नभः तद्गच्छतीति तथोक्त इति वा । स्पर्शनतः मारुतात् स्फातिमान् वृद्धिमान् । स्पर्शनत इत्यत्र सकारस्य खर्परकत्वान्नभोगशब्दान्तिमविसर्गलोप एष्टव्यः, अर्थान्तरेऽपि शब्दसारूप्याय । एवं श्रीस्तनतीत्यत्रापि । पक्षे अच्युतस्य भगवतः शोभनो भोगो यस्य तत्तथोक्तं यत् स्पर्शनं अवमर्शः तेन ततः, सार्वविभक्तिकस्तसिः। यद्वा शोभनो यो भोगसंम्भोगः तस्मिन् तदवसरे स्पर्शनतः संस्पर्शात् स्फातिमान् उच्छूनइत्यर्थः । ‘स्फातिर्वृद्धौ' इत्यमरः । अतिमात्रं उन्नता श्रीः यस्य स तथोक्तः । घनाघनराट् प्रावृषेण्यवारिवाहः स्तनति गर्जतीत्युचितम् । हि यस्मात् एषः पयोधरः पूर्णसलिलः । पक्षे अतिमात्रं उन्नतः श्रीस्तनति श्रीस्तन इवाचरतीत्युचितम् । हि यस्मात् एषः पयोधरः पूर्णक्षीरः । अत्र घनाघनराजस्य स्तनतीतिशब्दप्रतिपाद्यगर्जनाभेदाध्यवसितस्तनवदाचरणस्य चानुरूप्यम् । उपमासंकीर्णमिदम् ॥

 यथावा--

 सेवनकृच्छ्रमलब्धा पावन तव पादपद्मयोर्मनुजः । सेवनकृच्छ्रमलब्धा देवनकृच्छ्रेणिषूचितं ह्येतत् ॥ १३१९ ॥

 हे पावन! 'पावनस्सर्वभूतानां त्वमेव रघुनन्दन’ इत्युक्तरीत्या पवित्ररूप हे भगवन्! तव पादपद्मयोः सेवनकृत् सेवाविधाता । श्रमस्य लब्धा ‘त्रिभुवनविधातुः' इत्यत्रेव शैषिकषष्ठ्यास्तृजन्तेन समासः । भगवच्चरणारविन्दपरिचरणपरिश्रमशालीत्यर्थः । मनुजः देवनकृतां धूर्तानां श्रेणिषु विषये सेवनकृत् श्रमलब्धा भवति एतदुचितमिति काक्वा नोचितमिति विरोधः । परिहारस्तु-- सेवनकृच्छ्रं अलब्धा इति छेदः। देवनकृतां अक्षदेविनां धूर्तानां श्रेणिषु पङ्क्तिषु सेवनस्य स्यूतेः ‘षिवु तन्तुसन्ताने, ल्युट् । कृच्छ्रं क्लेशं अलब्धा अप्राप्ता । लभेस्तृन् । धूर्तश्रेणिमध्यघटनप्रयुक्तक्लेशमननुभविता भवति । भगवच्चरणारविन्दपरिचरणचणस्य तादृशदोषानुन्मेषादिति भावः । अत्र भगवच्चरणपरिचरणकृतो धूर्तजनासंसर्गोऽनुरूपः । विरोधालङ्कारयमकसंकीर्णत्वं विशेषः ॥

 यथावा--

 अध्यक्षितमासीद्यैरध्यहिगिरि देव तावकं रूपम् । दधति सदाध्यक्षितमिह परत्र चामी तदेतदनुरूपम् ॥ १३२० ॥

 हे देव ! यैः जनैः अध्यहिगिरि अहिगिरौ तावकं रूपं अध्यक्षितं साक्षात्कृतं आसीत् अमी ते जनाः इह परत्र च अध्यक्षितं तत् त्वद्रूपं सदा दधति । एतत् अनुरूपं उपायफलयोरविसंवादादिति भावः । वस्तुतस्तु इह अस्मिन् लोके सदा अध्यक्षितं अध्यक्षं कृतं अधिराजत्वेन निष्पादितं रूपं दधति राजानो भवन्तीत्यर्थः । ‘अध्यक्षोऽधिकृते पुंसि स्यात्प्रत्यक्षेऽभिधेयवत्' इति मेदिनी । परत्र च परमपदेऽपि सदाध्यक्षितं रूपं सत् आध्यक्षितं इति च्छेदः । सत् प्रशस्तं सत्यकामत्वादिशुभगुणवत् । आधिना मनोव्यथया अशनायादिहेतुकया अक्षितं अक्षीणं 'क्षि क्षये' कर्मणि क्तः । रूपं ‘अपहतपाप्मा’ इत्याद्युक्तं स्वाभाविकं रूपं दधति ॥  यथावा--

 रक्तं त्वयि सर्वसमे समतां चेतो बिभर्ति सर्वत्र । भगवन् प्रतिकूलं तु प्रपद्यते तत्प्रतीपतामेव ॥ १३२१ ॥

 हे भगवन् ! सर्वसमे ‘सर्वस्य शरणं सुहृत् । समोऽहं सर्वभूतेषु’ इत्युक्तरीत्या सर्वसुहृदि त्वयि रक्तं अनुरागशालि चेतः चेतनस्य हृदयं सर्वत्र समतां तुल्यदृष्टितां बिभर्ति । ‘तुल्यो मित्रारिपक्षयोः’ ‘सर्वभूतश्शमश्शान्तः’ इत्याद्युक्तचेतनधर्मस्य चेतस्यारोपः । प्रतिकूलं सर्वसुहृदि त्वयि प्रातिकूल्यभाक् चेतस्तु तत्प्रतीपतां सर्वसमताप्रातिकूल्यमेव वैषम्यमेव प्रपद्यते । पक्षे तत्प्रतिकूलतां तस्य समतामिति शब्दस्य प्रतिलोमं तामसमिति शब्दः तस्य भावं तामसतां प्रपद्यत इत्यर्थोऽपि चमत्कारातिशयं पुष्णाति । अत्र सर्वसमभगवद्विषयकानुरागसर्वसमतावाप्त्योः तत्प्रतिकूलत्वतामसतावाप्त्योश्चानुरूपयोर्घटनम् । मालारूपत्वं पर्यायोक्तिगर्भत्वं च विशेषः ॥

