अलङ्कारमणिहारः (भागः २)/असंगत्यलंकारः (३९)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

३९-अथासंगतिसरः


भिन्नाधिकरणत्वं यद्विरुद्धं हेतुकार्ययोः ।
वर्ण्यते तमलंकारं प्राज्ञाः प्राहुरसंगतिम् ॥

 विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसंगतिर्नामालंकारः ॥

 यावत्कटाक्षधारा भावत्की प्रसरणोन्मुखाकारा । तावत्तापा नमतां श्रीवत्साङ्क स्वयं लयमयन्ते ॥  अत्र कटाक्षधाराप्रसरणौन्मुख्यलक्षणहेतोः तापलयरूपकार्यस्य च वैयधिकरण्ये अतिप्रसङ्गवारणाय विरुद्धेत्यादि । इह च विभिन्नदेशस्थितस्यैव तस्य कार्यप्रयोजकतया विरोधानवकाशः ॥ यथा--

 पवनाशनगिरिनायक नवजलदस्तव जहार रुचिविभवम् । जगतां निर्वर्णयतां भवता बत निगळितानि नयनानि ॥ ११४५ ॥

 अत्र निगळितानीत्यत्राभेदाध्यवसायलक्षणेनातिशयेन स्तेयरूपापराधहेतुकनिगळबन्धनतयाऽवस्थिते निश्चलीकरणे विषय्यंशमुपादाय तंप्रति समानाधिकरणतया प्रतीतस्य स्तेयरूपस्य हेतोर्वैयधिकरण्यज्ञानात्पुरःप्रस्फुरन्विरोधो विषयांशविमर्शोत्तरं तं प्रति रुचिहरणाभिव्यज्यमानसुषमातिशयस्य भावनोपनीतस्य हेतुतायाः प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसायोऽनुप्राणयिता विरोधश्चोत्कर्षयिता ॥ इयं शुद्धा ॥

 यथावा--

 स्पीतां हरेरमुष्णात्स्वातन्त्र्यश्रियमकुण्ठितप्रसराम् । मन्दस्मितमम्ब तवाविन्दत बत मर्दनं स्तनद्वंद्वम् ॥ ११४६ ॥

 अत्र मर्दनमित्यत्राभेदाध्यवसाननिबन्धनेनातिशयेन मोषणनिमित्तकमर्दनरूपतयाऽवस्थिते निष्पीडनरूपे विषये विषय्यंशमुपादाय तंप्रति सामानाधिकरण्येन प्रसिद्धस्य कारणस्य मोषणरूपस्य वैयधिकरण्यज्ञानात्पुरतस्स्फूर्तिमान्विरोधो विषयांशविचारादनन्तरं तंप्रति स्वातन्त्र्यश्रीमोषणाभिव्यक्तस्य कामपारवश्यस्य कारणतायाः प्रतिसंधानान्निवर्तत इत्यत्राप्यभेदाध्यवसायविरोधयोरनुप्राणकत्वोत्कर्षकत्वे प्राग्वदेव । इयमपि शुद्धा ॥

 यथावा--

 मुग्धा मुखसुषमा तव मुकुरस्य श्रियमचूचुरत्सकलाम् । शुद्धे शशाङ्कबिम्बे कलङ्कमम्बेह बत विधिर्विदधे ॥ ११४७ ॥

 शुद्धे ‘योऽर्थे शुचिर्हि स शुचिः’ इत्युक्तरीत्या स्तैन्यदोषविधुरतया निरपराधे । अन्यत्र शुभ्रे । कलङ्कं चौर्यापवादं लक्ष्म च ‘कलङ्कोऽङ्कापवादयोः' इत्यमरः । अत्र कलङ्कं विदधे इत्यत्राभेदाध्यवसायलक्षणातिशयेन चौर्यहेतुकापवादारोपरूपतामापन्ने लाञ्छनविधाने विषय्यंशमुपालम्ब्य तंप्रति सामानाधिकरण्येन विदितस्य हेतोश्चौर्यरूपस्य वैयधिकरण्यज्ञानात्पुरः प्रतीयमानो विरोधो विषयांशविमर्शोत्तरं तंप्रति मुकुरश्रीचौर्याभिव्यक्तलावण्यविशेषस्य हेतुतायाः प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसायानुप्राणितत्वं विरोधोत्कर्षितत्वं च पूर्ववदेव । श्लेषोपबृंहितेयम् ॥

 यथावा--

 कमले विलोचनश्रीः कमलेनैव व्यमोषि तव विमला । इन्दोर्बत प्रतीपा कारा तेजोविवर्द्धनी त्वजनि ॥ ११४८ ॥

