अलङ्कारमणिहारः (भागः २)/श्लेषालङ्कारः (२८)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ श्लेषसरः (२८).


वर्ण्यावर्ण्योभयालम्बी श्लेषोऽनेकार्थसंश्रयः।

 अनेकार्थशब्दविन्यासश्श्लेषः। स च त्रिविधः--प्रकृतविषयः, अप्रकृतविषयः, प्रकृताप्रकृतविषयश्चेति । त्रिविधोप्ययं सभङ्गाभङ्गभेदेन पुनस्त्रिविध इति षड्विधः । तत्राद्यः प्रकारो यथा--

 अहिगिरिपतिहृदयङ्गमवृत्तिरुदन्वत्सुताधिभूर्जगताम् । शुभकृदलं नः कुरुतां परितान्तानां श्रियं भवे चरताम् ॥ ८१७ ॥

 अहिगिरिपतिः शेषनामाद्रिवरः तस्मित् हृदयंगमा हृद्या वृत्तिः स्थितिर्यस्य स तथोक्त इति भगवत्पक्षे । श्रीपक्षे तु अहिगिरिपतेः वेंकटाद्रिनेतुः श्रीनिवासस्य हृदयंगमा वक्षोऽधिगता वृत्तिः वर्तनं यस्यास्सेति । जगतां शुभकृत् । उदन्वत्सुतायाः श्रियः अधिभूः नायकः, इदं भगवत्पक्षे विशेष्यम् । अन्यत्र शुभकृत् कल्याणकरी । जगतां अधिभूरिति योजना । भुवनानामधीश्वरीत्यर्थः । उदन्वत्सुता सिन्धुनन्दिनी श्रीः, इदं विशेष्यम् । अन्यत्सुगमम् ॥

 यथावा--

 मदीये रामेश्वरविजये रङ्खराजविलासे च चम्पूप्रबन्धे--

 हृदयेहिराजभासुरमञ्चमुदारं सदा गिरां प्राप्त्यै । कलयेहितं ददानं धाम पुराणं तुरङ्गराजाख्यम् ॥ ८१८ ॥

 अहिराज एव भासुरमञ्चो यस्य तं उदारं वदान्यं हितं श्रेयः ददानं, उदारमित्येतत् हितविशेषणं वा, निश्श्रेयसमिति तदर्थः। रङ्गराजाख्यं पुराणं धाम तुशब्दोऽवधारणे ‘स्युरेवं तु पुनर्वेै वेत्यवधारणवाचकाः' इत्यमरः । धामैवेत्यर्थः । सदा गिरां प्राप्त्यै हृदये चित्ते कलये ध्यायामि । अन्यत्र हृदये इत्यत्र हृत् अये इति च्छेदः । हीति भिन्नं पदं प्रसिद्ध्यर्थकम् । अये हृत्! हे हृदय! राजभासुरं चन्द्रबिम्बे प्रकाशमानं चन्द्रवद्विशदमिति वा । अञ्च मुदा अरं इति छेदः । कलया अल्पकालेनैव ईहितं ईप्सितं ददानं तुरङ्गराजाख्यं पुराणं धाम श्रीहयग्रीवमित्यर्थः । सदा गिरां प्राप्त्यै मुदा अञ्च इति योजना । आराधयेत्यर्थः । अञ्चेर्लोण्मध्यमैकवचनम् । अनयोरुदाहरणयोस्स्तव्यत्वेन प्रकृतयोश्श्रीश्रीनिवासयोः श्रीरङ्गराजहयग्रीवयोश्च श्लेषः । स च प्रथमे उदाहरणे अभङ्गः द्वितीये सभङ्ग इति ध्येयम् । एवं वक्ष्यमाणोदाहरणेषु यथासंभवं द्रष्टव्यम् । वक्तव्यान्तरं तूपरिष्टाद्वक्ष्यते ॥  यथावा--

 प्रथिमहितं प्रोद्यद्धनमित्रद्योतं महायुधं हृदये । सारसनाभं कलये सुदर्शनं साधुचक्रराजं तम् ॥ ८१९ ॥

 अत्र भगवतः सुदर्शनस्य च प्रकृतयोरेव श्लेषः । तथाहि, भगवत्पक्षे-- प्रथिम्ने पृथुत्वाय आश्रितप्रख्यापनायेति यावत् । हितं ‘चतुर्थी तदर्थ’ इत्यादिना समासः । प्रथिम्ना प्रख्यातत्वेन हितमिति वा । सुदर्शनपक्षे प्रथिः नेमिः तेन महितं ‘नेमिस्स्त्री स्यात्प्रथिः पुमान्' इत्यमरः । प्रोद्यन् प्रावृडारम्भे विजृम्भमाणः घनः मेघः तस्य मित्रं सुहृत् द्योतः प्रकाशो यस्य तं प्रावृषेण्यघनाघनश्यामलमित्यर्थः । पक्षे-- प्रोद्यन् उदयमानः घनस्सान्द्रः अविकलप्रकाश इति यावत् । यः मित्रः भानुः तस्य द्योत इव द्योतो यस्य तं उद्यद्भानुनिभप्रभमित्यर्थः । ‘सुदर्शनं भास्करकोटितुल्यम्’ इत्युक्तेः । महायुधं महान्ति आयुधानि चक्रादीनि यस्य तम् । पक्षे-- महती युत् युद्धे यस्य तं ‘समित्याजिसमिद्युधः' इत्यमरः । यद्वा-- भगत्पक्ष एव महती युत् यस्येति । सुदर्शनपक्षे तु महान्ति आयुधानि शङ्खं चक्रं सचापं परशुमसिमिषुं शूलपाशाङ्कुशाग्नीन् बिभ्राणं वज्रखेटं हलमुसलगदाकुन्तम्’ इत्युक्तरीत्या बह्वायुधधारिणमित्यर्थः । सारसं पद्मं नाभौ यस्य तम् । गड्वादेराकृतिगणत्वात्सप्तम्याः परनिपातः। भगवत्पक्षे इदं विशेष्यम् । पक्षे— अरैः परितोऽर्पिताभिश्शलाकाभिस्सह वर्तत इति सारः ‘स्फुरत्सहस्रारशिखातितीव्रम्’ इत्याद्युक्तेः ‘अरं शीघ्रे च चक्राङ्गे’ इति मेदिनी । नाभ्या मध्यरन्ध्रेण सह वर्तत इति सनाभः ‘अच्प्रत्यन्वव' इत्यत्र अजिति योगविभागादच् । उभयत्र सहपूर्वपदबहुव्रीहिः। सारश्चासौ सनाभश्चेति विशेषणोभयपदकर्मधारयः । तं तथोक्तम् । सुदर्शनं कल्याणालोकनम् । साधूनां सतां चक्रस्य बृन्दस्य राजा तं तथोक्तं सारसनाभं कलये इति भगवत्पक्षे योजना । सुदर्शनपक्षे तु-- चक्रराजं चक्राणां राजानं सुदर्शनं तन्नामानं भगद्दिव्यायुधं, इदमेव विशेष्यम् । साधु यथा स्यात्तथा कलये इति योजना । सुदर्शनशब्दः पुंस्यप्यनुशिष्टः ‘सुदर्शनोऽस्त्रियां चक्रे' इति नामनिधाने । ‘सुदर्शनो हरेश्चक्रे मेरुजम्बूद्रुमे पुमान्, अथ सुदर्शनः । विष्णोश्चक्रे’ इति मेदिन्यभिधानचिन्तामण्योस्तु पुंस्येव । तेन 'नामलिङ्गानुशासने ‘चक्रं सुदर्शनम्' इति क्लीबतया पाठसद्भावेऽपि न विरोधः । वस्तुतस्तु तत्रापि पुंलिङ्गपाठ एवादृतोऽमरसुधादौ । प्रयुक्तश्च माघेन– ‘बन्धुरेष जगतां सुदर्शनः’ इति । यद्यप्यत्र प्रथिमहितमित्यादिविशेषणविशिष्टस्य सुदर्शनमित्यस्य द्वितीयैकवचनान्ततया तत्र पुंनपुंसकयोरैकरूप्यान्न पुंलिङ्गतोपपत्तिरपेक्षिता । तथाऽपि महायुधमिति विशेषणे महती युत् यस्येति विग्रहे तयोः रूपभेदोऽवश्यंभावीत्यपेक्षितैव सा प्रदर्शितेति विभावनीयम् ॥

 यथावा--

 हरिमुखमरुदभिसंस्तवभवनिनदध्वस्तदनुतनुजदर्पः । पञ्चजनाधारोऽव्याद्भगवान् राजन्महादरः कोऽपि ॥ ८२० ॥

 अत्र भगत्पाञ्चजन्ययोः प्रस्तुतयोरेव श्लेषः। तथाहि-- हरिमुखा इन्द्राद्याः ये मरुतः देवाः ‘मरुतौ पवनामरौ' इत्य मरः । तेषां अभितः संस्तवात् समीचीनस्तुतेः भवः जातः यो निनदः तेन ध्वस्तः दनुतनुजदर्पः दानवगर्वः यस्य स तथोक्तः । पक्षे-- हरेः भगवतः मुखमरुतः वदनानिलस्य अभिसंस्तवः अभितः परिचयः ‘संस्तवस्स्यात्परिचयः’ इत्यनुशासनात् । तद्भवेन निनदेन ध्वस्तदनुतनुजदर्पः । ऊक्तोऽर्थः । अनेन विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता' इत्येतत्प्रत्यभिज्ञाप्यते । पञ्चजनानां मनुजानां ‘स्युः पुमांसः पञ्चजनाः' इत्यमरः । पञ्चभिर्भूतैर्जन्यन्त इति पञ्चजनाः ‘जनी प्रादुर्भावे’ घञ् । ‘जनिवध्योश्च' इति न वृद्धिः । आधारः आश्रयः । यद्वा-- पञ्चजनानां इन्द्रियाणां आधारः आश्रयः ‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः इति श्रुतेः । पक्षे पञ्चजनो नाम दैत्यः स आधारो यस्य सः तदधारत्वादेवास्य पाञ्चजन्यशब्दवाच्यता । यथोक्तं श्रीमति भागवते--

नाहार्षं तमहं देव दैत्यः पञ्चजनो महान् ।
अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ॥

 इत्युपक्रम्य,

तदङ्गप्रभवं शङ्खमादाय रथमाविशत् ।

इति । अत एव हि ‘गम्भीराञ्ञ्यः' इति सूत्रस्थात् ‘बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्' इति वार्तिकात् भवार्थे ञ्येन निष्पादितः पाञ्चजन्यशब्दो भाष्यकृता । राजन् प्रकाशमानः महान् आदरो यस्य सः । कोऽपि ‘यतो वाचो निवर्तन्ते' इति श्रुतमहामहिमा । भगवान् अव्यात् । पक्षे— भगवानिति विशेषणम् । कोऽपि लोकविलक्षणः राजत् महः तेजः यस्य स राजन्महाः दरः शङ्खः अव्यात् इति ॥  यथा वा--

 रुचिराङ्गदां भुजङ्गमपुङ्गवगिरिपतिकरग्रहोल्लसिताम् । विधुतालसदनुजातां साधुश्रियमाश्रये शरणम् ॥ ८२१ ॥

 अत्र स्तोतव्यत्वेन प्रस्तुतयोर्लक्ष्मीगदयोः श्लेषः । तथाहि-- भुजङ्गमपुङ्गवगिरिपतेः श्रीनिवासस्य करग्रहेण पाणिग्रहेण परिणयेनेत्यर्थः । पक्षे हस्तादानेन उल्लसितां उल्लासशालिनीं भासमानां च । विधोर्भावः विधुता तया चन्द्रतया लसन् अनुजातः अनुजन्मा यस्यास्तां चन्द्रसोदरामित्यर्थः । पक्षे विधुताः निर्धूताः अत एव अलसाः मन्दाः दनुजाताः दानवाः यया तां तथोक्ताम् । रुचिरे अङ्गदे केयूरे यस्यास्तां श्रियं लक्ष्मीं साधु पुष्कलाङ्गं यथा स्यात्तथा शरणं उपायं--

उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् ।
वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥

इत्यहिर्बुध्न्यसंहितोक्तेः । आश्रये भगवच्चरणारविन्दशरणवरणपुरुषकारत्वेन प्रपन्नोऽस्मीत्यर्थः । पक्षे— साधुश्रियमित्येतत्समस्तं गदाविशेषणम् । साध्वी श्रीर्यस्यास्तां रुचिरामिति व्यस्तं पदम् । रमणीयां गदां कौमोदकीं, अस्मिन् पक्षे ‘वा पदान्तस्य' इत्यनुस्वारस्य वैकल्पिकः परसवर्णः । शरणं श्रये इति ॥