 इमानि सर्वाण्युदाहरणानि श्लेषादिसंकीर्णानि । इदं तु शुद्धमुदाहरणम् । यथा--

 अज्ञं सर्वज्ञस्त्वं दयनीयं मां दयासुधाम्भोधे । दीनं च दीनबान्धव रक्षसि चेदुचितमम्बुजाक्ष तव ॥ १३२२ ॥

 सर्वमिदं स्तुतिपर्यवसायि समम् ॥ निन्दापर्यवसायि यथा--

 दुर्जनशिखामणेर्मे दुर्जरविषयानुधावनं युक्तम् । शुनकखरजम्बुकादिर्ननु कलयति नैव हेयवैमुख्यम् ॥ १३२३ ॥

 यथावा--

 ननु नाथ शीतलमहा जहार भवतस्स्मितश्रियं विशदाम् । हाशीलवर्जितोऽसौ तमस्स्वभावं बभार तद्युक्तम् ॥ १३२४ ॥

 ननु नाथ! हे भगवन्! शीतलमहाः चन्द्रमाः भवतः विशदां स्मितश्रियं उन्निद्रां संपदमिति च गम्यते, जहार । हा इति खेदे । शीलेन सद्वृत्तेन वर्जितः असौ शीतलमहाः तमस्स्वभावं तमोगुणस्वभावं बभार । तद्युक्तम्, भवदीयस्मितश्रीहर्तुस्सच्चरितवर्जितस्य तमःप्रकृतिकत्वं युक्तमेवेति भावः । तमसः तिमिरस्य सुष्ठु अभावः स्वभावः तं बभारेति वस्तुस्थितिः । पक्षे हाशील इतिवर्णत्रयवर्जितश्शीतलमहा इति शब्दः तम इति वर्णसमुदयेन स्वभावं स्वसत्तां बभार । हाशील इति वर्णसमुदयापसरणे तावन्मात्रमेव परिशिष्ट इति भावः। । अत्र परस्वापहरणादेस्तमस्स्वरूपभरणस्य चानुरूप्यं निन्दापर्यवसायि ॥

 यथावा--

 कचजातरूपचौर्यात्तवाद्यवर्णच्युतो बत मिळिन्दः। अग्रजपुमाश्रितोऽपि प्राप पुळिन्दत्वमेष मधुपो हि ॥ १३२५ ॥  हे श्रीरिति सामर्थ्याल्लभ्यते । मिळिन्दः भ्रमरः मिळिन्दशब्दश्च, तयोस्तादात्म्यम् । तव कचानां शिरोरुहाणां यत् जातरूपं सुवर्णं तदाभरणभूतमिति भावः । यद्वा कचति दीप्यत इति कचं 'कच दीप्तौ' पचाद्यच् । यत् जातरूपं दशवर्णसुवर्णमित्यर्थः । कचजातं शिरोरुहजं यत् रूपं नीलरूपमिति तु वस्तुस्थितिः, तस्य चौर्यात् । आद्यवर्णात्, ब्राह्मणवर्णात् मि इत्याकारकप्रथमवर्णाच्च च्युतस्सन् अग्रजाः ब्राह्मणाः ये पुमांसः तेषां आश्रितोऽपि, शेषषष्ठ्यास्समासः, तानाश्रितोऽपीत्यर्थः । वस्तुतस्तु अग्रजं आद्यं मिकारस्थानिकमिति भावः । पुं पुमित्याकारकवर्णसमुदयं आश्रितः । अपिस्समुच्चये । न केवलमादौ मिवर्णच्युतः अपितु पुवर्णमप्याश्रित इत्यर्थः । पुळिन्दत्वं म्लेच्छजातिविशेषत्वं ‘भेदाः किरातशबरपुळिन्दा म्लेच्छजातयः' इत्यमरः । पक्षे पुळिन्दशब्दत्वं च प्राप । अस्य पुळिन्दतावाप्तौ हेत्वन्तरं समुच्चिनोति-- एष इति । हि यस्मात् एषः मिळिन्दः मधुपः मद्यपः, इंदृशस्य पुळिन्दत्वप्राप्तिरुचितैवेति भावः । मकरन्दलिडिति तत्वम् । अत्र कचजातरूपचौर्यप्रभृतेः पुळिन्दत्वप्राप्त्यादेश्चानुरूप्यं निन्दापर्यवसायि ॥

 यथावा--

 मुखजमपि नाथ जलजं त्वत्पदविद्वेषतोऽन्तराविलताम् । एत्य जघन्यजमासीदीदृक्षस्यान्त्यजत्वमप्युचितम् ॥ १३२६ ॥

 हे नाथ जलजं मुखजमपि स्वयं ब्रह्मवर्णमपि 'मुखभागे जकारसहितमिति वस्तुस्थितिः, शब्दार्थयोस्तादात्म्यात् । जलजं लडयोरभेदाज्जडजमित्यपि प्रतीयते । त्वत्पदविद्वेषतः अन्तः मनसि आविलतां कलुषतां, पक्षे अन्तरा अविलतां इति छेदः । विगतो लकारो यस्य तत् विलं न विलं अविलं तस्य भावः अविलता तां अविलतां, अन्तरा मध्ये अविलतां लकारसा हित्यमित्यर्थः । एत्य जघन्यजं शूद्रवर्णजं ‘वृषलाश्च जघन्यजाः' इत्यमरः । पक्षे जघन्यः अन्त्यः जः जकारो यस्य तत्तथोक्तं आसीत् । नैतावदेवास्य फलमित्याह--ईदृक्षस्येति । त्वत्पदविद्वेषिण इत्यर्थः । अन्त्यजत्वं चण्डालत्वमपि उचितमेव । 'यो विष्णुं सततं द्वेष्टि तं विद्यादन्त्यरेतसम्’ इत्युक्तेरिति भावः । पक्षे अस्य जलजपदस्य अन्त्यः अन्तिमः जः जकारो यस्य तत्तथोक्तं तस्य भावः अन्त्यजत्वमपीत्यर्थः । जघन्यजान्त्यजशब्दयोरस्मिन् पक्षे तुल्यार्थकत्वादिति भावः । अत्र भगवत्पदविद्वेषस्य जघन्यजत्वादेश्चानुरूपस्संसर्गो निन्दापर्यवसायी ॥