 तुशब्दो भिन्नक्रमः । प्रतीपा प्रतिकूला । स्वतेजोऽसहिष्णुना कमलेन कृतेऽपराधे स्वस्य दण्डप्राप्तेरसंभावितत्वादिति भावः । कारा तु अपराधियोग्यो बन्धनालयवासस्तु इन्दोः तेजोविवर्धनी तेजसः छेदयित्री अजनि । बतेति खेदे । पक्षे प्रतीपा प्रतिलोमवर्णा कारा राकेत्यर्थः । तेजोविवर्धनी कलाभिवृद्धिदायिनी अजनीत्यर्थः । राकायां तस्य पूर्णत्वादिति भावः । अत्रापि कार्यकारणयोः कारावासमोषणयोर्वैयधिकरण्यम् । अन्यत्सर्वं पूर्ववत् ॥

 यथावा--

 विशदयितुं जगदखिलं दिशिदिशि जगदीश विदिशिविदिशि तथा । यशसि तव धावमाने शशिपादा हन्त भृशमखिद्यन्त ॥ ११४९ ॥

 अत्रापि पादखेदधावनयोः कार्यकारणयोर्विरुद्धं वैयधिकरण्यं वर्णितम् । शशिनः पादाः चरणाः अखिद्यन्तेति विरोधः । परिहारस्तु किरणाः स्वकरणीयस्याखिलजगद्वैशद्यस्य यशसैव कृततया स्वनैष्फल्यचिन्तनेन दैन्यमलभन्तेति । इयमपि श्लेषोपबृंहिता प्राग्वदेव ॥

 यथावा--

 कुचरूपमचलयुगलं विचचाल हृदि व्रजेन्दुवदनायाः । चित्तह्रदो विलुलितो दत्तदृशस्तत्र नन्दतनयस्य ॥ ११५० ॥

 अत्रापि कार्यकारणयोर्विलोडनाचलचलनयोर्विरुद्धा भिन्नाधिरणकता द्रष्टव्या । रूपकोपस्कृतत्वं विशेषः ॥  यथावा--

 वाराणसीमधाक्षीन्नारायणचक्रमतियुगान्तार्कम् । आपेदिरेऽरिललनास्तापाटोपं दिशस्तु विस्फोटम् ॥ ११५१ ॥

 अत्र दाहस्य कारणस्य तापविस्फोटयोश्च कार्ययोस्सामानाधिकरण्येन हेतुहेतुमद्भावशालिनोस्तद्विपरीतं भिन्नाधिकरणत्वं निबद्धम् । विस्फोटो नामाग्निदाहादिजन्यो बुद्बुदाकारस्त्वग्विकारविशेषः पिटकापरनामा । ‘विस्फोटः पिटकं त्रिषु' इत्यमरः । अन्यत्र विस्फोटः विदलनं ‘विदलः स्फुटनं भिदा' इत्यमरः ‘स्फुटिर् विशरणे' इति धातुः । पूर्वोदाहरणेषु कारणमेकं कार्यं चैकं, अत्र तु कारणमेकं द्वे कार्ये ते अपि भिन्नाधिकरणे इति विशेषः ॥

 यथावा--

 ज्यां कर्षति रघुवीरे शरावळी न्यपतदाशरावळ्याम् । सममूर्छद्विष्फारः ककुभो निष्फालिता विचित्रमिदम् ॥ ११५२ ॥

 सममूर्छत् अमुह्यत् । उच्छ्रितोऽभूदिति वस्तुस्थितिः । 'मुर्छा मोहसमुच्छ्राययोः' इति धातोस्संपूर्वकाल्लङ् । ‘सम्मूर्छनमभिव्याप्तौ संमूर्छामोहयोरपि' इति विश्वः । निष्फालिताः विशीर्णाः कृताः ‘फल विशरणे' ण्यन्तादस्मात्कर्मणि क्तः । यद्वा निष्फालो विशरणं । निष्पूर्वकात्फलेर्घञ् । स आसां संजात इति निष्फालिताः । निष्फालवत्यः कृता इति वा । निष्फालवच्छब्दाण्णाविष्ठवद्भावे ‘विन्मतोः’ इति मतुपो लुक् । अत्र शरावळीनिपतनस्य कारणस्य मूर्छानिष्फलनयोः कार्ययोश्च वैयधिकरण्यम् । पूर्वोदाहरणवदत्रापि कारणमेकं कार्ये द्वे इति ध्येयम् ॥

 यथावा--

 श्रुत्यञ्चलपरिशीलनमासीन्मौर्व्या उपासनं तु हरेः। बाणानां मोक्षस्तु प्राणानां हन्त वैरिवर्गस्य ॥ ११५३ ॥