 यथा वा--

 सन्नन्दकमसितोज्ज्वलमोजश्श्श्रीमत्त्सरूपधेयाङ्गम् । ध्यायामो बलिदैत्यध्वंसनदक्षिणमहाशयाकलितम् ॥ ८२२ ॥  अत्र भगवन्नन्दकयोः प्रकृतयोश्श्लेषः । भगवत्पक्षे-- सन्नन्दकं असितोज्ज्वलं ओजः श्रीमत् सरूपधेयाङ्गं इति पञ्चपदानि । श्रीमत् लक्ष्मीनित्ययोगवत् । रूपमेव रूपधेयं ‘भागरूपनामभ्यो धेयः’ इति स्वार्थिको धेयप्रत्ययः । तेन सह वर्तत इति सरूपधेयं दिव्यरूपमित्यर्थः । तादृशं अङ्गं विग्रहः यस्य तत्तथोक्तम् । बलेः तन्नाम्नः दैत्यस्य ध्वंसने ऐन्द्रपदाद्भ्रंशने दक्षिणा दक्षा ‘दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरळे’ इत्यभिधानचिन्तामणिः । महती आशा तृष्णा तया कलितम् । असितं च तत् उज्ज्वलं च असितोज्ज्वलम् । सतां नन्दकं सन्नन्दकं आनन्ददमित्यर्थः । ओजः इदं विशेष्यं ‘तं देवा ज्योतिषां ज्योतिः' इति श्रुतं परं ब्रह्मेत्यर्थः । ध्यायाम इति । नन्दकपक्षे तु-- सन्नन्दकं असितोज्ज्वलं ओजश्श्रीमत् त्सरूपधेयाङ्गं इति पदचतुष्टयम् । ओजसः श्रीः संपत् अस्यास्तीत्योजश्श्रीमत् । त्सरौ मुष्टौ उपधेयं निधेयं अङ्गं यस्य तं तथोक्तम् । प्राथमिकपक्षे श्रीमत्त्सरु इत्यत्र तकारस्य ‘अनचि च' इति द्वित्वम् । ‘त्सरुः खङ्गादिमुष्टौ स्यात्’ इत्यमरः । खड्गस्य त्सर्वाधारकत्वात्तथोक्तिः । बलिनां दैत्यानां ध्वंसनः ध्वंसकः भगवान् तस्य दक्षिणः वामेतरः यो महान् शयः पाणिः तेन आकलितं दैत्यादिदक्षिणपाणिपरिगृहीतमित्यर्थः ॥ असेर्भावः असिता तया उज्ज्वलम् । संश्चासौ नन्दकश्च सन्नन्दकः तं, इदं विशेष्यम् । नन्दकाख्यं खड्गं ध्यायाम इति ॥

 यथा वा--

 समुपनतेषु प्रवणं विधूनितज्यानिघृष्टपरकोटि । वस्तु महाशार्ङ्गं चिरमस्तु मम श्रेयसे किमपि ॥  अत्र शार्ङ्गिशार्ङ्गयोः प्रकृतयोरेव श्लेषः । तथाहि-- समुपनतेषु शरणागतेषु प्रवणं अधीनमिति यावत् । विधूनिता निरस्ता ज्यानिः ग्लानिः येन तत् इति व्यस्तं पदम् । प्रशमितनिखिललोकम्लानीत्यर्थः । घृष्टाः पिष्टाः परेषां अरीणां कोटयो येन तत् ध्वंसितानन्तविपक्षमित्यर्थः । महत् शार्ङ्गं यस्य तत् इति भगवत्पक्षे । शार्ङ्गपक्षे तु— समुपनताः संहिताः इषवः सायकाः यस्मिंस्तत् । तत्र हेतुः प्रवणमिति । नम्रमित्यर्थः । तत्रापि हेतुमाह-- विधूनितेति । विधूनिता कम्मिता या ज्या मौर्वी तया निघृष्ठा घटितेति यावत् । परा तदाश्रयकोट्यपेक्षया अन्या कोटिः अग्रं यस्य तत् । महच्च तत् शार्ङ्गं च । किमपि वस्तु भगवद्रूपं तच्चापरूपं च वस्तु चिरं मम श्रेयसे अस्तु । इयं 'प्रथिमहितम्' इत्यादिपञ्चश्लोकी ममैव श्लिष्टपञ्चायुधीयस्तुतौ निबद्धा ॥

 यथा वा--

 अधिरूढसुगुणकोटिक्षिप्तमहापत्त्रिभुवनविख्यातम् । अच्युतशुभकरधामप्रेङ्खच्छार्ङ्गं महामहो जयतात् ॥ ८२४ ॥

 अत्रापि शार्ङ्गिशार्ङगयोरेव प्रकृतयोश्श्लेषः । तथाहि-- अधिकं रूढाः प्रादुर्भूताः प्रकाशमाना इत्यर्थः । सुगुणानां कल्याणगुणानां कोटयो यस्य तत्तथोक्तम् । पक्षे-- अधिरूढः आरूढः सुगुणः शोभना मौर्वी यस्यां सा तथोक्ता कोटिः अटनिः यस्य तदिति बहुव्रीहिगर्भबहुव्रीहिः। अधिज्याटनीत्यर्थः । क्षिप्ताः निरस्ताः महत्यः आपदः जगद्विपदः येन तत् क्षिप्तमहापत् । त्रिभुवने विख्यातम् । पक्षे— क्षिप्ताः प्रेरिताः महान्तः पत्रिणो बाणाः येन तत् क्षिप्तमहापत्त्रि । भुवनेषु विख्यातम् । अच्युतं शुभकरं च धाम तेजः प्रभावो वा यस्य तत्तथोक्तम् । प्रेङ्खत् प्रोच्चलत् शार्ङ्गं यस्य तत्तथोक्तम् । महामहः दिव्यं तेजः ‘अथ यदतः परो दिवो ज्योतिः’ । इति श्रुतं परं ब्रह्म । इदं विशेष्यम् । पक्षे-- अच्युतस्य भगवतः शुभः कल्याणः यः करः हस्तः स एव धाम स्थानं तस्मिन् प्रेङ्खत् महत् महो यस्य तत्तथोक्तं शार्ङ्गं, इदं कर्तृ, जयतात् ॥

 यथावा--

 स जयतु सरसिजनयनस्सनातनीं गां सुरारिणाऽपहृताम् । उद्धर्तुमाविरासीन्महावराहस्त्वरान्वितो यः प्राक् ॥ ८२५ ॥

 अत्र स्तव्यत्वेन प्रस्तुतयोर्महावराहश्रीहयग्रीवयोः श्लेषः । तथाहि-- सुरारिणा हिरण्याक्षेण । पक्षे मधुनाम्ना कैटभाद्वितीयेन दैत्येन अपहृतां सनातनीं गां भुवं श्रुतिरूपां वाचं च । उद्धर्तुं यः प्राक् त्वरान्वितः ससंभ्रमः महावराहस्सन् । पक्षे महावराहः तु अरान्वित इति छेदः । तुशब्दोऽवधारणे । उद्धर्तुमित्यत्रान्वेतव्यः। उद्धर्तुमेवेत्यर्थः । अरान्वितः रेफानन्वितः महावराहः महावाहः हयग्रीवस्सन्नित्यर्थः । महावराहशब्दे रेफरूपव्यञ्जनमात्रोत्सारणे अवशिष्टस्य आकारस्य वकारोत्तराकारस्य च सवर्णदीर्घे महावाह इति निष्पत्तेरिति भावः । आविरासीत् । सः सरसिजनयनः जयतु । सरसिजनयन इत्यनेन 'महावराहस्फुटपद्मलोचनः’ इत्येतत्प्रत्यभिज्ञाप्यते ॥

 यथावा--

 वरमनघतरमधीशः पुराददे हन्त यस्सदामो दरतः । हृदयेद्वितीयवर्णो गुहाशयो वसतु मे स मुचुकुन्दोऽयम् ॥ ८२६ ॥

 अत्र प्रस्तुतयोर्मुचुकुन्दमुकुन्दयोश्श्लेषः । सः मान्धातृतनयतया सैनापत्येन देवपरित्रातृतया च प्रथितः यः अधीशः अधिराजः सार्वभौमा मुचुकुन्द इत्यर्थः । पुरा कालयवनविद्रावणावसरे । दामोदरतः आद्यादित्वात्पञ्चम्यास्तसिः । भगवतः श्रीकृष्णात् अनघतरं वरं आददे स्वीकृतवान् । गुहाशयः गिरिगह्वरशायी द्वितीयो वर्णो यस्य सः द्वितीयवर्णः क्षत्रवर्णजन्मा सोऽयं मुचुकुन्दः । पक्षे-- सदामोदरत इति समस्तं पदं प्रथमैकवचनान्तम् । सतां आमोदे प्रहर्षणे रतः आसक्तः यः भगवान् । पुरा अधीशः । अधीट्शब्दोऽयं षष्ठ्येकवचनान्तः । अधिराजस्य तस्यैव मुचुकुन्दस्येत्यर्थः । संबन्धसामान्ये षष्ठी । अनघतरं वरं ददे इति छेदः । दत्तवान् । गुहाशयः सकलचेतनहृदयगुहानिविष्टः ‘गुहाहितं गह्वरेष्ठं' इत्यादिश्रुतेः । अद्वितीयवर्ण इति छेदः । सोऽयं अद्वितीयवर्णः द्वितीयवर्णरद्दितः मुचुकुन्दः मुकुन्द इत्यर्थः । शब्दार्थयोस्तादात्म्यात् । मे मम हृदये वसतु ध्यानपथाध्वनीनो भवत्वित्यर्थः । मुचुकुन्दस्याप्रकृतत्वाभिसन्धौ त्विदं प्रकृताप्रकृतश्लेषस्योदाहरणं भविष्यतीत्यनुसन्धेयम् ॥

 यथावा--

 प्राग्भवपावकविद्धं जहतो ब्रह्माणमप्यभद्रममी । गोविन्द नन्दनन्दनजयन्त्युपात्तव्रताः प्रियतमास्ते ॥ ८२७ ॥  अत्राम्बरीषादिवद्भगवदेकनिष्ठानां श्रीजयन्तीव्रतानुष्ठातॄणां च प्रस्तुतानामेव श्लेषः। तथाहि-- हे नन्दनंदन! गोविन्द! इदं वक्ष्यमाणार्थोपस्काराय । भवपावकेन संसारानलेन विद्धं बाधितं अत एव अभद्रं अमङ्गळं ब्रह्याणं चतुर्मुखमपि प्राक् पुरस्तात् जहतः ध्यानानुपकारकत्वात्त्यजन्तः । चतुर्मुखस्यैवादौ त्यागे ततोऽप्यवरदैवतत्यागः किंपुर्न्यायसिद्धः । यद्वा- प्राक्छब्दो भवशब्दविशेषणतया समस्तः । प्राग्भवः अनादिसंसारः पावक इव तेन विद्धं, अन्यत्तुल्यम् । अत्र--

आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः ।
प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥
अविद्यान्तर्गतास्सर्वे ते हि संसारगोचराः ।
यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः ॥

इति, ‘आविरिञ्चादमङ्गळम्’ इत्यादिप्रमाणानि चानुसंहितानि । अमी उपात्तव्रताः उपात्तं ब्रतं--

स त्वं प्रहर वा मा वा मयि वज्रं पुरन्दर ।
नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः ॥

इत्यादिकमम्बरीषोक्तप्रकारकं ब्रतं यैस्ते ‘नियमो ब्रतमस्त्री तच्चोपवासादिपुण्यकम्' इत्यमरः । उदाहृतप्रमाणाभिसंधिनैव मूले गोविन्देति संबोधनम् । इदमेव पीताम्बरसागराम्बरादिवद्विशेष्यम् । सूत्रितं हि वामनेन--'विशेषणप्रयोगो विशेष्यप्रतिपत्तौ’ इति । ते तव प्रियतमास्सन्तो जयन्ति । प्रियतमा इत्यनेन 'यमेवैष वृणुते' इति श्रुत्युक्तपरमात्मवरणीयताहोतूक्तिः 'प्रियतम एव हि वरणीयो भवति यस्यायं निरतिशयीप्रयस्स एवास्य प्रियतमो भवति’ इति हि लघुसिद्धान्ते प्रकृतश्रुतिभाष्यम् । अन्यत्र ब्रह्माणं रोहिणीनक्षत्रं ‘रोहिणीनक्षत्रं प्रजापतिर्देवता’ इति रोहिण्याः प्रजापतिदेवताकत्वश्रवणात्, 'विधाता रोहिणीश्वरः' इति स्मरणाच्च । अभद्रमपि भद्रा सप्तमी ‘नन्दा भद्रा जया रिक्ता पूर्णा स्युस्तिथयः क्रमात्’ इति प्रतिपदादीनां पञ्चपञ्चानां तिथीनां क्रमेण संज्ञाविधानात् । अविद्यमाना भद्रा यस्य तं सप्तम्यविद्धमपीत्यर्थः । इदमपरित्यागकारणम् । प्राग्भवपावकविद्धं प्राग्भवेन पूर्वस्थितेन पावकेन कृत्तिका नक्षत्रेण ‘कृत्तिकानक्षत्रमग्निर्देवता' इति तस्याग्निदेवताकत्वश्रवणात् । ‘आग्नेयी कृत्तिका प्रोक्ता’ इत्युक्तेश्च । विद्धं वेधं प्रापितं, इदमग्राह्यताहेतुः। जहतः त्यजन्तः ।

जयन्ती द्विविधा प्रोक्ता शुद्धा विद्धेति संज्ञिता ।
शुद्धा तु द्विविधा प्रोक्ता विद्धा चैव चतुर्विधा ॥
तस्मात्सर्वप्रयत्नेन सप्तमीं कृत्तिकामपि ।
कलामात्रामपि त्यक्त्वा परतो व्रतमाचरेत् ॥

इत्यादिवचनैः सप्तम्या अष्टमीरोहिण्योः कृत्तिकाया अष्टमीरोहिण्योश्चेत्येवंरूपचतुर्विधवेधस्य त्यज्यताया आकरेषु निर्णीतत्वात् । अमी जयन्त्युपात्तव्रता इति समस्तं पदम् । जयन्त्याम्

श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप ।
रोहिणी यदि लभ्येत सा जयन्तीति कीर्तिता ॥
प्राजापत्यं मुहूर्तार्धं नवम्यां यदि वा न वा ।
मृगेण केवलेनापि सा जयन्तीति कीर्तिता ॥