 यथावा--

 ऐरावणस्तवाग्रैरहितत्वमुपेत्य रघुवर यशोभिः । अलभत बत रावणतां तावकविद्वेषिणोऽस्य युक्तमिदम् ॥ १३२७ ॥

 हे रघुवर! ऐरावणः ऐरावतः अग्रैः परार्थ्यैः तव यशोभिस्सह अहितत्वं धावळ्येन विरोधं उपेत्य प्राप्य रावणतां अलभत । पक्षे–- ऐरावणशब्दः अग्रैरहितत्वं इति समस्तं पदम् । अग्रः प्रथमः ऐ इतिवर्णः तद्रहितत्वं उपेत्य रावणतामलभत तथा निष्पन्न इत्यर्थः । तावकविद्वेषिणः त्वदीयवस्तुविषयकद्वेषशालिनः अस्य ऐरावतस्य इदं युक्तम् । अत्र रघुवरयशोविद्वेषरावणतावाप्त्योरानुरूप्यम् ॥  यथावा--

 निरयस्त्वद्विषये यो निरयस्तेनाप्यतेऽहिशैलमणे । नरको यो द्वेष्टि त्वां नरको नियतोऽस्य तदिदमनुरूपम् ॥ १३२८ ॥

 यः त्वद्विषये निरयः अयात् निष्क्रान्तो निरयः ‘अयश्शुभावहो विधिः' इत्यमरः । ‘निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । ‘न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम्’ इत्यवश्यकर्तव्यतया विहितत्वदाराधनरूपशुभावहविधिविधुर इत्यर्थः । तेन निरयः नरकः आप्यते । यः नरकः कुत्सितो नरः ‘कुत्सायाम्' इति कन् । त्वां द्वेष्टा ताच्छील्ये तृन् ‘न लोक' इति षष्ठीनिषेधः । अस्य पुंसः नरकः निरयः नियतः नियमेन भविता । अत्र भगवत्परिचर्यावैधुर्यनिरयप्राप्त्योस्तद्विद्वेषनरकावाप्त्योश्चानुरूप्यम् । मालारूपमिदमिति विशेषः । निन्दापर्यवसायित्वं तु पूर्ववदेव । एषूदाहरणेष्वादिममुदाहरणं दृष्टान्तसंकीर्णं, अन्यान्युदाहरणानि तु श्लेषादिसंकीर्णानीति विशेषः ॥


द्वितीयसमम्.


समं तदपि कार्यस्य सारूप्यं कारणेन यत् ॥

 कार्यस्य कारणेन सारूप्यमपि समालंकारः । अत्रोत्पत्तिलक्षणसंसर्गस्यानुरूप्यम् । तच्च कारणात्स्वसमानगुणकार्योत्पत्त्या, यादृशगुणकवस्तुसंसर्गस्तादृशगुणोत्पत्त्या चेति द्विविधम् । इदं द्वितीयविषमप्रतिद्वन्द्वि ॥

 तत्राद्यं यथा--

 कृतसूर्यभवाश्लेषा गङ्गा चक्राब्जमत्स्यरेखाढ्या । इदमनुरूपं तस्या उदितायाः फणिगिरीश तव पदतः ॥ १३२९ ॥

 कृतः सूर्यभवायाः काळिन्द्याः श्लेषः संसर्गो यया सा तथोक्तेति गङ्गापक्षे, भगवच्चरणपक्षे तु कृतः सूरीणां विदुषां अभवाश्लेषः संसारसंबन्धवैधुर्यं येनेति योज्यम् । चक्राः चक्रवाकाः अब्जानि पद्मानि मत्स्याश्च तेषां रेखया पङ्क्त्या आढ्या । अन्यत्र चक्रं सुदर्शनं अब्जः शङ्खः अब्जं पद्मं वा मत्स्यश्च तेषां रेखाभिः तदाकाररेखाभिराढ्यमिति ॥

 यथावा--

 अम्भोधिराजदुहिता गम्भीरा श्रीनिवास तव दयिता । करितुरगधेनुमणिमुखविभवं सुमनस्सु वितरति स्थाने ॥ १३३० ॥

 करितुरगधेनुमणयः ऐरावतोच्चैश्रवःकामगवीचिन्तामणयः । अन्यत्र गजादय एव । सुमनस्सु देवेषु विद्रत्सु च । अत्र उदाहरणद्वये कारणाभ्यां भगवच्चरणाम्भोनिधिभ्यां कार्ययोर्गङ्गालक्ष्म्योस्सारूप्यं श्लेषभित्तिकाभेदाध्यवसायेन निर्व्यूढम् । उभयत्रापि कारणात्स्वसमानगुणकार्योत्पत्त्या उत्पत्तिलक्षणसंसर्गस्यानुरूप्यमुक्तम् ॥  यथावा--

 श्रीस्त्वां जलधिस्सुषुवे विषमपि संमूर्छितं जगद्याभ्याम् । सांप्रतमिदं विषमयो यदयं किल सगरजातसंवृद्धः ॥ १३३१ ॥

 हे श्रीः ‘श्रीर्वेषरचनाशोभासंपत्सरळशाखिषु । वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽपि' इति रत्नमाला । जलधिः त्वां विषापरपर्यायश्रीशब्दवाच्यामिति भावः । विषमपि गरळं च सुषुवे । याभ्यां त्वया विषेण च जगत् संमूर्छितं मोहितं निश्चेतनीकृतमित्यर्थः । श्रीपक्षे 'त्वया च विष्णुना चाम्ब' इत्युक्तरीत्या अभिव्याप्तमिति वास्तवार्थः । ‘संमूर्छनमभिव्याप्तावुच्छ्रायमोहयोरपि' इति मेदिनी । इदं अम्बुधेरीदृशवस्तुजननं सांप्रतं युक्तम् । यत् यस्मात् सः गरजातसंवृद्ध इति च्छेदः । सोऽयमिति योजना । पूर्वोक्तोऽसौ जलधिः गरजातेन गरळसमूहेन संवर्धितः विषमयः प्रचुरगरळः । तस्मादस्य जलधेः विषापरनामश्रीशब्दवाच्यवस्त्वादिप्रसूतिरुचितेति भावः । वस्तुतस्तु सगरेत्यभिन्नं पदम् । सगरजातैः सगरसुतैः अभिवर्धितः विषमयः जलमय इत्यर्थः । अत्रापि कारणेन जलधिना कार्ययोश्श्रीविषयोस्सारूप्यं श्लेषासादितवैभवम् । पूर्वोदाहरणद्वयं प्रशंसापर्यवसायि । इदं तु निन्दापर्यवसायीति भेदः । एवंच प्रथमसमप्रभेद इव द्वितीयमस्मिन्नपि स्तुतिनिन्दापर्यवसायित्वलक्षणद्वैधी संभवतीति ध्येयम् ॥

