अलङ्कारमणिहारः (भागः २)/विषमालंकारः (४०)

विकिस्रोतः तः
Jump to navigation Jump to search

४०--अथ विषमालंकारसरः.

अनानुरूप्यभाजोर्यद्घटनं विषमं हि तत् ॥

 यत्रातिमात्रवैधर्म्यादत्यन्तमननुरूपयोः द्वयोः पदार्थयोर्घटनं संबन्धो वर्ण्यते तत्र विषमालंकारः । संबन्धश्च संयोगादिरुत्पाद्योत्पादकभावश्चेति सर्वप्रकारसाधारणमेतल्लक्षणमिति ध्येयम् । अत एव हि 'अननुरूपसंसर्गो हि विषमम्' इत्यलंकारसर्वस्वकारः ॥

 यथा--

 क्व नु लोकनायकस्त्वं क्व जरद्द्विरदोऽपि नक्र- संक्रान्तः । अस्य विपत्त्यपनुत्त्यै त्रस्यन् द्रवसि स्म तव कृपा कियती ॥ ११७४ ॥

 अत्र सर्वलोकेश्वरत्वेन तिर्यग्जन्तुत्वेन चाननुरूपयोर्भगवज्जरद्गजयोर्घटनं वर्णितम् । अधिकरणशक्तिप्रधानाभ्यां क्वेत्यव्ययाभ्यामनुचितघटनत्वमाविष्कृतम् । अत्र संबन्धस्संयोगरूपः ॥

 यथावा--

 जडमूर्धन्यः क्वाहं जगदीश! तवानुभूतिभाग्यं क्व । जम्बुककिशोरकः क्व नु जम्भारिपुरीविभूत्यनुभवः क्व ॥ ११७५ ॥

 अत्राज्ञमूर्धन्यत्वेन दुष्प्रापतममहापुरुषार्थत्वेन चाननुरूपयोर्भक्तभगवदनुभवयोस्संबन्धः । इदमान्ध्रभाषाप्रसिद्धलोकप्रवादानुकृतिलक्षणलोकोक्त्यलंकाररूपदृष्टान्तालंकारसंकीर्णं, पूर्वं तु शुद्धमिति भिदा ॥

 यथावा--

 केनाप्यकम्पनीया महीयसी श्रीश ! तव विभूतिः क्व । फूत्कृतिमात्रविनेया लघीयसी पशुपतेः क्व च विभूतिः ॥ ११७६ ॥

 हे श्रीश ! इदं संबोधनं विवक्षितविभूतेर्महीयस्त्वाद्यभिप्रायगर्भम् । केनापि ब्रह्मणाऽपीति भावः । अकम्पनीया, तव ‘महाविभूतेस्संपूर्णषाड्गुण्यवपुषः प्रभोः' इति महाविभूतित्वेन प्रसिद्धस्येति भावः, महीयसी विभूतिः ऐश्वर्यं क्व, फूत्कृतिमात्रेण केवलफूत्कारेणैवेति लोकोक्तिरियम् । अल्पीयसा यत्नेनैवेति भावः । विनेया उट्टङ्कनीया, पशुपतेः-- इदं विवक्षिततद्विभूतिलघीयस्त्वाभिप्रायकम्, न तु तवेव श्रीपतेरिति भावः । लघीयसी विभूतिः एश्वर्यं च, क्व । भस्मेति च गम्यते । तस्य फूत्कृतिमात्रोट्टङ्कनीयत्वप्रसिद्धेः । न ह्यनयोस्साधर्म्यं कलयाऽपि घटेतेति भावः । अत्र श्रीपतिपशुपतिविभूत्योरनानुरूप्यभाजोर्घटनम् । व्यतिरेकपरिकराङ्कुरोपस्कृतमिदम् ॥

 यथावा--

 नतपातन एवान्यो नतपावन एव नाथ! स भवांस्तु । नारायणगिरिनायक! दूरादिन्धे ततो हि तवभेदः ॥ ११७७ ॥

 अन्यः त्वदितरो देवः नतपातन एव स्वाश्रितान् संसारे पातयत्येवेत्यर्थः । ‘आब्रह्मस्तम्बपर्यन्ताः' इत्यादिना ‘ते हि संसारगोचराः’ इत्युक्तरीत्या स्वयमेव संसारसागरे निमग्नस्स्वावलम्बिनो जनान् कथमुन्मज्जयेदिति भावः । सः ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात्’ इत्युक्तप्रकारेण प्रसिद्धः भवांस्तु नतपावन एव । ‘पावनस्सर्वभूतानां त्वमेव रघुनन्दन' इत्याद्युक्तरीत्या सर्वाघविध्वंसनपूर्वकमुच्चैर्गतिप्रदातेति भावः । अत एव नारायणगिरिनायक शेषाद्रीश्वर हे नाथ! ततः नतपातनादन्यस्माद्देवात्, तव नतपावनस्य तव भेदः भिदा दूरात् इन्धे अतिशयिततया प्रकाशते । पक्षे-- नतपातनः नतपावन इत्याभ्यां तौ शब्दावेव गृह्येते । तत इति षष्ठ्यास्सार्वविभक्तिकस्तसिः । तयोः नतपातननतपावनशब्दयोरित्यर्थः । तवभेदः त व इति वर्णाभ्यां वैलक्षण्यं दूरादिन्धे । अत्रापि देवतान्तरश्रीनिवासयोरननुरूपयोर्घटनम् ॥

 यथावा--

 अशनायातीतोऽनघ! निस्सङ्गः क्वाच्युतस्वरूपस्त्वम् । आद्यूनोऽत्यासङ्गः क्वादित्यस्स्वस्वरूपविभ्रष्टः ॥ ११७८ ॥

 हे अनघ भगवन्! अशनायातीतः अशनायोपलक्षितोर्मिषट्कप्रतिभटः 'अशनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इति श्रुतेः । निस्सङ्गः कर्मसंबन्धगन्धशून्यः । कर्मफलाननुषक्तो वा ‘निरवद्यं निरञ्जनम्’ इति श्रुतेः ‘न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा' इति गानाश्च । अच्युतं अप्रच्युतं स्वरूपं स्वभावो यस्य स तथोक्तः । रामकृष्णाद्यवतारदशास्वप्यजहत्स्वस्वभाव इत्यर्थः ।

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥

इति गानात् ।

प्रादुर्भावास्तु सेनेश मदंशत्वाद्विशेषतः ।
अजहत्स्वस्वभावा हि दिव्याप्राकृतविग्रहाः ।
दीपाद्दीपा इवोत्पन्ना जगतो रक्षणाय ते ॥

 इति विष्वक्सेनसंहितावचनमप्यत्रैवानुकूलम् । ईदृशः त्वं क्व । आद्यूनः औदरिकः 'आद्यूनस्स्यादौदरिकः' इत्यमरः । उदरभरणैकनिरतत्वात्सर्वाशीति भावः । अत्यासङ्गः अतिमात्रकर्मसंबद्धः कर्मफलस्पृहावान्वा । अत एव स्वस्वरूपविभ्रष्टः तिरोहितज्ञानानन्दादिस्वभाव इति यावत् । आदित्यः क्व युवयोरौएम्यं दवीय इति भावः । वस्तुतस्तु आदित्यः आदित्यशब्दः आद्यूनः आदि इति वर्णाभ्यां विश्लिष्टः अत्यासङ्गः अविद्यमानः त्य इत्याकारकवर्णसमुदयसबन्धो यस्य स तथोक्तस्सन् स्वस्वरूपविभ्रष्टः आदित्येतिसर्ववर्णापाये निश्शेषितस्वप्रकृतिरिति यावत् । शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । अत्रापि भगवदादित्ययोरनानुरूप्यभाजोर्घटनं श्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढम् ॥

 यथावा--

 आदौ दुग्धं मध्ये भिदुरमथेन्दुस्तु दूषितः पश्चात् । क्वनु तानि जगदधीश्वर! कदाऽप्यदूषितमहो यशः क्व तव ॥ ११७९ ॥

 हे जगदधीश्वर! दुग्धं क्षीरं आदौ प्रथममेव दूषितमिति लिङ्गविपरिणामेन योज्यम् । अविशदमिति जनैः प्रत्याख्यातमित्यर्थः । भिदुरं कुलिशं मध्ये मध्यकाले दूषितम् । अथ किंच इन्दुस्तु पश्चात् अन्ते दूषितः । तानि दुग्धादीनि ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकैकशेषः, क्व । कदाऽपि आदिमध्यावसानसमयेषु जात्वपि अदूषितं तव यशः क्व । तेषामस्य च साधर्म्यं न कदाऽपि घटेतेति भावः । पक्षे-- दुग्धभिदुरेन्दुशब्दाः आदिमध्यावसानेषु क्रमेण दुवर्णघटिता इत्यर्थः । दुः उषितो यस्मिन् स इति विग्रहः, आहिताग्न्यादेराकृतिगणत्वान्निष्ठायाः परनिपातः । यशस्तु यशश्शब्दस्तु कदाऽप्यदूषितमेव दुवर्णसंबन्धस्यैव तत्राभावात् । अत्र दुग्धादीनां भगवद्यशसश्चाननुरूपाणां घटनम् । पूर्वोदाहरणेषु वस्तुसद्घटनम् । तत्राप्याद्योदाहरणद्वयं शुद्धं, अन्यानि श्लेषादिसंकीर्णानि । अत्र तु दुग्धादीनां यशसश्च तर्कितं घटनं, ‘त्वं क्व तस्या मुखं क्व’ इतिवत् । श्लेषव्यतिरेकसंकीर्णत्वं च विशेषः ॥

 यथावा--

 द्यूतस्थितिमानादौ मध्यम एवान्ततोऽणिमहितश्च । क्व द्युमणिः क्वाधूर्तोऽच्युताश्रितोऽत्युत्तमो महामहिमा ॥ ११८० ॥

 आदौ पूर्ववयसि द्यूतस्थितिमान् द्यूतनिरतः । अत एव मध्यम एव उत्तमत्वेनापरिगणित एव सन् अन्ततः चरमवयस्यपि अणिमहितः अणिमा हितो यस्य स तथोक्तः केवललाघवप्रसक्तः। द्युमणिः भानुः क्व । पक्षे आदौ द्युना द्यु इति वर्णसमुदयेन ऊता स्यूता या स्थितिः तद्वान् । मध्यः मः मवर्णो यस्य स तथोक्तः । अन्ततः अन्ते णिना णिवर्णेन महितः द्युमणिः द्युमणिशब्दः । आदिमध्यावसानेषूक्तवर्णघटित इत्यर्थः । अधूर्तः अनक्षदेवी अत्युत्तमः महान् महिमा महत्त्वं यस्य स तथोक्तः । अच्युताश्रितः भागवतः क्व । अनयोर्महदन्तरमित्यर्थः । अत्र भानुभागवतयोरननुरूपयोर्घटनम् । श्लेषव्यतिरेकसंकीर्णता घटनस्य तर्कितता च तुल्या ॥

 भगवति हरिणि हिरण्मयि भवती क्व पुरस्सुवर्णवद्भाना । इतरा च सुरी क्व नु वा पश्चार्धे रीतिवर्णमाप्तवती ॥ ११८१ ॥  हिरण्यस्य विकारो हिरण्मयी तस्यास्संबुद्धिः । हे हरिणि सुवर्णप्रतिमे ! प्रचुरहिरण्ये हरितवर्णे इति वस्तुस्थितिः । ‘वर्णादनुदात्तात्तोपधात्तो नः' इति ङीप् । तत्संनियोगेन नः । ततो णत्वं च ‘हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या' इत्यमरः । हरिणीरूपधारिणीति वा । ‘श्रीर्धृत्वा हरिणीरूपमरण्ये विचचार ह’ इति पुराणादिति विद्यारण्यभाष्यम् । अत्र ‘हिरण्यवर्णां हरिणम्, चन्द्रां हिरण्मयीम्' इति श्रुतिस्स्मर्तव्या । हे भगवति! भवती ईदृशी त्वं क्व । पुरः पूर्वकाय एव न तु सर्वस्मिन्विग्रहे सुवर्णवद्भाना सुवर्णवत् हेमतुल्यं न तु हेमत्वेनैव भानं प्रकाशो यस्यास्सा तथोक्ता, पश्चार्धे अपरभागे पृष्ठभागे इत्यर्थः । ‘अपरस्यार्धे पश्चभावो वक्तव्यः’ इत्यपरशब्दस्य पश्चभावः । रीतिवर्णं रीतिः पित्तलापरपर्यायमारकूटं 'रीतिस्स्त्रियामारकूटम्' इत्यमरः । तस्याः वर्णं आप्तवती । न तु पित्तलमयी वा । इतरा अन्या सुरी देवस्त्री सरस्वती पार्वती शच्यादिश्च क्व वा । तव तस्याश्च रूपलावण्यवैभवादौ महदन्तरमिति भावः । वस्तुतस्तु-- सुरी सुरीशब्दः पुरः आदौ सुवर्णमस्यास्तीति सुवर्णवत् भानं प्रकाशो यस्यास्सा प्रथमं सु इत्याकारकाक्षरघटितेति यावत् । पश्चार्धे अपरस्मिन्नर्धे । सुरीशब्दस्य वर्णद्वयात्मकत्वात्प्रथमस्य वर्णस्य पूर्वार्धत्वं द्वितीयस्योत्तरार्धत्वमिति ध्येयम्। रीतिवर्णं री इत्याकारकमक्षरं आप्तवती प्राप्तेत्यर्थः । अत्र भगवत्याश्श्रियः अन्यदेवललनायाश्चाननुरूपयोर्घटनं । अन्यत्सर्वं पूर्ववत् ॥

 यथावा--

 एकोऽपि न मम सुगुणो नाथ प्रत्युत गुणत्रि- तयबद्धः । ईशीय वशयितुं कथमनन्तगुणवशितसकललोकं त्वाम् ॥ ११८२ ॥

 हे नाथ ! मम एकोऽपि सुगुणः बन्धनपूर्वकवशीकरणसाधनभूता द्रढीयसी रज्जुः । ‘रज्जुस्त्रिषु वटीगुणे' इत्यमरः । न नास्ति । सत्यार्जवदयादिरात्मगुणो नास्तीति वस्तुस्थितिः । नैतावदेव प्रत्युत उक्तवैपरीत्येन ‘प्रत्युतेत्युक्तवैपरीत्ये' इति गणव्याख्याने । अहमेव गुणत्रितयेन रज्जुत्रयेण सत्त्वरजस्तमोरूपेण च प्राकृतगुणत्रयेण बद्धः अस्मीति शेषः । अनन्तैः असंख्याकैः गुणैः रज्जुभिः सौशील्यादिभिः कल्याणगुणैश्च वशितलोकं स्वायत्तीकृताखिलभुवनं त्वां वशयितुं कथमीशीय । अत्र कविभगवतोरननुरूपयोर्घटनं क्वशब्दाभ्यां विनैव दर्शितमिति विशेषः । अन्यत्सर्वं प्राग्वदेव ॥

 यथावा--

 सुहृदच्युत दुर्हृद्वा परमपदज्ञैरुदञ्च्यते तुल्यम् । तेषु कथं द्वावपि तौ निपातयन् गण्यतां पदज्ञमुनिः ॥ ११८३ ॥

 हे अच्युत! पद्यते प्राप्यत इति पदं, परमं च तत्पदं च परमपदं परब्रह्मस्वरूपं,

 सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।

इति,

 समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ।

 इत्यादिप्रमाणात् । तत् जानन्तीति तथोक्ताः । तैः परब्रह्मवेदिभिः । पक्षे परमाः श्रेष्ठाः पदज्ञाः वैयाकरणाः तैः । सुहृत् दुर्हृद्वा अनुकूलः प्रतिकूलो वा उदञ्च्यते संसारसागरादुद्ध्रियते । 'तुल्यो मित्रारिपक्षयोः’ इत्युक्तलक्षणानां तेषां मित्रामित्रविभागवैषम्यगन्धोऽपि न संभवतीति भावः । तेषु एवंप्रकारेषु परमपदज्ञेषु तौ सुहृद्दुर्हृदौ द्वावपि निपातयन् भवाब्धौ निमज्जयन्। पक्षे सुहृद्दुर्हृच्छब्दौ निपातयन् ‘सुहृद्दुर्हृदौ मित्रामित्रयोः' इति सूत्रेण निपातयन् । निपातनं नाम लक्षणाभावे शब्दसाधुत्वाय स्वरूपेणोच्चारणम् । पदज्ञः केवलं तत्तत्प्राकृतवस्तुवेदी मुनिः। पक्षे केवलपदज्ञः न तु परमपदज्ञः शब्दशास्त्रदर्शीमुनिः पाणिनिरित्यर्थः । क्व परब्रह्मवेत्तारः क्व चायं केवलशाब्दिको मुनिरिति भावः । अत्र ब्रह्मविदां पाणिनेश्चाननुरूपाणां घटनं क्वशब्दमन्तरेणैव दर्शितं पूर्ववदेव । तुल्ययोगितादिसंकीर्णत्वं विशेषः । अत्र केनापीत्याद्युदाहरणेषु यथासंभवं गम्यमानं घटनाविशेषमादाय लक्षणानुगतिर्बोध्या ॥


द्वितीयविषमम्.

विलक्षणस्य कार्यस्योत्पत्तिं च विषमं विदुः ॥

 कारणरूपविजातीयरूपशालिकार्योत्पत्तिरपि विषममित्यर्थः ॥

 यथा--

 दलितेन्दीवरसुन्दरललिततमा तावकावयवसुषमा । मेधां मयि प्रसूते वैधात्रवधूसुधांशुरुचिविशदाम् ॥ ११८४ ॥

 अत्र 'कारणगुणा हि कार्यगुणानारभन्ते' इति न्यायविरुद्धा श्यामाद्विशदोत्पत्तिर्वर्णिता । अत्रोत्पत्तिलक्षणसंसर्गस्याननुरूपता । अभेदाध्यवसानलक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेतकार्यरूपतया स्थिते निमित्तकार्ये वा विषय्यंशमादाय स्फुरितो विरोधो विषयांशविमर्शोत्तरं विनिवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणयितृत्वं तदुत्तम्भितविरोधाभासस्य च परिपोषकत्वम् । अयमेव चांशोऽत्र कविप्रतिभोन्मेषितत्वादलंकारताबीजम् । तेन ‘गोमयाद्वृश्चिका जायन्ते’ इत्यादौ कार्यकारणयोर्वैरूप्यसंभवेऽपि नालंकारत्वं, तस्य वास्तवत्वेन कविप्रतिभानिर्वर्तितत्वाभावादित्यलंकारदर्शननिष्णातानां पन्थाः । कार्यकारणयोर्निवर्त्यनिवर्तकभावे पञ्चमी विभावना । विलक्षणगुणशालित्वे त्वयं विषमप्रभेद इति कुवलयानन्दे स्थितम् ॥

 यथावा--

 शशिविशदात्क्षीरोदात्कठिनतराद्वा मदम्ब धरणितलात् । कथमाविरभूद्भवती कनकपिशङ्गीशिरीषमृदुलाङ्गी ॥ ११८५ ॥

 अत्र विशदतरात्कठिनतराच्च कारणात्पिशङ्गकोमलरूपविजातीयकार्योत्पत्तिः । इदं वक्ष्यमाणयथासङ्ख्यसंकीर्णम् ॥

 यथावा--

 जाता जगदीश्वर ते चरणाज्जलजारुणाज्झरी हरिणा । स्वक्षीरपूरपातॄन् सूते कृष्णाकृतीनियं चित्रम् ॥ ११८६ ॥  हरिणा पाण्डुरवर्णा ‘हरिणः पाण्डुरः' इत्यमरः । झरी गङ्गा । क्षीरं जलं दुग्धं च । कृष्णाकृतीन् श्यामलाकारान् प्राप्तभगवत्सारूप्यानिति तु वस्तुस्थितिः । अत्रापि कारणगुणप्रक्रमविरुद्धादरुणाद्धवळोत्पत्तिः धवळाच्छ्यामलोत्पत्तिश्च वर्णिता । इदं मालारूपवक्ष्यमाणैकावळीपरिष्कृतं श्लेषोत्तम्भितं चेतिविशेषः ॥

 केचित्तु- कारणक्रियातो विरुद्धक्रियस्य कार्यस्योत्पत्तावपि विषमप्रभेदं मन्वानाः

गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
क्रमेण च विरुद्धे यत्स एष विषमो मतः ॥

इति लक्षयित्वा

 त्वामामोदयसे लोकांस्त्वत्तेजस्तापयत्यरीन् ।
इति द्वितीयप्रभेदमुदाहार्षुः । तन्मते इदमुदाहरणम्, यथा--

 अमृतं प्रसवितुरब्धेरमृतांशुमपि त्वमम्ब जनिताऽसि । परमाद्भुतमेतन्नः प्रासूथाः कर्दमं कथं त्वमिति ॥ ११८७ ॥

 हे अम्ब! अमृतं अमृतांशुमपि प्रसूतवतोऽब्धेः त्वं जनिता असि । त्वं ईदृशीति भावः । कर्दमं पङ्कं कथं प्रासूथा इति विरोधः, कर्दमाख्यं पुत्रमिति परिहारः । ‘कर्दमेन प्रजा भूताः' इति श्रुतेः । अत्रामृतामृतांशुजननक्रियावतो जलधेः कारणात् कर्दमजननक्रियाशालिलक्ष्मीिरूपकार्योत्पत्तिर्वर्णिता । श्लेषोपस्कृतमिदम् ॥

 यथावा--

 नरकनिराकरणचणप्रगुणश्रीरमणचरणजा ध- रणिः । नरकं वक्रं च सुतं प्रासोष्ट न कस्य विस्मयायेदम् ॥ ११८८ ॥

 नरकस्य निरयस्य निराकरणेन वित्तौ निराकरणचणौ 'तेन वित्तश्चुञ्चुप्चणपौ' इति चणप्प्रत्ययः । प्रगुणौ अवक्रौ प्रकृष्टमार्दवादिगुणशालिनौ च 'ऋजावर्जिहप्रगुणौ' इत्यमरः । यौ श्रीरमणचरणौ ताभ्यां जाता ‘पद्भ्यां भूमिः’ इति श्रुतेः । धरणिः नरकं निरयं वक्रं कुटिलं च सुतं प्रासोष्टेति विरोधः । नरकाख्यं दानवं अङ्गारकं च प्रासोष्टेति वस्तुस्थितिः । ‘नरकः पुंसि निरयदेवारातिप्रभेदयोः, वक्रो भौमेऽनृजौ त्रिषु' इति मेदिनीरत्नमाले । अत्र नरकनिराकरणक्रियावतः आर्जवगुणशालिनश्च भगवच्चरणात्कारणाज्जताया धरण्या नरकरूपसुतजननक्रियावैशिष्ट्यं वक्रत्वरूपगुणविशिष्टसुतप्रसूतिश्च वर्णिते इति पूर्वस्माद्विच्छित्तिविशेषः ॥

 समाधानगर्भमपीदं विषमं दृश्यत इति विश्वेश्वरादयः । तत्रोदाहरणं यथा--

 स्वाहारसमं सूते सुतं प्रसूरिति वचो हरे न मृषा । शिशिराऽपि त्वद्दृष्टिर्यदसौद्भवतापकबळनात्तपनम् ॥ ११८९ ॥

 हे हरे! प्रसूः माता स्वाहारसमं स्वाभ्यवहृतवस्त्वनुरूपगुणं सुतं सूते इति वचः न मृषा सत्यमेव । यत् यस्मात् कारणात् त्वद्दृष्टिः दृक् स्वयं शिशिराऽपि भवस्य संसृतिसंम्बन्धिनां तापानां संतापानां आध्यात्मिकादीनामिति तु तत्त्वं, कबळनात् ग्रसनात् अपनयनादिति तु तत्त्वम् । तपनं तापशालिनं आहारानुरूपमिति भावः । असौत् प्रासूत ‘षु प्रसवैश्वर्ययोः' इति धातोर्लङ् । यद्यपि ‘प्रसवोऽभ्यनुज्ञानम्’ इत्युक्तं, तथाऽपि ‘मातः कद्रु यदि प्रसौति भवती भूयस्सुतानीदृशान्’ इति मुरार्यादिप्रयोगदर्शनात् गर्भविमोचनार्थकताऽप्यस्य प्रसिध्यतीत्यविरोधः ॥

 यथावा--

 तव नयनं ननु भास्वानुदारबृन्दारकं सुतं सूताम् । कथमेष कपिमसावीदा विदितं कपिरिति श्रुतो ह्येषः ॥ ११९० ॥

 ननु भगवन् ! तव नयनं नेत्रभूतः भास्वान् भानुः । अनेन तेजस्वित्वमुक्तम् । उदारश्चासौ बृन्दारकश्च महारूपवन्तं उत्तमं देवं वा । पक्षे वदान्यमुख्यं कर्णमित्यर्थः 'उदारो दातृमहतोः, बृन्दारकौ रूपिमुख्यौ’ इति चामरः । सुतं सूतां जनयतु । महातेजस्विनो भानोस्तादृशसुतप्रसूतिरनुरूपैवेति भावः । एषः ईदृश एव भास्वान् कपिं तिर्यञ्चं जातिवृत्तरूपादिभिरतिनिहीनमिति भावः । सुग्रीवमिति वस्तुस्थितिः । कथं असावीत् प्रासूत । सौतेर्लुङ् । अतिमात्रविसदृशप्रसूतिर्विरुद्धेति प्रश्नः । समाधत्ते-- आ इति । आ इति स्मरणार्थकमव्ययं, 'आ प्रगृह्यः स्मृतौ' इत्यमरः । विदितं इदानीं स्मृतमित्यर्थः । हि यस्मात् एषः भास्वानेव कपिरिति श्रुतः श्रुतिप्रतिपादितः । तस्मात्कपिमसावीदिति कार्यकारणसारूप्यपरिचिन्तनेन समाधानं ‘कपिर्बभस्ति तेजनम्, इति श्रुतिर्भानुं कपिशब्दवाच्यं ब्रूते । कं जलं पिबतीति कपिरितिव्युत्पत्तेः । अत एव ‘कप्यासम्’ इति पदविवरणावसरे 'कपिस्त्वादित्यः कं पिबति किरणैः’ इति वरदगुरवः । ‘कपयोऽर्केभवानराः’ इति रत्नमाला । अत्रोभयत्रापि समाधानगर्भं विषमम् । प्रथमे गुणविरोधस्य प्रयोजकान्तराधीनं समाधानं, द्वितीये क्रियाविरोधस्य कारणे कार्यधर्मकल्पमाधीनं समाधानमिति विशेषः ॥


तृतीयविषमम्.

इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम् ॥

 अनिष्टावाप्तिरित्यत्र न इष्टावाप्तिरितीष्टावाप्तिशब्देन नञ्समासः । इष्टानवाप्तिरित्यर्थः । अन्यश्च न इष्टमनिष्टमितीष्टशब्देन नञ्समासः । अनिष्टस्यानर्थस्यावाप्तिरित्यर्थः । उक्तमर्थद्वयमप्यावृत्तिलभ्यम् । ततश्चाभीष्टार्थमुद्दिश्य किंचित्कार्यमारब्धवत इष्टानवाप्त्यनिष्टावाप्ती मिळिते एको भेदः, केवलेष्टानवाप्तिः केवलानिष्टावाप्तिश्चेति प्रत्येकं भेदद्वयमिति त्रयो भेदास्संगृहीता भवन्ति । इष्टार्थश्च-- स्वस्य किंचित्सुखसाधनार्थावाप्तिः दुःखसाधनानर्थनिवृत्तिश्च, परस्य दुःखसाधनानर्थप्रापणं सुखसाधनार्थनिवृत्तिश्चेति चतुर्विधः । तेन इष्टानवाप्तिघटिते भेदद्वितयेऽपि चातुर्विध्यम् । अनिष्टश्च--स्वस्य दुःखसाधनानर्थप्राप्तिः, परस्य सुखसाधनार्थप्राप्तिः, दुःखसाधनानर्थनाशश्चेति त्रिविधः। स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते । तेनानिष्टावाप्तिघटिते भेदद्वितयेऽपि त्रैविध्यम् ॥

 उदाहरणानि–- तत्र स्वसुखसाधनार्थावाप्तिरूपेष्टार्थोद्योगादिष्टानवाप्तौ दुःखसाधनरूपानिष्टप्रतिलम्भे च यथा- रामं सलक्ष्मणं प्राक्प्राप्ता रक्षस्स्वसा वृषस्यन्ती । तन्मध्ये व्यग्राऽभूद्विग्रा नव्यं मुखे विकारमिता ॥ ११९१ ॥

 रक्षस्स्वसा शूर्पणखा वृषस्यंती कामुकी सती ‘अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि’ अश्ववृषयोर्मैथुनेच्छायाम्' इति वृषशब्दात्क्यच्यसुक् । ‘वृषस्यन्ती तु कामुकी’ इत्यमरः । सलक्ष्मणं रामं प्राप्ता । तयोः रामलक्ष्मणयोर्मध्ये व्यग्रा तत्परिहासवचनैराकुला । ततस्साहसप्रवृत्त्या विग्रा विगता नासिका यस्यास्सेति बहुव्रीहौ 'वेर्ग्रो वक्तव्यः' इति विशब्दोत्तरस्य नासिकाशब्दस्य ग्रादेशः । ‘विग्रो विगतनासिकः' इत्यमरः । लक्ष्मणेन च्छिन्ननासिकेति भावः । अत एव मुखे वदने नव्यं अपूर्वं विकारं विकृतिं इता प्राप्ता अभूत् । इणः कर्तरि क्तः । अत्र व्यग्रेतिशब्दः मुखे आदौ नव्यं नविद्यमानो व्य इति वर्णसमुदयो यस्मिन् कर्मणि तद्यथास्यात्तथा । नशब्देन समासः । विकारं तत्रैव वि इत्याकारकं वर्णं इता सती विग्राऽभूदिति योजना । विग्रेति निष्पन्नेत्यर्थश्चमत्कारी । अत्र सलक्ष्मणं राममुपभोगसुखसाधनरूपस्वेष्टसिद्ध्यर्थमुपसर्पन्त्याश्शूर्पणखाया न केवलं तदलाभः अपितु नासिकाच्छेदरूपदुःखसाधनानर्थावाप्तिश्च निबद्धेति लक्षणंसगतिः । अत्रेष्टसाधनतया निश्चितात्कारणादनिष्टकार्यावाप्त्या उत्पत्तिलक्षणसंसर्गस्यानानुरूप्यम् । एवमुत्तरत्रापि ॥

 यथावा--

 त्वद्वज्रकण्ठिकाश्रियमीप्सुस्सौदामनी मुखेऽ- भिहता । भूत्वाऽसौ रमणीमणि कमले पशुकण्ठबन्धयोग्याऽऽसीत् ॥ ११९२ ॥

 हे रमणीमणि कमले! असौ तेजस्वितया प्रत्यक्षदृश्या सौदामनी विद्युत् सुदाम्ना अद्रिणा एकदिगिति विग्रहे ‘तेनैकदिक्’ इति प्राग्दीव्यतीये अणि ‘अन्’ इति नकारस्य प्रकृतिभावे ‘टिड्ढाण्' इति ङीप् । त्वद्वज्रकण्ठिकायाः श्रियं तद्वद्देदीप्यमानतयाऽजस्रं त्वत्कण्ठावस्थानसौभाग्यमिति भावः । ईप्सुः आप्तुमिच्छुस्सती अत एव मुखे वदने अभिहता प्रहृता भूत्वेति लोकोक्तिः । स्वस्वरूपदुर्लभोत्कर्षलिप्सुतया तया त्वद्वज्रकण्ठिकया मुखोपरिकृतप्रहारेति भावः । पक्षे सौदामनीशब्दव्यक्तिः मुखे प्रथमभागे अभिहता । असौरमणीत्यत्र असौः रमणीतिच्छेदः । ‘रो रि' इति रेफलोपः । अत एव असौः अविद्यमानः सौ इत्याकारकवर्णो यस्यास्सा तथोक्ता भूत्वा । सौकारापनयने दामनीति निष्पन्नेति भावः । नौरितिवदयं शब्दः । पशुकण्ठबन्धनयोग्याऽऽसीत् ‘पशुरज्जुस्तु दामनी’ इत्यमरः। दामैव दामनी । स्वार्थिके अणि प्रकृतिभावङीपौ प्राग्वत् । अत्र सौदामन्याः लक्ष्मीकण्ठाभरणश्रीलाभरूपेष्टसाधनार्थमुद्युञ्जानाया न तदलाभमात्रं किंत्वतिनिहीनपशुकण्ठबन्धनार्हरज्जुतावाप्तिलक्षणोत्कटानिष्टलाभो वर्णितः ॥

 यथावा--

 इष्टार्थलाभलोभादुपसर्पन्त्या व्रजेन्दुवदनायाः । सद्यस्तनलाभेप्सुर्नीवीमपि शौरिरकृत बत शिथिलाम् ॥ ११९३ ॥  शौरिः इष्टः अर्थस्य धनस्य लाभः अधिकफलं 'लाभोऽधिकं फलम्' इत्यमरः । तस्मिन् लोभात् । पक्षे अभीप्सितोपभोगरूपप्रयोजनलाभलोभादित्यर्थः । उपसर्पन्त्याः समीपमायान्त्याः व्रजेन्दुवदनायाः नीवीमपि परिपणमपि; पक्षे कटिवसनबन्धमपि ‘स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपिच' इत्यमरः । परिपणं मूलधनं 'नीवी परिपणं मूलधनम्' इत्यनुशासनात् । शिथिलां नश्वरीं । पक्षे विस्रस्तां । अकृत । बतेति खेदे । तत्र हेतुः सद्यस्तनलाभेप्सुरिति । तादात्विकस्वलाभेप्सुरेवायं न त्वन्ययोगक्षेमचिन्तक इति भावः । तत्क्षणवक्षोजपरिरम्भेच्छुरिति वास्तवार्थः । अत्राधिकधनलाभार्थिन्या व्रजविलासिन्या मा भूत्तदवाप्तिः किंतु स्वलाभमात्रेप्सुना शौरिणा तन्मूलधनमपि शिथिलितमित्यनिष्टप्रतिलम्भश्च वर्णितः । उपपादितार्थद्वयश्लेषभित्तिकाभेदाध्यवसायजीवातुकोऽयं विषमोपन्यास इति ध्येयम् ॥

 यथावा--

 अहमपि विधुरिति मधुरिपुसधर्मतायै निबद्धविस्पर्धः । विधुतोऽमुनाऽन्ततोऽभूत् ग्लौरलसत्तामवाप्य गौरेव ॥ ११९४ ॥

 पूर्वार्धं स्पष्टार्थम् । ग्लौः मृगाङ्कः अमुना मधुरिपुणा विधुतः तिरस्कृतः अत एव अलसत्तां लसतो भावः लसत्ता न लसत्ता अलसत्ता तां अप्रकाशमानतां । यद्वा अलसः मन्दः स इवाचरतीत्यलसन् तस्य भावः अलसत्ता तां आलस्यमित्यर्थः । अवाप्य मन्दो भूत्वेत्यर्थः । अन्ततः पर्यवसाने गौः पशुरेव अभूत् । न तु भगवत्सधर्मेति भावः । पक्षे ग्लौशब्दः अन्ततः मध्ये 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । गकारौकारयोरन्तराळे इति भावः । विधुतः उत्सारितवर्ण इति यावत् । अत एव अलसत्तां लस्य लवर्णस्य सत्ता स्थितिः न लसत्ता अलसत्ता लवर्णस्थित्यभावं प्राप्य गौरेव गौरिति शब्द एवाभूत् । उक्तरीत्या लकारोत्सारणे तथा निष्पत्तेरिति भावः । अत्रापीष्टानवाप्त्यनिष्टप्राप्ती पूर्ववत् ॥

 यथावा--

 लतिकास्त्वत्तनुतुलनाकुतुकादभ्येत्य जननि तद्विधुताः । मुखवर्णविपर्यासात्तिलका भूत्वा वनान्तभुवमगमन् ॥ ११९५ ॥

 हे जननि! अल्पाः लताः लतिकाः, अल्पार्थे विहितेन कना लतानामतिसौकुमार्यं व्यञ्जितम् । त्वत्तनुलतातुलनाकुतुकात् अभ्येत्य अभिमुखमागत्य तद्विधुताः त्वत्तन्वा न्यक्कृताः अत एव मुखवर्णस्य वदनशोभायाः विपर्यासात् पराभवलक्षणवैवर्ण्यादित्यर्थः । पक्षे मुखवर्णयोः आदिमाक्षरयोः ल ति इत्येतयोः वैपरीत्यात् प्रातिलोम्यात् तिलकाः वृक्षविशेषाः भूत्वा ‘तिलकः क्षुरकः' इत्यमरः । अनेन लतावस्थावस्थितसौकुमार्यस्यापि हानिर्द्योत्यते । पक्षे उक्तरीत्या लतिकाशब्दस्तिलका इति निष्पन्न इत्यभिप्रायः । वनान्तभुवं अगमन् कस्यापि वदनं दर्शयितुमनीशानाः क्वापि गहनान्तरे न्यलीयन्तेति भावः । सर्वं पूर्ववत् ॥

 यथावा--

 हरिनन्दकधुततेजास्स्वरुर्विधून्वन् शिरस्स्व- मथ रोषात् । अभवत्संमुख एत्य स्थितोऽपि पुनरप्यधः कृतस्तेन ॥ ११९६ ॥

 स्वरुः दम्भोळिः हरिनन्दकजिगीषुरिति भावः । हरेः भगवतः नन्दकेन तन्नाम्ना खड्गेन धुततेजाः अत एव स्वं शिरो विधून्वन्निति क्रोधानुभावोक्तिः । अथ तत्क्षणमेव रोषात् संमुखे अग्रभागे एत्य स्थितोऽपि द्वंद्वयुद्धार्थमिति भावः । तेन नन्दकेन पुनरपि अधःकृतः न्यक्कृतः अभवत् । सर्वथाऽपि नाजौषीत् किंतु पराभूत पवासीदिति भावः । पक्षे स्वरुः स्वरुशब्दः शिरः अग्रभागावस्थितमिति यावत् । स्वं स्वेत्याकारकं वर्णसमुदयं विधून्वन् । त्यजन् सन् अभवत्संमुख इत्यत्र अभवत् त्संमुखे इति च्छेदः। अभवत् संमुखे' इतिच्छेदपक्षे तकारस्य 'अनचि च' इति द्वित्वम् । मुखे अग्रभागे त्सं त्सेत्याकारकवर्णसमुदयं एत्य स्थितोऽपि त्सरुर्भूत्वा स्थितोपि स्वरुशब्दे मुखगतस्ववर्णलोपे तत्रैव त्सवर्णन्यसने त्सरुरिति निष्पत्तेरिति भावः । तेन नन्दकेन अधःकृतः मुष्टेः खङ्गाधोभागावस्थानादिति भावः । ‘त्सरुः खङ्गादिमुष्टौ स्यात्' इत्यमरः । अत्र स्वरोर्नन्दकजयरूपेष्टालाभः अधःकृतत्वरूपोत्कटानिष्टप्रतिलम्भश्च श्लेषेण निबद्धः । शब्दार्थयोस्तादात्म्यवैभवमीदृशस्थलेषु न विस्मर्तव्यम् ॥

 यथावा--

 लक्ष्म्या कुचकोकतुलाप्रेप्सुस्स्तबको बको बभूवास्तः । इष्टानवाप्त्यनिष्टप्राप्ती खलु सूनभागिनो नियते ॥ ११९७ ॥

 लक्ष्म्या श्रिया कुचकोकस्य स्वकुचचक्रवाकस्य तुलां प्रे ‘प्सुः स्तबकः प्रशस्तकुसुमगुच्छः अस्तः निरस्तस्सन् 'नुत्तनुन्नास्तनिष्ठ्यूतविद्धक्षिप्तेरितास्समाः' इत्यमरः । बकः बभूव कोकसाम्यप्रेप्सया यतमानो निरस्तः कह्वाख्यो निहीनः खगोऽभूत् न तूत्तमश्रीकुचकोकसदृश इति भावः । किंच बकः शिवमल्ली बभूव लक्ष्म्या निरस्तः पाशुपताख्यपुष्पतरूविशेषो बभूवेत्यप्यर्थो गम्यते । 'शिवमल्ली पाशुपत एकाष्ठीलो बको वसुः । इत्यमरः । ‘बकस्तु बकपुष्पे स्यात्कह्वे श्रीदे च रक्षसि' इति मेदिनी च । लक्ष्मीनिरस्तस्य पाशुपतमतप्रवेशो युक्त एवेति भावः । पक्षे स्तबकः स्तबकशब्दः अस्तः अविद्यमानस्तवर्णः बको बभूव । भागो भागधेयं ‘भागो रूपार्थके प्रोक्तो भागधेयैकदेशयोः' इति विश्वः ‘भागिनं भजते सुखम्' इति प्रयोगश्च । सूनः सुष्ठुः ऊनः भागः सोऽस्यास्तीति सूनभागी तस्य अतिमात्रनिहीनभाग्यस्येत्यर्थः । पक्षे भजतीति भागी संपृचानुरुध’ इत्यादिना भजतेर्घिनुण् ‘चजोः कु घिण्यतोः’ इति कुत्वम् । सूनानां कुसुमानां भागी तस्य पुष्पभाज इत्यर्थः । सुगममन्यत् । अत्रापीष्टानवाप्त्यनिष्टप्रतिलम्भौ पूर्ववदेव । अर्थान्तरन्यासशिरस्कश्लेषसंकीर्णता तु विशेषः ॥

 यथावा--

 तव वर्णमुपजिहीर्षुर्माधव मध्ये स्ववर्णविभ्रष्टः । बकवृत्तिमेव लब्ध्वा बलाहको नाञ्च्यते स्म वाचाऽपि ॥ ११९८ ॥

 हे माधव ! बलाहकः वारिवाहकः बलाहकशब्दश्च तव वर्णं अपजिहीर्षुः अत एव मध्ये अन्तरैव स्ववर्णात् विभ्रष्टः । पक्षे मध्ये स्ववर्णाभ्यां ला ह इत्येताभ्यां विभ्रष्टः । लाहौ इत्येतौ वर्णौ विभ्रष्टौ यस्येति वा । बकवृत्तिमेव-

अधोदृष्टिर्नैकृतिकस्स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश्च स बकव्रतिको द्विजः ॥

 इत्युक्तप्रकारां बकवृत्तिमेव यद्वा स्वाभीप्सितालाभाद्बकवत्तूष्णीं स्थितिमित्यर्थः । कह्वाख्यखगत्वमेव वा । पक्षे ब क इति वर्णयोः स्थितिमेव लब्ध्वा बलाहकशब्दो लाहवर्णयोरपाये बकवर्णयोरेव स्थितिं भजत इति भावः । वाचाऽपि नाञ्च्यते स्म 'हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्' इत्युक्तरीत्या वाङ्मात्रेणाप्यर्चितो नासीदित्यर्थः । यद्वा बकस्य तिर्यक्त्वान्मनुष्यार्हवागवाप्तिर्नासीदेवेति भावः । अत्र बलाहकस्य न भगवद्वर्णापहाररूपेष्टानवाप्तिमात्रं अपितु स्ववर्णभ्रंशाद्युत्तरोत्तरोत्कटानिष्टोपलम्भश्च वर्णितः ॥

 यथावा--

 श्रीस्तनसाम्यं प्रेप्सुः कुलाचलो निश्चितः कुलालोऽभूत् । तत्सदृशा इति कलशानपि विदधानः किमीप्सितं लब्धा ॥ ११९९ ॥

 कुलाचलः निश्चितस्सन् कर्तरिक्तः कुलालः कुम्भकारः अभूत् । पक्षे कुलाचलशब्दः निर्गतः चकारो यस्य सः निश्चः निश्चः कृतो निश्चितः कुलालः अभूत् । अत्रापि श्रीस्तनसाम्यरूपेष्टानवाप्तिपूर्वकं कुलाचलस्य कुलालत्वरूपानिष्टप्रतिलम्भः ॥

 यथावा--

 कलभस्तव गतिविभवं सुलभं मत्वा त्वया प्रतिस्पर्धी । अलभत कशाभिघाताच्छलभत्वं हन्त वृषभशिखरिविभो ॥ १२०० ॥  कशायाः 'अश्वादेस्ताडनी कशा' इत्यमरः, आभिघातात् । पक्षे शेन शवर्णेन अभिघातः विलोपनं 'साधनं कृता' इति समासः । कस्य कवर्णस्य शाभिघातः तस्मात् ककारमपनीय शकारन्यसनादिति यावत् । कलभः शलभत्वं पतङ्गत्वं कलभशब्दश्शलभशब्दत्वं च ॥

 यथावा--

 फणिगिरिनायकभामिनि तावकतनुसौकुमार्यहरणेच्छम् । कश्याहतेश्शिरीषं करीषभूतं जगज्जननि जातम् ॥ १२०१ ॥

 हरणे इच्छा यस्य तत् हरणेच्छं, शिरीषस्य विकारः पुष्पं शिरीषं 'द्विहीनं प्रसवे सर्वं' इति क्लीबता । कशामर्हतीति कश्या अर्हार्थे 'दण्डादिभ्यो यः' इति यः । कशाप्रहारानुगुणतैक्ष्ण्येति यावत् । तादृश्या आहतेः 'कश्यः कशार्ह' इत्यमरः । पक्षे ककारेण शिवर्णस्याहतेः शिवर्णस्थाने ककारनिवेशादिति यावत् । करीषभूतं शुष्कगोमयवदतिपरुषभूतम्, पक्षे करीषमितिपदं जातं 'तद्धि शुष्कं करीषोऽस्त्री’ इत्यमरः । अत्र शिरीषस्य श्रीतनुसौकुमार्यलाभरूपेष्टप्रप्तिर्मा भूत्, प्रत्युत नैसर्गिकस्वसौकुमार्यप्रतीपकार्कश्यरूपानिष्टलाभश्च जात इति ध्येयम् ॥

 यथावा--

 तपनस्य शरीरं त्वत्तपनीयविमानदीप्तिमादित्सु । अशकतयाऽऽदित एव हि करीरमासीत्सरीसृपगिरीन्दो ॥ १२०२ ॥  हे सरीसृपगिरीन्दो ! तपनस्य भानोः शरीरं वपुः शरीरपदं च । त्वत्तपनीयविमानदीप्तिं आदित्सु आदातुमिच्छामात्रं कृतवत् सत् आदितः प्रथमत एव अशकतया अशक्ततया । शक्नोतीति शकं पचाद्यच् । ततो नञ्समासः ततस्तल् । पक्षे- अशः अविद्यमानशवर्णः कः ककारो यस्मिंस्तत् तस्य भावः तत्ता तया । शकारलोपेन तत्रैव ककारप्राप्त्येत्यर्थः । करीरं वंशाङ्कुरः आसीत् तद्वन्नीलमासीत् । निस्सेजस्कमभूदिति भावः । पक्षे करीरमिति निष्पन्नमभूदित्यर्थः । 'वंशाङ्कुरे करीरोऽस्त्री' इत्यमरः । अत्र भानोश्शरीरस्य श्रीनिवासकनकविमानदीप्त्युपादित्सारूपेष्टालाभः करीरत्वरूपानिष्टोपलम्भश्च ॥

 यथावा--

 चक्रस्त्वत्कुचताप्त्यै कमपि भजन्नन्तराप्यवैलोम्यम् । क्रकचस्सन्परमुद्भवमेत्याग्रे भवति वक्रकच एव ॥ १२०३ ॥

 हे श्रीरित्यध्याहृत्य संबोधनम् । चक्रः कोकः त्वत्कुचताप्त्यै तावकस्तनजन्मलब्धये अन्तः मनसि कंचिद्देवं स्वप्रीतिदं भानुं वा । 'मारुते वेधसि ब्रध्ने पुंसि कः' इत्यमरः । भजन्नपीति योजना उपासीनोऽपीत्यर्थः । वैलोम्यं विलोमत्वं 'वृत्तौ चालोमशौ स्तनौ' इत्युक्तसुलक्षणस्तनत्वार्हमरोमशत्वं आप्य अपीत्येतदत्राप्यनुषज्यते । तावन्मात्रं प्राप्यापि क्रकचस्सन् करपत्रं भूत्वा अरोमशत्वेन करपत्रजन्म लब्धवानितिभावः । अग्रे अनन्तरं अन्यं उद्भवं जन्म 'जनिरुत्पत्तिरुद्भवः' इत्यमरः एत्य अलोमशतया क्रकचजन्मलब्ध्वाऽपि स्वेष्टार्थसिद्धेर्जन्मान्तरं प्राप्यापीत्यर्थः । वक्रकच एव वक्रकेश एव भवति न तु स्तनजन्म लब्धवानिति भावः । वक्रश्चासौ कचश्चेति विग्रहः । पक्षे चक्रशब्दः वैलोम्यं प्रतिलोमवर्णत्वं आप्य अन्तः मध्ये कमपि कवर्णमपि भजन् क्रकच इति निष्पन्नः । अथ अग्रे क्रवर्णादप्यादौ परं अतिशयितं यथा स्यात्तथा । उद्भवं उद्गता भा यस्य तं तथोक्तं उद्भूततया भासमानमित्यर्थः । वं वकारं एत्य वक्रकच इति निष्पद्यत इत्यर्थः ॥

 यथावा--

 विकलङ्कः कोऽपि खगस्तव वाहत्वेप्सुरविरभूदग्रे । अनुकलमथ विकृतिवशात् खगेन्द्रवाहन बभूव कलविङ्कः ॥ १२०४ ॥

 हे खगेन्द्रवाहन! भगवन्! इदं प्रकृतविवक्षितार्थोपस्कारकम् । विकलङ्कः हेतुगर्भमिदं, विकलङ्कत्वाद्धेतोः कोऽपि खगः कशब्दवाच्यो भानुरपि । यद्वा कः खगो विकलङ्कोऽपीति योजना । ईदृशस्यापि विवक्षितेष्टासिद्धिराश्चर्येति भावः । ‘मारुते वेधसि व्रध्ने पुंसि कः, इत्यमरः । कोऽपि खगः यःकश्चिदज्ञातनामा पक्षीत्यर्थोऽप्युपस्कार्यः । ‘शरार्कविहगाः खगाः' इत्यमरः । तव वाहत्वं वाहनत्वं खगेन्द्रत्वमिति भावः । ईप्सुः आप्तुमिच्छुः, इच्छा स्वायत्ता न तु फलप्राप्तिरिति भावः । अग्रे आदौ अविः मेषः मूषको वा अभूत् । वस्तुतस्तु अविः अविशब्दवाच्यः तेजोरूपो वा तव भवनं वा अभूत् । तन्मण्डलान्तस्स्थितत्वात्तवेति भावः । 'अविर्ना पर्वते सूर्ये मेषे मूषककम्बळे । प्राकारे भवने भासि स्त्री तु पुष्पवतीभुवोः' इति रत्नमाला । 'मूषककम्बळे' इत्यत्र आखौ कम्बळे चेत्यर्थः इति ‘अवयश्शैलमेषार्काः' इत्यमरश्लोकव्याख्यानावसरे दशटीकासर्वस्वकारादयः । पक्षे अग्रे आदौ अविः विकारशून्यः त्यक्तविवर्ण इत्यर्थः । अभूत् । अथ अनन्तरं अनुकलं प्रतिक्षणं विकृतिवशात् उत्तरोत्तरविलक्षणविकारावाप्तिवशात् । पक्षे कलौ ककारलकारौ तयोः पश्चात् अनुकलं ‘अव्ययं विभक्ति' इत्यादिना पश्चादर्थेऽव्ययीभावः । विकृतिवशात् वेः वि इत्यकारकवर्णस्य कृतिः करणं न्यसनमिति यावत् । तद्वशात् कलविङ्कः खगः चटकाख्यः पक्षी अभूत् । विकलङ्कशब्द उक्तरीत्या प्राथमिकवर्णोत्सारणेन ककारलकारानन्तरं विवर्णन्यसनेन च कलविङ्क इति निष्पन्न इति । निर्गळितोऽर्थः । अत्र विकलङ्कखगस्य न परमभीष्टभगवद्वाहनतानवाप्तिः अपितु मूषकत्वाद्युत्कटानिष्टप्रतिलम्भश्च शब्दार्थतादात्म्यनिबन्धनश्लेषभित्तिकाभेदाध्यवसायजीवातुक इति विभावनीयम् ॥

 यथावा--

 तव रुचिलिप्सु परास्तं ध्वस्तसुवर्णं कुसुम्भमम्ब ततः । क्लैब्यं विहाय पुंस्त्व भजतु तथाऽपि स्तनेन जीयेत ॥ १२०५ ॥

 हे अम्ब! कुसुम्भं महारजनं कनकं वा । पक्षे कुसुम्भमिति पदं ‘कुसुम्भं हेमनि महारजने ना कमण्डलौ’ इति मेदिनी । महारजनं कुङ्कुमकुसुममित्याहुः । तव रुचिं त्विषं लिप्सु अत एव परास्तं त्वद्रुचा निरस्तं अत एव ध्वस्तः सुवर्णः शोभनस्वकीयवर्णः सु इत्याकारकवर्णश्च यस्य तत्तथोक्तं सत् । ततः ईदृशावस्थावाप्त्यनन्तरं क्लैब्यं अधृष्टतां नपुंसकलिङ्गतां च विहाय पुंस्त्वं पौरुषं भजतु कलशः करिकुम्भो वा जायताम् । पक्षे पुल्लिङ्गत्वं भजतु । सु इति वर्णोत्सारणेन कुम्भ इति पुल्लिङ्गो निष्पद्यतामिति भावः । कुम्भशब्दो हि 'कुम्भौ घटेभमूर्धानौ' इति पुंस्त्वेनानुशिष्टः । तथाऽपि तवेत्येतदनुषज्यते । तव स्तनेन स्वतस्सिद्धपुंस्त्वेनेति भावः । एकवचनस्य एकेनैव सुकरे जये न द्वाभ्यामपि सन्नद्धव्यमित्यभिप्रायः । जीयेत अभिभूयेत । जयतेरत्राभिभवार्थकत्वात्सकर्मकता । तदुक्तं हरिणा--

जयिर्जयाभिभवयोराद्यर्थेऽसावकर्मकः ।
उत्कर्षप्राप्तिराद्यार्थो द्वितीयेऽर्थे सकर्मकः ॥