 हरेरिति आसीदिति च सर्वत्र संबध्यते । हरेः मौर्व्याः श्रुत्यञ्चलपरिशीलनं वेदान्तविमर्शः कर्णान्तस्पर्शश्च । आसीत् । उपासनं निदिध्यासनं, पक्षे प्रयोगः । तत्तु हरेः बाणानामासीत् । मोक्षः संसारबन्धमुक्तिः शरीरत्यागश्च, स तु वैरिवर्गस्य प्राणानां आसीत् । अत्र श्रुत्यञ्चलपरिशीलनरूपकारणस्य उपासनरूपकार्यस्य च एवं उपासनरूपकारणस्य मोक्षरूपकार्यस्य च वैयधिकरण्यम्। अत्र कारणे द्वे कार्ये च द्वे । मालारूपता एकावळीरूपता चात्र ध्वन्यत इति विशेषः ॥

यथावा--

 कर्षणमविन्दत ज्या फलं कलम्बेष्वलं चकान तव । तद्बुभुजे रिपुवर्गस्सौहित्यं तव बभूव बत भगवन् ॥ ११५४ ॥

 हे भगवन्! तव ज्या मौर्वी । भूरित्यपि गम्यते । कर्षणं लाङ्गलविलेखनं आकर्षणं च अविन्दत । कलम्बेषु बाणेषु फलं सस्यं धान्यबीजं वा । पक्षे आयसमग्रिमशल्यमित्यर्थः ।

फलमिष्वग्रे सस्ये फलके जातीफले धने फाले ।
भोगे बीजे लाभे हेतूत्पन्ने फली तु फलिनी स्यात् ॥

 इति रत्नमाला । चकान दिदीपे ‘कन दीप्तौ' लिट् । तत् फलं रिपुवर्गः बुभुजे अभ्यवजह्रे । अन्यत्र त्वत्प्रयुक्तबाणाग्रमनुबभूव । तद्विद्धोऽभवदिति यावत् । सौहित्यं भोजनजनिता तृप्तिस्तु । पक्षे शत्रुहननप्रयुक्ता तुष्टिः तव बभूव । अत्र कर्षणफलयोः भोजनतृप्त्योश्च वैयधिकरण्यम् । इयं श्लेषोपस्कृता वक्ष्यमाणैकावळीसंकीर्णा मालारूपा चेति द्रष्टव्यम् ॥

 अस्यां च विभावनायामिव कार्यांशेऽतिशयोक्त्यनुप्राणनमावश्यकं, अन्यथा विरोधो दुष्परिहारस्स्यात् इत्यलंकारसर्वस्वकारादीनां मतम् । तच्चोदाहृतेषु पद्येषु व्यभिचारादसंगतम् । न हि 'आपेदिरेऽरिललनास्तापाटोपं' इत्यादावरिललनातापाटोपाद्यवाप्त्यंशे अतिशयोक्तिरस्ति, किंतु श्लेषभित्तिकाभेदाध्यवसानमात्रम् । तस्मात् येनकेनापि प्रकारेण कार्याभेदाध्यवसानमावश्यकमिति तु संगतम् । यद्यपि ‘श्रुत्यश्चलपरिशीलनम्' इत्यादौ कारणांशेऽपि श्लेषादिना अभेदाध्यवसानं संभवति । तथाऽपि नासौ तदंशे नियतः । ‘वाराणसीमधाक्षीत्' इत्यादौ दाहाद्यंशे तदभावात् । ‘सा बाला वयमप्रगल्भमनसस्सा स्त्री वयं कातरास्सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम्' इति प्राचीनोदाहरणपद्ये बालात्वस्त्रीत्वाद्यंशे तल्लेशस्याप्यसंभवात् ॥

 क्वचिदसंगतिसमाधानेन चारुतातिशयो दृश्यत इति कुवलयानन्दकाराः ॥ तत्र यथा--

 हारस्स्वोरसि निहितश्श्रीरमया शौरिहृदयमुदलासीत् । तादात्म्यौदार्यमिदं मोदाय न कस्य वा भवेदनयोः ॥ ११५५ ॥  उदलासीत् प्रकाशते स्म । हृष्यति स्मेति परिहारः । अनयोः श्रीश्रीशयोः तादात्म्यौदार्यं--

अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ।
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥

इति लक्ष्मीतन्त्रोक्ततादात्म्यमहत्त्वं कस्य मोदाय भवेदिति योजना । अत्र हारनिधानं लक्ष्मीवक्षसि, उल्लासस्तु शौरिहृदयस्येति हेतुकार्ययोर्वैयधिकरण्यं निबद्धम् । तत्समाधानाय भगवतो लक्ष्मीतादात्म्यं भगवच्छास्त्रप्रतिपादितमुपन्यस्तम् । तादात्म्यं चात्र लोकप्रसिद्धमभेदरूपं उदाहृतशास्त्रसिद्धाविनाभावरूपं च श्लेषेणाभिन्नतयाऽध्यवसितमिति ध्येयम् । तथाचात्रामुखेप्रतीताऽप्यसंगतिस्समाधानप्रतिपादनेनाभासीभवतीति विरोधवदसंगत्याभासोऽपि विच्छित्तिविशेषशालितया अलंकारो भवतीति द्रष्टव्यम् ॥

 नन्विह कार्यकारणवैयधिकरण्यप्रयुक्तो विरोधाभास इति विरोधालंकार एवं किं न स्यादिति चेच्छ्रूयताम्-- एषा हि विरोधबोधिनी, न तु विरोध एव । तथाहि-- असंगतौ कार्यकारणयोर्द्वयोर्भिन्नाधिकरणत्वप्रयुक्तो विरोधप्रतिभासः । विरोधस्तु जात्यादेर्जात्यादिना सह एकाधिकरण एव प्रथमतो विरोधप्रतिभासः । न चैवं सति किमिति विरोधलक्षणे तथाऽनुक्तमिति शङ्क्यम् । तत्रैकाधिकरण इत्यनुक्तावपि तथैव पर्यवसानात् । ततश्चासंगतेर्विरोधोपजीव्यत्वेन विरोधापवादकतया अपवादभूतासंगतिविषयपरिहारेणैव विरोधसामान्यविषयतया उत्सर्गभूतस्य विरोधस्य व्यवस्थितिः । तथाच विरोधालंकारे ह्येकस्मिन्नधिकरणे द्वयोस्संबन्धाद्विरोधभानं असंगतौ त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यमिति प्राञ्चः ॥  नव्यास्तु-- व्यधिकरणत्वेन प्रसिद्धयोस्समानाधिकरणत्वेनोपनिबन्धने विरोधालंकारः । समानाधिकरणत्वेन प्रसिद्धयोर्द्वयोर्वैयधिकरण्येनोपनिबन्धने असंगतिः । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रोपलक्षणम् । तेन--

 नेत्रं निरञ्जनं तस्याश्शून्यास्तु वयमद्भुतम् ।

इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पाद्योत्पादकभावलक्षणसंबन्धानन्तर्भावेन शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगतिस्संगच्छते । यथाश्रुते तु सा न स्यात् । तथाच स्फुट एव विरोधालंकारादसंगतेर्भेद इति वदन्ति ॥


द्वितीयासंगतिः

कार्यमन्यत्र यत्तस्य ततोऽन्यत्र क्रियाऽपि सा ॥

 एकस्मिन्नधिकरणे कर्तव्यस्य वस्तुनस्तद्भिन्नाधिकरणे करणमप्यसंगतिरलंकार इत्यर्थः ॥

 यथा--

 ग्रसता पुरा हिरण्यं प्रसभं नृहरेः प्रतापहव्यभुजा । तत्सुतभीर्व्यद्राव्यत तत्सुदतीनां व्यलाप्यत च बृन्दम् ॥ ११५६ ॥

 हिरण्यं सुवर्णं, नामैकदेशग्रहणाद्धिरण्यकशिपुं च । व्यद्राव्यत द्रवीकृता । पक्षे अधाव्यत । द्रवतेर्ण्यन्तात्कर्मणि यक् । ‘द्रुतं शीघ्रविलीनयोः' इति हेमचन्द्रः । व्यलाप्यत द्रवीकृतं । विपूर्वकात् ‘ली द्रवीकरणे' इति धातोर्ण्यन्तात्कर्माणि यकि लङ् । 'विभाषा लीयतेः' इत्येज्विषये आत्वे ‘अर्तिह्री’ इत्यादिना पुगागमः । पक्षे पर्यदेव्यत । ‘विलापः परिदेवनम्' इत्यमरः । विपूर्वकाल्लपतेर्ण्यन्तात्कर्मणि यकि लङ् । अत्र हिरण्यरूपेऽधिकरणे अग्निकर्तव्यस्य विद्रावणस्य विलापनस्य च तद्भिन्ने प्रह्लादत्रासरूपे हिरण्यकशिपुसुदतीबृन्दरूपे चाधिकरणे करणं वर्णितम् । श्लेषभित्तिकाभेदाध्यवसायोत्तम्भितेयम् ॥

 यथावा--

 सूते कटाक्षलक्ष्मीस्सा ते साधुषु समस्तपुरुषार्थान् । व्यातानस्त्विमरिष्टं विश्वविभो तदितरेषु सुस्पष्टम् ॥ ११५७ ॥