 द्वितीयसमप्रभेदे द्वितीयं यथा--

 घनसारचूर्णकल्पितललाम कमलामनोहर मु- खं ते । विधुनीते मम तापं विदधात्यामोदमिति यदुचितं तत् ॥ १३३२ ॥

 कमलामनोहरेति संबुद्धिः । ललामशब्दो नान्तो नपुंसकलिङ्गः । ‘ललामं च ललाम च' इत्यनुशासनात् ॥

 यथावा--

 विसृमरकौस्तुभमहसा मसृणं कमलाङ्घ्रिजतुरसात्यरुणम् । अञ्जनगिरिपतिहृदयं रञ्जयति मनो ममेत्युचितमेतत् ॥ १३३३ ॥

 रञ्जयति अरुणयति आनन्दयति च । अत्राद्ये उदाहरणे भगवन्मुखगतशिशिरसुरभिलघनसारतिलकसंसर्गानुरूप्यं तापविधूननामोदनरूपकार्ययोः । अनन्तरोदाहरणे मनोरञ्जनरूपकार्यस्य भगवदुरस्स्थलगतकौस्तुभप्रभादिसंसर्गानुरूप्यम् ॥

 यथावा--

 हालाहलसहजन्मा व्यालावनिभृद्विभोश्च हृदयमगाः । यस्सेवते सदा त्वां सुधाब्धितनये समुह्यतीत्युचितम् ॥ १३३४ ॥

 व्यालावनिभृद्विभोः भुजगराजाधिराजस्य हृदयं अन्तरं शेषाचलनाथस्य वक्ष इति वस्तुस्थितिः । सेवते पिबति भजते च । मुह्यति मूर्छति ऐश्वर्यमूलकचित्तविकारं प्राप्नोति च । स्पष्टमन्यत् । पूर्वोदाहरणद्वयं प्रशंसापर्यवसायि, इदं तु निन्दापर्यवसायीति पूर्ववदेव भेदः । एवंच द्वितीयसमविशेषे प्राथमिकप्रभेदोदाहरणत्रये कृतसूर्यभवाश्लेषेत्यादौ कारणस्वभावानुरूप्यं कार्यस्य द्वितीयप्रभेदोदाहरणत्रये घनसारचूर्णेत्यादौ अगन्तुकघनसारादिसंसर्गानुरूप्यमिति निष्कर्षः ॥

तृतीयसमम्.


यत्किञ्चिदिष्टसिद्ध्यर्थं य उद्योगो वितन्यते ।
अनिष्टेन विना तस्य सिद्धिश्च सममुच्यते ॥

 यत्किञ्चिदिष्टप्राप्त्यर्थनप्रयुक्तात्कारणादनिष्टं विना तत्प्राप्त्या उत्पत्तिलक्षणसंसर्गस्यानुरूप्यं च समालंकार इत्यर्थः । उत्कटेष्टान्तरप्राप्तौ तु प्रहर्षणं वक्ष्यते । इदं तृतीयं समं ‘इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम्’ इति संगृहीतसप्रकारत्रिविधविषमस्यापि प्रतिद्वन्द्वि, इष्टावाप्तेरनिष्टस्याप्रसङ्गाच्च ॥

 यथा--

 अनिशमपि तं निषेवितुमसितं निश्युत्पलं निषेव्य विधुम् । त्वद्दिव्यदृगात्मत्वं प्राप्य रमे स्वेप्सितार्थमनुभवति ॥ १३३५ ॥

 हे रमे ! अनिशं निशाया अभावेऽपि । अर्थाभावेऽव्ययीभावः । तं विधुं श्रीनिवासं चन्द्रमसमिति तु तत्त्वम् । निषेवितुं असितमुत्पलं इन्दीवरं निशि विधुं निषेव्य निशाया योगाभ्याससमयत्वात्तदा विधुमुपास्येत्यर्थः । त्वद्दिव्यदृगात्मत्वं तव कमनीयनयनरूपत्वं त्वद्विषयकासंकुचितज्ञानात्मत्वं परिशुद्धं स्वरूपमित्यपि गम्यते । प्राप्य स्वेप्सितार्थं अनिशविधुनिषेवणरूपमभीष्टार्थं अनुभवति । अत्र निशाभावदशायामपि विधुनिषेवणलक्षणाभीष्टावाप्त्यर्थं प्रयुक्तान्निशाधिकरणकोपासनलक्षणात्कारणादिन्दीवरस्यानिष्टं विना तत्सिद्धेरुत्पत्तिलक्षणससंर्गस्यानुरूप्यम् ॥

 यथावा--

 सततमपि हरिकरग्रहवैभवमाकाङ्क्षदम्ब सरसिरुहम् । अभिहरि सलिले तप्वाऽलभत त्वत्पाणिजन्मनि तदेव ॥ १३३६ ॥

 हरिकरग्रहवैभवं भगवत्पाणिग्रहणसंपदं भानुकरसंपर्कातिशयं च । अभिहरि भगवदभिमुखं भानुमदभिमुखं च । तदेव सततहरिकरग्रहवैभवमेव । अत्रापि सार्वकालिकहरिकरग्रहणलक्षणाभीष्टलाभाय हर्यभिमुखं तपस्यतोऽम्बुजस्य जन्मान्तरेऽनिष्टं विना तत्सिद्धिर्दर्शिता ॥

 यथावा--

 दातुं विभवे भोगान्भोक्तुं स्वयमपि भवन् बहुविधाशः । जननि सुधाकलशस्त्वत्कुचजन्मनि भवति सुकल इति युक्तम् ॥ १३३७ ॥