इति । अत्र कुसुम्भस्य न स्वेप्सितालाभमात्रं अपितु रूपान्तरग्रहणेऽप्यवर्जनीयोऽनिष्टप्रतिलम्भश्च निबद्धः ॥

 यथावा--

 इष्टत्वद्वदनतुलाऽनाप्त्याऽऽद्यन्तक्षरः क्षपाकर एषः । क्षेत्रं परमपि विन्दन् क्षपाकरः पाकरसहितोऽम्ब प्राणीत् ॥ १२०६ ॥

 हे अम्ब! एषः क्षपाकरः चन्द्रमाः क्षपाकरशब्दश्च । इष्टास्वाभिलषिता या त्वद्वदनतुला तस्याः अनाप्त्या आद्यन्तावभिव्याप्य आद्यन्तं आपादमस्तकं आजन्मनिधनं वा क्षरः क्षीणस्सन् आद्यन्तयोः शुक्लप्रतिपदमावास्ययोः क्षरः क्षीण इति च । पक्षे आद्यन्तौ क्षरौ क्षकाररेफौ यस्य स तथोक्तः परं अन्यत् क्षेत्रं शरीरं उत्तमं सिद्धस्थानं वा ‘क्षेत्रं शरीरे केदारे सिद्धस्थानकळत्रयोः' इति मेदिनी । कमपि भगवदभिव्यक्तिक्षेत्रमित्यर्थः । विन्दन्नपि । पक्षे क्षे त्रं इति भिन्नं पदं क्षे परं त्रमिति योजना । क्षे परं क्षकारमात्रे त्रं विन्दन् क्षकारस्थाने त्रेतिवर्णसमुदायं प्राप्नुवन्नित्यर्थः । त्रपाकरः लज्जाश्रित एव पाकरसेन हितः भोक्तृभ्यस्स्सौहित्यरूपहितकारी माहनसिकस्सन्निति भावः । प्राणीत् अजीवत् । पक्षे त्रपाकर इति निष्पन्नः पाकर इति वर्ण सहितः क्षकारमात्रे वर्णांन्तरं प्राप्तोऽपि पाकर इति वर्णानुपूर्व्यामविकृत एव सत्तामलभतेत्यर्थः । अत्रापि पूर्ववदेव इष्ठानवाप्त्यनिष्टप्राप्ती ॥

 यथावा--

 सुरमान्विताऽपि हरिमुखभवस्मितात्प्रेप्सुरुत्तमं वर्णम् । लोपितभूयोवर्णाऽसुरमा भिल्ल्येव सुरभिमल्ल्यासीत् ॥ १२०७ ॥

 सुरभिमल्ली वसन्तसंबन्धिमल्लिकाकुसुमम् । सुरभिसंबन्धित्वकथनान्मल्लिकाया वर्णसौरभाद्यतिशयः प्रत्याय्यते । सुरभिः मनोज्ञा मल्ली मल्लानाम खुरळीखेलनपरा जातिविशेषाः, तज्जातिस्त्रीत्यप्यर्थोऽनुसन्धेयः । पक्षे सुरभिमल्लीशब्दश्च । तयोस्तादात्म्यम् । शोभना च सा रमा श्रीः तयाऽन्विताऽपि । सुराणां मा लक्षमीः तदन्विताऽपीति वा । अपिशब्देन तावता अपर्याप्तत्वं गम्यते । हरेः भगवतः मुखभवं यत् स्मितं तस्मादपि स्मितवर्णादपीति यावत् । स्मितस्य मुखभवेति विशेषणेन ब्राह्मणवर्णत्वं गम्यते । उत्तमं वर्णं प्रेप्सुः । तेनेति शेषः स्मितेनेत्यर्थः । लोपितः भूयान् वर्णो नैसर्गिको यस्यास्सा तथोक्ता । अत एव असुरमा सुष्ठु रमत इति सुरमा पचाद्यच् । ततो नञ्तत्पुरुषः हर्षविरहितेति यावत् । भिल्ली किराती आसीत् मल्लजातेरपि निहिनजातिरभूदिति भावः । मली भिल्लीत्युभयत्रापि जातिलक्षणो ङीष् । पक्षे लोपिताः भूयांसो वर्णाः अक्षराणि यस्यास्सा ‘छिन्नभूयिष्ठधूमा' इत्यादावल्पावशिष्टधूमेत्यादिवत् अल्पावशेषिताक्षरेति भावः । लुप्तान्वर्णानेव दर्शयति-- असुरमेति । सु र मेति वर्णत्रितयविधुरा अतएव भिल्लीति आसीत् । सुरभिमल्लीशब्दे सुरमेति वर्णावळीलोपे भिल्लीति वर्णद्वयस्यैव पारिशेष्यादिति भावः । अत्र सुरभिमल्ल्याः भगवद्वदनस्मितादप्यधिकवर्णलिप्सारूपेष्टालाभः स्ववर्णभ्रंशाद्यनिष्टप्रतिलम्भश्च शब्दार्थतादात्म्यावलम्बिश्लेषभित्तिकाभेदाध्यवसायसाम्राज्येन निर्व्यूढः ॥

 यथावा--

 त्वद्गतिमीप्सुश्चौर्यादणकोऽच्युत वारणोऽन्तरासन्नः । वानरतामापापररूपाप्त्या तदनु वान एवाभूत् ॥ १२०८ ॥

 हे अच्युत! वारणः गजः वारणशब्दश्च चौर्यात् त्वद्गतिं ईप्सुः अत एव अणकः गर्ह्यः ‘खेटगर्ह्याणकास्समाः' इत्यमरः । पक्षे अविद्यमानणकारस्सन् अन्तरा इच्छाचौर्ययोर्मध्य एव सन्नः विशीर्णः सदेर्विशरणार्थकात्कर्तरि क्तः । ‘रदाभ्यां’ इति निष्ठातस्य पूर्वदकारस्य च नत्वम् । पक्षे अन्तरा णकारापगमानन्तरमवशिष्टवार इति वर्णद्वितय मध्ये सन् विद्यमानः नः नकारो यस्य स तथोक्तस्सन् वानरतां प्लवगतां वानरशब्दतां च आप प्राप्तवान् । तदनु अपररूपस्य ततोऽपि निहीनरूपस्य आप्त्या । पक्षे अपरं अपगतरेफं यद्रूपं तस्य आप्त्या । रेफोत्सारणेनेति यावत् । वान एव शुष्क एव अभूत् । ‘वानश्शुष्कफले शुष्के सीवने गमने कटे’ इति हेमचन्द्रः । पक्षे वानशब्दः अभूत् । अत्र वारणस्य भगवद्गतिस्तेयरूपेष्टानवाप्तिः अणकत्वाद्यनिष्टप्रतिलम्भश्च निबद्धः ॥

 यथावा--

 नीलाम्बर भगवंस्तव चेलाकारं परं परिप्रेप्सुः । विनयन्नप्यात्मानं वनराशिः प्रान्ततो वराशिरभूत् ॥ १२०९ ॥

 हे नीलाम्बर बलभद्र भगवन्! ‘नीलाम्बरो रोहिणेयः इत्यमरः । वनराशिः जलधिः वनराशिशब्दश्च । परं उत्कृष्टं तव चेलाकारं वसनस्य नीलरूपं तत्तुल्यतामित्यर्थः । परिप्रेप्सुः अत एव आत्मानं स्वं विनयन्नपि तद्रूपग्रहणयोग्यतार्थं शिक्षयन्नपि । पक्षे विनं कुर्वन्विनयन् विगतनकारं कुर्वन् सन् प्रान्ततः पर्यवसाने वराशिः स्थूलपटः 'वराशिः स्थूलशाटकः' इत्यमरः । अभूत् अन्यत्र वराशिरिति निष्पन्न इत्यर्थः । अत्र भगवद्बलभद्रदिव्यांशुकरूपलक्षणेष्टालाभः स्थूलपटत्वरूपानिष्टप्रतिलम्भश्च वनराशेर्वर्णितः ॥

 यथावा--

 भुव इव तवाप्यनन्त प्राप्तुं यद्यंशुकत्वमुद्युङ्क्ते । आद्याकारह्रासाद्वाराशिस्स्याद्वराशिरेव तदा ॥

 हे अनन्त ! उल्लङ्घितत्रिविधपरिच्छेद भगवन् ! वाराशिः जलधिः भुव इव परिच्छिन्नाया भूमेरिव तवापि अपरिच्छिन्नस्य भवतोऽपि अंशुकत्वं सूक्ष्माम्बरत्वं 'अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः' इति मेदिनी । प्राप्तुं यदि उद्युङ्क्ते तदा आद्याकारस्य प्राथमिकस्वस्वरूपस्यापि ह्रासात् संकोचात् वराशिः स्थूलपट एव स्यात् न तु सूक्ष्मश्लाघ्यतमभवद्दिव्यांशुकमिति भावः । वाराशिशब्दः प्राथमिकस्य आवर्णस्य ह्रस्वत्वाद्वराशिरिति निष्पन्न इति वस्तुस्थितिः । अत्रापि पूर्ववदेवं विषमम् संभावनसंकीर्णत्वं विशेषः ॥  यथावा--

 द्विजजनिभुवमच्युत तव वदनं द्विजराजतामदात्पूर्णेन्दुः । वशयितुमिच्छुः क्रमशो मलिनात्माऽविप्रभामुपाजीवदहो ॥ १२११ ॥

 हे अच्युत! पूर्णेन्दुः द्विजराजतामदात् अहं ब्रह्मणानां राजेति गर्वात् ‘सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः’ इति श्रुतेः । द्विजजनिभुवं ब्राह्मणोत्पत्तिस्थानं ‘ब्राह्मणोऽस्य मुखमा सीत्' इति श्रुतेः । तव वदनमपि वशयितुं स्ववशे विधातुं इच्छन् सन् क्रमशः क्रमेण मलिनात्मा ईदृशसंकल्पेन पापिष्ठस्सन्, असितपक्षे कलापचयेन निष्प्रभशरीर इति वस्तुस्थितिः । अविप्रस्य अब्राह्मणस्य शूद्रस्य भां वर्चः, स्वस्य ब्राह्मणराजताप्रख्यापनाय तज्जनिस्थानभूतभगवन्मुखवशीकरणप्रवृत्तस्स्वयमेवाब्राह्मणतामवापेत्यर्थः । पक्षे अवेः भानोः तेजः उपाजीवत् उपजीव्यत्वेनाभ्युपैदित्यर्थः । दर्शे चन्द्रमसः रविसंबन्धस्य तद्दत्ततेजस्त्वस्यच श्रुत्यादिप्रसिद्धत्वात् । आहुश्च ज्योतिर्विदः-- 'सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति’ इति । अत्रापीष्टानवाप्त्यनिष्टप्राप्ती स्पष्टे ॥

 यथावा--

 यशसा मराळिका तव विजिताऽमाळिर्भवन्त्यथ कथंचित् । राका सती स्मितरुचाऽन्ततोऽम्ब कारास्थिता ह्यवाङ्मूर्धा ॥ १२१२ ॥

 हे अम्ब! मराळिका हंसी त्वद्यशस्साम्यमभिलषन्तीति भावः । तब यशसा विजिता सती अत एव अमाळिः अमावास्यायास्सखी भवन्ती सती ‘आळिस्सखी’ इत्यमरः । मलिना भवन्तीति यावत् । पक्षे अमा आळिः इति च्छेदः । मकारळिकाराभ्यां शून्या सतीत्यर्थः । अथ कथंचित् महता प्रयत्नेन । पक्षे मकारळिकारत्यागक्लेशेनेत्यर्थः । राका पूर्णनिशाकरपूर्णिमा सती वैशद्यं संपादितवतीति यावत् । मराळिकेति शब्दव्यक्तिः त्यक्तमकारळिकारत्वेन राकेति निष्पन्नेत्यर्थः । तव विजितेत्येतत्पदद्वयमप्यनुषज्यते । तव स्मितरुचा तदवस्थालोकनजनितमन्दहासत्विषा विजिता सती अन्ततः पर्यवसानदशायां अवाङ्मूर्धा अधःकृतशिरास्सत्यपि कारास्थिता बन्धनालयस्था । हीत्यवधारणे । अभूत् उक्तदुरवस्थामेवाप्नोत् न तु स्वाभीष्टमिति भावः । पक्षे अवशिष्टा राकेति शब्दव्यक्तिर्विलोमत्वे कारेति निष्पन्नाऽभूदित्यर्थः । अत्र मराळिकायास्सर्वधाऽपि श्रीयशस्स्मितरुचिसाम्यरूपेष्टालाभः मालिन्याद्यनिष्टावाप्तिश्च शब्दार्थतादात्म्यमूलकश्लेषावलम्बिनी ॥

 यथावा--

 त्वत्कचकलापलक्ष्म्या स्वकलापच्युतिमुपेत्य वचनीयः । कनकगिरीशविलासिनि कपीशतामश्नुते कलापीशः ॥ १२१३ ॥

 हे कनकगिरीशविलासिनि! कनकगिरिः वेङ्कटाद्रिः । कलापीशः मयूरवरेण्यः त्वत्कचकलापलक्ष्मीप्रेप्सुरितिभावः । अत एव त्वत्कचकलापलक्ष्म्या हेतुभूतया स्वकलापस्य स्वबर्हस्य च्युतिं हानिं एत्य वचनीयः स्वकनीयस्त्वमविगणय्य महनीयः रमाकचकलापतौल्यलिप्सुस्स्वकलापस्यैव हानिमवाप्य लोकैर्गर्हणीयस्सन्निति भावः । कपीशतां कीशोत्तमतां अश्नुते स्वाभीष्टालाभानिष्टाभ्यागमाभ्यां आकुलमनाः कपिवदतिमात्रचपलो भवतीति भावः । अन्यत्र कलापीशशब्दः स्वकस्य स्वकीयस्य लावर्णस्य अपच्युतिं प्रच्यवनं एत्य वचनीयः वक्तुमर्हश्चेत् कपीश इति निष्पद्यत इत्यर्थः ॥

 यथावा--

 त्वत्फालरुचा ध्वस्ता विकलाऽच्युत विधुकलाकमपि वर्णम् । अप्राप्तागतपूर्वाकारा तत आविला समजनिष्ट ॥ १२१४ ॥

 हे अच्युत ! विधुकला चन्द्रकला त्वत्फालविडम्बनेच्छुरिति भावः । त्वत्फालरुचा त्वदीयललाटसुषमया ध्वस्ता पराभूता अत एव विकला अवयववैकल्यं प्राप्ता कमपि यं कंचिदपि वर्णं रूपं अप्राप्ता नैतावदेव गतपूर्वाकारा ध्वस्तप्राचीनस्ववर्णा सती ततः आविला अनच्छा समजनिष्ट ‘कलुषोऽनच्छ आविलः' इत्यमरः । पक्षे विधुकलेति शब्दव्यक्तिः अर्थगतस्य स्त्रीत्वस्य शब्द आरोप इत्यसकृदवोचाम । ध्वस्ता धुः अस्तः निरस्तः यस्यास्सा तथोक्ता निरस्तधुवर्णा सतीत्यर्थः । विकला विकलेति निष्पन्ना सती कमपि क इत्याकारकवर्णमपि अप्राप्ता विगतककारेति यावत् । आगतपूर्वाकारा आगत: अधिगतः पूर्वः सर्ववर्णेभ्यः प्रथमः आकार: आ इति वर्णः यस्यास्सा तथोक्ता सती आविला समजनिष्ट । विधुकलाशब्दो धुवर्णलोपे विकलेति निष्पन्नः ततः ककारलोपे आदावाकारप्राप्तौ चाविलेति निष्पन्न इति निर्गळितोऽर्थः । अत्रापीष्टावाप्त्यनिष्टप्राप्ती स्पष्टे ॥  यथावा--

 इक्षुरसोऽम्ब त्वद्वाग्रसदूरधुतस्सदासतां बिभ्रत् । कमपि भजन्नन्तेऽभूदिक्षुरको नास मधुपभोग्योऽपि ॥ १२१५ ॥

 हे अम्ब ! सः स्वादुत्वेन जगद्विदितः इक्षुरसः रसालासव इति यावत् । त्वद्वाग्रसादप्युत्कर्षेप्सुरिति भावः । त्वद्वाग्रसेन दूरधुतः अत एव दासतां किंकरतां बिभ्रदपि अन्ते अनन्तरं कमपि भजन् ब्रह्माणमुपासीनोऽपि इक्षुरकः क्षुद्रकण्टकिवृक्षविशेष एवाभूत् न तु त्वद्वाग्रसादुत्कृष्टः । अत एव मधुपानां शीधुपातॄणां मधुकराणामिति च । भोग्योऽपि नास नासीत् । आसेति तिङन्तप्रतिरूपकमव्ययम् । ‘मधुव्रतो नेक्षुरकं हि वीक्षते’ इत्युक्तेरिति भावः । पक्षे इक्षुरसशब्दः सदा असतां अविद्यमानसकारतां बिभ्रत् ध्वस्तसकार इत्यर्थः । अन्ते अवसाने कं कवर्णमपि भजन् प्राप्नुवन् सन् इक्षुरक इति निष्पन्न इत्यर्थः । अत्रेक्षुरसस्य इष्टानवाप्तिरनिष्टप्रतिलम्भश्च स्पष्ट एव ॥

 यथावा--

 स्वरतोऽम्ब वल्लकी तव धुता तुलयितुं वचांसि कीरीभावम् । यान्त्येव वल्लरीत्वं याता सुकुमारतापराभूताऽभूत् ॥ १२१६ ॥

 हे अम्ब! वल्लकी वीणा त्वत्स्वरतुलनेच्छुरिति भावः । तव स्वरतः कण्ठस्वरेण धुता सती तव वचांसि तुलयितुं कीरीभावं शुकीभावं यान्त्येव गच्छन्त्येव वल्लरीत्वं कुसुममञ्जरीत्वं याता । कीरीभावावाप्त्यवसर एव वल्लरी बभूवेत्यर्थः । अथ सुकुमारतया सौकुमार्येण पराभूता अभूत् । पक्षे वल्लकीशब्दः कीरीभावं कीवर्णस्य रीवर्णत्वं कीवर्णापनयनेन रीवर्णन्यसनमित्यर्थः । यान्येव सती वल्लरीति निष्पन्नेत्यर्थः । अत्र वल्लक्या ईप्सितालाभः अनिष्टपरंपरावाप्तिश्च द्रष्टव्या ॥

 यथावा--

 नारायण तव कीर्तिभिरैरावत एव भग्नमुखवर्णः । वळतेत्रपावलीढः पारावततामवाप्य वनसीम्नि ॥ १२१७ ॥

 भग्नः मुखवर्णः वदनतेजः आदिवर्णश्च यस्य स तथोक्तः । अत एव त्रपया लज्जया अवलीढः । पक्षे अत्र पावलीढः इति च्छेदः अत्र निरस्तमुखवर्णस्थाने पावलीढः पावर्णेन युक्तः पारावततां कपोततां तद्वद्धूम्रवर्णतामिति यावत् । पक्षे पारावतशब्दतामित्यर्थः । स्पष्टमन्यत् । अत्रापि भगवत्कीर्तितौल्येप्सोरैरावतस्य इष्टालाभानिष्टप्राप्ती वर्णिते ॥

 यथावा--

 भ्रष्टस्वाद्याकारस्त्वद्गाम्भीर्येप्सुरथ धुतोऽकूपारः । आपद्यासारत्वं श्रीपरिबृढ कूपमात्ररूपमवाप ॥ १२१८ ॥

 हे श्रीपरिबृढ! अकूपारः सिन्धुः त्वद्गाम्भीर्येप्सुः अत एव धुतः त्वयेति शेषः । अत एव भ्रष्टः स्वस्य आद्यः प्राथमिकः आकारो रूपं गाम्भीर्यादिकं यस्य स तथोक्तः । भ्रष्टः स्वाद्यः रुच्यः आकारो यस्येति च । अत एव असारत्वं विबलत्वं नीरसत्वं च आपद्य प्राप्य कूपः प्रमाणमस्य कूपमात्रं तत्तुल्यप्रमाणमित्यर्थः । तादृशं च तत् रूपं अवाप । अगभीर आसीदिति भावः । पक्षे अकूपारशब्दः भ्रष्टः स्वस्य आद्यः प्राथमिकः अकारः अ इति वर्णो यस्य स तथोक्तः । द्वितीयाकारव्यावृत्त्यर्थमाद्याकार इत्युक्तम् । असारतां आश्च रश्च आरौ ताभ्यां सह वर्तत इति सारः न सारः असारः तस्य भावः तत्ता तां आकाररेफरूपव्यञ्जनविहीनतामित्यर्थः । आपद्य कूपावेव कूपमात्रं तथोक्तं रूपं अवाप । आद्याकारस्य पकारोत्तराकाररेफव्यञ्जनयोश्चापायेन कूप इति वर्णद्वयमात्रावशेषितं । रूपमलभतेत्यर्थः । अत्रापि पूर्ववदेव विषममनुसन्धेयम् ॥

 यथावा--

 कलभाधीशस्स्वकरे त्वदूरुभेप्सुस्त्वया कृतो विकलः । भाधीशोऽप्यस्तु ततश्चरणेन वा समः किं स्यात् ॥ १२१९ ॥

 हे भगवन्! कलभाधीशः गजराजः स्वकरे त्वदूर्वोः भां ईप्सुः अत एव त्वया विकलः निस्तेजाः रलयोरभेदात् विकरः शुण्डाविधुर इति वा कृतः । ततः भाधीशः भानां आदन्तोऽयं भाशब्दः भासामित्यर्थः, अधीशः सहस्रांशुः भानां ताराणां अधीशः चन्द्रमाः अपिवा अस्तु । तत इत्यावर्त्यते । ततः एवं भणनादपि चरणेन तवाङ्घ्रिणा नखेन वा समः स्यात् किम् । भानुत्वेऽप्यारुण्याच्चरणतुल्यः इन्दुत्वेऽपि विशदिमादिना नखतुल्यो वा न स्यादिति भावः । अन्यत्र कलभाधीशशब्दः ककारलकारविधुरितः भाधीश इति निष्पद्यत इत्यर्थः । पूर्ववद्विषमम् ॥  यथावा--

 त्वद्वचनरसधुतत्वाद्व्यपयातायाऽवसत्तिमत्स्वान्ता । सा मृद्वीका स्वामिनि कामं स्यान्मृत्तिकैव को विशयः ॥ १२२० ॥

 हे स्वामिनि! या मृद्वीका द्राक्षा ‘मृद्वीका गोस्तनी द्राक्षा' इत्यमरः । त्वद्वचनरसलिप्सुरिति भावः । त्वद्वचनरसेन धुतत्वात् व्यपयाता दूरं क्वापि गता सती अवसत्तिः अवसादः सोऽस्यास्तीति अवसत्तिमत् स्वान्तं हृदयं यस्यास्तथाभूता आभूदिति शेषः दीनमानसाऽभूदित्यर्थः । सा मृद्वीका कामं मृत्तिकैव स्यात् मृदाकारतामेवापद्येत । तद्वन्नीरसा संपद्येतेति भावः । पक्षे धुतत्वाद्व्यपयातेत्यत्र धुतत्वात् द्व्यपयातेति च्छेदः । धुतत्वात् व्यपयातेति प्राथमिकच्छेदपक्षे दकारस्य ‘अनचि च’ इति द्वित्वं, याऽवसत्तिमत्स्वान्तेत्यत्र या अवसत् त्तिमत्स्वान्तेति च्छेदः । या मृद्वीकेति शब्दव्यक्तिः द्व्यपयाता द्वी इत्याकारकवर्णादपगता । द्वी इत्याकारकवर्णः अपयातो यस्या इति वा । उत्सारितद्वीवर्णेत्यर्थः । त्तिः द्वित्वघटितस्तिकारः सोऽस्यास्तीति त्तिमान् स्वान्तः स्वान्तरं यस्यास्सा तथोक्ता सती अवसत् अवात्सीत् । अस्मिन् पक्षे अवसत्तिमदित्यत्र तकारत्रये 'झरो झरि सवर्णे’ इति द्वितीयतकारस्य लोपे अर्थद्वयेऽपि द्वितकारत्वं द्रष्टव्यम् । 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । मृत्तिकैव स्यात् उक्तरीत्या मृत्तिकेति निष्पद्येतेत्यर्थः । अत्र मृद्वीकाया न परं श्रीवचनरसालाभः अपितु मृत्तिकात्वरूपोत्कटानिष्टप्राप्तिः ।  यथावा--

 दिवमेत्य शचीपतिरिति नहुषोऽभिख्यातिलिप्स एवाथ । शप्तोऽभिख्याहीनः पराङ्मुख्याच्छ्रियस्तिलिप्सोऽभूत् ॥ १२२१ ॥

 नहुषः प्रसिद्धः दिवं स्वर्गं एत्य ऐन्द्रं पदमासाद्येति यावत् । शचीपतिरिति अभिख्यातौ लिप्सा यस्य स तथाभूतस्सन्नेव । अथ ईदृशसंकल्पानुपदमेव श्रियः लक्ष्म्याः पाराङ्मुख्यात् शप्तः मुनिनेति शेषः । अभिख्याहीनः तेजोविधुरः तिलिप्सः अजगरः अभूत् । यद्यपि ‘अथ गोनसे । तिलिप्सस्स्यात्' इत्यनुशासनात् गोनसाख्यमहाहिविशेषवाच्येव तिलिप्सशब्दः, न त्वजगरवाची 'अजगरे शयुर्वाहस इत्युभौ’ इत्यनुशासनात् । तथाऽपि तयोर्गोनसाजगरयोर्ग्राहनक्रयोरिव यत्किंचिद्वैलक्षण्यानादरेणाभेदः कविसमयसिद्ध इति ध्येयम् । तिलिप्सशब्दं तिलत्स इति केचित्पठन्ति । अस्माभिस्तु तिलिप्स इति प्रचुरपाठमनुसृत्यायं विच्छित्तिविशेषः प्रदर्शितः । 'तिल गतौ' तेलतीति तिलिः 'इक्कृष्यादिभ्यः’ इति इक् जङ्गमं वस्तु । तं प्साति भक्षयतीति तिलिप्सः । ‘प्सा भक्षणे' आदादिकादस्मात् ‘आतोऽनुपसर्गे' इति कः । यद्वा ‘तिल स्नेहने’ तुदादिः तिलनं तिलिः, तेन प्सातीति तथोक्तः । यथाकथंचिदर्थप्रदर्शनमिदम् । नात्रावयवार्थे विशेषतोऽभिनिवेष्टव्यं रूढशब्दत्वादस्य । अत्र नहुषस्य शचीपतित्वख्यातिलाभलक्षणेष्टानवाप्तिपूर्वकाजगरत्वरूपाद्यनिष्टलाभोनिबद्धः । पक्षे अभिख्यातिलिप्सशब्दः अभिख्येति वर्णपङ्क्तेर्विरहे तिलिप्स इत्यवशिष्यत इत्यर्थः ॥  यथावा--

 ननु मेचकीबुभूषुस्तव बहुधामापहरणतः कोऽपि खगः । पापस्सन्पेचकतामाप गतः कृष्ण हन्त विशदांशुकताम् ॥ १२२२ ॥