 अरिष्टं सूतिकागृहं अशुभं च ‘अरिष्टमशुभे ताम्रे लशुने सूतिकागृहे’ इति रत्नमाला । तदितरेषु असाधुषु । अत्र कटाक्ष लक्ष्मीकर्तृकपुरुषार्थप्रसवाधिकरणेषु साधुषु कर्तव्यस्यारिष्टकरणस्यासाधुषु करणम् । श्लेषसमासोक्त्युपबृंहितेयम् ॥

 यथावा--

 तमसा मलीमसा ये भूयांस्यागांसि ते वितन्वन्ति । सत्त्ववतां दममधिकं स त्वं विदधासि तव नयोऽन्यादृक् ॥ ११५८ ॥

 चतुर्थपादे सः त्वं इति च्छेदः । दमं दण्डं दान्तिं च ‘दमो दण्डे चेन्द्रियनिग्रहे' इति रत्नमाला । अत्राप्यपराधिषु कर्तव्यस्य दमस्यानपराधिषु करणं निबद्धम् । श्लेषव्याजस्तुतिसंकीर्णेयम् ॥  यथावा--

 ननु नाथ भवतिनिष्ठां भगवन्नियतं चिकीर्षुणा कविना । क्रियते काममदादिद्विषिनिष्ठापरमपदविदा चित्रम् ॥ ११५९ ॥

 ननु नाथ! भगवन्! परमं श्रेष्ठं यत्पदं शब्दशास्त्रं तद्वेत्तीति तथोक्तेन । पक्षे परमं पदं पदनीयं परब्रह्मस्वरूपं तद्विदा । अनेन ‘तस्यैवात्मा पदवित्' इति श्रुतिः प्रत्यभिज्ञाप्यते । कविना विदुषा भवतिनिष्ठां भवतिः भूधातुः श्तिपा निर्देशोऽयं, इक्श्तिपौ धातुनिर्देशे’ इति स्मरणात् । तस्मात् निष्ठां क्तं क्तवतुं वा प्रत्ययं "क्तक्तवतू निष्ठा" इत्यनुशासनात् । अन्यत्र भवति त्वयि निष्ठां नैष्ठिकतां त्वदैकान्त्यमित्यर्थः । चिकीर्षता सता कामं पर्याप्तं यथास्यात्तथा । अदादिद्विषिनिष्ठेति समस्तं पदम् । अदादिः 'अद भक्षणे’ इत्युक्तो धातुः आदिः यस्य तथाभूते आदादिके इत्यर्थः । द्विषिः ‘द्विष अप्रीतौ’ इत्युक्तो धातुः । इका निर्देशोऽयं । तस्मिन् निष्ठा क्तः क्तवतुर्वा प्रत्ययः । अन्यत्र काममदादिद्विषीति समस्तं पदम् । कामो मदश्च आदिर्यस्य तस्मिन् द्विषि वैरिवर्गे जात्यभिप्रायकमेकवचनम् । निष्ठा नैष्ठिकता क्रियते इति चित्रम् । कामस्य मदनस्य मदं हर्षं दर्पं वा, आदिशब्देन कुतूहलादिर्गृह्यते, तं द्वेष्टीति तथोक्ते पशुपतौ निष्ठा क्रियत इत्यप्यर्थ उपस्क्रियते । काममदादिवैरिवर्गे निष्ठा नाशः क्रियत इति परिहारः । कामादिवैरिवर्गावधीरणमन्तरा भगवन्निष्ठा दुस्साधेति भावः । 'निष्ठा निष्पत्तिनाशान्ताः' इत्यमरः । अत्रान्यत्र करणीयाया निष्ठाया अन्यत्र कृतिरुपवर्णिता ।वैलक्षण्यं तु पूर्वेभ्यस्स्पष्टमव ॥  यथावा--

 बर्हं स्वीये मूर्धनि दाशार्ह निधित्सुरेव पूर्वं त्वम् । रिपुजनमूर्धनिबर्हं व्यदधाश्चातुर्यमद्भुतं भवतः ॥ ११६० ॥

 हे दाशार्ह भगयन्! स्वीये मूर्धनि शीर्षे बर्हं पिञ्छं निधित्सुः निधातुमिच्छुः रिपुजनानां मूर्धनि बर्हं पिञ्छं व्यदधा इति विरोधः। रिपुजनमूर्ध्नां निबर्हं निबर्हणं हिंसनं व्यदधा इति परिहरः । 'बर्ह हिंसायाम्' इति धातोर्निपूर्वकाद्घञ् । 'प्रमापणं निबर्हणम्' इत्यमरः । अत्रान्यत्र न्यसनीयस्य बर्हस्यान्यत्र न्यसनं वर्णितम् । श्लेषोत्तम्भितव्याजस्तुतिसंकीर्णेयमिति विशेषः ॥

