अलङ्कारमणिहारः (भागः २)/विचित्रालंकारः (४२)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ विचित्रालंकारसरः (४२)

 इष्टैषिणेष्टसिद्ध्यै तद्विपरीतं क्रियेत चेत् । प्रयत्नस्तामिमां प्राहुर्विचित्रालंकृतिं बुधाः ॥

 कस्यचित्फलस्येच्छया तद्विपरीतः प्रयत्नः क्रियेत चेत् विचित्रालंकारः । इष्टविपरीताचरणमिति यावत् । विपरीतत्वं च प्रतिकूलत्वम् ॥

 यथावा--

 भवजलधितलनिमग्नानुद्धर्तुं तान् सुगं सुपन्थानम् । प्रापयितुमपि हरे बत फणिधरशिखराग्रदुर्गमावससि ॥ १३५० ॥

 सुखेन गच्छन्त्यत्रेति सुगः तं ‘सुदुरोरधिकरणे' इति गमेर्डः । शोभनः पन्थाः सुपन्थाः तं सुपन्थानं ‘न पूजनात्' इति समासान्तनिषेधः । दुःखेन गच्छन्त्यत्रेति दुर्गम् । अत्रातिमात्रनिम्नभवजलनिधितलनिमग्नजनोद्धरणं तेषां सुमार्गप्रापणं च फलमुद्दिश्य तद्विपरीतमहोन्नतफणिप्रचुरगिरिशिखराग्रदुर्गस्थानावस्थानरूपविपरीतप्रयत्नवर्णनम् । शेषाचलशिखराग्रावस्थितिमाचरसीति तत्त्वम् ॥

 यथावा--

 निरवधिमवधीरयितुं दुरभिभवं हेयभोगसंसर्गम् । सन्तः कृष्ण भजन्ते हन्त त्वाहेयभोगकृतनृत्तम् ॥ १३५१ ॥  हे कृष्ण ! सन्तः हेयभोगसंसर्गं अवधीरयितुं हेयभोगेष्वेव कृतनृत्तं तत्रैवाभिषक्तमिति यावत् । त्वा त्वां भजन्ते । हन्तेत्याश्चर्ये । वस्तुतस्तु आहेयेति छेदः आहेयः अहिभवः यो भोगः फणः तत्र कृतनृत्तं काळियफणिफणकृतनटनमित्यर्थः । आहेयेत्यत्र अहिशब्दात् भवार्थे ‘दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्' इति ढञ । अत्र हेयभोगसंसर्गावधीरणमुद्दिश्य तद्विपरीतहेयभोगकृतनटनभजनलक्षणप्रयत्नो निबद्धः । प्रायेण श्लेषमूलभेदाध्यवसायोऽत्र जीवातुः ॥

 यथावा--

 वृजिनधराधरशिखरादवरोढुं श्रीनिवास ननु मनुजाः । जिह्मगधरणिधराञ्चलमारोहन्तीति नाद्भुतं कस्य ॥ १३५२ ॥

 वृजिनं कुटिलं यत् धराधरशिखरं तस्मात् अवरोढुं । पक्षे वृजिनं दुरितमेव धराधरशिखरं तस्मादित्यर्थः । `वृजिनं कलमषे क्लीबं केशे न कुटिले त्रिषु' इति मेदिनी । जिह्मगस्य कुटिलगमनस्य धराधरस्य गिरेः अञ्चलं अग्रं शेषाचलशृङ्गमिति वस्तुस्थितिः । ‘अराळं वृजिनं जिह्मम्' इत्यमरः । अत्र वृजिनधराधरशिखरावरोहणलक्षणफलोद्देशेन तद्विपरीतः जिह्मगधरणीधराग्रारोहणरूपप्रयत्नः ॥