 ननु हे कृष्ण! इदं वक्ष्यमाणार्थोपस्कारकम् । विशदां स्फुटां शुकतां कीरत्वं गतः प्राप्तः कोऽपि खगः शुक इत्यर्थः । बहु यथास्यात्तथा मेचकीबुभूषुः स्वकीयहरितवर्णस्य नातीवमेचकत्वादतिश्यामलीभवितुमिच्छुरित्यभिप्रायः । यद्वा विशदाः अंशवो यस्य स तथोक्तः, कप्, पाण्डुरवर्ण इत्यर्थः । तत्तां गतः प्राप्तः कोपि खगः हंस इति भावः । मेचकीबुभूषुः असितीभवितुमिच्छुः । अभूततद्भावे च्विः । पक्षे मेचकाः चन्द्रकाः अस्य सन्तीति मेचकी मयूरः बुभूषुः 'मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्ते वाच्यवत् क्लीबं स्रोतोऽञ्जनान्धकारयोः' इति मेदिनी । ‘मेचकश्चन्द्रके ध्वान्ते नीले ना तद्वति त्रिषु' इति रत्नमाला च । तव धाम्नः त्विषः नीलिम्न इत्यर्थः । अपहरणतः अपहाराद्धेतोः पापः पातकी सन् ‘अथ त्रिषु द्रव्ये पापपुण्यसुखादि च, इत्यमरः । पेचकतां उलूकतां आप हन्तेति विषादे । वस्तुतस्तु कोपि खगशब्दः बहुधा मेचकीबुभूषुः मेचकशब्दो भवितुमिच्छुः, मः म् इति हल्मात्रस्य आपहरणतः ईषदपहारात् पं प् इति व्यञ्जनं आप्नोतीति पापः तथाभूतस्सन् पेचकतां पेचकशब्दतामपि मेचकशब्दो बुभूषुरुक्तरीत्या पेचकशब्दोऽभूदित्यर्थः । अत्र शुकस्य हंसस्य वा मयूरतां प्राप्सोर्न केवलं तदलाभः अपितु पेचकत्वरूपोत्कटानिष्टप्रतिलम्भः । अयं च शब्दार्थतादात्म्यवैभवासादितमहिमश्लेषभित्तिकाभेदातिशयनिर्व्यूढः ॥  एषूदाहरणेषु प्रायेणोपमामूलकत्वं अप्रस्तुतप्रशंसागर्भत्वं श्लेषोत्तम्भितत्वं च द्रष्टव्यम् । एवमिष्टानवाप्त्यनिष्टप्राप्त्युभयकृता उत्पत्तिलक्षणसंसर्गस्याननुरूपता सामान्यतो दर्शिता । पूर्वोक्तचतुर्विधभेदाया इष्टानवाप्तेः पूर्वोक्तत्रिविधभेदेनानिष्टेन संसृष्टौ इयमेव द्वादशविधा भवति । तत्र स्वस्य सुखसाधनवस्त्वनवाप्तिदुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाहृतः ॥ स्वस्य दुःखसाधनवस्त्वनिवृत्तिदुःखान्तरसाधनावाप्तिरूपद्वयं यथा--

 तरळत्वं विजिहासुर्द्युमणिस्तव हारमध्यरत्नत्वम् । प्राप्यापि न तदहासीत्परंतु तत्रास बत वृषाद्रिमणे ॥ १२२३ ॥

 द्युमणिः तरणिः स्वर्लोकरत्नमित्यपि गम्यते । तरळत्वं स्वस्य चापल्यं षिद्गत्वं वा भास्वरत्वमिति तु वस्तुस्थितिः । 'तरळं चञ्चले षिद्गे भास्वरेऽपि त्रिलिङ्गकम्' इति मेदिनी । विजिहासुः तव हारमध्यरत्नत्वं प्राप्यापि तत् तरळत्वं नाहासीत् नात्याक्षीत् । पुनरपि तरळत्वमेवापद्यतेत्यर्थः । हारमध्यगत्वात्तरळसंज्ञो बभूवेति वस्तुस्थितिः । परंतु तत्रास त्रासाख्यं मणिदोषमवाप्सीत् बिभायेति वा अर्थः। 'त्रासो भीमणिदोषयोः ' इति विश्वः। पक्षे तत्र आस इति च्छेदः । तत्र हारमध्ये । आस दिदीपे इत्यर्थः । ‘अस दीप्तौ’ लिट् । अत्र द्युमणेस्तरलत्वरूपदुःखसाधनवस्तुनिवृत्त्युद्यमात्तदनिवृत्तिः त्रासरूपदुःखान्तरसाधनावाप्तिश्च निबद्धा । इदमेवानर्थपरिहारार्थरूपेष्टार्थसमुद्यमात्तदनवाप्तिरनिष्टान्तरप्राप्तिश्चेति व्यवह्रियतेऽन्यत्र ॥ श्लेषभित्तिकाभेदाध्यवसायोत्तम्भितमिदम् ॥

 परस्य दुःखसाधनप्रापणरूपेष्टार्थसमुद्योगात्तदनवाप्तिः स्वस्य दुःखसाधनप्राप्तिरित्युभयं यथा- हिंसितुमना भवन्तं कंसरिपो स्तन्यदानतः काचित् । हिंसामाप नृशंसा पुंसामवतंस बहुतरां सैव ॥ १२२४ ॥

 अत्र सैवेत्यनेन भगवदनिष्टप्रापणाभावो दर्शितः ॥

 यथावा--

 राघव तव प्रतापप्रदीपनिर्वापणाय कृतयतनाः । निशिचरबलपतिशलभास्सुलभं निर्वापणं स्वयमविन्दन् ॥ १२२५ ॥

 निर्वापणाय शमनाय । निर्वापणं शमनं निधनं च । ‘निर्वापणं संज्ञपनम्' इत्यमरः । अत्र निशिचरबलपतिशलभानां रघुवरप्रतापप्रदीपनिर्वापणरूपेष्टार्थसमुद्योगात्तदनवाप्तिः प्रत्युत स्वेषामेव तदनिष्टप्राप्तिः । रूपकसंकीर्णमिदम् ॥

 यथावा--

 बन्द्धुं जगतां बन्धुं नन्वधूस्त्वां गुणैः प्रयस्यन्ती । सन्दानिता गुणैस्ते नन्दात्मज सैव मन्दविस्पन्दा ॥ १२२६ ॥

 त्वां गुणैः रज्जुभिः बन्द्धुं नद्धुं ‘बन्ध बन्धने’ अस्मात्तुमुन् । नकारदकारधकारसंयोगः । ते तव गुणैः रज्जुभिः सौशील्यादिकल्याणगुणैश्च । अत्र यशोदाया न केवलं स्वनन्दनबन्धनप्रापणरूपेष्टानवाप्तिः । अपितु तद्गुणैरात्मन एव बन्धनरूपानिष्टप्रतिलम्भः । अस्य बन्धस्यानिष्टत्वं च गुणशब्दोपात्तार्थद्वयश्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढम् ॥  यथावा--

 त्वद्रूपमभिबुभूषं विभग्नवदनं विधाय जीमूतम् । वेधाः क्रोधान्मुमुवे भग्नमुखोऽयं भवत्यतो मूतः ॥ १२२७ ॥

 वेधाः ब्रह्मा तव रूपं स्निग्धश्यामलिमानं अभिभूषुं अभिभवितुमिच्छुं । अभिभवः दुःखसाधनानुकूलव्यापारः । जीमूतं क्रोधात् विभग्नवदनं विधाय मुखे गाढं प्रहृत्येति भावः । लोकोक्तिरियम् । मुमुवे बबन्ध । 'मूङ् बन्धने’ लिट् । अत एव अयं जीमूतः भग्नमुखः पराहततया परेषां वदनं दर्शयितुमनीश इति यावत् । मूतः बद्ध एव भवति । मृङ्धातोरेव कर्मणि क्तः । ‘बद्धे संदानितं मूतम्' इत्यमरः । जीमूतशब्दो लुप्तमुख्यजीवर्णः मूत इति भवतीति वस्तुस्थितिः । अत्र भगवद्रूपाभिभवरूपतद्दुःखसाधनलक्षणस्वेष्टार्थोद्योगेन न केवलं जीमूतस्य तदलाभः, किंतु मुखभङ्गादिरूपदुःखसाधनावाप्तिश्च निबद्धेति लक्षणसंगतिः ॥

 यथावा--

 श्रीकुचजयसन्नद्धस्तदभिविलूनाग्र्यगुणक एव ततः । कमपि भजन्नाकारं कोकः काको भवन्नरिष्टोऽभूत् ॥ १२२८ ॥

 कोकः चक्रवाकः 'कुक आदाने’ इत्यस्मादचि लघूपधलक्षणो गुणः । श्रीकुचयोः जये अभिभवे । अभिभवो न्यूनीकरणं परसमवेतदुःखानुकूलव्यापारः । तस्मिन् सन्नद्धः सज्जः । अत एव ताभ्यां अभिविलूनः सर्वात्मना छिन्नः अग्र्यः श्रेष्ठः गुण: रम्यत्वादिः पराक्रमाद्रिश्च यस्य स तथोक्तः । ‘शेषाद्विभाषा’ इति कप् । कृत्तपरार्थ्यमौर्वीक इत्यपि गम्यते । एवकारेण निरस्तस्य गुणस्य पुनर्दौर्लभ्यं द्योतितम् । अत एव ततः कमपि अतिशोचनीयं आकारं आकृतिं भजन् काको भवन् वायसो भवन् अरिष्टः अरिष्टं अशुभं मृत्युचिह्नं वा अस्यास्तीत्यरिष्टः अर्श आदित्वादच् । अरिष्टशब्दवाच्योऽभूदिति तु तत्त्वम् । ‘अरिष्टमशुभे ताम्रे लशुने सूतिकागृहे । मृत्युचिह्ने च ना त्वेष काके फेनिलनिम्बयोः' इति रत्नमाला । पक्षे कोकः कोकशब्दः अग्र्यः अग्रे स्वान्तरं भवः गुणः गुणसंज्ञिक ओकारः यस्य स तथोक्तः अग्र्यगुणः कः कवर्णः सः विलूनो यस्येति बहुव्रीहिगर्भो बहुव्रीहिः । निरस्तकोवर्ण एवेति भावः । ततः कं कवर्णं । आकारमपीति योजना आवर्णं च भजन् कोकारस्थाने कावर्णं प्रतिपद्यमान इत्यर्थः । अत एव काकोभवन् काक इति निष्पद्यमानस्सन् अरिष्टः वायसवाचक इति यावत् । अभूत् । वाच्यावचकयोस्तादात्म्यं न विस्मर्तव्यम् । अत्र श्रीकुचाभिभवरूपतद्दुःखसाधनलक्षणस्वेष्टार्थलाभोद्योगात्कोकस्य न तदलाभमात्रं प्रत्युत काकतावाप्तिपर्यन्तानिष्टप्राप्तिरित्युभयं दर्शितम् ॥

 यथावा--

 त्वन्मुखतिलकं जेतुं चान्द्रमसो मदबलाद्यदि कलङ्कः। उद्वल्गेत्तद्विजितः कङ्को भविता मदम्बलं चोज्झन् ॥ १२२९ ॥

 हे श्रीरिति सामर्थ्याल्लभ्यते । चान्द्रमसः कलङ्क: मदश्च बलं च मदबलं समाहारद्वंद्वैकवचनम् । श्यामलिमातिशयगर्वात् आश्रयबलाच्च त्वन्मुखतिलकं जेतुं अभिभवितुं उद्वल्गेत् उत्पतेद्यदि तेन तिलकेन विजितः मदं गर्वं बलं शक्तिं च उज्झन् कङ्को भविता गृध्रविशेषतुल्यो भविता । गृध्रो ह्यामिषगृध्नुस्तद्दौर्लभ्यसौलभ्ये अविमृश्य सहसाऽभिपत्य यथा बलीयोभिर्विहायोभिरभिहतो दूरं धावेत्तथाऽयमपि कलङ्क इति भावः । पक्षे मदम्ब लं च इति च्छेदः। हे मदम्ब मन्मातः! कलङ्कः कलङ्कशब्दः लं लकारं, चकारो भिन्नक्रमः कङ्क इत्यनेन संबध्यते । उज्झन् कङ्कश्च भविता कङ्क इति च निष्पत्स्यत इत्यर्थः । यद्वा चस्त्वर्थः उज्झंश्चेति संबध्यते । लं त्यजंस्तु कङ्कइति भवितेत्यर्थः । अत्रापि कलङ्कस्य श्रीवदनतिलकाभिभवरूपेष्टार्थोद्योगात्तदनवाप्तिः कङ्कत्वरूपोत्कटानिष्टप्राप्तिश्च श्लेषमूलातिशयोपजीविता वक्ष्यमाणसंभावनरूपेण निबद्धा ॥

 यथावा--

 नाथ मसारस्तव रुचिजयमीप्सुरुपेत्य सप्रथमभङ्गम् । लब्ध्वाऽपि विभवमग्रे विसारतां प्राप्तवान् जितोऽक्षिभ्याम् ॥ १२३० ॥

 हे नाथ सः प्रसिद्धः मसारः इन्द्रनीलः ‘मसार इन्द्रनीले स्यात्' इति ‘मसारगल्वर्कमुखः’ इत्यत्र भूषणे कोश उदाहृतः । तव रुचेः जयं अभिभवं ईप्सुस्सन् प्रथमभङ्गं आदावेव पराभवम् । पक्षे मसारशब्दः, सप्रथमभङ्गमित्यत्र सप्रथ मभङ्गमिति च्छेदः । हे सप्रथेति संबुद्ध्यन्तं नाथेत्यस्य विशेषणम् । प्रथया प्रख्यात्या सह वर्तत इति सप्रथः तस्य संबुद्धिः । मभङ्गं मकारलोपं उपेत्य अग्रे अनन्तरं आदिभागे च विभवं प्राभवं जयसाधनभूतमिति भावः । पक्षे वि इति वर्णस्य भवं सत्तां लब्ध्वाऽपि । अपिना तद्विभवस्याकिंचित्करता द्योत्यते । पक्षे अपिस्समुच्चये । न केवलं मकारलोपं किंतु तत्रैव विकारस्थितिं च प्राप्येत्यर्थः । विसारतां मीनतां ‘विसारश्शकुली च’ इत्यमरः । निस्सारतां दौर्बल्यमिति च गम्यते । पक्षे विसार इति निष्पन्न इत्यर्थः । अक्षिभ्यां तव नयनाभ्यां जितः । अत्रापि पूर्ववदेवोभयम् ॥

 यथावा--

 दानेन त्वद्विजये धुरि शबलाशोज्झिता कथंचिदथ । प्राप्ताऽपि कान्तिमत्वं नाथ बलाकैव भवति न तु जेत्री ॥ १२३१ ॥

 हे नाथ! शबला कामगवी दानेन औदार्येण करणेन त्वद्विजये त्वत्कर्मकाभिभवे विषये धुरि आदावेव आशोज्झिता त्यक्तप्रत्याशेत्यर्थः । अथ कथंचित् कान्तिमत्वं कान्तिरिच्छा तद्वत्तां जयविषयकस्पृहामित्यर्थः । ‘कान्तिश्शोभेच्छयोः स्त्रियाम्' इति मेदिनी । द्युतिमत्तामित्यपि गम्यते । प्राप्ताऽपि बलाकैव बिसकण्ठिकैव भवति । न तु तव जेत्री तद्वत्क्वाप्युड्डीयते न तु त्वामभिभवितुमीष्ट इत्यर्थः। पक्षे शबला शबलेति शब्दव्यक्तिः धुरि प्रथमभागे शोज्झिता शकारेण त्यक्ता अथ कान्तिमत्त्वं का इति वर्णः अन्तिमो यस्य तत् कान्तिमं तस्य भावं तकारस्य 'अनचि च' इति द्वित्वम् । ‘शरदः कृतार्थता' इत्यादाविव सामान्ये नपुंसकम् । प्राप्ताऽपि अन्ते कावर्णघटिता सती बलाकैव भवति । न तु जेत्रीशब्द इत्यर्थः । अत्रापि पूर्ववदेव सर्वम् ॥  यथावा--

 भगवन्बलभद्र त्वद्वसनश्रीविजयलिव्सुरथ मध्ये व्यत्यस्तहलाकर्षणरभसेन बलाहको बकोवृत्तः ॥ १२३२ ॥

 हे भगवन् बलभद्र! नीलांम्बरत्वद्योतनायेदम् । बलाहकः वारिवाहकः नैल्यातिशयद्योतनायेदम् । त्वद्वसनश्रियः विजयं अभिभवं लिप्सुः अथ मध्ये अस्मिन्नवसर एव पर्यस्तं परितः क्षिप्तं यत् हलं लाङ्गलं तदाकर्षणरभसेन त्वत्कर्तृकेणेति भावः । बकः वृत्तः परानिष्टप्रापणालाभस्वानिष्टप्राप्तिमूलकमनःखेदवशात्स्वकीयनैसर्गिकश्यामलिमविधुरो बकवत्पाण्डुर एवाभूत् न तु त्वद्वसनश्रीविजयेन कमनीयश्यामलिमोत्कर्षमिति भावः । बकवद्ध्यानपरोऽभवदिति वा । पक्षे बलाहकशब्दः मध्ये स्वान्तराळे पर्यस्तौ व्यत्यस्तौ यौ ह ला इति वर्णौ तयोः कर्षणरभसेन उत्सारणेन, पर्यस्तं यथास्यात्तथा हला इति वर्णयोराकर्षणरभसेनेति वा । आदौ चरमहवर्णस्य अनन्तरं प्राथमिकलावर्णस्योत्सारणेनेत्यर्थः । बको वृत्तः बक इति निष्पन्न इत्यर्थः ॥

 यथावा--

 त्वन्नयनयुगजिगीषाकुतुकादभ्येत्य जननि तदपास्तः । हरिण इहक्षतिमुपयन्नगादिरिणतां खगाद्रिपतिमहिळे ॥ १२३३ ॥

 हरिणः कुरङ्गः हरिणशब्दश्च । इह लोके क्षतिं हानिम् । पक्षे इना इकारेण हक्षतिं हकारस्य भ्रंशं संबन्धसामान्यषष्ठ्यास्समासः । उपयन् हकारस्थाने इकारं प्राप्तवान् सन् इरिणतां शून्यतां स्वरूपहानिमित्यर्थः । पक्षे इरिणशब्दतां अगात् । 'अथ त्रिषु विषाणं स्यात्' इत्युपक्रम्य ‘इरिणं शून्यमूषरम्’ इति णान्तनानार्थेष्वमरः । ‘इरिणं तूषरे शून्ये' इति मेदिनी च ॥ अत्र हरिणस्य परानिष्टप्रापणरूपेष्टानवाप्त्यनिष्टप्राप्ती ॥

 यथावा--

 त्वां सर्वगन्धमच्युत सौरभतश्चन्दनो यदि जिगीषुः । चक्रभिदां गन्तैव क्रन्दन एवाथ भवति मन्येऽहम् ॥ १२३४ ॥

 सर्वगन्धं 'सर्वकर्मा सर्वकामस्सर्वगन्धः' इति श्रुतं 'अशब्दमस्पर्शम्' इत्यादिना प्राकृतगन्धादिनिषेधात् अप्राकृतास्स्वासाधारणाः नित्यनिरवद्याः निरतिशयास्स्वभोग्यभूताः कल्याणास्सर्वे गुणा अस्य सन्तीत्यर्थः । ईदृशं त्वां चन्दनः प्राकृतपरिमितगन्धाश्रय इति भावः । सौरभतः जिगीषुर्यदि चक्रेण सुदर्शनेन भिदां भेदनं ‘साधनं कृता' इति समासः । चकारस्य क्रेतिवर्णेन भिदां निरसनं च गन्तैव । अथ ईदृगवस्थावाप्त्यनन्तरं क्रन्दन एव रोदितैव, पक्षे क्रन्दनशब्द एव भवतीति मन्ये । अत्र चन्दनस्येष्टालाभानिष्टलाभौ संभावनया निबद्धौ ॥

 यथावा--

 त्वत्कररुचिविजयाद्भुवि सत्कृतिमीप्स्वभिसमाहतं ताभ्याम् । अग्रे बहुहान्युदितावर्णमथाब्जं जनन्यभून्न्युब्जम् ॥ १२३५ ॥

 हे जननि! अब्जं अग्रे आदौ बह्वी हानिर्यस्य तद्बहुहानि । उदितः अवर्णः पराभूतमित्यपवादो यस्य तत् उदितावर्णं 'अवर्णाक्षेपनिर्वादपरिवादापवादवत्' इत्यमरः । बहुहान्या उदितावर्णमिति वा । पक्षे बहु हा इति च्छेदः । अग्रे मुखभागे बहु यथा तथा न्युदितं न्युना न्यु इति वर्णसमुदायेन दितं छिन्नं निरस्तमिति यावत् । तादृशं अवर्णं अकारो यस्य तत् न्युदितावर्णं ‘दितं छितं वृक्णम्' इत्यमरः । न्युब्जं रुजाभग्नं अभूत् । ‘भुजन्युब्जौ पाण्युपतापयोः' इति निपातनात्साधुः । ‘न्युब्जो रुजाभुग्ने' इत्यमरः । अब्जपदं न्युब्जमिति निष्पन्नमिति वस्तुस्थितिः । हा इति खेदे । शिष्टं स्पष्टम् ॥

 यथावा--

 त्वच्चक्रमंशुमाली चिच्छादयिषुस्स्वरोचिषाऽभ्येत्य । कलितो निरंशुकस्तन्महसा माली भवन् हतस्तेन ॥ १२३६ ॥

 तन्महसा चक्रतेजसा । निरंशुकः अपहृतवसनः निर्गळितकिरण इति च । पक्षे अंशुशब्दविघटितश्च कलितः माली तन्नामा महादैत्यः भवन्, अंशुमालिशब्दः अंशुशब्दविघटिततया मालीत्यवशिष्ट इत्यर्थः । स्पष्टमन्यत् ॥

 यथावा--

 मालूरफलं श्रीकुचजयफलमभिलष्य तदनुलूनमरम् । माफलमित्यभिधावद्वाच्यं लिपितस्तथाऽनुशिष्टमभूत् ॥ १२३७ ॥

 मालूरस्य बिल्वस्य फलं श्रीकुचजयरूपं फलं प्रयोजनं अभिलष्य अपेक्ष्य अरं द्रुतं तदनुलूनं ताभ्यां कुचाभ्यां अनुलूनं अनन्तरमेव च्छिन्नं न तु विलम्बेन, पराजितमिति यावत् । माफलमिति मा भूत्स्वोद्दिष्टप्रयोजनं 'जीवन्भद्राणिपश्यति' इत्युक्तनयेन कथमपि जीवेयमिति स्वाभिलषितसाधनानीश्वरतया नैराश्यं दधानमिति भावः । अभिधावत् प्रतिपक्षभिया अभितः पलायमानम् । अंभिपूर्वकाद्धावतेर्लटश्शता । तथा लिपितः तादृशकर्मफलसूचकवैधसललाटरेखावशात् अनुशिष्टं प्राणमात्रावशेषं सत् वाच्यं निर्वीर्यामिदमिति कुत्सनीयं 'वाच्यं तु कुत्सिते हीने वचनीये च वाच्यवत्' इति मेदिनी, अभूत् । पक्षे मालूरफलमितिपदं, शब्दार्थयोस्तादात्म्यम्, तदनु लक्ष्मीकुचजयफलाभिलाषानन्तरं लूनं लूवर्णेन न्यूनं अरं अविद्यमानरेफं च सत् लिपितः स्वघटकाक्षरैः माफलमिति सुशिष्टं सम्यगवशिष्टं अभिधावत् अभिधा साक्षात्संकेतविषयज्ञानहेतुभूतश्शब्दनिष्ठो मुख्यो व्यापारः 'व्यापारश्शक्यधीहेतुर्मुख्यश्शब्दगतोSभिधा’ इति लक्षणात्, साऽस्यास्तीति तथोक्तं सत्, मतुप् । वाच्यं वक्तव्यं अभूत् । श्रीफलरूपार्थविषयकशक्तिमत्तया व्यवहार्यमासीदिति भावः । यद्वा मालूरफलरूपार्थ एव लिपितः स्ववाचकशब्दस्थवर्णैः तथा उक्तरीत्या लूरवर्णत्यागेन सुशिष्टं सम्यगवशिष्टं सत्, माफलमिति अभिधा नामधेयं साऽस्यास्तीत्यभिधावत्, स्ववाचकमाफलरूपशब्दवत्सत् वाच्यं वक्तुं योग्यं अभूत्, स्वाभिधेयार्थमजहदेव व्यवहारार्हमासीदित्यर्थः । माफलं श्रीफलम् । बिल्वस्य माफलवं च ‘वनस्पतिस्तव वृक्षोऽथ बिल्वः' इति श्रुतेः । ‘बिल्वो लक्ष्म्याः करेऽभवत्' इति विद्यारण्यभाष्यधृतवामनपुराणात् ‘तनुमध्या स्वहस्तोत्थं बिल्वं तरुमुपाश्रिता’ इति पृथ्वीधरभाष्यधृतभार्गवतन्त्रवचनाच्चेति ध्येयम् । फलति निष्पद्यत इति फलः पचाद्यच् । मायाः फलः माफलः लक्ष्मीकरनिष्पन्नत्वान्माफलशब्दो बिल्ववाची । तस्य विकारः फलं माफलम् । यद्वा माप्रदानि श्रीप्रदानि फलानि यस्य स इति माफलः शाकपार्थिव इतिवन्मध्यमपदलोपि समासः । ‘तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः' इत्यलक्ष्म्यपनोदकत्वश्रवणाच्छ्रीप्रदफल इत्यर्थः । ततः फलार्थे वैकारिकाणो लुक् । माफलशब्दस्य ‘बिल्वे शाण्डिल्यशैलृषौ मालूरश्रीफलवपि, इति कोशघटकश्रीफलशब्दवद्बिल्वाभिधायित्वं लक्ष्मीपत्यादिशब्दानां ‘श्रीपतिः पुरुषोत्तमः’ इत्यादिकोशघटकश्रीपत्यादिशब्दानां पुरुषोत्तमाभिधायकत्वमिवेति ध्येयम् । अत्र मालूरफलस्य परानर्थप्रापणरूपेष्टानवाप्त्यनिष्टप्राप्ती निबद्धे ॥

 यथावा--

 मालूरं हरिमहिळे संनद्धं तव कुचाभिभवने ताभ्याम् । एकादिमाभिघाताच्छातं श्रितनीरकं च शालूकमभूत् ॥ १२३८ ॥