 यथावा--

 श्रितजनधामनि सततं धनमतिवेलं तितांसता भवता । अभियातिधामनिधनं माधव समतानि सततमतिवेलम् ॥ ११६१ ॥

 श्रितजनानां धामनि गृहे धनं वित्तं तितांसता तनितुमिच्छता । तनोतेस्सन्नन्ताच्छता । भवता अभियातीनां रिपूणां धामनि गृहे धनं वित्तं समतानि व्यस्तारीति विरोधः । अभियातीनां धाम्नां वेश्मनां तेजसां प्रभावानां वा निधनं नाश इति परिहारः ॥

 यथावा--

 संततमसुरव्यूहे संपदपूर्वां स्थितिं विधित्सुस्त्व- म् । तामसुराणां व्यूहे तामरसविलोचन व्यधाश्चित्रम् ॥ ११६२ ॥

 संपदा श्रिया अपूर्वां आश्चर्यावहां स्थितिं मर्यादां । पक्षे समित्याकारकपदं पूर्वं यस्यास्तां स्थितिं संस्थितिं निधनमित्यर्थः । शब्दार्थयोस्तादात्म्यवैभवं न प्रस्मर्तव्यम् । अनयोरप्युदाहरणयोरन्यत्र करणीयस्यान्यत्र करणं द्रष्टव्यम् ॥


तृतीयासंगतिः

कर्तुमन्यत्प्रवुत्तस्य तद्विरुद्धक्रिया च स ॥

 अन्यत्कार्यं कर्तुं प्रवृत्तस्य तद्विरुद्धकार्यकरणमसंगतेस्तृतीयः प्रकारः ॥

 यथा--

 विनतामिमां विधित्सुर्जनतां भुव्युत्तमां रमानाथ । विदधास्यनुत्तमामिति विपुलं वितनोति विस्मयमिदं नः ॥ ११६३ ॥

 अनुत्तमां निहीनां पक्षे अविद्यमाना उत्तमा यस्यास्सा इति पञ्चमीबिहुवीहिः । सर्वोत्तमामित्यर्थः । 'क्लीबे प्रधानं प्रमुख प्रवेकानुत्तमोत्तमाः’ इत्यमरः । यद्वा अनुत्ता अनिरस्ता मा लक्ष्मीर्यस्यास्तां केनापि कदाऽप्यनपनोद्यसंपदमित्यर्थः । नुत्तेत्यत्र नुदेः क्तः 'नुदविद' इत्यादिना निष्ठानत्वस्य विकल्पेन विधा नान्न ‘रदाभ्यां निष्ठातो नः’ इति नत्वं ‘नुत्तनुन्नास्तनिष्ठ्यूतविद्धक्षिप्तेरितास्समाः' इत्यमरः । अत्र विनतजनतामुत्तमां चिकीर्षता भगवता सा अनुत्तमैव कृतेत्यन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकार्यकरणं निबद्धमिति लक्षणसंगतिः । श्लेषदत्तहस्तेयम् ॥

 यथावा--

 माहाकुलतां प्रथयन्माहाकुलतां धुनोषि शौरे ! त्वम् । काळिन्दीं मोदयसे काळिन्दीभेदनेऽनुषक्तोऽपि ॥ ११६४ ॥

 महाकुलस्यापत्यं पुमान् माहाकुलः 'तस्यापत्यम्' इत्यर्थे 'महाकुलादञ्खञौ' इत्यञ् । ‘माहाकुलकुलीनार्यसभ्यसज्जनसाधवः' इत्यमरः । तस्य भावः माहाकुलता तां उत्तमकुलप्रसूततां सज्जनतामित्यर्थः । प्रथयन् 'लक्षणहेत्वोः' इति शता । हेतुरिह फलं प्रथयितुमित्यर्थः । माहाकुलतां कुलीनतां धुनोषीति विरोधः माहानां गवां ‘उस्रा माहा च शृङ्गिणी' इत्यमरः । आकुलता व्यग्रतां धुनोषीति परिहारः । काळिन्द्याः यमुनायाः भेदने भिदायां भिदेर्भावे ल्युट्, अनुषक्तोऽपि काळिन्दीं यमुनां मोदयसे इति विरोधः । काळिन्दीभेदने बलभद्रे । भिदेः कर्तरि नन्द्यादित्वाल्युः अनुषक्तोऽपि काळिन्दीं तन्नाम्नीं दिव्यमहिषीं मोदयसे इति परिहारः । अत्र माहाकुलताप्रख्यापनकाळिन्दीभेदनयोः प्रवृत्तस्य माहाकुलताधूननकाळिन्दीमोदनलक्षणविरुद्धकार्यकरणं श्लेषोत्तम्भितं निबद्धम् ॥