 हे जननि ! सुधाकलशः अमृतकुम्भः सुधाकलशशब्दश्च विभवे सति ऐश्वर्यावसर इत्यर्थः । विभवे लोकनाथाय भगवते इति वस्तुस्थितिः । भोगान् दातुं स्वयं भोक्तुमपि बहुविधा आशा आयततृष्णा यस्य स तथोक्तः भवन् । पक्षे बहु यथास्यात्तथा विधाशः विगतधाकारशकारइत्यर्थः । त्वत्कुचजन्मनि सुकलः मनोरथानुगुणं त्यागभोगभाग्भवन् सन् 'सुकलो दातृभोक्तरि' इत्यमरः । धाकारशकरापनयनेन सुकल इति निष्पन्न इति वस्तुस्थितिः । अत्र सुधाकलशस्यानीष्टं विना स्वेप्सितावाप्तिः ॥  यथावा--

 कुचजन्म प्रेप्सुस्तव तपस्थितस्सोढशीतवातोष्णः । कुचतां कुलाचलोऽगात्तव कमलेलालयन् स्वमात्मानम् ॥ १३३८ ॥

 हे कमले ! कुलाचलः तव कुचजन्म प्रेप्सुः अतएव तपस्थितः तपश्चरन् । पक्षे तपसि माघमासे शिशिरऋताविति भावः । तपे ग्रीष्मे च स्थितः निश्चलतया वर्तमानः आतपे स्थित इति वा । न हि कुलाचलः कालभेदेन चलाचलो भवति । अतएव सोढशीतवातोष्णः ‘ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वासारषाण्मुनिः' इत्याद्युक्तप्रक्रियया द्वंद्वसहिष्णुस्सन् । पक्षे निसर्गत एव शीतादेस्सोढा । न ह्यचलश्शीतेन वातेन वा वेपते उष्णेन वितपते । तपसः फलमाह कुचतामिति । स्वं स्वकीयं आत्मानं अन्तरात्मानं भगवन्तं लालयन् विलासयन् ‘लड विलासे' णिजन्तादस्मात् लक्षणहेत्वोः' इति शता । हेतुरिह फलम् । स्वान्तरात्मप्रीणनायेत्यर्थः । तत्र कुचतां अगात् स्तनतयाऽवातारीत्यर्थः । पक्षे कुलाचलशब्दः कमले अलालयन्निति छेदः । स्वं आत्मानं स्वस्वरूपं अलालयन् लाश्च लश्च लालौ अविद्यमानौ लालौ यस्य सः अलालः तथोक्तं कुर्वन् अलालयन् लालेतिवर्णद्वयविधुरितं कुर्वन् कुचतां कुचशब्दतां अगात् । उक्तरीत्या लाकारलकारराहित्ये कुच इयेवावशेषादिति भावः । अत्र कुलाचलस्य विनाऽनिष्टमभीप्सितार्थसंसिद्धिः ॥

 यथावा--

 श्रीकुचफलशेषत्वप्रेप्सावल्लूरभोगसंत्यागि । मालूरफलं शुद्धं माफलशेषं न मुञ्चति स्वार्थम् ॥  मालूरस्य बिल्वस्य फलं 'बिल्वशाण्डिल्यशैलूषमालूरश्रीफला अपि’ इत्यमरः। श्रियः कुचावेव फले तयोश्शेषत्वं तदतिशयाधित्सयोपादेयस्वरूपत्वं तस्य प्रेप्सया वल्लूरस्य शुष्कमांसस्य ‘उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्' इत्यमरः भोगः अभ्यवहारः भुजेर्भावे घञि ‘चजोः' इति कुत्वम् । ‘भोगस्तु राज्ये वेश्याभृतौ सुखे । धनेऽहिकायफणयोः पालनाभ्यवहारयोः' इति हेमचन्द्रः । तस्य संत्यागि वल्लूरोपलक्षितनिखिलनिषिद्धाहारत्यजनशालि । आहारशुद्ध्यभावे सत्त्वशुद्ध्यनुदयादिति भावः । अत एव शुद्धं निर्दोषं पवित्रं वा । अतएव माफलशेषं मायाः श्रियः फले फलत्वेनाध्यवसितौ स्तनौ तयोः शेषं शेषभूतं अतिशयाधायकं च सत् स्वाभीप्सितशेषतां लब्धवदिति भावः । स्वर्थं स्वकीयं पुरुषार्थं न मुञ्चति कदाऽपि न त्यजति । नित्यशेषमेव सत् तत्कैंकर्यं समनुभवतीति भावः । पक्षे मालूरफलमिति पदं, शब्दार्थयोस्तादात्म्यम् । श्रीकुचफलशेषत्वप्रेप्सावत् लूरभोगसंत्यागि इति छेदः । उक्तेच्छाविशिष्टं सत् । लूरयोः लूकाररेफयोः भोगः अनुभवः तस्य संत्यागि । उत्सारितलूकाररेफमित्यर्थः । अतएव शुद्धं केवलं यथातथा ‘शुद्धं स्यात्त्रिषु केवले । निर्दोषे च पवित्रे च' इति मेदिनी । माफलशेषं मा फ ला इति त्रयो वर्णाः शेषाः शिष्टाः यस्य तथोक्तं अवशिष्टमाफलरूपवर्णत्रयमित्यर्थः । ईदृशमपीत्युपस्कार्यम् । स्वार्थं श्रीफलरूपं स्वाभिधेयं न मुञ्चति । मालूरफलमिति पदमविकलवर्णं यावन्तमर्थं बोधयति उक्तरीत्या वर्णवैकल्येऽपि तावन्तमेवार्थं बोधयति । मालूरफलमाफलशब्दयोरेकार्थकत्वादिति भावः । माफलं श्रीफलम् । बिल्वस्य श्रीफलत्वं च 'वनस्पतिस्तव वृक्षोऽथ बिल्वः’ इति श्रुतिसिद्धं उदाहृतकोशसिद्धं च । शेषमित्यत्र शिष्यत इति शेषमिति कर्मणि घञ् अतएव भेद्यलिङ्गता । भावे घञ एव पुल्लिङ्गत्वनियमः । अतएव संबन्धमनुवर्तते’ इति भाष्यम् शेषं रामवत्' इत्यादिप्रयोगाः ‘शेषस्संकर्षणे वधे' इत्युपक्रम्य 'उपयुक्तेतरे न स्त्री' इति मेदिन्यादिकोशाश्च संगच्छन्ते । अत्र मालूरफलस्यानिष्टं विना अभीष्टसिद्धिः ॥