 हे हरिमहिळे! मालूरस्य विकारः फलं मालूरम् । वैकारिकाणो लुक्, क्लीबमिति भावः । तव कुचयोः अभिभवने न्यूनीकरणे सन्नद्धं अत एव ताभ्यां तव कुचाभ्यां द्वाभ्यां पुम्भ्यामिति भावः । एकस्मात् आदिमात् आद्यात् अभिघातात् प्रहारादेव छातं छिन्नं ‘छो छेदने' अस्मात्कर्मणि क्तः । 'आदेचः' इत्यात्वम् । ‘छिन्नं छातम्' इत्यमरः। शातमिति वा च्छेदः । शातं तनूकृतं कर्शितमित्यर्थः । ‘शो तनूकरणे' अस्मात् क्तः, आत्वं च प्राग्वत् । अत एव श्रितनीरकं श्रितं नीरं येन तत्तथोक्तं च सत् । बहुव्रीहौ शेषाद्विभाषा' इति कप् । पुनः प्रहारभिया जले निमग्नमित भावः । शलूकं ‘सौगन्धिकं तु कह्लारम्’ इत्युपक्रम्य ‘शालूकमेषां कन्दस्स्यात्' इत्यमरः । शल्यते शलति वा ‘शल चलनसंवरणयोः’ ‘शलिमण्डिभ्यामूकण्' इति ऊकण्प्रत्ययः । इदं च सुधायां स्पष्टम् । पक्षे मालूरमिति पदं एकस्य आदेः प्राथमिकस्य माकारस्य अभिघातात् ध्वंसनं प्राप्य शातं शां शाकारं अतति सततं गच्छतीति तथोक्तं ‘अत सातत्यगमने' कर्मण्यण् । श्रितनीरकं निर्गमितो रः रेफः येन सः नीरः, नीरः कः ककारः श्रितो येन तत्तथोक्तं च लत् , माकारस्थाने शाकारं रेफस्थाने ककारं च प्राप्तं शालूकमिति निष्पन्नमित्यर्थः । अत्र मालूरस्य श्रीकुचाभिभवनरूपेष्टानवाप्तिः अभिघातादिना शालूकत्वरूपानिष्टावाप्तिश्च ॥

 यथावा--

 गतिगर्वादभियंस्त्वां मुखवात्याधूत उपरिगत एवाग्रे । वारण उरणस्समजनि न पुरस्कुरुते रणं तदद्याप्येषः ॥ १२३९ ॥

 हे भगवन्! वारणः गतिगर्वात् गमनगम्भीर्यप्रयुक्तादहंकारात् अभियन् अभियोगार्थमभिमुखं गच्छन् सन् मुखवात्याधूतः । अस्य तवेत्यादिः । तव मुखवात्यया मुखनिश्वासफूत्कारभूम्नैव धूतः । वातानां समूहो वात्या 'पाशादिभ्यो यः' इति सामूहिको यप्रत्ययः । 'तल् बृन्दे येनिकड्यच्त्राः' इत्यनुशासनात् स्त्रीत्वम् । अनेन स्त्रीपराजितत्वं द्योत्यते । अत एव अग्रे अनन्तरं उपरिगत एव क्वापि गगने उट्टङ्कितस्सन्नित्यर्थः। उरणः मेषः अजनि । मेषजन्माभजदित्यर्थः । तद्वन्निर्वीर्योऽभवदिति वा । गगने मेषराशितां गत इत्यपि गम्यते । अत एव एषः वारणः उरणो वा अद्यापि रणं युद्धं न पुरस्कुरुते नाद्रियते पराभवभयादिति भावः । पक्षे वारण इति शब्दः मुखभूतो यो वाकरः तस्मिन् अत्याधूतः निरस्तवाकार इत्यर्थः । अग्रे आदौ अनन्तरं वा उपरिगतः उवर्णयुक्तः उरण इति निष्पन्नः रणं रेफणकाररूपवर्णसमुदयं अद्यापि न पुरस्कुरुते पश्चादेव बिभर्ति । वारणोरणशब्दयोरादौ रणवर्णादर्शनात्पाश्चादेव तद्दर्शनाच्चेति भावः । अत्र वारणस्य भगवद्गतिन्यूनीकरणरूपपरानिष्टप्रापणलक्षणेष्टानवाप्तिरुरणत्वरूपानिष्टावाप्तिश्च ॥

 यथावा--

 अभिभवितुं तव वदनं कुतुकादेत्यान्तरालकनिरस्तः । स निशाकरो निशारो भवन्हिमानिलनिवारणं विदधे ॥ १२४० ॥

 हे अम्ब! सः जगदाह्लाददायितया प्रसिद्धः निशाकरः तव वदनं अभिभवितुं कुतुकादेत्य अन्तरा मध्ये अलकैः चूर्णकुन्तलैरेव निरस्तः । ईदृशस्य साक्षात्प्रतिपक्षत्वद्वदनाभिभवोदवीयानिति भावः । पक्षे निशाकरशब्दः अन्तराळे स्वघटकवर्णमध्ये कनिरस्तः निरस्तककारस्सन्नित्यर्थः । निशारो भवन् हिमानिलनिवारणप्रावरणरूपो भवन् ‘निशारस्स्यात्प्रावरणे हिमनिलनिवारणे' इत्यमरः । पक्षे निशारशब्दो भवन्नित्यर्थः । हिमानिलनिवारणं तव वा अन्यस्य वा किंकरीभूयेति भावः । विदधे । अत्र निशाकरस्य श्रीवदनाभिभवानवाप्तिनिशारत्वरूपानिष्टावाप्तिश्च ।  यथावा--

 तावककीर्तिविजित्यै संमुखमुपयन्नथान्तरा भगवन् । शासनतश्च्युतवर्णस्सशङ्क एवाभवत्खलु शशाङ्कः ॥ १२४१ ॥

 हे भगवन् ! शशाङ्कः तावककीर्तेः विजित्यै विजयं कर्तुं कुतुकात् संमुखं अभिमुखं उपयन् । पक्षे मुखं सर्ववर्णेभ्योप्यादिमं सं सकारं प्राप्नुवन् सन्, अथ अविलम्बेनैव अन्तरा अस्मिन्नेवावसर इत्यर्थः । पक्षे मध्यभागे । शासनतः तदतिक्रमानुरूपात्त्वत्कृताच्छिक्षणात् । पक्षे शा इति वर्णस्य असनतः निरसनात् । च्युतवर्णः गळिततेजाः निरस्ताक्षरश्च सन् सशङ्क एव सव्यध एव अभवत् । पक्षे शशाङ्कशब्दः आदौ सकारन्यसनेन मध्ये शावर्णभ्रंशनेन च सशङ्क इति निष्पन्न इत्यर्थः ॥

 यथावा--

 त्वन्नखजिगीषुरेतैस्तलातलिहतोऽन्ततो विसर्गमयन् । दूनो भूत्वा भगवन्निन्दुः केवलमिनाश्रितः प्राणीत् ॥ १२४२ ॥

 हे भगवन्! इन्दुः त्वन्नखजिगीषुः अत एव तैः नखैः तलातलि तलैस्तलैः प्रहृत्येदं प्रवृत्तं युद्धं तलातलि । तस्मिन् हतः प्रहृतः अन्ततः विसर्गं अयन् प्राप्नुवन् दयया जीवेति दूरमुत्सृष्ट इति भावः । अत एव अतितरां दूनः परितप्तः भूत्वा केवलं इनाश्रितः अप्रसिद्धप्रभुसमाश्रितः प्राणीत् । यद्वा-- इनाश्रितः कंचित्प्रभुमाश्रितः केवलं प्राणीदिति योजना । प्राणधारणमात्रमकार्षीत् न तु तानभिभवितुं प्राभवदिति भावः । पक्षे इन्दुशब्दः अन्ततो विसर्गं विसर्जनीयं अयन् अनुज्झितविसर्गः केवलं दूनः दुवर्णन्यूनो भूत्वा इना इन् इति वर्णसमुदयेन श्रितः प्राणीत् स्वरूपसत्तामलभतेत्यर्थः । अन्यत्सर्वं प्राग्वत् ॥

 यथावा--

 नव्येन त्वन्महसा पराकृतो द्योच्युतस्स्वयं प्रतनः । प्रद्योतनः प्रहरणादवाक्शिरास्सन्नतोऽभ वद्भगवन् ॥ १२४३ ॥

 हे भगवन्! प्रद्योतनः भानुः त्वन्महोविजिगीषुरिति भावः । नव्येन नूतनेन यूनेति यावत् । स्तव्येनेति वस्तुस्थितिः । ‘णु स्तुतौ' अचो यत्’ इति यत् । तव महसा तेजसा पराकृतः तिरस्कृतः अत एव द्योच्युतः अन्तरिक्षात् स्वर्गाद्वा भ्रष्टः । तत्र हेतुः स्वयंप्रतन इति । प्रतनः पुराणः जीर्ण इति यावत् । 'नश्च पुराणे प्रात्' इति ट्युल् । ‘पुराणप्रतनप्रत्नपुरातनचिरन्तनाः' इत्यमरः । स्वयं स्थविरस्तरुणेन त्वन्महसा स्पर्धमानः कथं तेन नाभिभूयेतेति भावः । प्रहरणात् त्वत्तेजःकृतात्प्रहारात् अवाक्छिराः अवाक्कृतशिरास्सन् नतः प्रणतः अभवत्, तत्प्रहारभग्नो नमितशिराश्शरणं गत इति भावः । पक्षे प्रद्योतनशब्दः द्योच्युतः द्यो इति वर्णश्च्युतो यस्मात्स तथोक्तस्सन् प्रतनः प्रतम इति निषन्नोऽभवत् । अथ प्रहरणात् प्र इतिवर्णसमुदयलोपात् तं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी । अवाक्शिरास्सन् विलोमो भवन्निति यावत् । नतः अभूत् नत इति निष्पन्नोऽभूत् । प्रतनशब्दः प्रवर्णलोपानन्तरं अवशिष्टस्य त न इति वर्णद्वयस्य वैपरीत्येन नत इति निष्पन्न इति निर्गळितोऽर्थः । अत्र प्रद्योतनस्य भगवन्महोभिभवेच्छा समभिव्याहारवशाद्गम्या, अनिष्टप्राप्तिस्तु स्फुटैव । गतमन्यत् ॥

 यथावा--

 त्वद्वचनरसपरास्तं रसालखण्डं रसोनकाद्यमभूत् । भूत्वाऽथ कालखण्डं क्रव्यादास्वाद्यमजनि जननि ततः ॥ १२४४ ॥

 हे जननि! रसालखण्डं इक्षुखण्डं सहकारफलखण्डं वा । त्वद्वचनरसस्पर्धीति भावः । त्वद्वचनरसेन परास्तं सत् रसोनकाद्यं रसोनकानां लशुनानां आद्यं अग्र्यं । रसोनकं च तत् आद्यं चेति वा । रसोनकरूपभक्ष्यवस्तु अभूत् । 'लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः' इत्यमरः । प्रथमतस्सामान्येन मधुरतया प्रतीतमपि स्वस्वरूपापरिचिन्तनेन मधुरतमश्रीवचनरसाभिभवप्रवृत्ततया तत्तिरस्कृतं दुर्गन्धि समजनिष्टेति भावः । नैतावदेव, अथ अनन्तरं कालखण्डं यकृदाख्यमांसखण्डं भूत्वा 'कालखण्डयकृती तु समे इमे' इत्यमरः । क्रव्यमदन्तीति क्रव्यादः आममांसाशिनः पक्ष्यादयो राक्षसा वा । ‘क्रव्यान्मांसाशिरक्षसोः’ इति रत्नमाला । तेषां आस्वाद्यं अजनि, न तु रससारविदामिति भावः । पक्षे रसालखण्डमिति पदं रसोनं रेफसाकाराभ्यां हीनं तद्रहितमित्यर्थः । काद्यं काकार एवाद्यो यस्य तत् प्रथमतः काकारघटितमित्यर्थः । रसोनं च तत् काद्यं चेति विशेषणोभयपदसमासः । एवं भूत्वा कालखण्डमिति निष्पन्नमित्यर्थः । अत्र रसालखण्डस्य श्रीवचनरसपरिबुभूषोस्तदनवाप्तिः रसोनकत्वाद्यनिष्टप्रतिलम्भश्च ॥

 यथावा--

 वैश्वानरस्त्वदोजस्स्पर्धी तेनाहतोऽथ वैभ्रष्टः । व्यूष्माहारं मुञ्चन्वानरतामेत्य वान एवानीत् ॥ १२४५ ॥

 हे भगवन्! वैश्वानरः वह्निः वैश्वानरशब्दश्च । तयोस्तादात्म्यम् । तव ओजसा प्रतापेन स्पर्धत इति तथोक्तः । अत एव तेन आहतः अभिहतः अथ अनन्तरमेव भ्रष्टः । वैशब्दोsवधारणे । 'स्युरेवं तु पुनर्वैव’ इत्यमरवचनस्य ‘पुनर्वै च' इति सुभूतिना पठितत्वात् । एतच्च सुधायां स्पष्टम् । अधः पतित एवेत्यर्थः । शब्दपक्षे वैभ्रष्ट इति समस्तं पदम् । वैइत्याकारकवर्णभ्रंशं प्राप्त इत्यर्थः । व्यूष्मा विगतौष्ण्यः शान्तप्रताप इति यावत्। पक्षे विगशकार इत्यर्थः । 'शषसहा ऊष्माणः’ इति शकारस्योष्मसंज्ञाविधानात् । वानरतामेत्य अप्रतिपत्तिमूढहृदयतया कपिवदतिचपलो भूत्वेति भावः । पक्षे वै इति सस्वरव्यञ्जनस्य श् इति केवलव्यञ्जनस्य चापगमे वानर इत्यवशिष्ट इत्यर्थः । आहारं अभ्यवहारं मुञ्चन् पराभवमूलकखेदेन प्रायोपवेशं कुर्वन्निति भावः । पक्षे हा इति च्छेदः । रं रेफं मुञ्चन् वानः शुष्क एव सन् आनीत् कथंचित्प्राणानधार्षीत् । ‘वानश्शुष्के शुष्कफले' इति रत्नमाला । ‘वानश्शुष्कफले शुष्के सीवने गमने कटे' इति हेमश्च । 'पै ओ वै शोषणे' ‘गत्यार्थकर्मक' इत्यादिना क्तः । 'ओदितश्च' इति तस्य नत्वम् । ‘आदेच उपदेशेऽशिति’ इत्यात्वम् । पक्षे रेफस्यापि लोपे व न इत्यवशिष्टस्सन् आनीत् । तावन्मात्रेण सत्तामलभतेति भावः । अत्र वैश्वानरस्य इष्टानवप्त्यनिष्टप्राप्ती ॥

 यथावा--

 आद्यन्तयोर्विकलितस्तव कुचयुगलेन कमलमुकुलोऽम्ब । आद्यन्तसारताप्त्याऽमलमुकुरोऽप्यथ धुतः कपोलाभ्याम् ॥ १२४६ ॥

 हे अम्ब! कमलमुकुलः पद्मकोशः मृदुरेकाकी चेति भावः । तव कुचयुगळेन कठिनतरेण इतरेतरदत्तसाह्येन द्वंद्वभूतेनेति भावः । आद्यन्तयोः अदावन्ते च सर्वथेति भावः । विकलितः विकलः कृतः शक्त्यादिसाकल्यविधुरः कृतः स्वेन स्पर्धमानः परास्त इति भावः । अथ अनन्तरं आद्यन्तयोः सारः बलं यस्य तत्तथोक्तं, तस्य भावः आद्यन्तसारता, तस्याः आप्त्या प्राप्त्या सर्वथा शक्त्यादिमत्तालाभेन त्वत्प्रतिचिकीर्षुरिति भावः । अमलमुकुरस्सन्नपि निर्मलादर्शजन्म लब्धवानपीति भावः । तव कपोलाभ्यां धुतः दूरं परास्तः सारवतोऽप्येकस्य सारवत्तराभ्यां द्वाभ्यां स्पर्धमानस्य सर्वधा परिभव एव भवितेति भावः । अन्यत्र कमलमुकुलशब्दः आद्यन्तयोः विकलितः विभ्रंशितौ कलौ यस्य स तथोक्तः कृतः । क्रमेणादौ ककारस्य अन्ते लकारस्य च भ्रंशं प्रापित इति भावः । अथ आद्यन्तयोः सारताप्त्या अश्च रश्च अरौ अराभ्यां सह वर्तत इति सारः, तस्य भावः सारता तदाप्त्या । अदौ अकारस्य अन्ते रेफस्य च सम्बन्धेनेति भावः । अमलमुकुरः अमलमुकुरशब्दो भवन्नित्यर्थः । अत्र कमलमुकुलस्य न केवलं श्रीकुचयुगळानर्थप्रापणरूपेष्टानवाप्तिः किंतु विकलितत्वाद्यनिष्टप्राप्तिश्च । एवं तस्यैवामलमुकुग्रूपजन्मान्तरेऽपि न केवलं श्रीकपोलपरिभवरूपेष्टालाभः किंतु ताभ्यां स्वस्य धूननरूपानिष्टप्रतिलम्भश्च । एवं सर्वत्रापि बोध्यम् ॥

यथावा--

 निजविजयेप्सु तवाधररुचा परास्तं स्ववर्णतस्स्रस्तम् । घुणतां प्रपद्य घुसृणं लीनं काष्ठान्तरे क्वचित्सुषिरे ॥ १२४७ ॥

हे अम्ब! घुसृणं काश्मीरजं कुंकुममित्यर्थः । निजविजयेप्सु स्वकर्तृकत्वदधरकर्मकाभिभवप्रेप्सु । अत एव तव अधररुचा | परास्तं अवधीरितं अत एव स्ववर्णतः स्वकीयसुषमाया अपीति यावत् । स्रस्तं ध्वस्तं निस्तेजस्कमिति भावः । पक्षे घुसृणमिति पदं स्ववर्णतः आद्यादित्वात्सप्तम्यास्तसिः । स्वघटकवर्णेष्वित्यर्थः । स्रस्तः सृ इति वर्णः अस्तः निरस्तः यस्य तत्तथोक्तम् । सृ अस्त इति स्थिते यणादेशः । निस्सारितसृकारं सदित्यर्थः । घुणतां कीटतां पक्षे घुणशब्दतां प्रपद्य काष्ठान्तरे स्वनिवासाद्भ्रष्टं क्वापि दिगन्तरे, तत्रापि क्वचित्सुषिरे क्वापि कोणे । काष्ठान्तरे दार्वन्तरे तत्रापि क्वचिच्छिद्रे इति चोपस्कार्यम्। घुणानां दारुच्छिद्रान्तरावस्थानस्य प्रसिद्धत्वात् । लीनं लयं प्राप्तम् ॥

यथावा--

 त्वत्परिमळविद्धोऽगुरुरगमध्यस्थोऽप्यरुस्फुरन्मूर्तिः । मध्यस्थगुरगुरुस्सन्नगुरगुरासीत्ततो जगज्जननि ॥ १२४८ ॥  हे जगज्जननि! अगरुः राजार्हाख्यगन्धद्रव्यविशेषः प्रसिद्धः । 'वंशकागरुराजार्हलोहक्रिमिजजोऽङ्गकम्' इत्यमरः । पुल्लिंङ्गोऽप्ययं, तथाच द्विरूपकोशे श्रीहर्षः—- ‘अगरुश्चागुरुश्च' इति । हेमचन्द्रोऽप्यभिधानचिन्तामणौ ‘अगुरुस्त्वगरौ लघौ । शिंशुपायाम्' इति । वोपालितादयोऽप्येवम् । प्रयोगश्च ‘शीतकृत्तेऽगुरोर्मदः' इति । श्रीपरिमळाभिबुभूषुरिति गम्यते । अगमध्यस्थोऽपि तरूणां गिरीणां वा मध्ये स्थितोऽपि । अनेन--

धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥
सर्वेणापि प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥

इत्युक्तप्रकारेण अगदुर्गस्थितत्वं व्यज्यते । त्वत्परिमळेन त्वदङ्गसौरभेण । अस्य वीरपुरुषत्वं गम्यते वक्ष्यमाणार्थानुगुण्यात् । विद्धः शस्त्रादिना क्षतः परास्त इति तत्वम् । अत एव अरुर्भिः व्रणैः स्फुरन्ती मूर्तिर्यस्य स तथोक्तः । ‘व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । पक्षे अगरु: अगरुशब्दः ग: गकारः मध्यस्थो यस्य स न भवतीत्यगमध्यस्थः । तथाऽपि अरुस्फुरन्मूर्तिः अकाररुवर्णाभ्यां प्रकाशमानस्वरूपः गकारच्युतावपि अरु इति वर्णद्वयमात्रावशिष्ट इत्यर्थः । ततः मध्यस्थगुः मध्ये शरीरमध्ये स्थगु उरोनिस्सृतोन्नतविकृतावयवविशेषो यस्य स तथोक्तः ‘तवेदं स्थगु यद्दीर्घम्’ इत्यत्र श्रीरामायणभूषणे एवमेव विवृतम् । अतिमात्रविद्धतयाऽन्तर्भग्नोन्नद्धास्थिविशेषविकृत इति भावः । अत एव अगुरुः गौरवहीन इत्यर्थः । पक्षे मध्यस्थः गुः गुवर्णो यस्य तथोक्तस्सन् । अवशिष्टः अरुशब्दः मध्ये गुवर्णन्यसनेन अगुरुरिति निष्पन्नस्सन्नित्यर्थः । अरुरगुरिति समस्तं पदम् । अरुर्भिः व्रणैः अविद्यमाना गौर्यस्य तथोक्तः आसीत् ‘गोस्त्रियोः' इति ह्रस्वे एच इगादेशः । व्रणवेदनासंभ्रान्ततया 'दिशो मे विप्रणश्यन्ति' इत्युक्तरीत्या विनष्टदिग्विवेकः प्रणष्टवाग्व्यवहारो वा प्रतिहतदृष्टिप्रसरो वाऽभवदित्यर्थः । 'स्वर्गेषुपशुवाग्वज्रिदिङ्नेत्रघृणिभूजले । लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इत्यमरः । नित्यपुल्लिङ्गं परिमळशब्दं विभाषितपुंस्त्वं अगरुशब्दं च प्रयुञ्चानस्य कवेरयमाशयः— नित्यपौरुषेण पुंसा कादाचित्कपौरुषशाली कश्चित्पुमान् स्पर्धमानस्तेनावधीरित ईदृशीं दुरवस्थां प्राप्नुयादेवेति । पक्षे अरुः रुवर्णविधुरः अगुः अगुरिति निष्पन्नोऽभूदित्यर्थः । प्रथमं अगुरिति स्थितः ततो गकारलोपे अरुर्भूत्वा ततः अरुवर्णयोरन्तरे गुवर्णन्यासे अगुरुरिति ततश्च रुवर्णलोपे अगुरिति निष्पन्नोऽभूदयं शब्द इति निर्गळितोऽर्थः ॥

 यथावा--

 कीरस्तव तनुरुचिजयमीप्सुर्विधुतस्तया श्रियः कान्त । व्यत्यासितस्वरव्यञ्जनः करी भवतु तद्गतिमियात्किम् ॥ १२४९ ॥

 हे श्रियः कान्त! कीरः शुकः ‘कीरशुकौ समौ’ इत्यमरः । त्वत्तनुरुचिजयं ईप्सुः हरितश्यामलवर्णयोरैक्यस्य कविसमयसिद्धत्वाच्छुकस्य भगवत्तनुरुचिजयेप्सुतोक्तिः । तथा चोक्तमलंकारशेखरे--

कमलसंपदोः कृष्णहरितोर्नागसर्पयोः ।
पीतलोहितयोस्स्वर्णपरागाग्निशिखादिषु ॥

चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः ।
दानवासुरदैत्यानामैक्यमेवाभिसंहितम् ॥

इति । अत एव ‘शुकाङ्गनीलोपलनिर्मितानाम्’ इत्याद्युपपत्तिः । अत एव तया त्वत्तन्वा तद्रुचा वा विधुतस्सन्, स्त्रीपराभूतत्वं द्योत्यते । व्यत्यासिते स्वरव्यञ्जने स्वरः कण्ठजन्यध्वनिः व्यञ्जनं हरितवर्णत्वादिचिह्नं चञ्चुपक्षाद्यवयवो वा येन स तथोक्तस्सन्, स्वप्रतिपक्षभगवत्तनुरुचिजयोऽनेन रूपेण दुष्कर इति रूपान्तरप्रेप्सया प्राक्तनरूप त्यजन्निति भावः । करी भवतु गज एव भवतु । अल्पस्वरूपकीरत्वं विहाय महावयवो गज एव भवतु । तावताऽपि तद्गतिं त्वत्तनुस्थितिं स्वद्रुचिस्थितिं वा । सा गतिस्तद्गतिः तां तथा । गभीरोदारं त्वद्गमनं च इयात्किं विन्देत्किं, न विन्देदेव । न हि लावण्यविधुरनैल्यशरीरस्थौल्यादिपरिग्रहमात्रेण मयूरककण्ठमेचकलोकोत्तरभगवद्दिव्यविग्रहरुचिगत्यादिकं सुलभमिति भावः । पक्षे कीर इति शब्दः व्यत्यासितस्वरव्यञ्जनः स्वरौ ईकारः अकारश्चेत्यज्वर्णौ व्यत्यासितौ ययोस्ते । तादृशे व्यञ्जने क् र् इति ककाररेफरूपे हल्वर्णे यस्य स तथोक्तः, बहुव्रीहि गर्भबहुव्रीहिः । ईकाराकाररूपाज्वर्णयोरेव व्यत्ययः न तु ककाररेफरूपहल्वर्णयोरिति भावः । तथा सति कीरशब्दः करीति निष्पद्यतामित्यभिप्रायः । अत्र कीरेति प्रकृतिमात्रस्यैव विवक्षा न तु सुप्रत्ययविशिष्टस्य । 'स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ’ इति, ‘व्यञ्जनं श्मश्रुचिह्नयोः । तेमनेऽवयवे कादौ’ इति च विश्वहेमचन्द्रौ । अत्र कीरस्य न केवलं भगवत्तनुरुचिविजयालाभः, किंतु पूर्वसिद्धरुचिहानिरूपानिष्टलाभश्च ॥

 यथावा--

 कृतमुखतां राघव तव कृतहस्तत्वं च शिथि- लयितुमिच्छन् । भग्नमुखः प्रथमरणे त्वया दशास्यस्स्वयं विहस्तोऽभूत् ॥ १२५० ॥

 कृतमुखतां प्रशस्तवदनत्वमिति यावत् । कुशलत्वमिति वस्तुस्थितिः । ‘वैज्ञानिकः कृतमुखा कृती कुशल इत्यपि' इत्यमरः । कृतहस्ततां प्रशस्तपाणिमत्तामिति यावत् । शराभ्यासशिक्षितहस्तत्वमिति तत्त्वम् । ‘कृतहस्तस्सुप्रयोगः' इत्यमरः । भग्नमुखः मुखभङ्गं प्रापितः । पराभूत इति तु तत्वम् । विहस्तः हस्तविधुरितः व्याकुलश्च ‘विहस्तव्याकुलौ समौ' इत्यमरः । स्पष्टमन्यत् । अत्र दशास्यस्य राघवकृतमुखत्वकृतहस्तत्वशिथिलीकरणलक्षणपरानिष्टप्रापणरूपेष्टानवाप्तिः स्वस्य तादृशानिष्टप्राप्तिश्च ॥

 यथावा--

 मिथिलाधिनाथतनयां विरामयितुयुद्यतो भवन्तमपि । रजनीचरपतिरजनि स्वयं विरामो दिनेशवंशमणे ॥ १२५१ ॥

 मिथिलाधिनाथतनयां विरामयितुं रामविधुरां कर्तुं भवन्तं रामाविरहितं कर्तुं वियुक्तपत्नीकं विधातुम् । स्वयमेव विरामः रामविधुरितो रामाविधुरितश्च । वस्तुतस्तु स्वयं विरामोऽवसानं यस्य स तथोक्तः अजनि । स्पष्टमितरत् । अत्रापि पूर्ववदेव सर्वं द्रष्टव्यम् ॥