 यथावा--

 पुण्यजनान् संत्रातुं पुरुषोत्तम! भुवि कृतावता- रोऽपि । पुण्यजनान् ध्वंसयसे पुराचरित्रं तवैतदतिचित्रम् ॥ ११६५ ॥

 पुण्यजनान् धार्मिकान् संत्रातुं पुण्यजनान् ध्वंसयसे इति विरोधः । यातुधानानिति परिहारः । अत्र 'परित्राणाय साधूनाम्' इति गीतोऽर्थोऽनुसंहितः । अत्र पुण्यजनसंत्राणप्रवृत्तस्य तद्ध्वंसनरूपविरुद्धकार्यकरणं श्लेषतो निबद्धम् ॥

 यथावा--

 द्विषतां विशुशोषयिषुर्जीवनमहिराजगिरीशिखरभास्वन् ! । द्रुतमप्सरस्सु यदिमान्निदधाथाद्भुतमितोऽपि किं जगति ॥ ११६६ ॥

 जीवनं प्राणनं सलिलं च । अप्सरस्सु स्वर्वेश्यासु अपां सरस्सु च । अत्र द्विषतां जीवनशोषणे प्रवृत्तस्य जलसरस्सु निधानरूपं विरुद्धकार्यमुपवर्णितम् । इयमपि श्लेषसंकीर्णैव ॥

 यथावा--

 माधुर्यं प्रचिकटयिषुरिक्ष्वाकुकुलेऽखिलेश्वराविरभूः । प्रथयन् बहुमुखकीर्तिं तामेव तनीयसीं बत व्यतनोः ॥ ११६७ ॥

 माधुर्यं मधुररसवत्त्वं प्रचिकटयिषुस्सन् इक्ष्वाकुकुले कटुतुम्बीनिवहे आविरभूरिति विरोधः सर्वलोकप्रियत्वं प्रकटयितुमिच्छुस्तदनुगुणे इक्ष्वाकुमहाराजान्ववाये आविरासीरिति परिहारः । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । ‘इक्ष्वाकुः कटुतुम्ब्यां स्त्री सूर्यवंश्यनृपे पुमान्’ इति मेदिनी । बहुमुखकीर्तिं विश्वतोमुखं यशः तामेव बहुमुखकीर्तिमेवेति विरोधः । दशाननयश एवेति परिहृतिः ॥

 यथावा--

 रावणनिकारणान्ननु लङ्कामविभीषणां चिकीर्षुस्त्वम् । सविभीषणामतानीरहो फणिगिरीन्द्र! कोसलेन्द्रत्वे ॥ ११६८ ॥

 निकारणात् निबर्हणात् ‘प्रमापणं निबर्हणं निकारणम्' इत्यमरः ॥

 यथावा--

 विश्वामित्रोल्लासं विधातुमिच्छन्महाहवे पूर्वम् । विश्वामित्रनिरासं व्यतनोरतनुप्रभाव दाशरथे! ॥

 महाहवे महत्यध्वरे सङ्गरे च 'आहवौ यागसङ्गरौ' इति रत्नमाला । विश्वस्य मित्रं विश्वामित्रः कुशिकनन्दनः । ‘मित्रेचर्षौ' इति विश्वशब्दस्य दीर्घः । तस्य उल्लासं विधातुमिच्छन् विश्वामित्रनिरासं व्यतनोरिति विरोधः । विश्वेषाममित्राणां निरसनमिति परिहारः ॥

 यथावा--

 भीष्मद्रोणक्ष्वेडाकुलं पृथासुतबलं समाधित्सन् । कृष्णाशुगाळितोदनमतनोरतिमात्रमब्जनयन! त्वम् ॥ ११७० ॥  हे अब्जनयन! भीष्माः भयानकाः ये द्रोणाः वृश्चिकाः तेषां क्ष्वेडः गरळं तेन । पक्षे भीष्मद्रोणयोः क्ष्वेडाः सिंहनादाः ताभिः आकुलं ‘भीषणे त्रिषु भीष्मस्स्याद्रुद्रगाङ्गेययोस्तु ना । द्रोणः कृपीपतौ काके भेकवृश्चिकयोस्तु ना । क्ष्वेडा वंशशलाकायां सिंहनादेऽपिच स्त्रियाम् । क्ष्वेडो ना पुंसि गरळे' इति च रत्नमाला । पृथासुतानां बलं समाधित्सन् औषधमस्त्रादिना अभयदानादिना च तत्प्रतीकारं विधित्सन् । कृष्णाः नीलवर्णाः आशुगाः शीघ्रगामिनः ये अळयो वृश्चिकविशेषाः ‘अळिद्रोणौ तु वृश्चिके' इत्यमरः । पक्षे कृष्णस्य अर्जुनस्य आशुगानां बाणानां आळिः पङ्क्तिः तत्तोदनं तत्करणकव्यथनं अतनोः । अत्र वृश्चिकक्ष्वेडाकुलतासमाधित्सोः तद्विरुद्धकृष्णवृश्चिककरणकव्यथनमुपवर्णितम् ॥