 यथावा--

 अतिपतितुं दुर्गाणि प्रतिपदमहिशिखरिशिखरदुर्गगतम् । शरणं व्रजन्ति दैवं करणं विनियम्य सकलमपि मुनयः ॥ १३५३ ॥  दुर्गाणि शैलादिदुर्गमस्थानानि । कृच्छ्राणि नरकांश्च ‘दुर्गा तु गौर्यां काळ्यां च दुर्गं तु नरके पुरे । शैलादिदुर्गमस्थाने त्रिषु त्वेष दुरासदे' इति रत्नमाला । ‘दुर्गं तु नरके कृच्छ्रे’ इति कोशान्तरम् । ‘सर्वस्तरतु दुर्गाणि, दुर्गाण्यतितरस्याशु' इत्यादयः प्रयोगाश्च । अत्र दुर्गातिपतनरूपफलमुद्दिश्य तद्विप्रतीपदुर्गगतपुरुषशरणागतिलक्षणप्रयत्नवर्णनम् ॥

 यथावा--

 पापशमनावलोकनलोपकृते त्वत्कृपाव्यपाश्रयवान् । श्रीपरिबृढ साधुजनः पापशमनमेव कलयति विचित्रम् ॥ १३५४ ॥

 हे श्रीपरिबृढ ! त्वत्कृपाव्यपाश्रयवान् साधुजनः, पापः क्रूर इति यावत् यः शमनः यमः 'शमनं शान्तिवधयोः क्लीबे वैवस्वते पुमान्’ इति रत्नमाला । तस्य अवलोकनं तस्य लोपकृते कदाचिदपि यमदर्शनं मा भून्ममेत्येतदर्थमिति भावः । पापशमनमेव क्रूरं यममेव कलयति सेवते इदं विचित्रम् । दुरितशान्तिमातनुते इति तु तत्त्वम् । अत्रापि सर्वं पूर्ववदेव । विचित्रमिति पदेन प्रकृतालंकारनाम्नोऽपि सूचनमिति वक्ष्यमाणमुद्रालंकारशिरस्कत्वं विशेषः ॥

 यथावा--

 अशिशिरकरकुलनायक निशिचरराज्यश्रियं स्वयं हर्तुम् । तामेव यामिनीचरकनीयसे नीतिमानहो त्वमदाः ॥ १३५५ ॥  हे अशिशिरकरकुलनायक ! निशिचरराज्यस्य श्रियं संपदम् । पक्षे निशिचराणां राजेः पङ्क्तेः अश्रियं दशाननभुजाभिगुप्तत्वप्रयुक्ताश्लीलतां ‘हर्तुं तामेव निशिचरराज्यश्रियमेव यामिनीचरकनीयसे विभीषणाय । शिष्टं स्पष्टम् । अत्र निशिचरराज्यश्रीहरणलक्षणफलमुद्दिश्य तद्विपरीतस्तद्दानरूपप्रयत्नः ॥

 यथावा--

 त्वदनघपुनर्भवरुचिं पुनर्भवरुचिं विहातुमतिवेलम् । मनसि सदातनवैभव कनकगिरीन्दो सदा तनवै ॥ १३५६ ॥

 सदातनं वैभवं यस्य स तथोक्त: तस्य संबुद्धिः नित्यवैभवेत्यर्थः । हे कनकगिरीन्दो ! पुनर्भवरुचिः भूयोऽपि जन्मस्पृहां विहातुं त्वदिति छेदः। हे अनघेति भगवत एव संबुद्ध्यन्तं विशेषणम् । त्वत् त्वत्तः पुनर्भवरुचिं उक्त एवार्थः । सदा मनसि तनवै करवै, इति विरोधः । त्वदनघपुनर्भवरुचिमिति समस्तं पदम् । तव अनघाः ये पुनर्भवाः नखाः ‘पुनर्भवः कररुहः' इत्यमरः । तेषां रुचिं प्रभां मनसि तनवै ध्यायनिति परिहारः । अत्र पुनर्भवरुचिप्रहाणफलमुद्दिश्य पुनर्भवरुचिमनस्काररूपविपरीतप्रयत्नः । यमकसंकीर्णत्वं पूर्वेभ्यो विशेषः । श्लेषभित्तिकाभेदाध्यवसायस्तु सर्वत्र तुल्यः ॥

इत्यलंकारमणिहारे विचित्रसरो द्विचत्वारिंशः.


अथाधिकालंकारसरः (४३)

आधेयाधिक्यकथनमाधारान्महतोऽधिकम् ॥

 यत्र महत आधारादाधेयस्याधिक्यवर्णनं तत्र अधिकं नामालंकारः ॥