इत्याद्युक्तलक्षणायां तिथौ उपात्तं गृहीतं व्रतं उपवासादिनियमो

यैस्ते तथोक्ताः जनाः त प्रियतमाः उपपादितचतुर्विधवेधबिधुरजयन्तीव्रतविधातारस्तवातिवेलप्रिया भवन्तीत्यर्थः । अत्र

शुद्धाष्टमीं विना वाऽपि शुद्धमृक्षमथापि वा ।
मृगेण च नवम्यां वा दशम्यां वाऽपि वैष्णवः ॥
पूर्वे तु सप्तमीयुक्ता त्वपरे कृत्तिका युता ।
दिनद्वयं परित्यज्य तदन्ये वासरे चरेत् ॥

इत्यादिवचनसहस्रमनुसन्धेयम् । एवं केवलप्रकृतानेकविषयः श्लेष उदाहृतः ॥

 अप्रकृतानेकविषयो यथा--

 सुमहाबिलविलसत्तमविशदगुणा सन्ततोत्तमस्फुरणा । तारावळी वृषाचलधौरेयनखाळिकृततिरस्करणा ॥ ८२८ ॥

 सुमहाः शोभनदीप्तिः बिलेषु रन्ध्रेषु विलसत्तमः विशदः स्वच्छः गुणः तन्तुः यस्यास्सा । अन्यत्र सुष्ठु महाबिले व्योम्नि "मेघद्वारं महाबिलम्' इत्यमरशेषः । विलसत्तमः अतिमात्रं प्रकाशमानः विशदगुणः धावळ्यं यस्यास्सा तथोक्ता । सततं उत्तमं स्फुरणं चाकचक्यं यस्यास्सा तथोक्ता । इतरत्र उत्कृष्टं तमसि स्फुरणं प्रकाशो यस्यास्सा । तमस्स्फुरणेत्यत्र तमश्शब्दविसर्गस्य ‘खर्परे शरि वा विसर्गलोपः' इति लोपे पक्षद्वयेऽपि वर्णानुपूर्व्यास्साम्यं वेदितव्यम् । तारावळी मुक्ताहारः नक्षत्रपङ्क्तिश्च ।

तारोवानरभिन्मुक्ताविशुद्धौ शुद्धमौक्तिके ।
नानक्षत्रेऽक्षिमध्ये च न नारूप्ये नपुंसकम् ॥

इत्युुभयत्रापि मेदिनी । अन्यत्सुगमम् । अत्र भगवन्नखावळ्या उपमानत्वेनाप्रकृतयोर्मुक्ताहारतारकावळ्योश्श्लेषः ॥  यथा वा--

 दिवियुक्तस्थितिमुज्ज्वलविग्रहधाम्नैव मुदिरमुच्चापम् । व्यजयत यः किल स पुमान्विजयाय ममास्तु भुजगिरिनेता ॥ ८२९ ॥

 दिवि व्योम्नि युक्तस्थितिं युक्ता वर्षकरणकजगदानन्दनानुरूपा स्थितिः अवस्थानं यस्य तम् । तत्र हेतुमाह-- उच्चेति । उच्चाः निर्भराः आपः यस्य तम् । ‘ऋक्पूरप्' इत्यादिना समासान्तोऽप्रत्ययः । प्रावृषेण्यमिति भावः । मुदिरं जीमूतं ‘घनजीमूतमुदिरजलमुग्धूमयोनयः' इत्यमरः । उज्ज्वलस्य विग्रहस्य दिव्यवपुषः धाम्नैव तेजसैव यः व्यजयत । पक्षे उच्चापं उद्धृतधन्वानम् । दिवियुक्तस्थितिं दिना दिवर्णेन वियुक्ता विघटिता स्थितिः यस्य तं मुदिरं मुरमित्यर्थः । मुदिरशब्दे दिवर्णलोपे मुर इति निष्पत्तेः । शब्दार्थयोस्तादात्म्यमिह शरणम् । विग्रहधाम्ना समरप्रभावेण व्यजयत तिरस्कुरुते स्म । इहाप्रकृतयोर्मुदिरमुरयोः श्लेषः ॥

 यथावा--

 त्वदवेक्षणतोमर्त्यः प्रसाधितस्वस्थिरस्सुधान्यादः । अखिलाम्ब दानवारात्याख्यातो विन्दते बुधेड्यत्वम् ॥ ८३० ॥

 हे अखिलाम्ब! मर्त्यः मानवः । अमर्त्य इति च छेदः । देव इत्यर्थः । त्वदवेक्षणतः त्वत्कटाक्षात् प्रसाधितस्वस्थिरः प्रसाधिते प्रकर्षेण वशीकृते स्वं धनं स्थिरा भूश्च येन स तथोक्तः । अमर्त्यपक्षे-- प्रसाधितस्वः प्रसाधितं अलंकृतं स्वः स्वर्गो येन स तथोक्तः। रेफान्ताव्ययोत्तरपदो बहुव्रीहिः । स्थिरः चिरकालावस्थायी । शोभनानि च तानि धान्यनि च सुधान्यानि तान्यत्तीति सुधान्यादः सुमृष्टव्रीहितण्डुलाद्यन्नभोजीति यावत् । अन्यत्र सुधा अमृतं न्यादः आहारः यस्य स तथोक्तः ‘नौ ण च' इत्यादेर्निपूर्वकात् णप्रत्ययः । ‘जेमनं लेप आहारो निघसो न्याद इत्यपि' इत्यमरः । दानवारा दानोदकेन अत्याख्यातः अतिशयेन समन्तात्प्रथितः अत एव बुधेड्यत्वं विन्दते । महोदारसार्वभौमतया विद्वदभिनन्दनीयतां लभत इति भावः । इतरत्र दानवारातिः वृत्रमुखदैत्यध्वंसीति आख्यातः प्रसिद्ध्या, आद्यादित्वात्तृतीयायास्तसिः । आख्यात इति प्रथमान्तं वा पदम् । बुधैः देवैः ईड्यत्वं विन्दते देवाधिराजत्वं भजत इत्यर्थः । अत्र जगज्जननीकटाक्षितयोर्मर्त्यामर्त्ययोरप्रकृतयोश्श्लेषः ॥

 यथावा--

 कलितो भगवन् भवता मित्राणामधिभुवाञ्छितो विभवः । दानान्विता विरचिता वदान्यताऽपि च पृदाकुशिखरिमणे ॥ ८३१ ॥

 हे भगवन्! भवता अधिभु भुवि विभक्त्यर्थेऽव्ययीभावः । मित्राणां सुहृदां वाञ्छितः काङ्क्षितः विभवः कलितः कृतः । दानेन वितरणेन अन्विता वदान्यता वल्गुवचनताऽपि च ‘वदान्यो वल्गुवागपि' इत्यमरः । विरचिता ‘दत्वा च मधुरं वदेत्’ इति हि धर्मविदः । सुहृदस्त्वया विभववन्तस्तदनुगुणदानप्रियवचनाश्च कृता इति निर्गळितोऽर्थः । पक्षे-- अमित्राणामिति छेदः । वैरिणां अधिभुवां प्रभूणां ‘अधिभूर्नायको नेता’ इत्यमरः । विभवः कलितः युद्धेन, आद्यादित्वात्तसिः । ‘संप्रहाराभिसंपातकलिसंस्फोटसंयुगाः' इति युद्धपर्यायेष्वमरः । छितः छिन्नः छायते स्मेतिच्छितः 'छो छेदने’ इति दैवादिकाद्धातोः कर्मणि क्तः 'शाच्छोऽन्यतरस्याम्' इति वैकल्पिकमित्वम् । ‘कृत्तं दातं दितं छितं वृक्णम्' इत्यमरः । अपिच दानान्विता दा इति वर्णेन नान्विता अयुक्ता विरहितेत्यर्थः । नशब्देन समासः । वदान्यता वन्यतेत्यर्थः । विरचिता । वैरिणो न केवलमपचितविभवा एव कृताः, किंतु वन्यवृत्तयोऽपीत्यभिप्रायः । अत्र भगवदीययोर्मित्रामित्रयोरप्रस्तुतयोश्श्लेषः । द्वयोरपि प्रस्तुतत्वाभिसन्धौ प्रकृतानेकविषयश्लेषस्यैवोदाहरणं भवेत् । एवं पूर्वोदाहरणेऽपि द्रष्टव्यम् ।

 प्रस्तुताप्रस्तुतयोर्यथा--

 यो वहति मञ्जुलक्ष्माच्छायामसितां घृणिप्रतीतात्मा । वृषभागं तुङ्गमयन्नयं हरिः प्रथयते श्रियं हृद्याम् ॥ ८३२ ॥

 अत्र भगवच्चन्द्रमसोः प्रस्तुताप्रस्तुतयोः श्लेषः । तथाहि-- मञ्जृ मनोहरं लक्ष्म श्रीवत्सचिह्नं असाधारणं शङ्खचक्रादिचिह्नं वा यस्य स तथोक्तः । अनेन परत्वं सूचितम् ।

तमसः परमो धाता शङ्खचक्रगदाधरः ।
श्रीवत्सवक्षा नित्यश्रीरजय्यश्शाश्वतो ध्रुवः ॥

इत्याद्यृक्तेः । असितां श्यामलां छायां कान्तिं वहति । अयं हरिः भगवन् घृणिप्रतीतात्मा घृणा अस्यास्तीति घृणी दयावान् । व्रीह्यादित्वान्मत्वर्थीय इनिः । ‘जुगुप्साकरुणे घृणे' इत्यमरः । घणीति प्रतीतात्मा प्रख्यातस्वभावः । ‘घृणी सत्यपराक्रमः' इत्याद्यृक्तेः । घृणिषु प्रतीतात्मेति वा परमकारुणिक इत्यर्थः । घृणीति विश्वासविषयस्वभाव इति वा । प्रतिपूर्वकस्य इणो विश्वासार्थकत्वात् । घृणी चासौ प्रतीतात्मा चति विशेषणोभयपदकर्मधारयो वा । अस्मिन् पक्षे प्रतीतो हृष्ट इत्यर्थः । ‘ख्याते हृष्टे प्रतीतः' इत्यमरः । महादयाळुतया लीलाविभूतिस्थानुज्जीवयितुं प्रहृष्टमना इति भावः । अनेन सौलभ्यहेतुभूतकृपाशालितोक्तिः । अत एव तुङ्गं वृषभागं वृषभाद्रिं अयन् प्राप्नुवन् अनेन सौलभ्योक्तिः । श्रियं लक्ष्मीं हृद्यां वक्षस्स्थां प्रथयते स्वस्य श्रीनिवासत्वं प्रदर्शयतीति भावः । अनेन सौलभ्येऽपि परत्वाप्रहाणं दर्शितम् । पक्षे-- घृणिभिः किरणैः प्रतीतात्मा प्रख्यातस्वरूपः यः असितां नीलां मञ्जुलक्ष्माच्छायां क्ष्मायाः भूमेः छाया मञ्जुला च सा क्ष्माच्छाया च तां, शशशब्दाभिलपनीयं भूप्रतिबिम्बमित्यर्थः । वहति ‘लोकच्छायामयं लक्ष्म तवाङ्गे शशसन्निभम्’ इति हरिवंशोक्तेः ‘तवाङ्के’ इत्यपि पाठः । ‘भूच्छायमैच्छन्परे’ इत्यर्वाचीनोक्तेश्च । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । अयं हरिः चन्द्रमाः 'हरिर्यमार्काश्वाग्नीन्दुविष्ण्विन्द्रांशुशुकेषु ना’ इति रत्नमाला । तुङ्गं उच्चं वृषभागं वृषस्य वृषभराशेः भागं तृतीयांशमिति यावत् । तस्यैव तत्परमोच्चस्थानत्वात् । यथोच्यते वराहमिहिराचार्येण--

अजवृषभमृगाङ्गनाकुळीरा झषवणिजौ च दिवाकरादितुङ्गाः ।
दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः ॥

इति । अयन् सन् हृद्यां हृदयप्रियां श्रियं दीप्तिं प्रथयते दीप्तो भवतीत्यर्थः । यद्वा- स्वलग्नजन्मनां शुभसंपदं वितनोतीत्यर्थः । ‘स्वोच्चे प्रदीप्तः’ इति, ‘दीप्तिः पूर्णं विधत्ते शुभम्’ इति च माधवीयोक्तेः ॥

 यथावा--

 गौरवितासश्रीरनवरतं हृद्याहिता सुहृल्लेखा । येन स वृषाचलाहितधामा देवाधिनायको जयति ॥

