सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः २)/अधिकालंकारः (४३)

विकिस्रोतः तः

अथाधिकालंकारसरः (४३)

आधेयाधिक्यकथनमाधारान्महतोऽधिकम् ॥

 यत्र महत आधारादाधेयस्याधिक्यवर्णनं तत्र अधिकं नामालंकारः ॥  यथा--

 अधिकुरुसमिति समस्तो लोको यत्र व्यलोकि लोकेन । कृष्णाविपदपहरणप्रवणा करूणाऽत्र वपुषि तव न ममौ ॥ १३५७ ॥

 कुरूणां समितिः सभा संगरो वा तस्यां अधिकुरुसमिति, विभक्त्यर्थेऽव्ययीभावः । कुरूणां सभायां संगरे च भगवता विश्वरूपस्य प्रकाशनात्तदुभयसंग्रहाय समितिशब्दोपादानम् । 'समितिस्सांपराये स्यात्सभायां संगरेऽपिच' इति मेदिनी । अत्र यत्र भगवद्दिव्यविग्रहे समस्तो लोको व्यलोकीत्याधारस्यातिमहत्त्वमुपदर्श्य अत्र तव दिव्यविग्रहे करुणा न ममावित्याधेयस्याधिक्यं वर्णितम् ॥

 यथावा--

 विश्वात्मन्यपि च त्वयि विश्वंभर नैव मान्तिसुगुणगणाः। भवति किल महदमीषां भवत्स्वरूपादपीदमानन्त्यम् ॥ १३५८ ॥

 विश्वात्मनि अखिलप्रपञ्चशरीरके । अत्रापि विश्वात्मनीत्याधारस्यातिमहिमानं प्रदर्श्य तत्र कल्याणगुणा न मान्तीत्याधेयाधिक्यं दर्शितम् ॥

 यथावा--

 रघुवीर तावकयशोराकाचन्द्रमसि सान्द्रतरमहसि । अभितो विजृम्भमाणे लभते द्यौर्लाञ्छनस्य संरम्भम् ॥ १३५९ ॥  यथावा--

 प्रसृमरभवदीययशःप्रकाशकलशाम्बुराशिजठरान्तः । गगनाभोगो हरिसखि गरुडध्वजमूर्तिविभ्रमं धत्ते ॥ १३६० ॥

 यथावा--

 भवदीयकंटाक्षश्रीभाजां भगवति यशस्त्रिपथगायाम् । सुरवर्त्मनाऽखिलाम्ब स्फुटतरनीलाम्बुजायितं क्वापि ॥ १३६१ ॥

 यथावा--

 ब्रह्माण्डस्यान्तर्बहिरपि भाति भवज्जुषां यशःप्रसरः । स्फाटिकसमुद्गकान्तस्स्फुटशिखदीपप्रकाश इव भगवन् ॥ १३६२ ॥

 एषूदाहरणेषु चतुर्षु आद्ये द्वे उदाहरणे रूपकोपस्कृतनिदर्शनासङ्कीर्णे । अन्तिमे द्वे उपमासंवलिते । सवेत्र आधारापेक्षया आधेयाधिक्यवर्णनं तुल्यमेव । तत्रापि त्रिषूदाहरणेषु अधाराधेययोर्गगनयशसोरेव प्रकारान्तरेणोपमाप्रदर्शनेन वर्णनं, अन्तिमे तु आधेयं यश एव, आधारो ब्रह्माण्डमित्यपि वैलक्षण्यं द्रष्टव्यम् ॥

 यथावा--

 भगवन्नगणितवैभव भवदीययशश्छले सुधाजलधौ । ब्रह्माण्डमण्डलनिभाद्विभान्ति मुक्ताफलानि पृथुलानि ॥ १३६३ ॥  अगणितवैभवेति भगवतो विशेषणम् । भवदीयं यश इति कर्मधारयः । भवदीयानां भागवतानां यश इति षष्ठीतत्पुरुषो वा । अथवा अगणितवैभवेति भवदीयानां भवदीययशसो वा विशेषणम् । ब्रह्माण्डानां मण्डलं बृन्दं तन्निभात् तद्व्याजात् । स्फुटमन्यत् ॥ अत्राधारेभ्यो ब्रह्माण्डमण्डलेभ्योऽप्याधेयस्य भागवतयशस आधिक्यम् । अत्राप्याधेयं यश एव । आधारोऽपि ब्रह्मण्डमण्डलमेव । कैतवापह्नुतिगर्भितत्वं विशेषः ॥

द्वितीयाधिकम्

 आधाराधिक्यकथनमाधेयाद्विपुलाच्च तत् ॥

विपुलादाधेयादप्याधारस्याधिक्यवर्णनं च तत् अधिकमेवेत्यर्थः ॥

 यथा--

 कियदेतन्मम चेतः स्फीतं वातंधयाचलनिकेतम् । श्रीवासं सविकासं जगदावासं निवासयत्यन्तः ॥ १३६४ ॥

 स्फीतं विपुलमिति यावत् । सविकासं असंबाधं यथातथा । अत्राखिलजगदावासभूतश्रीनिवासरूपाधेयादन्याधारभूतस्य चेतस आधिक्यं निबद्धम् ॥

 यद्वा--

 मन्ये माधव संप्रति मनो ममालं महाद्भुतविशालम् । सर्वेभ्यो ज्यायानपि लोकेभ्यो यत्र माति परमात्मा ॥ १३६५ ॥

 मम मनः महाद्भुतविशालमिति मन्ये । तत्र हेतुमभिप्रयन्नाहसर्वेभ्य इति । यत्र यस्मिन्मनसि अणुरूपे इति भावः । सर्वेभ्यो लोकेभ्यो ज्यायानपि 'एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्याः’ इत्यारभ्य ‘ज्यायानेभ्यो लोकेभ्यः' इति शाण्डिल्यविद्योक्तप्रकारेण सकललोकाधिकवैपुल्यमानपीति भावः । परमात्मा माति । इदं पूर्वोदाहरणादविलक्षणार्थम् । उदाहृतश्रुतिप्रत्यभिज्ञापनं विशेषः ॥

 यथावा--

 अणुरात्मेति कथं वा भणति श्रुतिरत्र संशयोऽस्माकम् । अगणितमहिमास्य यतो निगदति सैवान्तरं परं ब्रह्म ॥ १३६६ ॥

 आत्मा प्रत्यगात्मा अणुः इति श्रुतिः 'एषोऽणुरात्मा' इत्यादिश्रुतिः कथं वा भणति, यतः अगणितः गणनाया अगोचरः महिमा महत्त्वं यस्य तत् परं ब्रह्म स्वरूपतो गुणैश्च निरतिशयबृहदिति भावः । अस्य प्रत्यगात्मनः अन्तरं अन्तःस्थितम् । सैव श्रुतिरेव ‘य अत्मानमन्तरः' इत्यादिरिति भावः निगदति । यद्यप्यत्रोदाहरणेषु चेतःप्रत्यगात्मनोरेवाधारभूतयोः प्रशंसा क्रियते, तथाऽपि तनुत्वेन सिद्धयोश्चेतःप्रत्यगात्मनोः सकलजगन्निवासभूतात्सर्वलोकज्यायसो महामहिम्नः परब्रह्मणोऽप्यधिकत्वेनाधिकरणतां कल्पयित्वैव प्रशंसा क्रियत इति तत्प्रशंसाप्रस्तुतपरब्रह्मप्रशंसायामेव पर्यवस्यतीति ध्येयम् ॥

इत्यलङ्कारमणिहारे अधिकालङ्कारसरस्त्रयश्चत्वारिंशः.