 इमानि सर्वाण्यपि अनिष्टं विना केवलेष्टप्राप्तावुदाहरणानि ॥

 अनिष्टपरिहाररूपेष्टप्राप्तिर्यथा--

 त्वच्छ्रीविद्वेषकृतां घनाघवत्तां घनाघनोधून्वन् । विष्णो पदे तव पतन्नधश्शिराः कल्पते स्म नघनाघः ॥ १३४० ॥

 हे विष्णो! घनाघनः प्रावृषेण्याम्बुवाहः तव श्रियः संपदः रुचेश्च विद्वेषः तेन कृतां तावकश्रीविषयकवैरहेतुकां घनाघवत्तां अविरळदुरितशालितां धून्वन् ‘लक्षणहेत्वोः' इति शता । हेतुरिह फलम् । घनाघवत्ताविधूननेन प्रयोजनेनेत्यर्थः । तव पदे चरणे विष्णोः पदे अन्तरिक्षे इति तत्त्वम् । अधश्शिराः पतन् प्रणिपतन्नित्यर्थः । घनं च तत् अघं च घनाघं, न घनाघं यस्य स नघनाघः नशब्देन बहुव्रीहिः । कल्पते स्म । निरस्तनिखिलकलुषोऽभूदित्यर्थः ।

प्रणम्य कृष्णं सहसा पांसुक्लिष्टे महीतले ।
निष्कल्मषो भवेत्सद्यो ललाटे पांसुमण्डनात् ॥
हरिममरगणार्चिताङ्घिपद्मं प्रणमति यः परमार्थतो मनुष्यः ।
तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥

इत्यादि प्रमाणसहस्रं स्मर्तव्यम् । पक्षे घनाघनशन्दः घनाघवत्तां घनाघेति वर्णपङ्क्तिर्मत्तां अधून्वन् इति छेदः अविसृजन्नेवेत्यर्थः। अधश्शिराः पतन् विलोमतया स्थित इति यावत् । नघनाघ इति निष्पन्न इति । अत्र घनाघनस्यानिष्टं विना स्वाभीप्सितघनाघरूपानिष्टनिवृत्तिरूपेष्टसिद्धिः ॥

 यथावा--

 स्वजुषां सदा सुमनसां हर्तुमधः प्रसवबन्धनात्पतनम्। त्वद्भुजतामेत्य हरे कल्पतरुर्हरति तद्यदुचितं तत् ॥ १३४१ ॥

 हे हरे! कल्पतरुः सदा स्वजुषां आत्मानं सेवमानानां सुमनसां विदुषां कुसुमानां च । प्रसवबन्धनात् नानायोनिप्रसूतिसंबन्धात् वृन्ताच्च ‘वृन्तं प्रसवबन्धनम्' इत्यमरः । अधःपतनं अधोलोके भ्रंशं अधःप्रदेशे गळनं च । हर्तुं निरसितुं त्वद्भुजतां त्वद्बहुरूपतां एत्य तत् सुमनसां प्रसवबन्धानदधःपतनं हरतीति यत् तदुचितम् । अत्र सुमनसां प्रसवबन्धनादधःपतनरूपानिष्टपरिहारलक्षणेष्टार्थोद्योगात्कल्पतरोरनिष्टं विना तत्सिद्धिः । सर्वाण्यप्येतान्युदाहरणानि श्लेषाभेदाध्यवसायसंकीर्णान्येव ॥


 किंच यत्रातर्कितोत्कटानिष्टसद्भावेऽपि श्लेषवैभवेनेष्टार्थत्वप्रतिपत्तिस्तत्रापि समालंकारो न प्रतिहन्यते । यथा--

 श्रीवशगव्यामोहे भगवन्मा मुक्तमातनु त्वमिति । त्वामासेवे त्वमपि च तथैव मामुक्तमाचरंस्तनुषे ॥ १३४२ ॥

 हे भगवन् ! श्रीवशगः लक्ष्मीवशंवदः व्यामः यस्य 'व्यामो बाह्वोस्सकरयोस्ततयोस्तिर्यगन्तरम्' इत्यमरः । यथासंभवमाश्लेषार्थं स्वेस्वे पार्श्वे प्रसारितयोर्बाह्वोरन्तरं लक्ष्मीवशंवदं यस्य स तथोक्त इत्यर्थः । त्वं अनेन पुरुषाकारसान्निध्यबलादवधीरितविनतजनतापराधतया रक्षणौन्मुख्यं द्योतितम् । मा मां अनन्वादेशे वैकल्पिकत्वादत्र मादेशः । मुक्तं शिथिलितभवबन्धं आतनु कुरु । यद्वा श्रीवशगः संपन्मूलकः यो व्यामोहः अतिमात्रवैचित्त्यं तस्मिन् । अथवा श्रीवशगेति भगवत एव संबोधनम् । व्यामोहे पुत्रकळत्रसंपदादिप्रयुक्तसंमोहे आमुक्तं बद्धं ‘आमुक्तः प्रतिमुक्तश्च' इत्यमरः । मा तनु मा कुरु । माशब्दोऽयं न तु माङ्, येन लुङेव स्यात् । इति त्वां आसेवे त्वमपि मामुक्तं आचरन् सन् तथैव तनुषे यथाप्रार्थनमेव कुरुषे इति स्तुतिः । श्रीवशगव्यामोहे मा मां आमुक्तं बद्धमेव तनुषे इत्युपालम्भः । इदं मुक्तैश्वर्यप्रेप्सया श्रीनिवासं सेवमानस्य आनुषङ्गिकीं तद्विश्राणितामैहिकीमामुष्मिकीं च संपदमपि तत्परिपन्थिनीं जानतः कस्यचित्प्रपन्नस्य ते प्रत्युपालम्भवचनम् । अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालङ्कारः । न चैहिकामुष्मिकविभवस्यानिष्टत्वायोगान्न विषमालंकार इति वाच्यं, मुमुक्षुदृष्ट्या तस्यानिष्टतायाः ‘एते वै निरयास्तात स्थानस्य परमात्मनः' इत्युक्तेः अनेन वचनेनामुष्मिकसंपद एव निरयप्रायत्वस्य वर्णनादैहिकसंपदस्तथात्वं कैमुत्यन्यायसिद्धम् । तथाऽपि प्राथमिकस्तुतिरूपवाच्यविवक्षायां समालंकारो न निवार्यते ॥