 अत्र प्रकृताप्रकृतयोर्भगवन्मघवतोश्श्लेषः । तथाहि— येन भगवता हृदयं लिखतीति हृल्लेखा शोभना हृल्लेखा सुहृल्लेखा अतिमात्रहृदयंगमेत्यर्थः । ‘हृदयस्य हृलेख’ इत्यादिना हृदयशब्दस्य हृदादेशः । ‘हृदयग्राहि हृद्यं च हृल्लेखं हृदयप्रियम्’ इति रत्नकोशः । अत एव अनवरतं हृदि वक्षसि आहिता निहिता अत एव गौरविता सजातगौरवा । तारकादिषु गौरवशब्दस्य पाठात् ‘तद,स्य संजातम्’ इत्यर्थे इतच् । यद्वा-- गौरववती कृता, गौरविताण्यन्ताद्गौरववच्छब्दात् निष्ठायां णाविष्ठवद्भावेन ‘विन्मतोः' इति मतुपो लुक् । अत एव आस दिदीपे । ‘अस दीप्तौ’ इति धातोर्लिट्प्रथमैकवचनम् । पक्षे-- गौः अविता सश्रीः इति छेदः । येन मघवता सश्रीः सलक्ष्मीका हृद्या हृदयप्रिया हिता पथ्या ‘हितं पथ्ये गते धृते' इति मेदिनी । सुहृदो लेखाः देवाः यस्यां सा ‘लेखा अदितिनन्दनाः' इत्यमरः । गौः द्यौः स्वर्ग इत्यर्थः । गौस्स्वर्गे च बलीवर्दे’ इति मेदिनी । अनवरतं अविता रक्षिता । वृषाद्रौ अहितं न्यस्तं धाम स्थानं दिव्यमङ्गळविग्रहो वा यस्य सः ‘गृहदेहत्विट्प्रभावा धामानि' इत्यमरः । सः देवाधिनायकः भगवान् । पक्षे-- सः वृषा अचलाहितधामेति छेदः । अचलानां शैलानां अहितं धाम तेजः प्रभावो वा यस्य सः गोत्रभिदित्यर्थः । देवानां अधिनायकः सः वृषा मघवा जयतीति ॥  यथावा--

 कृष्णघनाभिवितीर्णस्वात्यमलरसैकसमधिगतसत्ताः । मुक्ताख्यास्सन्मणयो विलसच्छुक्त्यागतादृगानन्दाः ॥ ८३४ ॥

 अत्र प्रकृतानां ब्रह्मविदामप्रकृतानां मुक्ताफलानां च श्लेषः । तथाहि-- कृष्णेन भगवता घनं सान्द्रं यथा स्यात्तथा अभिवितीर्णः प्रदत्तः स्वस्मिन् स्वविषये यः अत्यमलः विजातीयरसासंवलिततया स्वच्छः रसः अनुरागः स्नेहापरपर्यायः तत्पूर्वकानुध्यानं भक्तिरिति यावत् ‘स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते’ इति ह्युच्यते । तेनैव समधिगता सम्यक्प्राप्ता सत्ता स्वरूपधारणं येषां ते रसैकसमाधगतसत्ताः 'ददामि बुद्धियोगं तं येन मामुपयान्ति ते' इत्युक्तप्रक्रियया भगवद्दत्तेनोक्तविधानुध्यानेनैव स्वदेहधारणादिकं कुर्वन्त इति भावः । सन्मणयः ब्रह्मविदग्रेसराः मुक्ताः प्रकृतिबन्धवियुक्ताः इत्याख्या येषां ते तथोक्तास्सन्तः विलसन् शुचः शोकस्य त्यागो येषां ते विलसच्छुक्त्यागाः ‘अपहतपाप्मा' इति प्रजापतिवाक्ये ‘विशोकः’ इति श्रवणात् । तादृक् 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह' इति वाङ्मनसापरिच्छेद्यतया श्रुतः आनन्दो येषां ते तादृगानन्दाः विलसच्छुक्त्यागाश्च ते तादृगानन्दाश्चेति विशेषणोभयपदकर्मधारयः । शोकोपलक्षितहेयगुणदवीयांसः परिपूर्णब्रह्मानुभवानन्दं विन्दन्त इत्यर्थः ॥

 अन्यत्र-- कृष्णघनेन नीलाम्बुदेन अभिवितीर्णः यः स्वात्यमलरसः स्वातीरविसंचारकालिकनिर्मलसलिलबिन्दुः--

नद्यां तत्र स्वातिगेऽर्के शुक्तिस्था वृष्टिबिन्दवः ।
षड्भिर्मासैर्घनीभूता जायन्ते शुद्धमौक्तिकाः ॥

इत्युक्तेः । तेनैव समधिगता सत्ता स्वरूपस्थितिः येषां ते

तथोक्ताः । अत एव मुक्ताख्याः मुक्ताभिधानाः सन्मणयः प्रशस्तरत्नानि । विलसन्ती या शुक्तिः मुक्तास्फोटः तस्याः आगताः ततो जाता इत्यर्थः । दृगानन्दाः दृशां ईक्षितृजनलोचनानां आनन्दाः हर्षहेतवो भवन्तीति ॥

 यथावा--

 मुख्यविभुसहजसङ्गावुदग्रभूमाश्रितौ च सुमहान्तौ । हन्त विहङ्गभुजङ्गौ न क्वाप्यर्थे विरोधमुपयातौ ॥ ८३५ ॥

 अत्र गरुत्मदनन्तयोः प्रस्तुतयोः विहङ्गभुजङ्गशब्दयोरप्रस्तुतयोश्च श्लेषः । तथाहि-- सुमहान्तौ विहङ्गभुजङ्गौ गरुडानन्तावित्यर्थः । मुख्यविभुसहजसङ्गौ मुख्ये न तु राजादिवद्गौणे विभौ स्वामिनि श्रीनिवासे सहजः स्वाभाविकः सङ्गः शेषशेषिभावरूपस्संबन्धः ययोस्तौ तथोक्तौ । अत एव उदग्रेण उच्छ्रितेन भूम्ना महिम्ना आश्रितौ च । यद्वा-- उदग्रा श्रेयसी भूः भूदेवी यस्यास्सा तथोक्ता या मा श्रीः तां श्रितौ 'द्वितीया श्रित' इत्यादिना समासः ‘विष्णुपत्नीं महीम्' इत्यादिश्रुतौ 'लक्ष्मीप्रियसखीम्’ इति भूदेव्या लक्ष्मीप्रियसखीत्वोक्तेरिह तद्वैशिष्ट्यमभिहितं श्रियः । यद्वा उदग्रे भूश्च मा चेत्येते भगवद्दिव्यमहिष्यौ श्रितावित्यर्थः । न केवलमेतौ भगवतश्शेषभूतावेव अपितु तत्प्रसादनतत्परयोस्तद्दिव्यमहिष्योरपीति भावः । क्वाप्यर्थे कैंकर्यादिरूपे कस्मिंश्चिदपि प्रयोजने विरोधं नोपयातौ । कस्यचित् भगवन्नित्येच्छाव्यवस्थितेषु तत्तत्कैंकर्यादिष्वन्यस्यानुष्ठानाभिसन्धेरनुदयात् नित्यनिर्दोषभगवदाश्रयणप्रभावाच्चेति भावः ॥  पक्षे-- मुख्यौ यथासंख्यं आद्यौ विश्च भुश्च विभू इत्याकारकौ वर्णौ ययोस्तौ मुख्यविभू हश्च जश्च हजौ वर्णौ ताभ्यां सह वर्तेते इति सहजौ च ‘वोपसर्जनस्य’ इति सहशब्दस्य सभावः । ङ्गेन ङकारगकारसंयोगेन सह वर्तेते इति सङ्गौ च । एतेषां त्रयाणां विशेषणानां र्कमधारयः । मुख्यविभुसहजसङ्गौ । उदग्रभूमाश्रितौ उत् उत्कृष्टं यथा स्यात्तथा अग्रे भवतीत्यग्रभूः अवसाने विद्यमानः यः मः मकारः तेनाश्रितौ । यद्वा अग्रादुद्गता उदग्रा भूः पर्यवसानमित्यर्थः । तस्यां माश्रितौ मकाराश्रितावित्यर्थः । ईदृशौ विहङ्गभुजङ्गौ विहङ्गभुजङ्गशब्दौ क्वापि क्वचिदपि लोके वेदे वेति भावः। अर्थे अभिधेये विरोधं अन्यार्थत्वं नोपयातौ विहङ्गभुजङ्गशब्दाभ्यां यावानर्थोऽभिधीयते विहङ्गमभुजङ्गमशब्दाभ्याामपि तावत एवार्थस्याभिधानादिति भावः । अस्मिन्पक्षे सुमहान्तावित्यस्य सुमहाशब्दान्ते विद्यमानावित्यर्थोऽप्युपस्कार्यः । सुमहाविहङ्गः सुमहाभुजङ्गः इति शब्दावित्यर्थो निष्पद्यते । विहायसि गच्छतीति विग्रहे ‘गमेस्सुपि वाच्यः’ इति खचि ‘विहायसो विह इति वाच्यम्’ इति विहादेशे ‘खच्च डिद्वा वाच्यः’ इति खचो वैकल्पिके डित्त्वे डित्त्वसामर्थ्याट्टिलोपे ‘अरुर्द्विषत्’ इति मुमागमे विहङ्गः विहङ्गमः इति रूपद्वयमभिन्नार्थकम् । एवं भुजैर्गच्छतीति विग्रहे गमेः खचो वैकल्पिके डित्त्वे टिलोपे मुमागमे च भुजङ्गः भुजङ्गम इति रूपद्वयं च ॥

 यथावा--

 सामानाधिकरण्यादुत्तरपदतां गतेन ननु विष्णो । महतस्त्वया समासे सत्याकारेऽस्तमेति तान्तत्वम् ॥ ८३६ ॥  अत्र महनीयस्य ब्रह्मविदो महच्छब्दस्वरूपस्य च प्रकृताप्रकृतयोः श्लेषः । तथाहि-- ननु विष्णो! उत्तरं सर्वोत्तमं पदं 'तद्विष्णोः’ इति श्रुतं स्थानं यस्य स उत्तरपदः तस्य भावः तत्ता तां गतेन परमपदे निवसतेत्यर्थः । त्वया सामानाधिकरण्यात् एकाधिकरणकत्वात्, ल्यब्लोपे कर्मणि पञ्चमी । एकाधिकरण्यं प्राप्येत्यर्थः । समासे सम्यगवस्थाने सति संपूर्वकादासेर्घञ् । महतः महनीयस्य कस्यचिद्ब्रह्मविदः सत्याकारे सत्यः अनारोपितः स्वाभाविक इत्यर्थः । स चासावाकारः अपहतपाप्मत्वादिरूपः तस्मिन् सति प्रादुर्भवतीति यावत् । तान्तत्वं अशनायापिपासादिग्लानिः अस्तं अदर्शनं एति प्राप्नोति । तदतीतत्वश्रवणात्तस्य । त्वदनुग्रहेण परमे व्योम्नि त्वया सह वसतः प्रादुर्भूतगुणाष्टकस्य चेतनस्याशनायादिग्लानिर्न कदाऽप्युन्मिषेदिति भावः । अन्यत्र हे-- विष्णो! इति विष्णुशब्दस्यैव संबोधनम् । सामानाधिकरण्यात् प्रवृत्तिनिमित्तभेदेनैकार्थवृत्तित्वरूपात् । यदाहुः— भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्’ इति । उत्तरपदतां समासचरमावयवतां समानाधिकरणोत्तरपदतामित्यर्थः । गतेन प्राप्तेन त्वया विष्णुशब्देन समासे सति महतः महच्छब्दस्य अलोऽन्त्यपरिभाषया अन्त्यस्य तकारस्येत्यर्थः । आकारे आत्वे सति भवति सतीत्यर्थः । सत्याकारे इत्यत्र सति आकारे इति छेदः । तान्तत्वं तकारान्तत्वं अस्तमेति न दृश्यते । आकारादेशेनापहृतत्वात् महाविष्णुरित्येव निष्पद्यते रूपं न तु महद्विष्णुरिति भावः । अत्र ‘आन्महतस्समानाधिकरण’ इति सूत्रार्थोऽनुसन्धेयः ॥  यथावा--

 त्वां विदितवान् सदासंबुद्धौ विष्णो महर्षिविहितगुणम् । त्वयि सुप्रत्ययलोपाद्विसर्जनीयो हि भवति दूरेसः ॥ ८३७ ॥

 अत्र भगवतो विष्णोः विष्णुशब्दस्य च श्लेषः । तथाहि-- हे विष्णो! महांश्चासौ ऋषिर्वेदः पराशरादिर्मुनिश्च 'ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्' इति मेदिनी । तेन विहिताः अनुशिष्टाः गुणाः सर्वकारणत्वसर्वज्ञत्वसर्वोत्तमत्वादयो यस्य तं तथोक्तम्। “स कारणं करणाधिपाधिपः । यस्सर्वज्ञस्सर्ववित् । विष्णुः परमः,

विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे ॥
समस्तकल्याणगुणात्मकोऽसौ..................... ......॥"

इत्यादिश्रुतिस्मृतिप्रख्यापितकल्याणगुणमित्यर्थः । सदा बुद्धौ मनसि विदितवान् ज्ञातवान् आसं सद्भावभागभवम् । ‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इति श्रुतेः । अनेवंभूतस्तु असत्त्वाद्दूरतस्त्याज्य इत्याह-- त्वयीति । दूरेस इत्यत्र दूरे अस इति छेदः । स न भवतीत्यसः अतथाविधः उक्तविधं त्वामविदितवानित्यर्थः । अत एव त्वयि विषये सुप्रत्ययस्य शोभनस्य ज्ञानस्य महाविश्वासस्य वा लोपात् दूरे विसर्जनीयः त्याज्यो भवति । हीति प्रसिद्धौ । ईदृशस्सतां बहिष्कार्य एवेति प्रसिद्धमेवेति भावः । अन्यत्र-- हे विष्णो! विष्णुशब्द! त्वां, अस्मिन्पक्षे सदा संबुद्धौ इति छेदः । संबुद्धौ ‘एकवचनं संबुद्धिः‌’ इति संकेतिते संबोधनप्रथमैकवचने परत इति शेषः । महर्षिणा पाणिनिना विहितः गुणः यस्य तं 'ह्रस्वस्य गुणः’ इति सूत्रेण संबुद्धौ परतो गुणविधानादिति भावः । सदा विदितवान् आसम् । त्वयि विष्णो इत्यत्रेति भावः । सुप्रत्ययस्य सु इत्याकारकप्रत्ययस्य लोपात् 'एङ् ह्रस्वात्सम्बुद्धेः' इति सूत्रेण संबुद्धिहलो लोपादित्यर्थः । सः सुप्प्रत्ययसकारस्य स इति षष्ठ्येकवचनम् । विसर्जनीयः 'ससजुषोरुः' इति रुत्वानन्तरभावी ‘खरवसानयोर्विसर्जनीयः' इति विहितो विसर्गः दूरे भवति हि । परमस्थानिनस्सकारस्यैव लोपे कानाम तत्स्थानिकरुत्वावलम्बिनी विसर्गकथेति भावः ॥

