सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः २)/अल्पालंकारः (४४)

विकिस्रोतः तः

अथाल्पालङ्कारसरः (४४)

आधारसौक्ष्म्यमाधेयात्सूक्ष्मादल्पं तदुच्यते ॥  स्वापेक्षया सूक्ष्मादाधेयादाधारस्य सूक्ष्मत्वं यत् तदल्पं नामालङ्कारः । सूक्ष्मात् स्तोकात् सौक्ष्म्यं कार्श्यं ॥

 यथा--

 अधिलङ्कं निवसन्त्या मिथिलेशभुवोऽतिविरहतन्वङ्ग्याः । मौक्तिकवलयितनासामण्डनमधिकण्ठमाप हारत्वम् ॥ १३६७ ॥

 मौक्तिकवलयितनासामण्डनं मौक्तिकश्रोणिग्रथितवलयाकारसौवर्णनासाभरणविशेषः । अत्र उक्तविधं नासाभरणं सूक्ष्मम् । तदपि वल्लभविश्लेषजनितवैचित्त्येन ग्रीवायामर्पितं विरहकृशया भगवत्या जनकनन्दिन्या तत्र हारतां प्रापेत्युक्त्या ततोऽपि ग्रीवायास्सौक्ष्म्यं दर्शितमित्याधेयादाधारस्य सौक्ष्म्यमनुसन्धेयम् ॥

 यथावा--

 त्वद्दर्शनसंभ्रमतस्त्वद्दयिताकर्णवेष्टनं मध्ये । प्रतिमुञ्चति स्म तत्र व्यतिषक्तं नाथ तद्भवति काञ्ची ॥ १३६८ ॥

 अत्रापि कर्णवेष्टनं तावदतिसूक्ष्मं, तदपि त्वद्दर्शनसंभ्रमवशात्त्वद्दयितया श्रियाऽवलग्ने निबद्धं सत्तत्र काञ्चीतुल्यमभूदित्युक्त्या अवलग्नस्यातितनुत्वं दर्शितम् । अत्र विभ्रमाख्यश्शृङ्गारचेष्टाविशेषः ।

 'विभ्रमस्त्वरया काले भूषास्थानविपर्ययः'

इतिलक्षणात् । अयमलंकारो दीक्षितोपज्ञं, प्राचीनैरलक्षितत्वात् ॥

 सूक्ष्मादाधारतस्सौक्ष्म्यमाधेयस्य च तद्भवेत् ॥  आधारसौक्ष्म्यादाधेयसौक्ष्म्यमप्यल्पालंकार एव भवेत् इदं च प्रथमस्याधिकस्य प्रतिद्वन्द्वि, पूर्वं तु द्वितीयस्येति ध्येयम् ॥

 यद्यप्ययं प्रभेदः कुवलयानन्दकारैरलक्षितः, तथाऽप्यधिकप्रतिद्वन्द्वितयाऽवश्यमेष्टव्य इत्यस्माभिर्लक्षितः, द्वंद्विभूतस्याधिकस्यापि द्विप्रकारत्वात् ॥

 यथा--

 तनुतरमुदरं देवकतनुजायाः परममावसद्ब्रह्म । सूक्ष्माच्च सूक्ष्मतरमिति साक्षाच्छ्रुतिमतनुतान्वर्थाम् ॥ १३६९ ॥

 'सूक्ष्माच्च तत्सुक्ष्मतरं विभाति' इति मुण्डकश्रुतिमित्यर्थः । अन्वर्थां अनुगुणाभिधेयाम् । अत्राधारभूतस्य देवकीजठरस्याणीयस्तया आधेयस्य तद्भर्भस्थस्य परब्रह्मणस्सौक्ष्म्यं निबद्धम् ॥

 यथावा--

 अणुमात्रे मम हृदये प्रणतस्य विलीन एष परमात्मा । स्थानेऽयमणीयानिति जाने ज्यायस्त्वमर्थवादोऽस्य ॥ १३७० ॥

 अयं परमात्मा अणीयानिति स्थाने जाने ‘एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्वपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा, इति श्रुतेरणुतर इति युक्तं मन्ये । तर्हि ‘ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवः’ इति श्रुतेः का गतिरिति चेत् अत्राह-- ज्यायस्त्वमर्थवादोऽस्येति । अस्य परमात्मनो ज्यायस्त्वमर्थवादः प्रशंसामात्रं न तु वास्तवमिति भावः । अत्र सूक्ष्मात् हृदयरूपादाधारादाधेयस्य परमात्मनस्सूक्ष्मतरत्वम् । इदं परमात्मनस्सर्वज्यायस्त्वयोगेऽपि तदयोगकथनरूपातिशयोक्तिसंकीर्णमिति विशेषः ॥

इत्यलङ्कारमणिहारे अल्पालङ्कारसरश्चतुश्चत्वारिंशः.