 यथावा--

 सुतरामुक्तिविदूरा संपत्स्यादिति समाश्रितोऽहं त्वाम् । सुतरामुक्तिविदूरा तथैव संपत्त्वयाऽच्युत वितीर्णा ॥ १३४३ ॥  सुतरां उक्तिविदूरा ‘यतो वाचो निवर्तन्ते' इत्युक्तरीत्या वाचामविषयभूता । संपत् मुक्तैश्वर्यं स्यादिति भवेदिति प्रत्याशयेत्यर्थः । त्वां अहं समाश्रितः तथैव सुतरामुक्तिविदूरा संपदेव त्वयाऽपि वितीर्णेति स्तुतिः । सुतरा शोभनतरत्वेनाभासमाना मुक्तिविदूरा मोक्षदवीयसी संपदित्युपालम्भः । ‘अर्थश्रेयसि चासक्तो न श्रेयो विन्दते परम्’ इति महाभारतोक्तेरैहिकसंपदो मुक्तिविदूरत्वम् । अत्रापि पूर्वोदाहरणवदेव सर्वं द्रष्टव्यम् ॥

 यथावा--

 अहमन्नाद इति सदा गातुं त्वां शरणमगममब्जाक्ष । भवताऽपि तथाऽकारिषि सांप्रतमन्नाद एव किल कृपया ॥ १३४४ ॥

 इदं निश्रेयसावाप्तित्वरया प्रारब्धकर्मफलभोगानुभवादपि जुगुप्समानस्य कस्यचित्प्रपन्नस्य प्रपत्त्युत्तरमपि सांसारिकभोगानेव यथापुरमनुभावयन्तं भगवन्तं प्रति व्याजस्तुत्या उपालम्भवचनम् । तथाहि-- हे अब्जाक्ष ! अहमन्नाद इति सदा गातुं ‘एतत्सामगायन्नास्ते’ इत्युपक्रम्य ‘अहमन्नादोऽहमन्नादः' इति श्रुत्युक्तक्रमेण सामगानं विधातुं परिपूर्णपरब्रह्मानुभवानन्दरूपं मुक्त्यैश्वर्यं लब्धुमिति भावः । ‘अहमन्नादः' इति श्रुतिगतयोश्शब्दयोः अहं अस्मच्छरीरकः परमात्मैव अन्नादः सकलभोक्तृशरीरक इत्यर्थः । ‘अहंशब्दः परमात्मपर्यन्तः भोग्यभोक्तृवाच्यान्नान्नादिशब्दौ च तत्पर्यन्तौ’ इति तद्भाष्यम् । त्वां शरणमगमं प्रपन्नोऽस्मि । भवताऽपि कृपया सांप्रतं इदानीं तथा अकारिषि यथाभ्यर्थनं अन्नाद एव कृतोऽस्मि । कृञः कर्मणि भूते लुङुत्तमैकवचनम् । अकारिषि सांप्रतमिति वा योजना । तदा सांप्रतं युक्तमित्यर्थः । ‘सांप्रतं चाधुनार्थे स्याद्युक्तार्थेऽपिच सांप्रतम्’ इति विश्वः । किलेति संभावनायामनुनये वा । 'किलशब्दस्तु वार्तायां संभाव्यानुनयार्थयोः’ इति विश्वः । उपपादितोऽर्थस्सर्वोऽपि स्तुतिपरः । अन्नादः केवलं प्रकृतौदनभोक्तैव अकारिषि न तु ‘विजिघत्सः' इति श्रुत्युक्तजिघत्सादिहेयगुणविधुर इत्युपालम्भः । अत्र मुमुक्षोः प्रपन्नस्व प्राकृतभोगरूपोत्कटानिष्टसद्भावेऽपि श्लेषमहिम्ना मुक्तैश्वर्यानुभवरूपेष्टप्रतिपत्तिः ॥

 यथावा--

 रजनिचरा रघुनन्दन निशारणं तव जयाय येऽकाङ्क्षन् । त्वमपि तथैव निशारणमददास्तेषामुदारदाक्षिण्यः ॥ १३४५ ॥

 तव जयाय त्वत्कर्मकाभिभवाय निशारणं रात्र्यधिकरणकं युद्धम् । तथैव यथेप्सितमेव निशारणं रात्रियुद्धम् । वस्तुतस्तु तव जयाय त्वत्कर्तृकाविजयाय तेषां रजनिचराणां निशारणं निषूदनं अददा इत्यर्थः । ‘प्रमापणं निवर्हणं निकारणं निशारणम्' इत्यमरः । अत्र रजनिचराणां निबर्हणरूपानिष्टस्योत्कटस्य सत्त्वेऽपि श्लेषप्रभावेण निशायुद्धरूपेप्सितलाभः ॥

 यथावा--

 अमितां कमनीयस्थितिमाप्तुं ये त्वत्पराभवादैच्छन् । कमनीयस्थितिरेव ह्यमिता तैस्त्वत्पराभवाल्लभे ॥ १३४६ ॥  हे भगवन् ! त्वत्पराभवात् त्वत्कर्मकपरिभवात् । अमितां अपरिच्छिन्नां कमनीयस्थितिं वैभववत्तया रमणीयमवस्थानम् । उत्तरार्धेऽप्येवमेव । तत्र परमार्थतस्तु त्वदिति भिन्नं पदम् । त्वत् त्वत्तः पराभवात् स्वकर्मकपरिभवात् । अमिता अविद्यमानमकारा कृता कमनीयस्थितिः कनीयस्थितिः शब्दार्थयोस्तादात्म्यात् । अतिमात्रनिकृष्टा स्थितिरेवेत्यर्थः । कनीयसी चासौ स्थितिश्चेति विग्रहः । अल्पशब्दादीयसुनि ‘युवाल्पयोः कनन्यतरस्याम्' इति कनादेशः । अत्र कनीयस्स्थितिरूपोत्कटानिष्टसद्भावेऽपि श्लेषवैभवेन कमनीयस्थितिरूपेष्टलाभः ॥