 यथावा--

 इह विष्वग्देवोऽञ्चतिपरोऽद्रिमग्र्यं श्रितो महादेशम् । अप्रत्ययोऽपि धातुस्तदगश्चायं समन्ततोदृश्यः ॥ ८३८ ॥

 अत्र श्रीनिवासस्य प्रकृतस्य विष्वग्देवशब्दयोरप्रकृतयोश्च श्लेषः । तथाहि-- परो देवः वासुदेवः धातुः ब्रह्मणः अप्रत्ययोपि अनधीनोपि ।

प्रत्ययः प्रथितत्वेSपि सनादिज्ञानयोरपि ।
आचारे शपथे रन्ध्रे विश्वासाधीनहेतुषु ॥

इति मेदिनी । ब्रह्मणा ध्यातुमशक्योपीत्यर्थः । धातुरप्यप्रत्यय इति वा योजना । अग्र्यं श्रेष्ठं अद्रिं शेषाचलं तस्यैव प्रकृतत्वात् 'एष शेषाचलो नाम गिरीणामुत्तमो गिरिः' इत्युक्तेश्च । महादेशं पूज्यप्रदेशं शेषाचलं नाम दिव्यदेशमित्यर्थः । श्रितस्सन् इह अस्मिन्नद्रौ विष्वक् समन्ततः अञ्चति संचरति विहरतीति यावत् । तत् तस्मात् भगवद्विहरणाद्धेतोः अयं भगवद्विहारस्थानभूतः अगश्च गिरिरपि समन्ततः परितः दृश्यः द्रष्टव्यः, जनैरिति शेषः । न केवलं भगवानेव दर्शनीयः अपितु सर्वतोपि भगवत्संचरणात्पावनतमोऽयं गिरिरपि सर्वेस्सर्वतो दर्शनीय एवेत्यर्थः ॥

 पक्षे-- विष्वक् विष्वगित्याकारकः देवः देव इत्याकारकश्च शब्दः अञ्चतिः अञ्चुधातुः परो यस्य सः अञ्चतिपरस्सन् । अञ्चतीति श्तिपा निर्देशः । अग्र्यं अग्रे टिस्थाने भवं अद्रिं अद्रीत्याकारकं महान्तं अनेकाल्त्वाद्बृहन्तं आदेशं श्रित प्राप्तः भवति । ननु अञ्चतिपरो विष्वक् देवश्च यद्यद्यादेशं प्राप्नुयात्तर्हि विष्वगञ्चनं देवाञ्चनमित्यत्रापि विष्वग्देवयोरद्र्यादेशस्स्यादित्यत आह-- अप्रत्ययोपि धातुरिति । अस्मिन्पक्षे इहेत्येतदत्रान्वेति । इह अञ्चतिपर इत्यत्र विद्यमानः धातुरपि अञ्चुधातुश्च अप्रत्ययः अविद्यमानः प्रत्ययो यस्मादित्यप्रत्ययः क्विबन्त इत्यर्थः । क्विपस्सर्वस्यापि लोपादविद्यमानत्वम् । यद्वा अविद्यमानः प्रत्ययः अप्रत्यय इति तत्पुरुष एव । तस्य धातुविशेषणत्वेन तदन्तलाभः अविद्यमानप्रत्ययान्तः क्विबन्त इत्यर्थः। अन्यथा विष्वगञ्चनमित्यादाविवाद्र्यादेशानापत्तेरिति भावः । तत् तस्मात् विष्वग्देवयोष्टिस्थाने अद्र्यादेशाद्धेतोः समन्ततः सम्यगन्ते विद्यमानः अयं प्रकृते विष्वक्छब्दे देवशब्दे च स्थितः अग इत्यत्र अक् अः इति छेदः । ‘झलां जशोऽन्ते' इति ककारस्य जश्त्वेन गकारः यथासंख्यं विष्वक्छब्दस्थः अक् इत्याकारकवर्णसमुदायः अश्च देवशब्दस्थः अकारश्चेत्यर्थः । अदृश्य इति छेदः । अद्यादेशेनापहृतत्वान्न दृश्यत इत्यर्थः । अत्र 'विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये’ इति सूत्रार्थ उपपादितप्रकारेणानुसन्धेयशब्दविद्यानिष्णातैरित्यलम् । यद्वा-- समं ततः अदृश्य इति त्रिधा छेदः । ततः अद्र्यादेशादनन्तरं तत् तस्मात् अद्र्यादेशादेव हेतोः अयं प्रकृतविष्वग्देवशब्दयोर्विद्यमानः अक् अश्च उक्त एवार्थः। समं तुल्यं यथा स्यात्तथा अदृश्यः । द्वयोरप्यनयोश्शब्दयोष्टेरद्र्यादेशेन अकः अस्य चापहाराददर्शनमनयोस्तुल्यमेवेति भावः । अथवा तत् उक्तादेव हेतोः ततः सार्वविभक्तिकस्सप्तम्यास्तसिः । तयोः विष्वग्देवशब्दयोरित्यर्थः । अयं बुद्धिस्थः अक् अश्च समं तुल्यं अदृश्य इति ॥

 यथावा--

 लक्ष्म्यास्सख्युः पत्युर्युक्तं प्रथतेघितागुणाभावः । इदमपि युक्तं विद्मो यद्भविताप्रत्ययस्य नाभावः ॥ ८३९ ॥

 अत्र प्रस्तुतस्य भगवतः अप्रस्तुतानां लक्ष्मीसखिपतिशब्दानां च श्लेषः । तथाहि-- लक्ष्म्याः सख्युः सुहृद्भूतस्य अनेनानुरागपरिपूर्णता द्योतिता । पत्युः भर्तुः श्रीनिवासस्य अयं च श्रीपतित्वेन निर्देशः अनुपदविवक्षिताया उभयलिङ्गतायास्तदेकाश्रयत्वं व्यञ्जयितुम् । अत एव हि ‘श्रियःपतिर्निखिलहेयप्रत्यनीककल्याणैकतानः' इत्यभाषि भगवद्भाष्यकारैः। अघमस्यास्तीत्यघी तस्य भावः अघिता । सा चासौ गुणश्व आघितागुणः, तस्याभावः प्रथते प्रसिद्ध्यतीति युक्तम् । 'स एष सर्वेभ्यः पाप्मभ्य उदितः । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एका नारायणः' इत्यादिश्रवणात् । प्रत्ययस्य ज्ञानस्य उपलक्षणमिदं शक्तिबलैश्वर्यादीनामपि । न अभावः इति छेदः । अभावः न भविता सत्तैव भवितेति यत्, नञ्द्वयेन संभाव्यभावनिषेधो व्यावर्तितः । इदमपि युक्तं विद्म. 'पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इत्यादिश्रुतेः। ज्ञानोपलक्षितकल्याणयुणवैधुर्यमस्य न कदाऽपि भवेदिति भावः । आभ्यां पूर्वोत्तरार्थाभ्यां ‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः' इति श्रुता अखिलहेयप्रत्यनीकता ‘सत्यकामस्सत्यसंकल्पः' इति श्रुता अनन्तकल्याणगुणाकरता च क्रमेण दर्शिता ॥

 अन्यत्र-- लक्ष्म्याः लक्ष्मीशब्दस्य । अर्थगतस्य स्त्रीत्वस्य शब्दे आरोपः । सख्युः सखिशब्दस्य पत्युः पतिशब्दस्य च । घितागुणाभावः घिता घिसंज्ञकत्वम् । तेन यो गुणः ‘घेर्ङिति’ इति विहितो गुणः तस्य अभावः प्रथत इति युक्तम् । लक्ष्मीशब्दस्य नदीसंज्ञकदीर्घेवर्णान्तत्वेन ‘शेषो घ्यसखि’ इत्यनदीसंज्ञकह्रस्वेवर्णोवर्णान्तत्वनिबन्धनघिसंज्ञायास्तत्राप्रवृत्तेः । तत्रैव घिसंज्ञाविधायके सूत्रे असखीति सखिशब्दस्य पर्युदस्तत्वा । सखिशब्दस्य ‘पतिस्समास एव' इति समास एव पतिशब्दस्य घिसंज्ञाया नियमितत्वेनासमस्तपतिशब्दस्य च तदभावात् घिसंज्ञाप्रयुक्तगुणाभावः प्रसिद्ध इति युक्तम् । भविताप्रत्ययस्येत्यत्र भविता आप्रत्ययस्येति छेदः । आप्रत्ययस्य आङ्संज्ञस्य टाप्रत्ययस्य नाभावः 'आङो नास्त्रियाम्' इति विहितस्य नादेशस्याभावः भवितेति यत् इदमपि युक्तं विद्मः। लक्ष्मी-सखि-पतिशब्दानामुक्तरीत्या घिसंज्ञाया एवाभावान्न तत्कार्यनाभाव इति भावः । यद्वा अपिशब्दो गर्हायां, अपीदं युक्तं विद्म इति योजना । अस्मिन् पक्षे--आप्रत्ययस्य आङः नाभावः नात्वं भवितेति यत् तत् युक्तं विद्मः किं ? तेषां शब्दानां घिसंज्ञाया एवाभावेन आङो नादेशो भवितेति न युक्तं विद्म इत्यर्थः ॥  यथावा--

 त्वद्भोगीनस्स्वामिन् विश्वजनीनस्तथाऽऽत्मनीनश्च । भाति हितार्थसुखेनप्रथितोऽथात्मा प्रकृत्या च ॥ ८४० ॥

 अत्र भगवदुपासकस्य प्रकृतस्य त्वद्भोगीनादिशब्दस्याप्रकृतस्य च श्लेषः । तथाहि हे स्वामिन् ! त्वद्भोगीनः तवैव भोगाय हितः न तु स्वस्य, त्वद्भोगसंपादनैकतानः त्वच्छेषतैकरस इति यावत् । ‘परगतातिशयाधानेच्छया उपादेयत्वमेव यस्य स्वरूपं स शेषः' इति हि शेषलक्षणम् । अत एव विश्वजनीनः सर्वजनाय हितः आत्मनीनः आत्मने हितश्च स्वपरहिताचरणैकवृत्तिरित्यर्थः । उक्तं च-- 'स्वपरहितपरं देशिकम्' इति । ईदृशः आत्मा चेतनः हितार्थसुखेन हितं भगवत्प्राप्त्युपायः अर्थः परमपुरुषार्थः हितार्थशब्दौ तद्ज्ञानपरौ । इदं तत्त्वज्ञानस्याप्युपलक्षकम् । ताभ्यां यत्सुखं आनन्द: तेन प्रथितस्सन् भाति । अथ शरीरावसाने प्रकृत्या च आविर्भूतगुणाष्टकादिविशिष्टत्वरूपेण स्वस्वभावेन च भातीत्यनुषज्यते दीप्यते । त्वच्छेषतैकरसो विश्वजनाय स्वच्छात्रभूतायात्मने च हितकृच्चेतनस्तत्त्वहितपुरुषार्थज्ञानप्रयुक्तानन्दवत्तयेह प्रतीतश्शरीरावसाने चाविर्भूतस्वाभाविकापहतपाप्मत्वादिब्राह्मगुणो नित्यासंकुचितज्ञानतया प्रकाशते मुक्तो भवतीति भावः ॥

 अन्यत्र-- त्वद्भोगीन इति शब्दः विश्वजनीन इति शब्दः आत्मनीन इति शब्दश्च हितार्थसुखेनप्रथित इति समस्तं पदम् । हितार्थे हितरूपेऽर्थे ‘तस्मै हितम्' इति सूत्रेण विहिते शोभनश्चासौ खश्व सुखः ‘आत्मन्विश्वजनभोगोत्तरपदात्खः' इति विहितो यः खप्रत्ययः तस्य यः ईनः 'आयनेयीनीयियः' इत्यादिना विहित ईनादेशः तेन प्रथितस्सन् भातीति प्रत्येकं त्वद्भोगीन इत्यादिभिस्संबध्यते । त्वद्भोगीनादिशब्दत्रयस्योक्तप्रक्रियानिष्पन्नत्वात्तथोक्तिः । अथात्मनीनशब्दे विशेषं च दर्शयति-- अथेत्यादिना । अथेति विशेषद्योतकम् । आत्मा आत्मशब्दः प्रकृत्या च भाति ‘आत्माध्वानौ खे’ इति सूत्रविहितं प्रकृतिभावमापन्नः प्रकाशते । यथावस्थितस्वरूप एव भवति, न तु ‘नस्तद्धिते’ इति टिलोपं प्राप्नोति । खप्रत्ययश्शब्दत्रयेऽप्यविशिष्ट एव, आत्मशब्दे तु प्रकृतिभावो विशेष इति भावः ॥