 यथावा--

 त्वत्कुचपरिभूतं तावभिभवितुं श्रीश्शम- न्ततो धून्वत् । कलशमथ वैशसंगतमग्रे भूत्वाऽपि शकलमेवासीत् ॥ १२५२ ॥

 हे श्रीः! कलशं कुम्भः 'कलशस्तु त्रिषु' इत्यमरः । क्लीबमेकमिति भावः । त्वत्कुचाभ्यां द्वाभ्यां पुम्भ्यामिति भावः । परिभूतं अत एव शमं शान्तिं धून्वत्, क्रुद्धं सदिति यावत् । अन्यत्र कलशं कलशपदं अन्ततः अन्ते विद्यमानं शं शकारं धून्वत् विसृजत् सत् अग्रे भूत्वा त्वत्कुचयोः पुरः स्थित्वाऽपि द्वंद्वयुद्धार्थमिति भावः । वैशसं विशसनं कुचकर्तृकं हिंसनं गतं प्राप्तं सत् । इतरत्र अग्रे मुखभागे वै इति भिन्नं पदं, शसंगतं शकारेण संबद्धं भूत्वा शकलमेव खण्डितमेव । पक्षे शकलमित्येव निष्पन्नमासीदित्यर्थः ॥

 यथावा--

 अवगणितस्तव वचसा शुचिर्द्विजो हन्त चारुवाकोऽपि । भवति रमेऽलसदूनश्चार्वाकस्साधु विप्रकृष्टोऽन्ते ॥ १२५३ ॥

 हे रमे! शुचिः विशदः द्विजः खगः हंस इत्यर्थः । शुद्धो विप्र इति च गम्यते । चारुः वाको वचनं यस्य सः चारुवाकः । श्रवणसुभगवचनः शास्त्रीयतया मनोहारिवचनश्च । वाक इत्यत्र वचेर्भावे घङि ‘चजोः कु घिण्ण्यतोः' इति कुत्वम् । तथाविधोऽपि तव वचसा वचनेन लक्ष्मीतन्त्रादिरूपशास्त्रेणेत्यपि गम्यते । अवगणितः तेन स्पर्धमानोऽवमत इत्यर्थः । महिळालापानां मराळालापसाधर्म्यं च--

आलापैस्तुलितरवाणि माधवीनां
माधुर्यादमलपतत्रिणां कुलानि ॥

इत्यादौ प्रसिद्ध्यति । अत एव अलसः प्रतिकर्तुमपटुः दूनः परितप्तश्च अलसदूनः विशेषणोभयपदकर्मधारयः । अत एव अन्ते दूरतरप्रदेशे साधवो ये विप्राः तैः कृष्टः निष्कासितः साधूनां सतां विप्रकृष्टः दूरस्थ इति वा । 'स्याद्दूरं विप्रकृष्टकम्' इत्यमरः । बहिष्कृत इति भावः । साधु यथास्यात्तथा वीनां पक्षिणां प्रकृष्टः श्रेष्ठ इति वस्तुस्थितिः । चार्वाकः चार्वाकमतावलम्बी भवति । अनुपादेयवचनो भवतीति भावः । यथोच्यते चतुर्विंशतिमते--

अर्हच्चार्वाकवाक्यानि बुद्धादिपठितानि च ।
विप्रलम्भकवाक्यानि तानि सर्वाणि वर्जयेत् ॥

इति । पक्षे भवतीति संबुद्ध्यन्तम् । हे भवति! पूज्ये इत्यर्थः । अलसदून इत्यत्र अलसत् ऊनः इति च्छेदः । चारुवाकशब्दः ऊनः उकारेण न्यूनः चार्वाक इति निष्पन्नस्सन् अलसदिति योजना । लसतेर्लङ् । यद्वा अलसत् रलयोरभेदात् अरसत् जलदवन्निरर्थकं शब्दमकरोत् अक्रन्ददिति यावत् । ‘रस शब्दे’ अस्माद्भौवादिकाल्लङ् । अत्र श्रीवचनाभिभवेच्छोरमलद्विजस्य न तदलाभ एव, परं तु तदवगणिततया अलसदूनत्वाद्यनिष्टप्रतिलम्भश्च शब्दार्थतादत्म्यावलम्बिश्लेषभित्तिकाभेदाध्यवसायातिशयसौभाग्यसमासादितोत्कर्ष इति ध्येयम् ॥

 यथावा--

 अम्ब तवोरुस्पर्धिन्यासीद्बत कदलिकापदाऽभिहता । कलिका सत्यथ नखरैर्वृद्धा भूत्वाऽथ कालिका चिकुरैः ॥ १२५४ ॥

 हे अम्ब! कदलिका रम्भा । स्त्री एकाकिनीति भावः । पक्षे-- कदलिकेति शब्दव्यक्तिः तव ऊरुभ्यां 'सक्थि क्लीबे पुमानूरुः' इत्यमरः, द्वाभ्यां पुम्भ्यामिति भावः, स्पर्धत इत्यूरुस्पर्धिनी सती, स्पर्धा संघर्षः स च पराभिभवेच्छा । अत एव पदा पादेन त्वयेति शेषः । अभिहता आसीत् । पक्षे अपदेति च्छेदः । अभिहता सती अपदा अपहृतदकारा आसीदित्यर्थः । अथ कलिका सती कोरकुरूपा सती रूपान्तरपरिग्रहेण यत्किंचित्त्वद्वस्तुनिरासतो वैरशुद्धिं चिकीर्षन्तीति भावः । पक्षे कदलिकाशब्दव्यक्तिः दकारोत्सारणेन कलिकेति निष्पन्नेत्यर्थः । 'कलिका कोरकः पुमान्' इत्यमरः । तव नखरैः नखैः अभिहता पराजिता आसीत् । अथ वृद्धा अभिवृद्धा प्रौढा सती कालिका मेघसंहतिः भूत्वा तज्जन्मलब्ध्वेति भावः । तव चिकुरैः अभिहता अभिभूता आसीत् । कालिका दुर्गादेवी भूत्वाऽपीति गम्यते । 'कालिका योगिनीभिदि । स्वर्णादिदोषे मेघाळ्यां सुरागौर्योर्नवाम्बुदे’ इति हेमः । पक्षे वृद्धा कलिकेति शब्दव्यक्तिः आदेरचो वृद्धिं प्राप्य वृद्धसंज्ञा सती 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्’ इत्यनुशासनात् कालिकेति निनिष्पद्यमानेत्यर्थः । अत्र कदलिकायास्सर्वधाऽपि लक्ष्म्या ऊर्वाद्यभिभवंरूपानर्थप्रापणरूपेष्टानवाप्तिः पादाहननाद्यनिष्टपरंपरावाप्तिश्च निबद्धा ॥

 यथावा--

 त्वत्तनुजयाय जहती प्रतिकूलाद्यन्तकाकरूपत्वम् । क्रमतस्सविता भवतात्तदपि रमे कदलिका विदलिता स्यात् ॥ १२५५ ॥

 हे रमे! कदलिका रम्भा । तव 'हिरण्यवर्णो’ ‘आदित्यवर्णे' इति श्रुतिप्रथितवर्णाया इति भावः । तनोः जयाय अभिभवाय प्रतिकूलं स्वाभीप्सितादित्यवर्णश्रीतनुजयविरोधि यत् आद्यन्तं आद्यन्तावभिव्याप्य आपादमस्तकमिति यावत्, काकरूपत्वं वायसतुल्यवर्णत्वं इङ्गालवदस्निग्धनीलवर्णत्वमिति भावः । पक्षे प्रतिकूलयोः विपर्यस्तयोः अद्यन्तयोः आद्यन्तवर्णयोः काकरूपत्वं अन्त्यवर्णे कारूपत्वं आद्यवर्णे करूपत्वं चेत्यर्थः । शब्दार्थतादात्म्यवैभवेन कदळिकायाः काकरूपतानिर्वाहः । जहती सती क्रमतः कालक्रमेण सविता भास्कर एव भवतात् भूयादित्याशीः उपहासार्था । पक्षे क्रमतः आद्यन्तवर्णयोः न तु पूर्ववद्विपर्ययेणान्त्याद्ययोः सविता वि ता इति वर्णाभ्यां सह वर्तत इति तथोक्ता । क्रमेणादौ विवर्णेन अन्ते तावर्णेन च सहितेत्यर्थः । स्यात् तदपि तथाऽपि विदलितैव विशीर्णैव स्यात् । स्वेप्सितासिद्धेरिति भावः । कदलिकेति शब्दव्यक्तिरुक्तरीत्या वर्णविपर्यासेन विदळितेति निष्पद्येतेत्यर्थः । अत्राप्युभयं स्पष्टम् ॥

 यथावा--

 अवधीरणं विधातुं भवतो नक्तंचरेन्द्र उद्युक्तः । अवधीरणमुपयातं यतनादतनोस्तमेव बत भगवन् ॥

 हे भगवन्! नक्तंचरेन्द्रः भवतः अवधीरणं अभिभवं विधातुं उद्युक्तः । यतनात् यत्नात् तमेव नक्तंचरेन्द्रमेव अवधीरणं उपयातं प्राप्तवन्तं अतनोः अकरोः । बतेत्याश्चर्ये । अन्यत्र अवधीः रणं इति च्छेदः । अतनोः अनल्पात् । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गावलस्य’ इति पुंवद्भावः । यतनात् यत्नात् यततेर्भावे ल्युट्, रणं युद्धं उपयातं तमेव अवधीः हतवानिति योजना । अत्र यद्यपि यथाश्रुतप्राथमिकार्थपक्षेऽपि विवक्षितेष्टानवाप्त्यनिष्टप्राप्ती भवत एव । तथाऽपि दैतीयीकार्थप्रदर्शनं उत्कटानिष्टप्राप्तिरूपचमत्कारातिशयायेति ध्येयम् ॥  यथावा--

 विजिगीषु हरेर्नयनं भुजगगिरीन्दोः पदाहतं नलिनम् । खञ्जमभूदुच्चारणपाटवविधुरा वदन्ति तत्कञ्जम् ॥ १२५७ ॥

 पदाहतं चरणेन ताडितं जितं च । खञ्जं प्रतिहतगातिकम् । 'खजि गतिवैक्लब्ये' इति हि धातुः । 'खोडे खञ्जः' इत्यमरः । इदमपह्नुतिशिरस्कमिति वैलक्षण्यम् । वस्तुतस्त्विदमपह्नुतेरेवोदाहरणमिति युक्तं, तस्या एवात्र प्राधान्येन चमत्कृतिजनकत्वात् । प्राधान्येन हि व्यपदेशा भवन्तीत्यसकृदवोचाम । एवमुदाहरणान्तरेऽपि यथायथमूह्यम् ॥

 यथावा--

 त्वद्धामाक्रमितुं ये बद्धास्थाः पौरुषाद्वृषाद्रिमणे । त्वच्छेषैस्तेऽपास्ताः पाषण्डाश्श्रीपतेऽभवन् षण्डाः ॥ १२५८ ॥

 हे वृषाद्रिमणे! श्रीपते! ये पाषण्डाः

येऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः ।
नारायणाज्जगन्नाथात्ते वै पाषडिनस्स्मृताः ॥

इत्याद्युक्तलक्षणाः । 'पाषण्डास्सर्वलिङ्गिनः' इत्यमरः । पौरुषात् पराक्रमात् अभिनिवेशादिति यावत् । ‘पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि' इति मेदिनी । तव धाम वृषाद्रिस्थं दिव्यालयं तत्र स्थितं त्वदर्चादिव्यविग्रहं च ‘गृहदेहत्विट्प्रभावा धामानि' इत्यमरः । आक्रमितुं स्ववशे विधातुं बद्धास्थाः कृतपणबन्धा इति यावत् । अभूवन् । ते पाषण्डाः त्वच्छेषैः त्वद्दासैः भागवतैः शेषावतारैर्भगवद्रामानुजमुनिभिरिति हृदयम् । पूजायां बहुवचनम् । अपास्ताः निरस्तास्सन्तः षण्डाः क्लीबकल्पाः निष्पौरुषा अभवन् । पक्षे पाषण्डाः पास्ताः निरस्तपावर्णाः षण्डा इति निष्पन्ना इत्यर्थोऽपि चमत्कारी ॥

 अत्र विपक्षोपप्लवविक्लबतया प्रार्थयमानाय भक्तिधनाय कस्मैचिन्महीक्षिते रक्षणार्थं वितीर्णशङ्खचक्रतया शन्यपाणिं दिव्यार्चारूपं भगवन्तं अयं सुब्रह्मण्य एवेति स्ववशे विधातुं तं विवदमानाः कतिचन पाषण्डाः स्वमहिम्ना शेषरूपतो भगवदालय सोमसुत्रान्तराळात्प्रविश्य तमर्चारूपं भगवन्तं ग्राहितशङ्खचक्रं विदधानैश्श्रीभाष्यकारैर्निरस्ता इत्यैतिह्यमनुसंहितम् । अत्र पाषण्डानां त्वद्धामाक्रमणरूपपरानिष्टप्रापणलक्षणेष्टानवाप्तिः षण्डता रूपानिष्टप्राप्तिश्च ॥

निविवेदयिषुश्शौरेस्तद्दत्तां विश्वतोमुखम् ।
कवितां हन्त नास्मार्षं बहूदाहृतिसाध्वसम् ॥

 एवं परस्य दुःखसाधनप्रापणरूपेष्टाप्राप्तिः स्वस्य दुःखसाधनरूपानिष्टप्राप्तिश्चेत्युभयं दर्शितम् । परस्य सुखसाधननिवृत्तिरूपेष्टार्थोद्योगात्तदनिवृत्तिः, स्वस्य दुःखसाधनप्राप्तिश्चेत्युभयं यथा--

 दशवदनः किल पतिसुखविकलां विपुलात्मजां विधातुमनाः । निजदयितामेव तथा व्यधित रघूत्तमशराहतिव्यथितः ॥ १२५९ ॥

 व्यधित विपूर्वकाद्वधातेरात्मनेपदिनः कर्तरि लुङ्, अकार्षीदित्यर्थः । अत्र रावणेन चिकीर्षितं भगवत्या वैदेह्याः पतिसुखवैकल्यं न कृतं, किंतु स्वदयिताया एव तत्संपादितम् । यद्यपिसुखसाधननिवृत्तेर्दुःखसाधनरूपत्वान्न पृथग्गणना युक्ता, तथाऽपि दुःखसाधननिवृतौ सुखस्येव सुखसाधननिवृत्तौ दुःखस्यापि प्रतिनियतकारणजन्यत्वेनानैयत्यात्पृथगुपादानमिति ध्येयम् ॥

 यथावा--

 वैदेहीकबळनतो विदारयितुमुद्यता रघूत्तंसम् । स्वयमेव यातुभगिनी नासाकर्णे विदारिता विकृता ॥ १२६० ॥

 विदारं कर्तुं विदारयितुं विकळत्रं कर्तुमित्यर्थः । विदारयितुं विदलयितुमिति च । नासाकर्णे इत्यत्र प्राण्यङ्गत्वादेकवद्भावः । अत्र भगवतो दाशरथेस्सुखसाधनीभूतवैदेहीकबळनेन दुःखसाधनप्रापणोद्यतायाश्शूर्पणखाया न परं तदलाभः, परंतु आत्मन एव कर्णनासविदारणरूपानिष्टप्राप्तिः । इयं श्लेषोत्तम्भिता । पूर्वोदाहरणं शुद्धम् ॥

 यथावा--

 प्रह्लादेन कृतायास्त्वद्भक्तेर्निरसनाय यतमानः । नृहरे हिरण्यकशिपुस्त्वत्तस्स्वयमेव निरसनमयासीत् ॥ १२६१ ॥

 निरसनाय प्रतिपक्षेपाय । निरसनं प्रतिक्षेपं वधं च । 'निरसनं वधे प्रतिक्षेपे' इति मेदिनी । अत्र हिरण्यकशिपुना विधित्सितं प्रह्लादसंबन्धिनिरतिशयसुखसाधनभूतभगवद्भक्तिकर्मकनिरसनं न विहितं, किंतु स्वयमेव निरसनमासादितम् । इदमपि श्लेषगर्भमेव । परिसंख्यालंकारसंकीर्णत्वं तु सर्वत्र तुल्यमेव ॥  यथावा--

 तव सद्गतिं चरणयोरसहिष्णुस्तच्चुचोरयिषुरेत्य । स्वगतिभ्रंशोद्गजपतिरलभत जपतोपि नात्मनस्सत्ताम् ॥ १२६२ ॥

 हे भगवन्! गजपतिः तव चरणयोः पादयोः त्वदीययोः, शाखाध्येत्रोर्विप्रयोरित्यपि गम्यते । ‘चरणोऽस्त्री बह्वृचादौ मूलेगोत्रे पदेऽपिच' इति मेदिनी । सद्गतिं प्रशस्तं ज्ञानं उत्तमलोकावाप्तिसाधनभूतां विद्यामिति यावत् । 'गतिस्स्त्री मार्गदशयोर्ज्ञाने यात्राभ्युपाययोः' इति मेदिनी । प्रशस्तं गमनमिति तु तत्वम् । असहिष्णुः । "न लोक" इत्यादिना षष्ठीनिषेधात्कर्मणि द्वितीया । अतएव तच्चुचोरयिषुः त्वच्चरणगतिजिहीर्षुः । एत्य तदभिमुखो भूत्वा स्वगतैः स्वज्ञानस्य स्वगमनस्य च भ्रंशात् भ्रंशं च्युतिं एत्य । ल्यब्लोपे पश्चमी । जपतोऽपि स्तेयदोषनिरासिवेदाध्ययनेनापि ‘स्वाध्यायस्स्याज्जपः' इत्यमरः । आत्मनस्सत्तां स्वस्वरूपस्थितिं सत्तां अभ्यर्हिततां प्रशस्ततां वा । ‘सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः । नालभत । पक्षे गजपतिशब्दः स्वगतिभ्रंशात् स्वनिष्ठयोः ग ति इति आद्यन्तवर्णयोः भ्रंशं प्राप्य जपतः मध्येऽवशिष्टेनापि वर्णद्वयेन आत्मनस्सत्तां गजपतिरित्याकारकशब्दस्वरूपस्थितुिं नालभतेत्यर्थः । अत्र गजपतिना भगवच्चरणयोरुत्तमसुखसाधनभूतसद्गतिनिवृत्तिरूपेष्टार्थो नासादितः, अपितु स्वगतिभ्रंशरूपानिष्टार्थ एव समधिगतः । अयं च चरणादिशब्दप्रतिपाद्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसायजीवातुक इत्यवधेयम् ॥  केवलेष्टानवाप्तिर्यथा--

 कैकेयीवरयुगवशदशरथवचनाद्भवन्तमाप्तवनम् । विनिवर्तयितुमनीशो न्यवृतद्रघुवंशदिनमणे भरतः ॥ १२६३ ॥

 अत्र भरतस्य स्वाग्रजरामभद्रवनवासनिवर्तनरूपेष्टानवाप्तिमात्रं निबद्धम् ॥

 यथावा--

 मूढगुणं व्पपवोढुं गाढं श्रीपरिभृढं व्रजन् शरणम् । चेतनवर्गो बाढं समूढगुण एव भवति चित्रमिदम् ॥ १२६४ ॥

 मूढगुणं मौढ्यमित्यर्थः । सः मूढगुण इति च्छेदः । सः शरणं व्रजन् पुमान् मूढगुण एवेति विरोधः । समूढाः सपुञ्जिताः गुणाः 'अष्टा गुणा पुरुषं भूषयन्ति' इत्युक्ताः महागुणाः यस्य स तथोक्त इति परिहारः । महार्हगुणसंपन्नो भवतीत्यर्थः । 'समूढः पुञ्जिते भुग्ने' इति विश्वः । अत्र मूढगुणव्यपोहनप्रेप्सोश्चेतनवर्गस्य तदलाभमात्रमेव । न त्वनिष्टान्तरोपलम्भः । पूर्वं शुद्धं, इदं श्लेषसङ्कीर्णमिति विशेषः ॥

 यथावा--

 अवलम्ब्य त्वत्पदमप्यप्राप्य त्वत्तनूपमामभ्रम् । अमुखमभूत्किल विष्णो भ्रान्तस्येष्टं कथं भवेत्सफलम् ॥ १२६५ ॥  हे विष्णो! त्वत्पदं त्वच्चरणं तत्तदीप्सितानुगुणसकलफलप्रदमिति भावः । पक्षे विष्णुपदं अन्तरिक्षमित्यर्थः । ईदृशार्थविवक्षयैव विष्णो इति संबोधनम् । अभ्रं वारिवाहः त्वत्तनूपमां त्वद्दिव्यविग्रहतुलां तव तनुं अल्पामप्युपमामिति च गम्यते । अलब्ध्वा अमुखमभूत् । इयं लोकोक्तिः । ईप्सितानवाप्तेस्त्रपथा कस्यचिदपि वदनमुन्नमय्य दर्शयितुं न प्राभवदिति भावः । अमुखं अकारमुखवर्णमिति वस्तुस्थितिः, अभ्रशब्दस्य तथात्वात् । तथाहि, भ्रान्तस्य अनवस्थितचेतसः तीव्रतमपवमानविक्षेपक्षुभितस्य च विष्णुपदाश्रयणेऽपि इष्टं ईप्सितं कथं सफलं भवेत् । क्षिप्तविक्षिप्तभूमिगतस्य चित्तस्यैकाग्र्यासिद्धेर्न योगस्यैव निष्पत्तिः कथं तत्साध्यं फलं सिध्येदिति भावः । अभ्रमपि भ्रान्तमेव शब्दार्थयोस्तादात्म्यात् । अत्राभ्रस्य भगवद्दिव्यविग्रहसाम्यरूपेष्टानवाप्तिमात्रं श्लेषसङ्कीर्णत्वं पूर्ववदेव । एवमुत्तरत्रापि । यद्यमुखत्वमनिष्टमित्यभिमतं तर्हीष्टानवाप्त्यनिष्टप्राप्तिरूपस्य एतद्विषमप्रभेदस्यैवेदमुदाहरणं भवितुमर्हतीत्यवधेयम् ॥

 यथावा--

 आदौ शतक्रतुमणिस्त्वद्रुचिलाभाय तन्तुसंनाहम् । प्राप्तोऽप्यशकनतोऽमुं मुक्त्वाऽऽसीन्नाथ शक्रमणिरेव ॥ १२६६ ॥

 हे नाथ! शतक्रतुमणिः इन्द्रनीलरत्नं आदौ त्वद्रुचिलाभायतां लब्धुं तन्तोः प्रतिसरसूत्रस्य संन्नाहं बन्धं प्राप्तोऽपि तदर्थं बद्धकङ्कणोऽपीत्यर्थः । सुवर्णादिसूत्रग्रथनं प्राप्त इति तत्त्वम् । तं तवर्णं तुसंनाहं तुवर्णसंबद्धत्वं च प्राप्त इति वस्तुस्थितिः । अशकनतः विवक्षितेप्सितसाधनाशक्तत्वात् अमुं तन्तुसंन्नाहं प्रीतसरबन्धं मुक्त्वा विसृज्य तं तु संनाहमिति च्छेदः। तुशब्दोऽवधारणे । तं तु तथाविधमेव संनाहं प्राप्तोऽपि अशक्ततया अमुं एवंविधं तं सन्नाहं प्रयत्नमेव मुक्त्वेत्यपि गम्यते । पक्षे तं तकारं तुसंनाहं तुवर्णसंबन्धं च त्यक्त्वा शक्रमणिरेव यथापूर्वमिन्द्रनीलरत्नमेव आसीत् । न तु त्वद्रुचिमलभतेति भावः । पक्षे शतक्रतुमणिशब्दः उपपादितरीत्या तकारतुवर्णयोस्त्यागे शक्रमणिरिति निरपद्यतेत्यर्थः । अत्र शतक्रतुमणेरिष्टालाभमात्रम् । वक्ष्यमाणपूर्वरूपसङ्कीर्णम् ॥

 यथावा--

 हरिसखि रसालसारस्त्वद्वचनसुधात्मनाऽवतरणाय । अधरितशीर्षोपि न तद्विन्देत रसालसार एव स्यात् ॥ १२६७ ॥

 रसालसारः इक्षुरसः सहकारफलरसो वा रासलसार एव स्यात् न तु त्वद्वचनसुधात्मनाऽवतरेदित्यर्थः । रसालसारशब्दो विलोमतया पठितोऽपि तुल्यरूप एवेति तत्त्वम् । अन्यत्सुगमम् । अत्र रसालसारस्य केवलमिष्टानवाप्तिः । इदमपि वक्ष्यमाणपूर्वरूपोपस्कृतमेव ॥

 यथावा--

 विजिगीषु नारिकेलं द्वंद्वप्रथितौ तव स्तनौ तरूणौ । मध्येऽक्षरद्वयधश्च्युन्नलिनेक्षणतरुणि नालमेवासीत् ॥ १२६८ ॥

 हे नलिनेक्षणतरुणि! इदं च वक्ष्यमाणस्तनतारुण्योपस्कारकम, । नारिकेलं नारिकलफलं कर्तु क्लीबमेकमेवेति भावः । द्वंद्वप्रथितौ युद्धप्रख्यातौ । युग्मतया प्रसिद्धाविति वस्तुस्थितिः । द्वंद्वमिति प्रथितावितिविग्रहः । 'द्वंद्वं कलहयुग्मयोः' इत्यमरः । तरुणौ वयस्थौ तव स्तनौ पुमांसौ द्वाविति भावः । विजिगीषु स्वपरबलाबलानालोचनेन जयेच्छामात्रं कृतवदिति भावः । मध्ये इष्टलाभेच्छयोरन्तरालं क्षरत् क्षयं प्राप्नुवत् । तत्र हेतुः वयश्च्युदिति । वयसः यौवनरूपाद्वयसः च्यवत इति वयश्च्युत् ‘च्यु च्यवने’ अस्माद्भौवादित्क्विप् तुक् । स्थविरमित्यर्थः । नालमेव असमर्थमेव आसीत् अलं समर्थंनासीदिति वा योजना । नालमात्रावशिष्टमित्यपि गम्यते स्वयं षण्डो वृद्धः क्षीण एकश्च द्वौ युद्धोद्धतौ वयस्थौ वयस्स्थाश्रितौ च विजेतुं कथं शक्नुयादिति भावः । पक्षे नारिकेळं नारिकेळमिति पदं मध्ये अन्तराले अक्षरद्वयश्च्युदिति समस्तं पदम् । अक्षरद्वयं वर्णयुग्मं श्च्योततीति तथोक्तम् । ‘श्च्युतिर् क्षरणे' अस्माद्भौवादिकात्क्विप् । द्रवद्रव्यकर्तृक एवायमकर्मकः स्रवतिवत् । अत्राद्रवद्रव्यकर्तृकत्वेन सकर्मत्वम् । अक्षरद्वयात् श्च्योततीति वा विग्रहः । वर्णद्वयच्युतमित्यर्थः । नालमित्येवासीत् । नारिकेलमिति पदं रि के इति वर्णद्वयविधुरं नालमित्येवावशिष्टमभूदित्यर्थः । अत्र नारिकेलस्येष्टालाभमात्रम् । इष्टस्य परानर्थप्रापणरूपत्वविवक्षायामिदं वक्षमाणप्रभेदस्यैवोदाहरणं भविष्यतीति ध्येयम् ॥