 यथावा--

 प्राप्ता सुरपतिपदमपि पातालमनन्तभोगिलोकमपि । विन्देयमिति यजन् बलिरकारि भवता त्रिविक्रम तथैव ॥ १३४७ ॥

 हे त्रिविक्रम ! इदं एतत्पद्यप्रस्तुतार्थस्य तदवतारासाधारणतां व्यञ्जयितुम् । सुरपतिपदं महेन्द्रस्थानं प्राप्ता । प्रपूर्वकादाप्नोतेस्तृन् । अपिश्चार्थकः । अलं पाताऽपि रक्षिता च । पातेस्तृन् । बलिः दैत्येन्द्रः । अनन्तः यः भोगिनां उत्तमतत्तत्कर्मफलभोक्तॄणां लोकः ब्रह्मलोकपर्यन्तं विष्टपम् । यद्वा अनन्तेति भगवतएव संबोधनम् । भोगिलोकमपि उक्त एवार्थः । अथवा अनन्तभोगः भगवदनुभवः सोऽस्मिन्नस्तीत्यनन्तभोगी स चासौ लोकश्च । अनन्तभोगिनां भगवदनुभवशालिनां लोक इति वा । तमपि श्रीवैकुण्ठमपीत्यर्थः । विन्देयं प्राप्नुयामिति यजन् यज्ञं कुर्वन् सन् भवता यज्ञाराध्येन तत्फलप्रदेन चेति भावः । यथामनोरथमेव फलं लम्भित इत्यर्थः । वस्तुतस्तु सुरपतिपदं प्राप्ताऽपि बलिः अनन्तः भोगिलोकः भुजगसमुदयः यस्मिन् सः तं तथोक्तं पातालं प्रापित इति । अनन्तेति भगवतस्संबोधनविवक्षायां पातालं तत्संज्ञकं भोगिलोकं नागलोकं प्रापित इति वा अर्थः । अत्रोत्कटानिष्टस्य पातालप्रापणस्य सद्भावेऽपि अनन्तपुण्यकृल्लोकादिप्राप्तिरूपेष्टसिद्धिः प्रत्यायिता । अत्रोत्कटानिष्टस्यातर्कितत्वं स्फुटतरमिति ध्येयम् ॥

 यत्रेष्टार्थप्राप्तिसद्भावेऽपि श्लेषवशादसतोऽनिष्टार्थस्य प्रतीतिस्तत्रापि समालंकारस्य न क्षतिः, अनिष्टप्रतीतेराभासरूपत्वेनापर्यवसानात् ॥

 यथा--

 गुरुणात्यादरगुरुणा कार्या देवेनभक्तिरित्युदितः । कुर्वंस्तथैव भक्तिंः गुर्वाज्ञां सर्वथाऽपि नात्यैषीत् ॥

 अत्र गुर्वाज्ञां सर्वथाऽपि नात्यैषीदित्यनेन विरोधालंकाराभिव्यञ्जनाय देवेनभक्तिरित्यत्र पदत्रयविभागात्मकरूपान्तरस्यापि विवक्षायास्सत्त्वेऽपि देवानां इने स्वामिनि भगवति भक्तिः देवेनभक्तिरित्येकपदेन वस्तुसदर्थान्तरपरं रूपान्तरमुपादाय समालंकारोऽप्यस्त्येव ॥

 यथावा--

 व्रतमेतर्हि जयन्त्याः कार्यं नाशनमितीरितः पित्रा । बालस्तथैव विदधे वितथां विदधीत को नु पितुराज्ञाम् ॥ १३४९ ॥

 अत्रापि वितथां विदधीत को नु पितुराज्ञामित्यनेन विरोधालंकृतिमभिव्यञ्जयितुं नाशनमित्यत्र एकपदरूपान्तरस्यापि विवक्षायास्सद्भावेऽपि न अशनमिति पदद्वयविभागेन अशनं अभ्य वहरणं न कार्यं किंतूपवसनमेवेति वस्तुसदर्थान्तरमभिदधानं रूपान्तरमालम्ब्य समालंकारोऽप्यक्षत एव । पूर्वस्मिन्नुदाहरणे पदत्रयविभागेनासतोऽनिष्टार्थस्य प्रतीतिः, ऐकपद्येन वस्तुसत इष्टार्थस्य । इह तु ऐकपद्येनासदनिष्टार्थप्रतीतिः पदद्वयविभागेन वस्तुसदिष्टार्थस्येति भेदः ॥

 श्लेषलब्धासदिष्टावाप्तिप्रतीतिमात्रेणापि समालंकारत्वं ‘अनिशमपि तं निषेवितुम्' इति प्रागुपदर्शितेषूदाहरणेषु द्रष्टव्यम् । मात्रपदेनानिष्टार्थप्रतीतिर्व्यवच्छिद्यते । तत्र हि असितोत्पलादीनां श्लेषबलादनिशविधुनिषेवणादीष्टावाप्तिमात्रम्, न त्वनिष्टप्रतिभासोऽपीति ध्येयम् ॥

 यत्तु विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषममिति विषमालंकारं लक्षयित्वा तद्विपर्ययस्सममिति समालंकारं लक्षयता तत्पदेनात्र विषमालंकारसबन्धी विरूपघटनारूपश्चरम एव भेदो गृह्यते तद्विपर्ययस्यैव चरुत्वात् । न त्वाद्यभेदद्वयं, तद्विपर्ययस्य कारणादनुरूपकार्योत्पत्तिरूपस्य वाञ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया चारुताविरहात् । एवं चानुरूपसंघटनात्मक एव समालंकारः । न तु विषमालंकार इव भेदत्रितयात्मक इत्यलंकारसर्वस्वकृतोक्तम् । तन्न, वस्तुतोऽननुरूपयोरपि कार्यकारणयोः श्लेषादिना धर्मैक्यसंपादनद्वारा अनुरूपत्ववर्णने वस्तुतोऽनिष्टस्यापि तेनैवोपायेन इष्टैक्यसंपत्ताविष्टप्राप्तिवर्णनं च चारुतया अत्रैव दर्शितत्वात् । तस्मात्सममपि विषममिव त्रिविधमेवेति ॥

इत्यलंकारमणिहारे समालंकारसर एकचत्वारिंशः.