 यथावा--

 सक्तो भजति दधाति स्पष्टं हिततां फणीशगिरिभवनः । स्वौजसि परेशताऽस्मिन्ननुमागमतोविशेषभाग्भवति ॥ ८४१ ॥

 अत्र प्रस्तुतस्य भगवतः अप्रस्तुतस्य धाञ्धातोः भजधातोश्च श्लेषः । तथाहि-- फणीशगिरिः भवनं यस्य सः श्रीनिवासः भजति भक्ते जने सक्तः प्रीतिमान् ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इति गानात् । अत एव हिततां तस्मै भक्तिमते उपायोपेयभावेन हितकारितां दधाति बिभर्ति स्पष्टं नात्र विशयलेशोऽपीति भावः । स्वौजसि स्वा ओजसीतिच्छेदः ओजसि ‘परं ज्योतिरुपसंपद्य’ इति श्रुते दिव्यतेजोरूपे । यद्वा स्वा औजसीतिच्छेदः । आ समन्तात् ओजः प्रकाशो यस्य तस्मिन् सर्वव्यापिनिरतिशयतेजसि अस्मिन् परब्रह्माणि श्रीनिवासे विद्यमाना । स्वा स्वतस्सिद्धा परश्चासावीशश्च परेशः तस्य भावः परेशता पारमैश्वर्यं 'ईशस्सर्वस्य जगतः, एष सर्वेश्वरः’ इत्यादिश्रुतेः । ननु मागमत इतिच्छेदः । मायाः श्रियः आगमतः संबन्धात् विशेषभाग्भवति ननु । भगवतश्श्रीनिवासस्य स्वाभाविकमैश्वर्यं परिमळादिव हेमारविन्दं श्रीसंबन्धादाम्रेडितवैभवं भवत्येवेत्यर्थः । ननुरवधारणे । उत्तरार्धेन परत्वं पूर्वार्धेन सौलभ्यं च दर्शितम् । यद्वा उत्तरार्धस्यैवमर्थः-- स्वं ओजः यस्य तस्मिन् स्वौजसि स्वप्रकाशस्वरूपे अस्मिन् श्रीनिवासे विद्यमाना ईशता ऐश्वर्यम् । अनुमागमत इति समस्तं पदम् । अनुमा अनुमानं स्मृतिः आगमः श्रुतिः तयोः अनुमागमतः 'आद्यादिभ्यः' इति सार्वविभक्तिकस्तसिः । परा दूरा ‘यतो वाचो निवर्तन्ते' इत्यादिश्रुतेः तदविषय इत्यर्थः । ‘परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः’ इति वैजयन्ती । यद्वा-- अनुमागमतः श्रुतिस्मृतिभ्यां उक्तेत्यध्याहारः परेशता पारमैश्वर्यं अविशेषभागितिच्छेदः । अविः शैलः ‘अवयश्शैलमेषार्काः' इत्यमरः । स चासौ शेषश्च अविशेषः शैलाकारभाक् शेषः शेषाद्रिरित्यर्थः । तं भजतीति तथोक्ता भवति । परस्मिन् ब्रह्मणि विद्यमानं पारमैश्वर्यं सर्वमपि शेषाद्रावेव चकास्ति तस्यात्राविर्भावादिति भावः । अस्मिन् पक्षे उत्तरार्धेनैव क्रमेण परत्वसौलभ्योक्तिः । यद्वा-- स्वौजसि स्वमहिमप्रतिष्ठिते ‘ओजो बले प्रभावे च' इत्यमरः । भूमविद्यायां ‘सभगवः कस्मिन् प्रतिष्ठितः’ इति प्रश्ने ‘स्वे महिम्नि ’ इत्युत्तरश्रवणात्--

रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो राजन्नाहं कं चिदुपाश्रितः ॥
ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् ॥

इति स्मृतेश्च । अस्मिन् भगवति अनुमागमतः श्रुतिस्मृतिभ्यां प्रतिपादितेत्यर्थः । परेशता उक्तोर्थः । शेषाः दासभूताश्चेतनाः तान् भजतीति शेषभाक् विशिष्य शेषभाक् विशेषभाक् सा न भवतीत्यविशेषभाक् भवति । परस्मिन् ब्रह्मणि तस्मिन् श्रुतिस्मृतिभ्यामुद्घोषितं सर्वशेषित्वं तच्छेषभूतेषु ब्रह्मरुद्रादिषु नित्यसिद्धेष्वनन्तगरुडादिषु वा न संभवतीति भावः । यद्वा न नु मा आगमतः इतिच्छेदः। परा श्रेष्ठा ईशता ऐश्वर्यं यस्यास्सा परेशता । मा श्रीः । स्वौजसि उक्तोऽर्थः । अस्मिन् भगवति आगमतः पञ्चरात्रागमोक्तरीत्या नित्यसंबन्धाद्वा विशेषभाक् भेदभाक् न भवति नु किंतु तादात्म्यापन्नैव भवतीति भावः । 'विशेषोऽवयवे व्यक्तौ तिलकेऽत्यन्तभेदके' इति रत्नमाला । नन्वित्येकमेव पदं वा । अविशेषभाग्भवतीत्येवच्छेदः । तादात्म्यापन्नैव भवतीत्यर्थः॥

अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ।
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ।

इति लक्ष्मीतन्त्रोक्तेः,

तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि ।

इत्यभियुक्तोक्तेश्च । अथवा-- परेशता मा स्वौजसि । अस्मिन् उक्त एवार्थः । आगमतः 'ह्रीश्च ते लक्ष्मीश्च पत्न्यौ, सुमज्जानये'। इत्यादिश्रुत्युक्तरीत्या विशेषभाक् विशेषो विशेषणत्वं व्यावर्तकत्वं, विपूर्वकात् शिषेर्भावे घञ् । तं भजतीति तथोक्ता भवति ननु । स्वरूपनिरूपकतया भगवति विशेषणत्वमुपेयुषी जगत्कारणत्वेन शङ्कितेभ्यश्चतुराननादिभ्यस्तस्य व्यावृत्तिं संपादयतीति भावः । यद्वा-- स्वौजसि अस्मिन् सति परेषां चतुर्मुखादीनां ईशता आगमतः शास्त्रात् विशेषभाक् उत्कर्षभाक् मा भवति ननु । जागरूके भगवतः पारमैश्वर्ये अन्येषामैश्वर्यं शास्त्रदृष्ट्या कथमुत्कर्षमाप्नुयादिति भावः । माशब्दो निषेधार्थकः । ‘माऽव्ययं प्रतिषेधे स्यात्, मा निषेधेऽव्ययं मतम्' इति रत्नमालाविश्वौ ॥  धातुपक्षे-- फणीशगिरि पतञ्जलिवाचि महाभाष्ये भवनः सत्तां लभमानः भवतेर्नन्द्यादित्वात्कर्तरि ल्युः, बाहुलकाल्लुड्वा कर्तरि । व्याकरणे पठित इति यावत् । दधातिस्पष्टमित्यत्र दधातिरिति छेदः । 'शर्परे खरि वा विसर्गलोपः' इति पाक्षिको विसर्गलोपः । दधातिः धाञ्धातुः श्तिपा निर्देशोऽयम् । क्तेन क्तप्रत्ययेन सह वर्तत इति सक्तस्सन् स्पष्टं हिततां हितं इति रूपं भजति प्राप्नोति । धाञः क्तप्रत्यये ‘दधातेर्हि:’ इति ह्यादेशविधानादिति भावः । अस्मिन् धाञ्धातावेव शता लटो विहितश्शत्रादेशः स्वौजसि सुश्च औश्च जश्चत्येतेषां समाहारः स्वौजस् तस्मिन् परे परतो विद्यमाने सति । न नुमागमत इति छेदः । नुमागमतः ‘उगिदचां सर्वनामस्थानेऽधातोः' इति विहितान्नुमागमात् विशेषभाक् नकारसाहित्येन वैलक्षण्यभाक् न भवति । ‘नाभ्यस्ताच्छतुः' इति तस्य नुम्निषेधादिति भावः । यद्वा-- फणीशगिरिभवेति संबुद्ध्यन्तं पदम् । न इति पृथक्पदम् । फणीशगिरि पातञ्जलभाष्ये विषये जात! ‘गोषु प्रसूत' इत्यादौ गा एवानुभवितुं जातेतिवत् महाभाष्यमेवाध्येतुं प्रसूतेति कंचिच्छात्रं प्रति केनचिच्छाब्दिकेनाचार्येण कृतं संबोधनम् । भजति भजच्छब्दे सक्तः संबद्धः शता शत्रादेशः स्वौजसि परे सति नः नुमागमसंबन्धिनकारस्य हिततां अनुकूलतां दधाति धत्ते ‘उगिदचाम्' इत्यादिना नुमागमविधानादिति भावः । उत्तरार्धे-- न नुम् आगमत इति पदत्रयम् । अस्मिन् पूर्वोक्ते शतरि नुम् नुमागमः आगमतः आ इत्याकारकवर्णस्य आगमतः गमतो वा । यथासंभवं सुप्रत्यये परे 'अत्वसन्तस्य चाधातोः' इति विहितदीर्घसंबन्धादित्यर्थः । विशेषभाक् वैलक्षण्यभाक् न भवति । शत्रन्तस्य अदन्ततया अत्वन्तत्वाभावादुक्तदीर्घाप्राप्तेरिति भावः । अत एव हि भवन्नित्यत्र ‘शत्रन्तस्य तु अत्वन्तत्वाभावान्न दीर्घः' इति कौमुदीग्रन्थः । यद्वा-- न नु मागमत इति छेदः। अस्मिन् प्रकृते भजच्छब्दे विद्यमानः शतेत्यनुषज्यते । शता शतृप्रत्ययः मागमतः मुगागमसंबन्धिमकारागमतः विशेषभाक् न भवति नु । शानचि विहितस्य ‘आने मुक्’ इति मुगागमस्य शतर्यप्रसक्तेस्तत्प्रयुक्तं वैलक्षण्यं न भजतीत्यर्थः । नन्वित्यवच्छेदे वा । मागमतः विशेषभाक् भवति ननु । नन्विति प्रश्ने वा । न भवत्येवेति भावः । इतोऽपि प्राथमिकी व्याख्यैव स्वारसिकीति सावधानैरिदमनुसन्धेयम् ॥

 यथावा--

 हन्तातोऽनुपसर्गे को भवति प्रत्ययोऽथ सुखदश्च । जाग्रत्यधिपे तस्मिन्नत्रातश्चोपसर्ग इति कस्स्यात् ॥ ८४२ ॥

 अत्र प्रकृतस्य भगवतः अप्रकृतस्य वक्ष्यमाणसूत्रद्वयस्य च श्लेष । हन्तेति वक्षमाणार्थपर्यालोचनजमितहर्षे । वाक्यारम्भे वा । अनुपसर्गे जगतामुपद्रवनिवर्तने विषये इति यावत् । 'उपसर्ग उपद्रवे । प्रादौ च रोगभेदे च' इति हेमचन्द्रः । प्रत्ययः हेतुः 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । सुखदश्च संपत्प्रयुक्तसौख्यदायकश्च । अतः अकारवाच्याद्भगवतः, प्रस्तुतादस्माद्वा को भविता जगतां विपदपाकरणे सुखवितरणे च भगवतोऽस्मादन्यः को हेतुर्भवेदित्यर्थः । तस्मिन् अधिपे ‘एष भूताधिपतिरेष भूतपालः' इति श्रुते सर्वजगन्नेतरि सर्वजगदवितरि भगवति जाग्रति सति उपसर्गे विपदि अत्रातः अरक्षित इति च कः स्यात् सति भगवति रक्षितरि अपिनाम कश्चिदरक्षित इति च विद्येतेति भावः । अत्र--

न संपदां समाहारे विपदां विनिवर्तने ।
समर्थो दृश्यते कश्चित्तं विना पुरुषोत्तमम् ॥

इत्यादिप्रमाणार्थोऽनुसंहितः ॥

 पक्षे-- 'आतोऽनुपसर्गे कः, आतश्चोपसर्गे’ इति सूत्रद्वयार्थस्सोदाहरणो द्रष्टव्यः । तथाहि-- आतः आकारान्ताद्धातोः अनुपसर्गे अनुपसर्गादिति पञ्चम्यन्ततया विपरिणामः कर्मणीत्यनुवर्तते । कर्मण्युपपदे कः प्रत्ययः भवतीति सूत्रार्थः। उदाहरणमाह-- अथेति । अथ सुखदश्च भवति । सुखं ददातीति सुखद इति सुखशब्दे कर्मण्युपपदे अनुपसृष्टाद्दाधातोः कप्रत्ययेन निष्पन्नत्वात्तस्येति भावः । किंच तस्मिन् प्रसिद्धे अत्र अस्मिन् बुद्धिस्थे जाग्रति प्रकाशमाने अधिपे अधिपशब्दे ‘आतश्चोपसर्गे’ इति कस्स्यात् । आतः आकारान्ताद्धातोः उपसर्गे अधीत्याकारकोपसर्गे उपपदे कप्रत्ययस्स्यादिति तदर्थः । अत्र पद्ये ‘आतोऽनुपसर्गे कः, आतश्चोपसर्गे' इति सूत्रानुपूर्व्येव घटितेति ध्येयम् ॥

 यथावा--

 एष त्वच्चरणलिहश्शेषमहीध्रोगुणोत्तरो भाति । केनास्य गुणनिषिद्धिश्रीनाथ कृता श्रुता दृष्टा ॥