 यथावा--

 ये वैतरण्यतीतेस्तव जननि जना हरिं दिदृक्षन्ते । तान्वैतरण्यतीतेर्दर्शयसि हरिं न जात्विति विचित्रम् ॥ १२६९ ॥  हे जननि! ये तव जनाः त्वद्भक्ताः । वै इति प्रसिद्धौ । तरण्यतीतेः सूर्यातिक्रमं प्राप्य भानुमण्डलभेदनपूर्वकमिति भावः । हरिं वासुदेवं दिदृक्षन्ते द्रष्टुमिच्छन्ति ‘ज्ञाश्रुस्मृशां सनः’ इति तङ् । तान् जनान् जात्वपि तरण्यतीतेः हरिं न दर्शयसि वै । इदं विचित्रम् । वैतरण्यतीतेरिति समस्तं पदम् । वैतरण्याः यमपुरद्वारतरङ्गिण्याः अतीतेः हरिं यमं न दर्शयसीति परिहारः । ‘दृशेश्च' इति द्विकर्मकत्वम् । अत्र श्रीभक्तानामिष्टालाभमात्रं श्लेषेण दर्शितम् ॥

 यथावा--

 आश्रित्यानन्तपदं तपत्वधश्शीर्षमेव तदपि रमे । भविता यथापुरं न तु तव पदरुचि जन्म भानुभा भजते ॥ १२७० ॥

 भानुभा रविप्रभा । अनन्तपदं भगवच्चरणं अन्तरिक्षस्थानं च आश्रित्य तपतु तपश्चरतु तापं भजतु च । यथापुरमेव भविता भानुभैव भवेत् । न तु त्वच्चरणप्रभात्मना जन्म भजते । भानुभाशब्दो विलोमत्वेऽपि भानुभेत्येव संपद्यते न त्वन्यामानुपूर्वीं लभते । अत्र भानुभाया लक्ष्मीचरणप्रभात्मना जन्म प्रेप्सोरधश्शीर्षं भगवच्चरणे तपश्चर्ययाऽपि तदलाभमात्रं निबद्धम् । श्लेषपूर्वरूपसंकीर्णम् ॥

 यथावा--

 ननु कालिकाऽखिलाम्ब त्वत्कबरीजन्म लब्धुमिच्छन्ती । अथ यद्यधश्शिरास्स्यात्तदाऽपि सा कालिकैव न तु कबरी ॥ १२७१ ॥  कालिका कादम्बिनी । ‘मेघजालेऽपि कालिक’ इत्यमरः । अत्रापि कालिकाया इष्टानवाप्तिमात्रं पूर्वरूपसंभावनासंकीर्णम् ॥

 केवलानिष्टप्रतिलम्भो यथा--

 पद्माकरपद्मस्थितियोग्यं स्यामिति विवल्गसि न वेत्सि । तेन परिभूतिमम्बुज जडजातत्वं । तवैतदेव खलु ॥ १२७२ ॥

 हे अम्बुज! पद्मायाः लक्ष्म्याः करपद्मे पाणिपङ्कजे या स्थितिः अवस्थानं तस्याः योग्यं स्यामिति विवल्गसि उत्प्लवसे । तेन श्रीपाणिपद्मेन । तवेत्येतदुत्तरवाक्यादपकृष्यते । तव परिभूतिं न वेत्सि । ‘उभयप्राप्तौ कर्मणि’ इति कर्मण्यवे षष्ठी न तु कर्तरि। स्पष्टमन्यत् ॥

 यथावा--

 अधिरोहसि वृषभूमिभृदधित्यकां घन रमेशसेवेच्छुः । स हि हरते तव लक्ष्मीं न हि जडहृद्वेद भाविनमनर्थम् ॥ १२७३ ॥

 हे घन! हे जीमूत! वृषभूमिभृतः आधत्यकां ऊर्ध्वभूमिं ‘भूमिरूर्ध्वमधित्यका' इत्यमरः । जडहृत् स्तब्धमनाः लडयोरभेदात् जलं हृदि अन्तःप्रदेशे यस्य स तथोक्तः । समुद्राज्जलं हरतीति वा तथोक्तः । स्फुटार्थमन्यत् । अत्र उदाहरणद्वये क्रमेण अम्बुजाम्बुदयोर्लक्ष्मीकरपद्मस्थितियोग्यत्वभाग्यश्रीनिवाससेवाभागधेयरूपेष्टार्थलाभौ स्त एव । किंतु तत्कर्तृकपरिभूतिलक्ष्मीहरणरूपोत्कटानिष्टप्रतिलम्भावपीति केवलानिष्टप्रतिलम्भरूपविषमामदम् ॥  यथावा--

 कमलं त्वन्नयनरुचा प्रमथितरोचिः प्रपद्य पुंस्त्वमथ । वञ्चयितुमुपेत्य त्वां त्वया पराहण्यते परा राम ॥ १२७४ ॥

 हे राम ! इदं वक्ष्यमाणार्थस्य तदवतारकृतत्वद्योतनाय । कमलं नलिनं क्लीबमिति भावः । त्वन्नयनरुचा स्त्रियेति भावः । प्रमथितरोचिस्सत् अथ पुंस्त्वं पुरुषत्वं पुल्लिङ्गतां च प्रपद्य तत्प्रतीकारार्थं कमलो मायामृगो भूत्वेति भावः । ‘स्यात्कुरङ्गेऽपि कमलः' इत्यमरः । पुरा पराहण्यते पराहण्यतेत्यर्थः । ‘पुरि लुङचास्मे' इति पुराशब्दयोगे भूतेऽर्थे लट् । ‘हन्तेरत्पूर्वस्य' इति णत्वम् । स्पष्टमितरत् । अत्र कमलस्य श्रीरामवञ्चनरूपेष्टसिद्धिरस्त्येव । परंतु पराहतिरूपोत्कटानिष्टप्रतिलम्भश्चेतीदमपि केवलानिष्टप्रतिलम्भरूपमेव ॥

 यथावा--

 ननु चपलेऽशनिसहभूर्नित्यश्रीप्सुश्श्रिता श्रियो मध्यम् । भवसि च यथेप्सितश्ररिशनाभावः परंतु तेऽत्र स्यात् ॥ १२७५ ॥

 अशनिनां अशनवतां, भूम्नि नित्ययोगे वा मत्वर्थीय इनिः । सहभूः सहजन्मा तैस्सह जातेत्यर्थः । तस्यास्संबुद्धिः हे अशनिसहभूः! पक्षे अशनेः वज्रस्य सहभूः विद्युदशन्योरेकत्रावस्थानात्तथोक्तिः । नन्विति सुकुमारामन्त्रणे । ननु चपले हे सौदामनि! चापल्यं सूचयितुमिदम् । त्वं नित्यश्रियं अचञ्चलां लक्ष्मीं इप्सुस्सती श्रियः संपदः भगवत्या लक्ष्म्याश्च मध्यं अन्तरं अवलग्नं च श्रिता सती यथेप्सितश्रीश्च भवसि परंतु ते तव अत्र श्रीमध्ये अशनाभावः स्यात् आहारदौर्लभ्यं भवेत् अशनशालिसहभूस्त्वं तावन्मात्रेणापरितुष्यन्ती ततोऽतिशयितां श्रियमपेक्षमाणा तां लभस एव परंत्वशनाभावरूपमहानिष्टं च लप्स्यसे इति भावः । यथोच्यते--

यावद्भ्रियेत जठरं तावत्कुर्यादुपार्जनम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥

 इति । शनिसहभूरिति च लभ्यते । तदा शनिना सह स्थिता शनिपीडितेति यावत् । एवं शनिपीडितायाः कथंचिदिष्टलाभेऽप्यनिष्टलाभो दुष्परिहार इति भावः । पक्षे यथेप्सितश्रीः रशनाभाव इति च्छेदः। ‘रो रि’ इति रेफलोपः । ते तव रशनाभावः मेखलात्वं स्यात् । नित्यश्रीमत्तया श्रियो मध्यभागेऽवस्थानात्तव रशनात्वं भवेदेवेति भावः । 'सप्तकी रशना तथा’ इत्यमरः । अत्रापि पूर्ववदेव केवलानिष्टलाभः ॥

 यथावा--

 करिकरपीडां व्युदसितुमरविन्दं त्वत्करात्मनाऽऽविरभूत् । हरिकरपीडनमलभत सरसिजनयनप्रिये तदत्रापि ॥ १२७६ ॥

 हरेः सिंहस्य भगवतश्च करपीडनं हस्तोपमर्दं, पक्षे करपीडनं पाणिग्रहणमित्यर्थः । तत् अरविन्दम् । अत्रापि अरविन्दजन्मन्यपि । अत्रारविन्दस्य करिकरपीडाव्युदसनरूपेष्टावाप्तिसद्भावेऽपि हरिकरपीडनरूपानिष्टप्रतिलम्भश्च भवतीतीदमपि केवलानिष्टप्रतिलम्भ एव । श्लेषमहिम्ना इष्टतमस्याप्यनिष्टतासंपादनमिति ध्येयम् ॥  यथावा--

 इनसुहृदा राज्ञा त्वं मया सदृक्स्या इतीच्छुरखिलविभो । तव दृग्गत एवाभूदिनान्वितो हन्त दूत एवेन्दुः ॥ १२७७ ॥

 हे अखिलविभो ! इन्दुः इनसुहृदा अनेकप्रभुमित्रेण, पक्षे भानुसहितेन राज्ञा नृपेण चन्द्रण च । मया त्वं सदृक् तुल्यः दृग्भ्यां सहितश्च मयेत्यत्र तृतीयाया अभेदोऽर्थः । तथाच सूर्यसहितमदभिन्ननयनद्वयवानिति भावः । स्याः । इति इच्छुः काङ्क्षन् सन् ‘विन्दुरिच्छुः' इति निपातनात्साधुः । तव अखिलजगद्राजाधिराजस्येति भावः । दृग्गतः दृष्टिपथगतमात्र एवेति भावः । इनान्वितः स्वसुहृदनेकप्रभुसहितस्सन् तव दूत एव संदेशहर एव अभूत् । त्वददर्शनावसरे आत्मानमेव महाराजं मन्यमनोऽखिललोकनाथमपि त्वां स्वसदृशं चिकार्षुरभ्येत्य त्वद्दर्शनमात्रेणैव त्यक्ताभिमानस्स्वपक्षीयप्रभुभिस्सह तव दूत्यमलभतेति भावः । इनान्वितः सूर्यसहितः तव दृग्गतः दृष्टिस्थानं प्रपन्न एवाभूत् । चन्द्रसूर्ययोरुभयोरपि तन्नयतत्वश्रवणादिति भावः । नैतावदेव । दूत एवाभूत् । 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्युक्तरीत्या तच्छासनानतिवर्त्यभूदिति भावः । पक्षे इन्दुशब्दः इना इंन्निति वर्णसमुदायेन अन्वितः दूतः दुना दुवर्णेन ऊतः स्यूतः युक्त एवेत्यर्थः । अभूत् । इन्शब्दस्य ताद्विध्यादिति भावः । अत्र सदृक्त्वप्रेप्सोरिन्दोस्सदृक्छब्दप्रतिपाद्यसदृशसदृष्टिरूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायवैभवेन तादृशेप्सितलाभोऽस्त्येव । तथाऽपि दूतत्वरूपानिष्टोपलम्भोऽपि भवतीत्ययमपि केवलानिष्टप्रतिलम्भ एव ॥  यथावा--

 क्वाप्यप्रतिकूलास्त्वत्कबरीसख्याय काळिका यतमानाः । प्राप्यान्तराळितामपि काका आसन्विपर्ययेऽपि तथैव ॥ १२७८ ॥

 हे श्रीः! इति सामर्थ्याल्लभ्यते । काळिकाः कादम्बिन्यः 'मेघजालेऽपि काळिका' इत्यमरः । पक्षे काळिकाशब्दोऽपि । अर्थगते स्त्रीत्वबहुत्वे शब्दे आरोप्येते । क्वापि क्वचिदपि अप्रतिकूलाः प्रातिकूल्यराहितास्सत्यः । न हि प्रातिकूल्ये सख्यं सिध्यतीति भावः । पक्षे प्रतिलोमत्वेऽप्यवैरूप्यं भजमाना इत्यर्थः । त्वत्कबर्याः सख्याय मैत्र्याय तुलनायेति वस्तुस्थितिः । यतमानास्सत्यः आन्तराळितां अन्तरे भवाः आन्तर्यः ताश्च ताः आळयश्च आन्तराळयः । ‘पुंवत्कर्मधारय' इति पुंवद्भावः । तासां भावः तत्ता तां अन्तरङ्गसखीत्वमित्यर्थः । 'आळिस्सखी वयस्या च' इत्यमरः । प्राप्यापि काकाः वायसाः आसन् । विपर्यये प्रळयेऽपीति यावत् । तथैव काका एव आसन् । न तु युक्तरूपाः । पक्षे अन्तरा मध्ये अळितां ळिवर्णशून्यतां प्राप्य काका अपीति योजना । काका इत्यप्यासन् । अथ विपर्यये विलोमत्वेऽपि काका इत्येवासन् न त्वन्यानुपूर्वीकाः । अत्र काळिकानां प्राप्यान्तराळिताशब्दप्रतिपाद्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसायमहिम्ना श्रीकबरीसख्यरूपेष्टलाभाक्षतावपि काकतारूपानिष्टान्तरावाप्तिश्च श्लेषमहिम्ना भवतीतीदमपि केवलानिष्टप्राप्तिरूपविषमम् ॥

 अनिष्टपरिहाररूपेष्टानवाप्तिर्यथा--

 अत्रासा निवसामेत्यत्रास्ये तव रदात्मना जा- ताः । मुक्ता भगवन्नभवन्नत्राप्येता महाभयाकलिताः ॥ १२७९ ॥

 मुक्ताः मौक्तिकानि अत्रासाः निर्भयास्सत्यः अन्यत्र मणिदोषविधुरास्सत्यः 'त्रासो भीमणिदोषयोः' इति विश्वः । अत्र निवसामेति तव आस्ये रदात्मना दन्तरूपेण जातास्सत्यः अत्रापि त्वदास्येऽपि एताः मुक्ताः महाभयेन महता त्रासेन आकलिताः । महत्या अभया कलिता इति वस्तुस्थितिः ॥

 यथावा--

 विपदान्वितं भवं त्वं विनेष्यसीति श्रयेमहि भवन्तम् । विपुलयसि तदेव त्वं विचित्रमेतद्वृषाचलद्युमणे ॥ १२८० ॥

 अत्राद्योदाहरणे केवलं मुक्तानां त्रासशब्दप्रतिपाद्यार्थद्वयश्लेषगृहीतभयरूपानिष्टपरिहारलक्षणेष्टात्तवाप्तिर्दर्शिता । द्वितीयोदाहरणे विपदा आपदा अन्वितं भवं संसारं , पक्षे वि इत्याकारकपदेनान्वितं भवं विभवमिति शब्दार्थतादात्म्यमूलकश्लेषमहिम्ना अनिष्टपरिहाररूपेष्टानवाप्तिः प्रकाशिता ॥

 यथावा--

 अरिदरगदाकरत्वं परिहर्तुं त्वां भजन्ति ये मनुजाः । अरिदरगदाकरत्वं । सन्ततमेषां त्वमन्ततस्तनुषे ॥ १२८१ ॥

 अरयः कामादयः दरः भयं तत्प्रयुक्तम् । गदः तत्प्रयुक्तो व्याधिः । तेषामाकरत्वं आश्रयत्वं परिहर्तुं । उत्तरार्धेऽप्येवम् । वस्तुतस्तु अरिदरगदाकरत्वं चक्रशङ्खगदापाणित्वामित्यर्थः । भगवत्सारूप्यमिति भावः । अत्रापि अरिदरगदाकरत्वलक्षणानर्थपरिहाररूपेष्टानवाप्तिश्श्लेषमहिम्ना निबद्धा ॥

 यथावा--

 त्वद्वदनरुचिद्वेषाच्छ्वाद्यत्वं प्राप्य तद्व्यपनुनुत्सुः । अधरितशिरा भवन्नपि स पुष्करे तज्जहौ न शुभ्रांशुः ॥ १२८२ ॥

 हे भगवन् ! शुभ्रांशुः चन्द्रमाः त्वद्वदनरुचौ द्वेषात् श्वाद्यत्वं शुनामादित्वं शुनकाग्रेसरत्वमित्यर्थः । श्वा आद्यः भक्ष्यो यस्येति वा श्वपाकत्वमित्यर्थः । प्राप्य,

देवं नारायणं विष्णुं यो द्वेष्टि जगतां प्रभुम् ।
श्वानयोनिसहस्रान्ते श्वपाकेषु स जायते ॥

 इति स्मरणात् । भगवद्वदनारविन्दविद्वेषस्येदमल्पं फलमिति भावः । पक्षे शुवर्णः आद्यः प्राथमिको यस्य सः श्वाद्यः तत्त्वम् । वाच्यवाचकयोस्तादात्म्यात् । प्राप्य तत् श्वाद्यत्वं व्यपनुनुत्सुः व्यपनोदितुमिच्छुः पुष्करे तन्नाम्नि तीर्थविशेषे अन्तरिक्षे च । अधरितशिराः अवाक्छीर्षो भवन्नपि तथा तपस्यन्नपीति भावः । अस्ताभिमुख्यदशायामन्तरिक्षे चन्द्रबिम्बस्य अवाक्छिरस्त्वेन दर्शनात्तथोक्तिः । पक्षे विलोमतया स्थितोऽपीत्यर्थः । तत् श्वाद्य वं न जहौ । यथापुरं शुनामग्रणीः श्वभक्षकी वाऽभूत् । न तु स्वाभीप्सितं लब्धवान् । भगवद्विद्वेषिणां पुण्यतीर्थनिषेवणमपि न शोधकमिति भावः ।

ये द्विषन्ति महात्मानं न स्मरन्ति च केशवम् ।
न तेषां पुण्यतीर्थेषु गतिस्संसर्गिणामपि ॥

 इति महाभारतात् । पक्षे शुभ्रांशुशब्दो विलोमतया पठितोऽपि शुभ्रांशुरित्येव भवन् शुवर्णाद्यत्वं न जहावित्यर्थः । अत्र शुभ्रांशोरनिष्टपरिहाररूपेष्टानवाप्तिः ॥

 यथावा--

 अभितश्शुनाऽभिमृष्टोऽस्म्यहमिति शुभ्रांशुरतितरां भ्रान्तः । तदपनयायानन्ते पतन्नधश्शीर्षमपि तथैवाभूत् ॥ १२८३ ॥

 शुभ्रांशुः अभितः सर्वतः उभयतश्च शुना शुनकेन शुवर्णेन च अभिमृष्टः स्पृष्टः अस्मीति अतितरां भ्रान्तः भ्रान्तिमान् । पक्षे भ्रः भ्र इति वर्णसमुदयः अन्ते मध्ये यस्य स तथोक्तः । तदपनयाय तस्य अभितश्शुना स्पृष्टत्वभ्रमस्यापनोदनाय अनन्ते भगवति अन्तरिक्षे च अधश्शीर्षं पतन्नपि विलोमतया स्थितोऽपीति च तथैवाभूत् भ्रान्त एवाभूत् पक्षे शुभ्रांशुरित्येवाभूत् । न त्वन्यधा । अत्र शुभ्रांशोः पूर्ववदेवेष्टानवाप्तिः ॥

 यथावा--

 सुतरांशुमयोऽप्यादावन्ते च तवाननश्रियमलब्ध्वा । क्लान्तस्थितिमैन्न जहौ शुक्लांशुरधश्शिरः पतन्नपि ताम् ॥ १२८४ ॥

 हे भगवन्! शुक्लांशुः सितकरः आदौ मासादौ अन्ते मासान्ते च । इदं पूर्णिमाद्यन्तमासाभिप्रायोणोक्तम् । सुतराश्च ते अंशवश्च तन्मयोऽपि प्राचुर्ये मयट् । तव आननश्रियं अलब्ध्वा क्लान्तस्थितिं ग्लानस्थितिं ग्लानिमित्यर्थः । ऐत् अगात् । अथ अधश्शिरः पतन्नपि तां न जहौ ग्लानिस्थितिं नात्याक्षीत् । पक्षे शुक्लांशुशब्दः सुतरां अतितरां आदावन्ते च शुमयः शुवर्णप्रचुरः आद्यन्तयोः शुवर्णस्यैव जागरूकत्वादिति भावः । अधश्शिरः निपतितोऽपि व्यत्यस्ततया स्थितोऽपीति यावत् । क्ला इति वर्णसमुदायस्य अन्तस्थितिं मध्ये सत्तां न जहौ । तस्य वैपरीत्येऽपि तादवस्थ्यादिति भावः । अत्रापि पूर्ववदेव सर्वम् ॥

 यथावा--

 त्वां स्तोता सकलकविः स्तोता तु परस्य विकलकविरेव । अधरितशीर्षोऽपि भवन्विकलकविस्स्यादयं न सकलकविः ॥ १२८५ ॥

 सकलकविः संपूर्णकविः महाकविरित्यर्थः । विकलकविः क्षुद्रकविः । अत्र विकलकवेस्स्वानर्थपरिहाररूपेष्टालाभः ॥

 यथावा--

 त्वत्तेजोऽभिहतौजानुभङ्गभाग्भानुभास्सती भाभाः । स्याद्यदि पुनः प्रसव्या यथापुरं स्यान्न तु त्वदोजोभाः ॥ १२८६ ॥

 हे भगवन् ! भानुभाः भास्वत्प्रभा । त्वत्तेजस्तौल्यलिप्सुरिति सामर्थ्यादवगम्यते । त्वत्तेजोऽभिहतौ सत्यां त्वत्प्रतापकर्तृकाभिहनने सति जानुभङ्गभाक् जानुनीः ऊरुपर्वणोः भङ्गं अवमर्दं भजतीति तथोक्ता भग्नजानुस्सतीत्यर्थः। अत एव भाभाः नभासत इत्यभाः । भासतेः क्विप् । भया प्रभया अभाः भाभाः। नभातीति विग्रहे भातेः क्विप् । विश्वपाशब्दवदादन्तः । उभयथाऽपि प्रभया अप्रकाशमानेत्यर्थः । यद्वा भं नक्षत्रमिव आ ईषत् भासत इति भातीति वा भाभाः आदौ महाप्रकाशा जानुभङ्गानन्तरमल्पतरप्रकाशेत्यर्थः । पक्षे भानुभा इति शब्दव्यक्तिः त्वत्तेजोऽभिहतौजाः नुभङ्गमिति छेदः । तव तेजसा अभिहतं ओजः बलं अवष्टम्भः प्रभावो वा यस्यास्सा तथोक्ता 'ओजो दीप्ताववष्टम्भे प्रभावबलयोरपि' इति मेदिनी । नुभङ्गभाक् नुवर्णभ्रंशं प्राप्ता अत एव भाभास्सती भाभा इति निष्पन्ना सती पुनः आदौ उक्तरीत्या परिभवे सत्यपीति भावः । प्रसव्या प्राप्तानिष्टपरिहारपूर्वकं त्वत्तेजस्तौल्यलाभाय तस्य प्रतिकूला अनुकूला वा यदि स्यात् ‘प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुकूलयोः' इति मेदिनी । तदाऽपि यथापुरमेव स्यात् भाभा एव स्यात् अप्रकाशप्रभावा अत्यल्पप्रकाशा वा भवेत् । न तु त्वदोज इव भातीति त्वदोजोभाः स्यात् पक्षे भाभा इति निष्पन्ना भानुभाशब्दव्यक्तिः प्रसव्या अनुलोमा प्रतिलोमा वा भाभा इत्येव स्यात् न तु त्वदोजोभा इत्यानुपूर्वीयुतेत्यर्थः । यदि पुनः प्रसव्या स्यादित्यनेन भानुभासः पराहतेः पूर्वमपि प्रसव्यत्वेऽपि यथापूर्वावस्थावस्थितत्वमेवेति गम्यते । एवं शब्दरूपार्थपक्षेऽपि, भानुभाशब्दस्यापि भाभाशब्दस्येवानुलोमप्रतिलोमावस्थयोस्तुल्यरूपत्वात् । अत्र भानुभासः प्राप्तभाभारूपानर्थनिवारणलक्षणेष्टानवाप्तिमात्रम् । तच्च तस्याः भगवत्तेजस्तौल्यरूपेष्टालाभपूर्वकजानुभङ्गाद्यनिष्टलाभलक्षणप्रागुक्तैतद्विषमप्रभेदेन दत्तहस्तमिति पूर्वापेक्षया विशेषः ॥

 यथावा--

 यत्त्वद्गमनं प्रैप्सत्तदगत्वा देवदेव गजराजः । प्राप्य जराजत्वमधश्शीर्षोऽपि ततो जराजतां न जहौ ॥ १२८७ ॥  हे देवदेव! गजराजः यत् त्वद्गमनं त्वद्गमनतुल्यगमनमित्यर्थः । प्रैप्सत् प्राप्तुमैच्छत् यत् त्वद्गमनं अगत्वा अप्राप्य । यद्वा तदगत्वात् एव देवेति च्छेदः । हे देव न गच्छतीत्यगः । तस्य अगः तदगः तस्य भावः तदगत्वं तस्मादेव त्वद्गमनाप्राप्तेरेवेत्यर्थ । जराजत्वं जरान्वितच्छागत्वं, यद्वा जीर्यतीति जरः पचाद्यच् । स चासावजः जीर्णच्छागः तत्वं गमनसौन्दर्यशक्तिवैकल्येन तत्तौल्यमिति यावत् । प्राप्य, पक्षे गजराजशब्दः अगत्वात् गकाररहितत्वात् जराजत्वं जराजशब्दत्वं प्राप्येत्यर्थः । ततः अधश्शीर्षोऽपीति लोकोक्तिः । पक्षे वैपरीत्यं प्राप्तोऽपि जराजतां उभयथाऽपि जराजत्वं न जहौ । जराज इत्येवासीत् । न तु तां पर्यहार्षीदिति भावः । अत्र गजराजस्य प्राप्तजराजत्वरूपानिष्टपरिहारलक्षणेष्टानवाप्तिमात्रं प्राधान्येन प्रतिपाद्यते । भगवद्गमनतौल्यरूपेष्टानवाप्तिपूर्वकजराजत्वरूपानिष्टप्राप्तिलक्षणैतद्विषमविशेषस्त्वङ्गतयेति पूर्वोदाहरणवदेव सर्वम् ॥

 यथावा--

 त्वद्यशसा धुत इन्दुस्स्वसुहृदमिनमाप सोऽपि तव महसा । विधुतस्तमेनमौज्झीदिनोज्झितोऽभवदयं च दुस्थितिमान् ॥ १२८८ ॥