 यथावा--

 कलुषं जगतां हर्तुं जलजेक्षण! दिव्यरूपमेतदधाः । ललनानां व्रजजनुषां कलुषयसि बतामुनैव हृदयानि ॥ ११७१ ॥

 कलुषं वृजिनम् । अमुनैव दिव्यरूपेणैव कलुषयसि वृजिनवन्ति करोषि । कामाविलनि करोषीति वस्तुस्थितिः । ‘कलुषं क्लीबेंऽहस्याविले त्रिषु' इति रत्नमाला ॥

 यथावा--

 शकलयितुं लोकानां सकलमरिष्टं तवावतारोऽयम् । अमुनैव समेधयसे रमेश! तेषामरिष्टमिति चित्रम् ॥ ११७२ ॥  अरिष्टं अशुभं । शकलयितुं ध्वंसयितुं । अमुनैव अवतारेणैव । तेषां लोकानां अरिष्टं शुभं ‘अरिष्टे तु शुभाशुभे' इत्यमरः । अनयोरपि पद्ययोरुक्तदिशैवासंगतिस्संगमयितव्या ॥

 इदमन्तिममसंगतिप्रकारद्वयं दीक्षीतोपज्ञमेव--

अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा ।
अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥
अपारिजातां वसुधां चिकीर्षन् द्यां तथाऽकृथाः ।
गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः ॥

 इति तैरेव लक्षणयोर्लक्ष्ययोश्च कुवलयानन्दे संदर्शितत्वात् ॥

 अत्र केचित्-- ‘अन्यत्र करणीयस्येत्याद्यसंगतिप्रकारद्वयान्तरकथनमयुक्तं, अपारिजातामित्यत्र पारिजातराहित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैयधिकरण्योपनिन्धनात् ‘विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः' इति प्राथमिकासंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धेन चिकीर्षायास्सामानाधिकरण्येन कार्यमात्रं प्रतिहेतुत्वस्य प्रसिद्धेः । एवं ‘गोत्रोद्धारप्रवृत्तोऽपि’ इत्याद्युदाहरणे ‘विरुद्धात्कार्यसंपत्तिर्दृष्टा काचिद्विभावना’ इत्युक्तविभावनाप्रकारेणैव गतार्थत्वादसंगतिभेदान्तरकल्पनाऽनुचिता' इत्याहुः ॥

 अत्र वदन्ति ‘अपारिजाताम्’ इत्यस्य न प्राथमिकासंगतावन्तर्भावः । न हि ‘विषं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः' इत्यादाविव कार्यकारणवैयधिकरण्यप्रयुक्तोऽत्र विच्छित्तिविशेषः, येन प्राथमिकासंगतावेवेयमन्तर्भाव्येत । किंतु अन्यत्र करणीयस्य समानकर्तृकस्य कार्यस्यान्यत्र करणप्रयुक्त एव ॥

 एवं 'गोत्रोद्धारप्रवृत्तोऽपि’ इत्यस्य विरुद्धात्कार्यसंपत्तिरूपविभावनायां नान्तर्भावः । न ह्यत्र 'शीतांशुकिरणास्तन्वीं हन्त सन्तापयन्ति ताम्' इत्यादाविव निवर्त्यनिवर्तकभावविरोधश्चमत्कारी, येनोक्तविभावनाविशेषेऽन्तर्भावश्शक्येत वक्तुम् । अपितु अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिरूप इति सहृदयहृदयमेवात्र प्रमाणमिति । विस्तरस्त्वन्यत्र । तस्मादुपदर्शितमसंगतिप्रकारद्वयान्तरमवश्यमेष्टव्यमित्यलं बहुना ॥

 एवं ‘अन्यत्र स्थितस्यान्यत्रोपलम्भेऽप्यसंगतिर्दृश्यते, इति काव्यदर्पणकारः । तदेदमुदाहरणम्--

 श्रुतिशिरसि विचिन्वन्तः प्रतिकलमपि देवदेव! धीमन्तः । व्यालाधीशेलाधरमौलावाश्चर्यमाप्नुवन्ति त्वाम् ॥ ११७३ ॥

इत्यलंकारमणिहारे असंगतिसर एकोनत्रिंशः.