 अत्र भगवच्चरणलिहस्य शेषमहीध्रस्य प्रकृतस्य तद्वाचकशब्दयोरप्रकृतयोश्च श्लेषः। तथाहि-- हे श्रीनाथ! एषः शेषमहीध्रः त्वच्चरणौ लेढीति त्वच्चरणलिहः त्वत्पादपद्मस्पर्शीति यावत् । अत एव गुणैः पावनत्वरम्यत्वादिभिः उत्तरः श्रेष्ठस्सन् भाति दीप्यते । अस्य एवं विधस्य शेषाद्रेः गुणनिषिद्धिः पूर्वोक्तगुणनिषेधः । निपूर्वकात्सेधतेः क्तिन् । केन पुंसा कृता क्लृप्ता, केन श्रुता, केन दृष्टा वा । अस्य पावनत्वादिगुणनिषेधो न केनचित्कृतश्श्रुतो दृष्टो वेत्यर्थः ॥

 अन्यत्र-- त्वच्चरणलिहशब्दः शेषमहीध्रशब्दश्च, अगुणोत्तर इतिच्छेदः । अगुणं गुणरहितं उत्तरं लिहः ध्र इत्याकारकमुत्तरपदं यस्य स तथोक्तः भवति । ननु अनयोश्शब्दयोः क्रमेण कुतो लघूपधलक्षणः आर्धधातुकलक्षणश्च गुणो न प्रवर्तत इत्यत आह-- केनति । अस्य लिहशब्दस्य ध्रशब्दस्य च कृता कृत्संज्ञकेन केन 'इगुपधज्ञाप्रीकिरः कः, कप्रकरणे मूलबिभुजादिभ्य उपसंख्यानम्' इति च विहितेन कप्रत्ययेन हेतुभूतेन गुणनिषिद्धिः ‘क्ङिति च' इति विहितो गुणनिषेध इति भावः । श्रुता शास्त्रेषु निशमिता । दृष्टा प्रयोगेषु दृष्टा च । लिहध्रशब्दयोरुभयोरपि उक्तरीत्या कप्रत्ययान्ततया, कित्वप्रयुक्तगुणनिषेधः श्रुतो दृष्टश्चेत्यर्थः । यद्वा--त्वच्चरणलिहः शेषमहीध्रश्च अगुणोत्तरो भातीति केनचिदुक्ते केनास्य गुणनिषिद्धिः कृता श्रुता दृष्टा चेति प्रश्नाभिन्नमुत्तरमिदमिति वक्ष्यमाणचित्रालङ्कारश्चेत्ययं विशेषोऽस्मिन्नर्थे ॥

 यथावा--

 कश्चित्त्वयि लुम्पति चेल्लुम्पतु सुप्रत्ययं परब्रह्मन् । तव ननु यदाकदावा भविता कश्चित्ततो नलोपो वा ॥ ८४४ ॥  अत्र परब्रह्मणश्श्रीनिवासस्य परब्रह्मशब्दस्य च प्रकृताप्रकृतयोः श्लेषः । तथाहि-- हे परब्रह्मन् ! कश्चित् अस्थिरहृदय इति भावः । त्वयि विषये सुप्रत्ययं विजातीयप्रत्ययानन्तरिततया शोभनं अनवरतभावनात्मकं ज्ञानं उपासनमित्यर्थः । लुम्पति चेत् विच्छिनत्ति चेत् कामं लुम्पतु विच्छिनत्तु अन्तरयत्वित्यर्थः । ततः प्रत्ययलोपात् ननु भगवन्! तव यदाकदावा । नलोपोवेत्यत्र विद्यमानो वाशब्दो भिन्नक्रमः कश्चिदित्यत्रान्वेति । कश्चिद्वा लोपः हानिः न भविता । यदि यःकश्चित् त्वद्ध्यानविच्छेदं कुर्यात्ततस्तवाखिलहेयप्रत्यनीकानन्तकल्याणगुणैकतानस्य तत्कृता न काचिदपि हानिस्संभवेत् प्रत्युत तस्यैव । ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य'

यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते ।
सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ॥

इति श्रुतिस्मृतिदर्शितं भयं भविष्यतीति भावः ॥

 पक्षे-- हे परब्रह्मन्निति शब्दस्यैव संबोधनम् । कश्चित् शब्दविदिति भावः । त्वयि परब्रह्मशब्दे त्वयि सुप्रत्ययं परब्रह्मन्निति संबोधनवशात्ससंबुद्धिसुप्रत्ययमित्यर्थः । लुम्पति चेत् 'स्वमोर्नपुंसकात्’ इति सूत्रेणेति भावः । लुम्पतु कामं लुप्यात् । ततः लोपात् यदाकदावा यस्मिन्कस्मिन्नपिवा काले नलोपः नकारलोपः वा भविता विकल्पेनैव भविता । न तु राजन्नित्यादौ नान्तपुल्लिङ्गशब्द इव सर्वथा न भवितैवेति भावः । ‘संबुद्धौ नपुंसकानां नलोपो वा वक्तव्यः' इति नान्तनपुंसकलिङ्गशब्दसंबुद्धौ विकल्पेन नकारलोपानुशासनात् । अयं वक्ष्यमाणावज्ञालङ्कारगर्भित इति ध्येयम् ॥  यथावा--

 संज्ञाऽनुसंहिता तव संतनुतेऽभीप्सितं यथोद्देशम् । उचितार्थाध्याहारादूरीकृतकार्यकालपक्षा च ॥ ८४५ ॥

 अत्र भगवन्नाम्नश्शब्दशास्त्रीयसंज्ञायाश्च प्रकृताप्रकृतया श्लेषः । तथाहि-- हे भगवन्निति प्रकरणाल्लभ्यते । उचितः समञ्जसः अर्थाध्याहारः पुरुषार्थप्रदानं यस्यास्सा उचिताध्याहारा अभीप्सितसकलपुरुषार्थदायिनीत्यर्थः । ‘धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्’ इत्यादिना नामसंकीर्तनफलोक्तेः । ‘उचितं स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते समञ्जसे' इति रत्नमाला । तव संज्ञा नामधेयं ‘संज्ञा स्याच्चेतना नाम’ इत्यमरः । अनुसंहिता कीर्तिता सती यथोद्देशं उद्देशमनतिक्रम्य संकीर्तयितॄणामभिसन्ध्यनुरोधेनेत्यर्थः । अभीप्सितं अभिलषितमर्थं संतनुते उदाहृतप्रमाणानुसारादिति भावः । न केवलमिष्टप्रापणमेव संतनुते अपित्वनिष्टनिवारणमपीत्याह-- दूरीति । दूरीकृतं कार्यं दुष्कृतिनो यातनाप्रापणरूपक्रिया येषां ते तथोक्ताः कालस्य कृतान्तस्य पक्षाः सहायाः भटा इति यावत्, यया सा तथोक्ता च भवति । 'पक्षो मासार्धके पार्श्वे’ इत्यारभ्य 'बले सखिसहाययोः' इति मेदिनी । भगवन्नामाभिलपनमात्रेणैव तत्कर्तॄणां सर्वाशुभनिवृत्तौ तत्र यमस्य तद्भटानां वा प्राभवमकिञ्चित्करमिति भावः । यथोच्यते वैष्णवे--

कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ।
भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥

           इति,

किंकराः पाशदण्डाश्च न यमो न च यातनाः ।
समर्थास्तस्य यस्यात्मा केशवालम्बनस्सदा ॥

इत्यादिकमप्यत्रैवानुकूलम् ॥

 पक्षे-- अनुसंहिता शब्दशास्त्रेणोदिता संज्ञा अभ्यासादिसंज्ञा यथोद्देशं स्वप्रदेशमनतिक्रम्य स्थिता सती उचितस्य अर्थस्य अध्याहारात् ऊहात्- ‘अध्याहारस्तर्क ऊहः' इत्यमरः । ‘अध्याहारो नाम न्यूनपूरणार्थाधिकपदपदार्थान्यतरोपादानम्’ इत्याहुः । अभीप्सितं वाक्यार्थबोधनरूपमभीष्टं संतनुते । यथोद्देशपक्षे संज्ञाया अर्थाध्याहारेण वाक्यैकवाक्यतया कार्यकारित्वस्य शाब्दिकैस्सिद्धान्तितत्वादिति भावः । किंच-- ऊरीकृतः कार्यकालपक्षो यया सा ऊरीकृतकार्यकालपक्षा च । अभीप्सितं संतनुते । संज्ञायाः कार्यकालत्वेन पदैकवाक्यतयाऽपि वाक्यार्थबोधनस्य सिद्धान्तितत्वादिति भावः । यथा परिभाष्यते—- यथोद्दशं संज्ञापरिभाषं, कार्यकालं संज्ञापरिभाषम्' इति च । ‘यथोद्देशं उद्देशमनतिक्रम्य यथोद्देशं, उद्देश उपदेशदेशः अधिकरणसाधनश्चायं, यत्र देशे डपदिश्यते तद्देश एव वाक्यार्थबोधेन गृहीतशक्त्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः' इति प्रथमपरिभाषार्थः । देशश्चोच्चारणकाल एवात्र शास्त्रे व्यवह्रियत इति संक्षेपः । द्वितीयपरिभाषार्थस्तु–- ‘कार्येण काल्यते स्वसंनिधिं प्राप्यत इति कार्यकालं स्वसंस्काराय स्ववृत्तिलिङ्गचिह्नितपरिभाषाणामाक्षेप इति यावत्’ इति । यथोद्देशपक्षे संज्ञायास्स्वदेशीयत्वं, कार्यकालपक्षे विधिदेशीयत्वमिति विवेकः ॥

 यथावा--

 योब्रह्मायश्चशिवः परेणभवताऽखिलेश्वरसहो क्तौ । येऽन्येतदादिमास्तेऽप्यन्ते भवदेकशेषतां दधते ॥ ८४६ ॥

 अत्र प्रकृतस्य ब्रह्मादिपदार्थस्य चतुर्मुखादेः अप्रकृतस्य ब्रह्मादिशब्दरूपार्थस्य च श्लेषः । तथाहि-- हे अखिलेश्वर! परेण सर्वोत्तरेण भवता त्वया सह उक्तौ 'स्थित्यादयो हरिविरिञ्चिहरेति लीलाः' इत्यादौ तुल्यताभ्रमास्पदतया सहपठितौ । यो ब्रह्मा चतुर्मुखः यश्च शिवः शम्भुरित्येतौ ‘हिरण्यगर्भस्समवर्तताग्रे, न सन्न चासच्छिव एव केवलः' इति श्रवणात्कारणत्वशङ्काविषयभूतौ यावित्यर्थः । तावेवादिमौ येषां ते तदादिमाः । य अन्ये देवाः ‘नकिरिन्द्र त्वदुत्तरो न ज्यायानस्ति वृत्रहन्' इत्यादिना कारणत्वशङ्कागोचरतयोक्ता इन्द्रादयः । तेऽपि अन्ते वाक्यार्थनिर्णयावसरे ‘अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । स्वरूपे वा । भवदेकशेषतां भवत एव शेषतां मयूरव्यंसकादित्वात्समासोऽस्वपदविग्रह इति लक्ष्मीसहस्ररत्नप्रकाशिकायां निरूपितमस्माभिः । सम्यग्विमर्शे ब्रह्मादयस्सर्वेऽपि भवदेकशेषस्वरूपा एवेति निश्चीयेरन् नतु कदाऽपि त्वामेव सर्वशेषिण इतीति भावः । यद्वा-- अन्ते प्रळये भवानेव शेषो येषां ते भवदेकशेषाः तत्तां दधते ॥

ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे ।
आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् ।
एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः ॥
नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकश्शिष्यते शेषसंज्ञः ॥

इत्याद्युक्तरीत्या भवदेकशेषत्वं दधते त्वयि प्रलीयन्त इत्यर्थः । अखिलेश्वरेतिसंबोधनमीदृशविशेषमभिसंधायैवेति ध्येयम् ॥

 अप्रकृतपक्षे तु-- यो ब्रह्मा ब्रह्मशब्दः यश्च शिवः शिवशब्दः परेण उत्कृष्टेन भवता भवच्छब्देन । उत्कर्षश्चास्य वक्ष्यमाणरीत्यासर्वैस्सहोक्तौ स्वैकशेषत्वकृत इति ध्येयम् । सहोक्तौ इकारान्तसप्तम्येकवचनमिदम् । सहवचने सतीत्यर्थः । अन्ते विग्रहावसाने भवदेकशेषतां भवच्छब्दैकशेषतां दधते धत्ते । ‘दध धारणे' भौवादिकादस्माल्लट्प्रथमैकवचनम् । ब्रह्मशिवशब्दाभ्यां प्रत्येकमन्वेति । ‘त्यदादीनि सर्वैर्नित्यम्' इत्यनुशासनात् । ब्रह्मा भवांश्चेति शिवो भवांश्चेति च विग्रहे भवच्छब्दस्यैव शिष्यमाणत्वादिति भावः । ये अन्ये तदादिमाः तद् यद् एतद् इत्यादयः तेऽपि शब्दाः परेण त्यदादिगणे सर्वेभ्यः परत्र पठितेन भवता सहोक्तौ अन्ते विग्रहावसाने भवदेकशेषतां भवच्छब्दमात्रशेषतां दधते बिभ्रति । ‘डु धाञ् धारणपोषणयोः' इति जौहोत्यादिकाद्धातोर्लट्प्रथमबहुवचनम् । 'त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छिष्यते' इति । स च यश्च एष च भवांश्चेति विग्रहे भवन्त इति परभूतभवच्छब्दस्यैव शेषणादिति भावः ।