 हे भगवन्! इन्दुः त्वद्यशसा धुतस्सन् स्वसुहृदं स्वमित्रं इनं कंचन राजानं आप । स्वानर्थपरिहारायेति भावः । पक्षे इनं भानुं तस्य तत्सुह्रत्त्वं ज्योतिश्शास्त्रप्रसिद्धम् । आप । अपचितकलस्तदुपचयाय दर्शे रविमण्डलमासादितवानित्यर्थः । सोऽपि स राजाऽपि स भानुरपि तव महसा ‘दिवि सूर्यसहस्रस्य' इत्युक्तप्रकारेण तेजसा विधुतः विशेषेण कम्पितः तमेनं स्वस्याप्यनिष्टहेतुभूतमिन्दुं औज्झीत् व्यस्राक्षीत् । शुक्लपक्षादौ रविमण्डलादस्य विश्लेषः प्रसिद्ध एवेति भावः । इनोज्झितः इनेन तेन राज्ञा भानुना च उज्झितः स्वानिष्टहेतुरयमिति विसृष्टः अयं इन्दुश्च दुस्थितिमान् दुरवस्थावान् अभूत् । वस्तुतस्तु इन्दुशब्दः इना इन् इति वर्णसमुदयेन उज्झितः दुस्थितिमान् दुरिति वर्णसमुदयस्थितिमान् अभूदित्यर्थः । अत्र न केवलमिन्दोस्स्वानर्थपरिहाररूपेष्टानवाप्तिः, किन्तु स्वाश्रयस्याप्यनर्थप्राप्तिरिति विशेषः ॥

 यथावा--

 अतिघोरं निस्सारं संसारं दूरमुज्झितुमपारम् । उद्युञ्जे पुरुषोत्तम कुरुषे करुणां कुतो न सादरणाम् ॥ १२८९ ॥

 उद्युञ्जे उद्युक्तोऽस्मि । उत्पूर्वकाद्युजेः रौधादिकात्कर्तरि लडुत्तमपुरुषैकवचनम् । अत्रार्तस्य भगवत्प्रपन्नस्य संसाररूपानर्थपरिहारलक्षणेष्टानवाप्तिमात्रम् । इदं शुद्धमुदाहरणम् । प्राचीनानि तु श्लेषादिसंकीर्णानीति विशेषः ॥

 परानिष्टप्रापणरूपेष्टानवाप्तिर्यथा--

 भीष्मं त्वां धृतचक्रं भीष्मं हन्तुं द्रवन्तमत्यन्तम् । पार्थस्सरभसमरुणत्सार्थां संधां च वीक्ष्य स ननन्द ॥ १२९० ॥

 भीष्मं दारुणं यथास्यात्तथा भीष्मं शान्तनवं हन्तुं धृतचक्रं अत्यन्तं द्रवन्तम् । स च भीष्मश्च संधां ‘अशस्त्रग्रहणं प्रतिश्रुतवन्तं भगवन्तं शस्त्रं ग्राहयिष्याम्येव’ इति स्वकृतां प्रतिज्ञां सार्थां भगवत्कृतचक्रग्रहणेन सफलां वीक्ष्य ननन्द । अत्र भगवतो भीष्महननरूपपरानिष्टप्रापणलक्षणेष्टानवाप्तिर्निबद्धा । अत्रैव भीष्मस्य स्वप्रतिज्ञानिर्वहणरूपसुखसाधनार्थप्राप्तिः वधरूपदुःखसाधनानर्थनाशः, भगवतश्च स्वप्रतिज्ञाभङ्गरूपदुःखसाधनानर्थप्राप्तिश्च निबद्धेति सूक्ष्मया दृशाऽवधातव्यम् ॥

 यथावा--

 निशिचरवधूकदम्बं मदम्ब हन्तुमपि यतनवान् हनुमान् । करुणतमतावकवचस्सरणिगतिप्रतिहताभिलषितोऽभूत् ॥ १२९१ ॥

 निशिचरवध्वः एकाक्ष्येककर्ण्यादिकाः तासां कदम्बं हन्तुं रावणवधानन्तरं त्वत्समाश्वासनावसर इति भावः । यथोच्यते श्रीमति रामायणे हनूमता--

इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥

इत्यादि । करुणतमतावकवचसां--

पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।
कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥

इत्यादिवचननाम् । स्पष्टमन्यत् । अत्रापि हनूमतो रक्षस्स्त्रीहननलक्षणपरानिष्टप्रापणरूपेष्टानवाप्तिः ॥

 यथावा--

 यत्पदमियात्त्वदीयश्श्रीदश्रीर्धीरधीः प्रदीप्रश्च । तत्पदविपर्ययाय प्रभवेत्को वा कृतप्रयत्नोऽपि ॥  हे भगवन्निति प्रकरणाल्लभ्यते । त्वदीयः त्वद्भक्तः श्रीदश्रीः धनदतुल्यविभवः धीरधीः महामतिः, आभ्यां संपत्सारस्वतोभयसमृद्धिरुक्ता । अत एव प्रदीप्रः अतिमात्रद्युतिशाली च सन् यत्पदं ऐहिकमामुष्मिकमापवर्गिकं वा स्थानं इयात् प्राप्नुयात् तत्पदस्य तदार्जितस्य स्थानस्य विपर्ययाय प्रळयाय कृतप्रयत्नोऽपि को वा प्रभवेत् न कोऽपीति भावः । यद्वा कः ब्रह्माऽपि प्रभवेद्वा इति योजना । सोऽपि न प्रभवेदेवेति भावः । पक्षे त्वदीयः यत्पदं श्रीदश्रीरित्यादिकं यत्पदं इयात् तत्पदस्य विपर्ययाय वैलोम्याय कृतप्रयत्नऽपि को वा प्रभवेत् । महता यत्नेन प्रातिलोम्येन पाठेऽपि पूर्वानुपूर्व्या एव विद्यमानत्वात् । अत्र भगवद्भक्तसाधितपदविपर्यासलक्षणपरानिष्टप्रापणरूपेष्टार्थालाभः पृथग्जनस्य वर्णितः । इदं श्लेषसंकीर्णम् । पूर्वोदाहरणे तु शुद्धे ॥

 यथावा--

 यद्यचिकीर्षिष्यत ते प्रतापमतिभीष्ममपगतोष्माणम् । निशिचरकुलमभविष्यत्स तदाऽप्यतिभीम एव दाशरथे ॥ १२९३ ॥

 हे दाशरथे! निशिचरकुलं कर्तृ अतिभीष्मं अतिदारुणं ते तव प्रतापं अपगतः ऊष्मा उष्णता दारुणत्वं यस्य तं तथोक्तं अचिकीर्षिष्यत यदि कर्तुमैषिष्यच्चेत् । करोतेस्सन्नन्तात्क्रियातिपत्तौ लृङ् । तदाऽपि सः तव प्रतापः अतिभीम एव अभविष्यत् अनपनोद्योष्मतया अतिभीष्म एव समपत्स्यतेति भावः । पक्षे अतिभीष्मशब्दं षकाररूपोष्मवर्णविधुरं समपादयिष्यत चेत् अतिभीम इत्येव स निरपत्स्यतेत्यर्थोऽपि चमत्कारी । अत्र निशिचरकुलस्य भगवत्प्रतापनिरूष्मताकरणलक्षणेष्टानवाप्तिस्संभावनारूपेण दर्शिता । एवं तृतीयविषमप्रभेदे अष्टाववान्तरप्रभेदा उपदर्शिताः । भेदान्तराण्यप्येवमेवोदाहार्याणीति विस्तरातिभूमिभयाद्विरम्यते ॥

 यत्र केनचित्स्वेष्टसिद्ध्यर्थं नियुक्तेनान्येन नियोक्तुरिष्टमनादृत्य स्वस्यैवेष्टं साध्यते तत्रापीष्टानवाप्तिरूपमेव विषममिति कुवलयानन्दकाराः । तद्यथा--

 मम धीरियमिति दयितं समया प्रहिता मया ससंभ्रमया । सा नाम तत्र लीना किं तनवानीत्यचिन्तयद्राधा ॥ १२९४ ॥

 इयं मदीयेति विस्रम्भेण मम धीः दयितं नन्दनन्दनं समयातं प्रतीति यावत् । 'अभितः परितस्समया’ इत्यादिना द्वितीया । ससंभ्रमया अदूरदर्शिन्येति यावत् । मया प्रहिता प्रेषिता । धीशब्दस्य स्त्रीलिङ्गतया तस्यां दूतीत्वसमाधिर्गम्यते । सा धीः तत्र दयित एव ‘सर्वं वाक्यं सावधारणम्’ इति न्यायात्, लीना नाम । इतरैः पृथग्दुर्ग्रहतया तत्रैव तदाश्लेषेणैक्यं प्राप्तेति भावः । ‘ली श्लेषणे' कर्तरि क्तः । पक्षे तदाकाराकारितेति भावः । नामेति संभावनायाम् । निलीनेति मन्य इत्यर्थः । कुत्सने वा । धिक्तां दयितं प्रति अद्रोहिणीति प्रत्ययेन मया प्रहितां तत्रैव रममाणामिति भावः । 'नाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने' इत्यमरः । किं तनवानि किं करवाणीति राधा अचिन्तयत् । अत्र नियोक्त्र्या राधाया अभीष्टमनादृत्य धिया स्वेष्टमेव साधितम् । समासोक्तिसंकीर्णमिदं विषमम् ॥  कदाचिदिष्टावाप्तिपूर्वकतदनवाप्तिर्यथा--

 त्वद्गिरिपरिसरगमने क्षणमात्रं तत्तटस्फटिकभाभिः । मुषितकलङ्कस्त्वन्मुखसदृशो विधुरथ यथापुरं भवति ॥ १२९५ ॥

 अथ त्वद्गिरिपरिसरातिवर्तनानन्तरं यथापुरं भवति स्फटिकरुचीनां दवीयस्त्वाद्यथापूर्वं प्रकटकलङ्क एव भवति । अत्र चन्द्रमसो विकलङ्कवेंकटनाथवदनसादृश्यमभीप्सतो वेङ्कटगिरिपरिसरगमनावसरे क्षणमात्रमेव तल्लाभो न सार्वकालिक इति कदाचिदिष्टप्राप्तिपूर्वकतदनवाप्तिः ॥

 क्वचिदिष्टानवाप्तावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः । यथा-

 नवनीतहृदागत इति नवनीरदशिशुमवेक्ष्य निकटगतम्। तं भ्रमवती निबद्धुं संभ्रमतोऽयतत काऽपि गोपवधूः ॥ १२१६ ॥

 अत्र नवनीतचोरनन्दकिशोरबन्धनजातकौतुकायास्समयं प्रतीक्षमाणायाः गोपवामेक्षणायाः कस्याश्चित्तदीप्सितालाभेऽपि तल्लाभभ्रमो दर्शितः ॥

 यत्र समग्रेष्टालाभेन तदेकदेशमात्रावाप्तिस्तत्रापि तदनवाप्तिरेव । यथा--

 त्वद्धामतामभीप्सुस्त्यजन्मिळिन्दस्स्वकं मितस्फुरणम् । अमितश्रिया स्फुरन्नप्यळिन्द एवारविन्दनयनाभूत् ॥ १२९७ ॥  हे अरविन्दनयन! मिळिन्दः भ्रमरः त्वद्धामतां त्वदालयतां त्वत्तुल्यच्छवितामिति तत्त्वम् । अभीप्सुः अत एव स्वकं निजं मितस्फुरणं अल्पप्रकारां त्यजन् । पक्षे मिळिन्दशब्दः मितः मिवर्णेन मिवर्णस्य वा स्फुरणम् । मित इत्यत्र सार्वविभक्तिकस्तसिः । विसर्गस्य ‘खर्परे शरि वा विसर्गलोपो वक्तव्यः’ इति पाक्षिको लोपः । त्यजन्नपि मिवर्णसंबन्धं विसृजन्नित्यर्थः । अमितश्रिया प्रचुरत्विषा संपदा वा, शकारस्य ‘अनचि च' इति द्वित्वम् । पक्षे अं इतः श्रिया इति छेदः । अं अवर्णं इतः प्राप्तः श्रिया स्फुरन्नपि अर्थवत्तारूपसंपदा प्रकाशमानोऽपि अळिन्द एव बहिर्द्वारप्रकोष्ठक एव अभूत् । न तु समग्रं त्वद्धामेति भावः । 'प्रघाणप्रघणाळिन्दा । बहिर्द्वारप्रकोष्ठके' इत्यमरः । पक्षे मिकारस्थाने अकारं प्राप्तः अळिन्दशब्द एवाभूदित्यर्थः । अत्र ‘न गिरा गिरेति ब्रूयादिरां कृत्वोद्गायेत्' इत्यत्र गिरापदं प्रतिषिध्य विधीयमानमिरापदं यथा गिरापदस्थान एव भवति तथाऽत्रापि मिवर्णं प्रतिषिध्य विधीयमानमवर्णं मिकारस्थान एव भवति । अत एव ‘कुषिरञ्ज्योः प्राचां श्यन्परस्मैपदं च' इत्यत्र यकं प्रतिषिध्य विधीयमानश्श्यन् तदीय एव स्थाने भवतीति तत्त्वबोधिन्यादावुक्तं संगच्छते । अत्र मिळिन्दस्य स्वाभीप्सितभगवत्परिपूर्णदिव्यालयत्वानवाप्त्या तदेकदेशभूताळिन्दत्वप्राप्तिरपीष्टानवाप्तिरेवेति ध्येयम् ॥

 यत्रेष्टानवाप्तिपूर्वकमनभीप्सितस्य यस्यकस्यचिदुदासीनस्य वाऽर्थस्यावाप्तिर्निबध्यते तत्रापि केवलेष्टानवाप्तिरेव । यथा--

 त्वत्पादसरिदभिख्यालाभायाधश्शिरास्स घनसारः । भूत्वा रसानघोऽपि श्रीश श्रीपादरेणुनामाऽभूत् ॥ १२९८ ॥  हे श्रीश! सः शैत्यसौरभादिभिः प्रसिद्धः घनसारः कर्पूरः 'अथ कर्पूरमस्त्रियाम् । घनसारः' इत्यमरः । तव पादस्य या सरित् गङ्गा तस्याः अभिख्या नाम शोभा च । ‘अभिख्या नाम शोभयोः' इत्यमरः । तस्याः लाभाय अधश्शिराः तव पादे नम्रशिरा इत्यर्थः । रसेन जलेन अनघः भूत्वाऽपि । अनेन भगवत्पादसरिदभिख्यालाभौपयिकता दर्शिता । घनसारशब्दो विलोमतया पठितो रसानघ इति निष्पन्न इति वस्तुस्थितिः । शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । श्रीपादस्य लक्ष्मीचरणस्य रेणुः पांसुरिति नाम यस्य स तथोक्तः अभूत् । भगवच्चरणसरिदभिख्यालाभाय पावनतीर्थरूपतायाः कथंचित्संपादनेऽपि तल्लाभो नाभूच्चेन्माभूत्, श्रीपादसरिदभिख्याऽपि वा नासीत्, प्रत्युत श्रीपादरेणुनामासीदिति निर्गळितोऽर्थः । श्रीवेङ्कटाद्रौ भगवद्दिव्यविग्रहार्पितो घनसारश्रीपादरेणुरिति व्यवहृतो भवतीति तत्त्वम् । अत्र घनसारस्य भगवत्पादसरिदभिख्यारूपेष्टालाभमात्रं, श्रीपादरेणुत्वं तु नोत्कटानिष्टं, येनैतत्पद्यं एतत्तृतीयविषमप्राथमिकभेदस्योदाहरणं स्यात्, किन्त्वनभीप्सितमिति ध्येयम् ॥

 यथावा--

 त्वल्लक्ष्म्या अप्यतसी श्रैष्ठ्येप्सातच्च्युता तुलाप्त्यैव । धन्या तुलसीभूयं गतैव तेऽम्बुधिसुतेश हृद्याऽऽसीत् ॥ १२९९ ॥

 हे अम्बुधिसुतेश ! अतसी क्षुमाकुसुमं 'अतसी स्यादुमा क्षुमा' त्यमरः । ‘पुष्पमूलेषु बहुळम्' इति वैकारिकाणो लुप् । त्वल्लक्ष्म्या अपि त्वत्प्रभाया अपि । त्वदीयायाः श्रीदेव्या अपीत्यर्थोऽप्युपस्कार्यः । श्रेष्ठ्ये प्रशस्यतमत्वे ईप्सा यस्यास्सा तथोक्ता सती तच्युता तस्मादभीप्सितात् भ्रंशं प्राप्ता सती तुलाप्त्यैव त्वल्लक्ष्मीसाम्यलाभेनैव धन्या परमाभीप्सितालाभेऽपि तावतैव कृतकृत्येति भावः । तुलसीभूयं तुलसीत्वं ‘भुवो भावे' इति भावे क्यप् । गतैव ते तव हृद्या हृदयस्था हृदयप्रिया च आसीत् । पक्षे अतसीति शब्दव्यक्तिः अतच्च्युता अताभ्यां अकारतकाराभ्यां च्युता तद्रहितेत्यर्थः । तच्च्युतेत्यत्र ‘अनचि च' इति पाक्षिकं चकारस्य द्वित्वमर्थान्तरानुगुण्यायैष्टव्यमित्यसकृदवोचाम । तुलाप्त्या अकारलकारस्थाने क्रमेण तुवर्णलवर्णघटनया तुलसीभूयं गता तुलसीशब्दत्वं प्राप्ता सती हृद्या आसीत् । अत्र अतस्याः भगवल्लक्ष्म्या अपि श्रेष्ठ्यमीप्सोः तुलसीत्वमनभीप्सितमात्रं न तूत्कटानिष्टमिति तदप्राप्त्या केवलेष्टानवाप्तिरेव ॥

 यथावा--

 भावत्कचरणतटिनीभासर्वधुरीणतामभीप्सन्ती । भारत्यवाक्छिरास्स्यादपि तस्यास्तीरभैवदेव स्यात् ॥ १३०० ॥

 हे देव ! भारती सरस्वती भावत्कचरणतटिन्याः गङ्गायाः भा प्रभा तस्याः सर्वधुरावोढृतां, सर्वधुरां वहति सर्वधुरीणं तस्य भावः तत्ता 'वहति’ इत्यर्थे ‘खस्सर्वधुरात्’ इति खः । अभीप्सन्ती सती अवाक्छिरास्स्यादपि तस्याः त्वच्चरणतटिन्याः तीरभैव स्यात् । महताऽपि प्रयासेन तत्तीरसदृशप्रभैव स्यान्न तु तत्तुल्यप्रभेति भावः । पक्षे भारतीति शब्दव्यक्तिः विलोमा चेत्तदा तीरभेत्येव निष्पद्येतेत्यर्थः । अत्रापि भगवच्चरणतटिनीशोभाभीप्सोर्भारत्याः तत्तीरदीप्तिलाभोऽनभीप्सितः, न तूत्कटानिष्टरूप इति केवलेष्टानवाप्तिरेव ॥  यथावा--

 तव केतकी कपोलश्रियमिच्छन्ती स्वमम्ब तं वर्णम् । जहती केकी भूत्वा चिकुरकलापश्रियं परमवाप्नोत् ॥ १३०१ ॥

 स्वं स्वकीयं तं लोकोत्तरतया प्रसिद्धं वर्णं गौरवर्णम् । पक्षे स्वं स्ववाचकपदघटकं तं तमित्याकारकं वर्णं अक्षरं जहती सती केकी मयूरो भूत्वा । पक्षे स्ववाचककेतकीशब्दः तकारापसारणात् केकीति निष्पन्न इत्यर्थः, वाच्यवाचकतादात्म्यवैभवात् । चिकुरकलापश्रियं कचकलापलक्ष्मीं, स्पष्टमन्यत् । अत्र केतक्याः अनभीप्सितश्रीकचकलापशोभालाभेऽपि तस्यानिष्टत्वाभावात्स्वाभीष्टलक्ष्मीकपोलद्युत्यलाभमात्रमिति केवलेष्टानवाप्तिरिव । लक्षणे अनिष्टावाप्तिरित्यत्र इष्टपदेन समस्यमानस्य नञः 'असुरः अधर्मः अशुभं' इत्यादाविव विरोधोऽर्थः, न तु ‘अमानुषः अनश्वः' इत्यादाविव तद्भिन्नत्वम् । तेन अनिष्टमनर्थरूपमिति सिद्ध्यति । तथा च तादृशानिष्टप्रतिलम्भ एव विषमं, न त्विष्टभिन्नस्य यस्यकस्यचिदुदासीनस्येति रहस्यम् । तथैव प्राक्तनबहूदाहरणदर्शनात् ॥

 यत्रानिष्टप्राप्तिरिष्टानवाप्तिर्वा श्लेषमहिम्नैव प्रतीयते न वस्तुतः तत्रापि विषमालंकारो भवत्येव । यथा--

 मा भूत्क्वापि पराभव इति ये जगतः प्रभुं भजन्ति त्वाम् । बत पुष्कराक्ष तेषां भवता क्रियते पराभवप्राप्तिः ॥ १३०२ ॥

 हे पुष्कराक्ष ! क्वापि पराभवः मा भूदिति ये त्वां भजन्ति तेषां पराभवप्राप्तिः भवता क्रियत इति विरोधः । परा श्रेष्ठा, भवस्याभावोऽभवं अर्थाभावेऽव्ययीभावः, न भवः अभव इति तत्पुरुषो वा, तस्य प्राप्तिः निश्श्रेयसप्राप्तिरित्यर्थः । यद्वा हे परेति भगवतस्संबोधनम् । अभवप्राप्तिः उक्त एवार्थः, इति परिहारः । अत्र

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥

इति श्लोकार्थोऽनुसंहितः । अत्र पराभवप्राप्तिरिति श्लेषेणैव अनिष्टप्राप्तिरिष्टाप्राप्तिर्वा निबद्धा, न तु वस्तुसिद्धा ॥

 यथावा--

 चक्रतुलेप्सुरवाग्रा भवतः कौमुदकी तदप्राप्त्या । नाथ विमोदा कौकी भूत्वा तदभिधखगानुबन्धमगात् ॥ १३०३ ॥

 हे नाथ भगवन्! भवतः कौमोदकी गदा चक्रस्य सुदर्शनस्य तुलां ईप्सुः अत एव अवाग्रा अवनता । ‘अवाग्रेऽवनतानतम्' इत्यमरः । तत्साम्यलाभार्थं नम्रतया कृततदुपसर्पणेति भावः । तदप्राप्त्या विमोदा विगलितमोदा सती । यद्वा तदप्राप्त्या अवाग्रेति योजना । तदलाभप्रयुक्तसंकोचेन नम्रशिरा इत्यर्थः । वस्तुस्तः कौमोदक्याः भगवद्वामपाणिना अवाक्छिखरतयैव धृतत्वस्य दर्शनात्तथोक्तिः । कोकस्येयं कौकी ‘तस्येदम्’ इत्यणि 'टिढ्ढ, इति ङीप्, भूत्वा । पक्षे कौमोदकीति शब्दव्यक्तिः मोदेति वर्णद्वयविगमे कौकीति सिद्धेत्यर्थः । तस्य चक्रस्य अभिधा नाम यस्य सः तथोक्तः खगः पक्षी चक्रवाक इत्यर्थः । यथाऽनुशिष्यते 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः’ इति । तस्य अनुबन्धितां संबन्धं अगात्, कौकीत्वप्राप्तेरिति भावः । अत्र कौमोदक्याः कौकीत्वलक्षणानिष्टप्राप्तिः श्लेषेणैव, न तु वस्तुतः ॥

 यथावा--

 प्राक्तनपङ्कमशेषं त्वं शोषयितुं हरेर्भजसि पादम् । तस्मात्कीर्तिरुदेष्यति नव्येति सखे पुनर्न जानीषे ॥ २३०४ ॥

 हे सखे! इति यंकंचित्सुहृदं प्रति संबोधनम् । अशेषं निश्शेषं यथास्यात्तथा प्राक्तनपङ्कं पूर्वाघं प्राचीनकर्दमं च शोषयितुं निराकर्तुं शुष्कं कर्तुं च, हरेः भगवतः भानोश्च, पादं चरणं किरणं च भजसि प्रीतिपूर्वकमनुध्यासि सेवसे च । तस्मात् तद्भजनात् कीर्तिः ‘यशोऽहं भवामि ब्राह्मणानाम्' इत्यादिश्रुत्युक्तप्रकारेण यशस्साधनभूतं परं ब्रह्म उदेष्यति दर्शनसमानाकारध्यानगोः चरतां प्रपत्स्यते । पुनः न व्येति व्ययं न प्राप्नोति न क्षरतीत्यर्थः । यद्वा कीर्तिः ब्रह्मवित्त्वप्रथा उदेष्यति जनिष्यते । पुनन व्येति नापचीयत इत्यर्थः। पक्षे नव्या अभिनवा कीर्तिः कर्दमः पुनः उदेष्यति इति न जानीषे । अत्र प्राक्तनाशेषपङ्कशोषणाय हरिपादं भजमानस्य तल्लाभसद्भावेऽपि अपूर्वकर्दमरूपानिष्टप्राप्तिश्च श्लेषेणैव निबद्धा ॥

 यथावा--

 नित्यभवभ्रमिखन्नोऽस्म्यभ्रान्तः क्वचन हरिपदे सततं स्याम् । इति कृतयतनोऽपि हरे प्रावृषि केवलमविन्दतेप्सितमिन्दुः ॥ १३०५ ॥  हे हरे! नित्यं भवे संसारे भ्रमेण चङ्क्रमणेन देहात्मभ्रमेण वा खिन्नोऽस्मीति निर्वेदोक्तिः । अतः अभ्रान्तः नित्यसंचारविधुरो देहात्मभ्रमविधुरो वा सन् हरिपदे भगवन्मन्दिरे क्वचन तत्रापि यत्रक्वचित् सततं सदा स्यां निवसेयम् ।

यत्किंचिदपि कुर्वाणो विष्णोरायतने वसेत् ।
न किंचिदपि कुर्वाणो विष्णोरायतने वसेत् ॥

इति भगवच्छास्त्रादिति भावः । इति कृतयतनोऽपि इन्दुः प्रावृषि केवलं वर्षासमयमात्रे ईप्सितं पूर्वोक्तमभीष्टं अविन्दत न त्वन्यदा । प्रावृष्येव चन्द्रमा विष्णुपदे क्वचन अभ्रान्तस्थितिमानभूत् न तु शरदादावित्यर्थः । वस्तुस्थितिस्तु नित्यभवः सततं जातः यो भ्रमः मेरुप्रदक्षिणसंचारः तेन खिन्नः हरिपदे अन्तरिक्षे क्वचन अभ्रान्तः जलभृदन्तरे स्थितिमानिति । अत्रेन्दोर्यत्किंचित्कालिकेष्टावप्तिरेव, न सार्वकालिकेष्टावाप्तिः श्लेषमहिम्नैव ॥

 एवं प्रागुपदर्शितेषूदाहरणेषु प्रायेण श्लेषमूलाभेदाध्यवसायवैभवेनानिष्टप्राप्तीष्टानवाप्ती प्रदर्शिते अपि व्युत्पित्सुबालबुद्धिवैशद्याय पुनर्विविच्य प्रदर्शिते ॥

 एवमेतेषु सर्वेषूत्पाद्योत्पादकभावरूपसंसर्गगर्भेषु प्रभेदेषु कार्यकारणयोः क्वचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात् क्वचिच्चेष्टापादकत्वेनाभिमतस्य कारणस्येष्टानवाप्त्यनिष्टावाप्तिरूपकार्येणानुरूप्याभावात्सामान्यलक्षणानुगतिरिति ध्येयम् ॥

इत्यलङ्कारमणिहारे विषमालंकारसरश्चत्वारिंशः ॥