 यथावा--

 उपसर्गविरलभावो भ्वादौ जनितासदावलीडागमवान् । तान्तः पलायितस्स्याद्धातुर्भवतोहितोय एवानन्त ॥ ८४७ ॥

 अत्र भगवतश्श्रीनिवासस्य प्रकृतस्य पतञ्जलेरप्रकृतस्य च श्लेषः । हे! अनन्त! भगवन्! धातुः धारयितुः पोष्टुश्च "एष धाता विधाता च" इत्युक्तेः । धाञश्शता । भवतः तव भ्वादौ भूलोकादिलोके जनिता उत्पन्नः । जनेस्तृच् । यः चेतनः असदावलीडागमवान् असतां खलानां आवली पङ्क्तिः तस्याः ईशः प्रधानभूताः । ईट्छब्दोऽयम् । तेषां आगमस्संसर्गः तद्वान् असत्संसर्गदूषित इत्यर्थः । यद्वा-- असदावलेः इडाः वाचः "भूगोवाचस्त्विडा इलाः” इत्यमरः । तदागमवान् नित्यमसदालापशालीत्यर्थः । नित्ययोगे मतुप् । अथवा असदावलेः इडाः वाचः ताभिः आगमवान् शास्त्रवान् । ता एवागमश्शास्त्रं तद्वान्वा । असद्वाच एवास्यानुष्ठानविधायिन्य इति भावः । अत एव अहित एव स्या । दुरन्तदुष्कर्मवशंवदत्वनिबंधनासत्संसर्गदूषितविवेकितया त्वयि विद्वेषवानेव भवेदित्यर्थः । भ्वादौ जनितः यः असदावलीडागमवान् सन् धातुर्भवतः अहित एवेति योजना । अर्थस्तु तुल्य एव । य इत्यस्योत्तरवाक्यगततया न पूर्ववाक्ये तद्वृत्तोपादानावश्यंभावः । सः चेतनः उपसर्गविरलभावः उपसर्गैः उपप्लवैः ‘उपसर्ग उपद्रवे । प्रादौ च रोगभेदे च' इति हेमचन्द्रः । विरलः पेलवः अतिमात्रलघुरित्यर्थः, भावः सत्ता स्वभावः अभिप्रायः चेष्टा जन्म वा यस्य स तथोक्तस्सन् । "पेलवं विरलं तनु । भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मस्वि" इति चामरः । अत एव तान्तः ग्लानः पलायितश्च स्यात् । दीनः क्वाप्यवस्थितिमलभमानो यत्र क्वापि धावेदित्यर्थः । भगवद्विद्वेषिणः क्व नु श्रेयस्संपद्येतेति भावः।

 पक्षे-- हे! अनन्तेति पतञ्जलित्वेनावतीर्णस्य शेषस्य संबोधनं । भवता ऊहितः अय इति च्छेदः । भवता, त्वया ऊहितः विचारितः । भवतः हितः अय इति वा छेदः । भवतः हितः ज्ञातः पथ्य इति वा । 'हि गतौ' कर्मणि क्तः । ये गत्यर्थास्ते ज्ञानार्थाः। ‘हितं पथ्ये गते धृते' इति मेदिनी । भवत इति शेषे षष्ठी ‘न लोक' इति निषेधस्तु कारकषष्ठीविषयः । यद्वा-- ‘मतिबुद्धि’ इति सूत्रविहितः क्तः । ‘क्तस्य च वर्तमाने’ इति ‘न लोक' इति निषेधापवादभूता षष्ठी । भ्वादौ भ्वादिगणे जनिता प्रादुर्भूतः । स्थित इति यावत् । अयः अयधातुः । शपा निर्देशोऽयम् । उपसर्गे स्वसंबन्धिनि विवक्षिते परेत्याकारकोपसर्गे, पलायित इति वक्ष्यमाणत्वात् । विरलभावः विगमितो रः रेफः येनसः विरः लभावः लवर्णस्थितिः विरः लभावो यस्य स तथोक्तः । यद्वा-- रस्य रेफस्य लभावो लत्वं विशिष्टो रलभावो यस्य स तथोक्तः । वीत्यनेन लभावस्य नित्यत्वं द्योतितम् । सर्वथाऽपि रेफस्थानिकलकारवानित्यर्थः । तान्तः तेत्युत्सृष्टानुबन्धस्य क्तस्य ग्रहणम् । क्तप्रत्ययान्त इत्यर्थः । सदावलीडागमवानित्यत्र सदा वलि इडागमवानिति पदत्रयमसमस्तम् । वलि आर्धधातुकक्तप्रत्ययसंबन्धितकाररूपे वल्प्रत्याहारघटकवर्णे सदा नित्यं इडागमवान् सन् पलायितस्स्यात् ‘अयपय' इत्यादिना भ्वादौ पठितस्य परोपसृष्टस्यायतेः क्तप्रत्यये ‘उपसर्गस्यायतौ’ इति रेफस्य नित्यं लत्वे ‘आर्धधातुकस्येड्वलादेः' इति नियमिडागमे च पलायित इति रूपं निष्पद्यत इति निर्गळितोऽर्थः ॥

 यथावा--

 ईशः परोवरश्चिन्नास्येडयमेव हीश्वरो भवति । विकृतिमियान्नैवासावुपधालघुतागुणोऽपि दूरेऽस्य ॥

 अत्र भगवतः ईश्वरशब्दस्य च श्लेषः । परः अन्यः चतुर्मुखादिः अवरः निहीनः चित् चेततीति चित् चेतनः अस्य ईशः ईश्वरस्य भगवतः । ‘ईशा वास्यम्’ इत्यत्रेव ईट्छब्दोऽयं । ईट् स्वामी न भवति । भगवदपेक्षया निहीनत्वात्तस्येश्वरो न भवतीत्यर्थः । यद्वा-- परः अन्यः चित् चेतनः । ईश इति पञ्चमी ‘अनौपाधिकनिर्देशे ह्यसंकोचो मनीषिभिः । सिद्धे शब्दार्थसंबन्धे’ इति न्यायेन शब्दशक्तेरसंकोचात्सर्वेश्वरादस्मादित्यर्थः । अवरः न्यून एवेति वाक्यान्तरम् । यद्वा-- अस्येत्येतत्पूर्वत्राप्यपकृष्य अस्य इशः अवर इति योजना अस्मान्यून इत्येवार्थः । अस्मिस्पक्षे ईश इति शेषषष्ठी । अत एव अस्य भगवतः परः इतरः चतुर्मुखादिः नेट् ईश्वरो न भवतीत्यर्थः । 'न तस्येशे कश्चन’ इत्यादिश्रुतेः । अयमेव एष श्रीनिवास एव ईश्वरः सर्वेषामीश्वरः भवति हि । हि-- शब्दः ‘एष सर्वेश्वरः । ईशानो भूतभव्यस्य । सर्रेश्वरेश्वरः कृष्णः’ इत्यादिश्रुतिपुराणादिप्रसिद्धं द्योतयति । यद्वा-- हिर्हेतौ । अस्यैव सर्वेश्वरत्वादिति भावः । हेत्वन्तरं चाह-- विकृतिमिति । असौ भगवान् विकृतिं ‘जायते अस्ति वर्धते’ इत्याद्युक्तान् षड्भावविकारान् नैव इयात् । ‘जरां मृत्युमत्येति । अपक्षयविनाशाभ्याम्' इत्यादिप्रमाणेभ्य इति भावः । किंच-- अस्य भगवतः उपधा कैतवं, येन परा अतिसंधीयेरन् तादृशश्चित्तविकारविशेषः ‘कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः, ‘अमात्यानुपधातीतान्’ इतिप्रयोगश्च । लघुतागुणोऽपि रागद्वेषादिकृतचित्तलाघवरूपगुणोऽपि । अथवा - उपधया या लघुता तादृशः अगुणः अप्रशस्तगुणः हेयगुण इत्यर्थः । नञत्राप्राशस्त्ये । 'अप्राशस्त्यं विरोधश्च' इति नञर्थेषु परिगणनात् । इदं हेयगुणसामान्यस्योपलक्षकम् । सोऽपि दूरे अमुं न स्पृशतीत्यर्थः । अपूर्णत्वादन्येषामीदृशहेयगुणसंबन्धस्स्यात् । अस्य तु निरवधिकैश्वर्यनित्यपूर्णत्वादखिल हेयप्रत्यनीकत्वाच्च तत्संबन्धगन्धोऽपि न संभवतीत्ययमेव सर्वेश्वर इति भावः । अत्र उपधादूरत्वोक्त्या अस्याश्रितेषु करणत्रयवृत्त्यैकरूप्येण कौटिल्यविधुरतया आर्जवं प्रदर्शितम् । यथा चायमेवाह-

द्यौः पतेत् पृथिवी शीर्येद्धिमवान्विचलेदपि ।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्’ ॥

इति । लघुतागुणदूरत्वोक्त्या आश्रितापराधैः तत्प्रदर्शकैर्वाऽप्यक्षोभ्यत्वरूपं स्थैर्यं दर्शितम् । यथाऽऽह स्वयमेव सुग्रीवादीन्प्रति--

मित्रभावेन संप्राप्तं न त्यजेयं कथंचन ।
दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥

इति ।

 पक्षे-- ईशः 'ईश ऐश्वर्ये’ इति धातोः ‘क्षियो दीर्घात्’ इत्यादाविव धातोरनुकरणम् । चित् चकारेेत्कः परः ‘स्थेशभासपिसकसो वरच्’ इति विहितो वरच्प्रत्यय इत्यर्थः । परः 'प्रत्ययः, परश्च' इत्यधिकारात्परत्र विद्यमान इत्यर्थः । अस्य वरचः इट् इडागमः न-न भवति । ‘नेड्वशिकृति' इति निषेधादित्यर्थः । अयमेव एवं वरज्विशिष्ट ईशधातुरेव ईश्वरो भवति ईश्वरशब्दो निष्पद्यते । असौ एवं निष्पन्न ईश्वरशब्दः विकृतिं नैव इयात् इडभावाद्विकारं न प्राप्नुयादेव । धातुप्रत्यययोर्यथावस्थितयोरेव श्रवणादिति भावः । यदीडागमोऽभविष्यत्तदाऽस्य विकारस्समभविष्यत् । अस्य ईश्वरशब्दस्य उपधालघुतागुणः उपधायाः 'अलोऽन्त्यात्पूर्व उपधा’ इत्युक्तलक्षणस्य उपान्त्यवर्णस्य लघुतया ‘ह्रस्वं लघु’ इत्युक्तलक्षणह्रस्वत्वेन यो गुणः ‘पुगन्तलघूपधस्य’ इति विहितो गुणः सोऽपि दूरे । अस्य दीर्घोपधत्वेन तदप्राप्तेः । इडागमप्रयुक्तविकारविरहेऽपि यदि गुणो वाऽभविष्यत्तदा विकारमलप्स्यतापि । सोऽपि नेति भावः ॥

 यथावा--

 वाताशगिरावाप्तः पदं बुधव्रजमहोदयशसा- दौ । प्रथितोदन्तश्श्लाघ्यस्साधीयांस्ते हरे लसति पादः ॥ ८४९ ॥

 अत्र भगवच्चरणस्य प्रस्तुतस्य पादशब्दस्याप्रस्तुतस्य च श्लेषः । तथाहि-- बुधव्रजमहोद! बुधव्रजस्य देवनिवहस्य महः तेजः ददातीति तथोक्तः तस्य संबुद्धिः, हे हरे! भगवन्! आदौ त्रिविक्रमावतारसमये इत्यर्थः । प्रथितः प्रख्यातः उदन्तो वृत्तान्तो यस्य स तथोक्तः “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्” इत्यादिश्रुतिप्रसिद्धसकललोकाक्रमप्रभाव इति भावः । अत एव यशसा श्लाघ्यः साधीयान् अतिशयेन बाढः अतिमात्रप्रशस्त इत्यर्थः । बाढशब्दादीयसुनि "अन्तिबाढयोर्नेदसाधौ " इति साधादेशः । ते भवतः पादः चरणः वाताशगिरौ शेषाद्रौ पदं स्थानं आप्तस्सन् लसति । तत्र न्यस्तत्वात्तथोक्तिः ॥

 अन्यत्र बुधानां शाब्दिकानां महोदयः महाभ्युदयहेतुः तस्य संबुद्धिः हे हरे! पतञ्जलित्वेनावतीर्ण हे शेषेत्यर्थः । "व्याळः कुम्भीनसो हरिः” इत्यमरः । विशेषणमहिम्ना सामान्यस्यापि हरिशब्दस्य विशेषपरत्वमवधेयम् । श्लाघ्यः अदन्तः । ह्रस्वाकारान्तः प्रथितः अदन्ततया कोशादौ प्रसिद्धः पादः पादशब्दः शसादौ शसिति द्वितीयाबहुवचनस्य संज्ञा । तदादौ प्रत्यये परे सतीति यावत् । वाताशः ऋषिः पाणिनिरित्यर्थः । तस्य गिरा “पदन्नोमास्” इत्यादिसूत्ररूपयेत्यर्थः । पदं पदित्याकारकमादेशमिति यावत् । अवाप्तः प्राप्तः । प्रथितोदन्तश्लाघ्य इत्यानुपूर्वीमावर्त्य प्रथितः दन्तश्लाघ्य इति छिद्यते; दन्तः द् इत्याकारकवर्णः अन्ते यस्य स तथोक्तः । पदादेशे तथात्वसिद्धेः, दन्त इति श्लाघ्यः दन्तश्लाघ्यः ते शब्दानुशासनभाष्यकृतस्तव । संबन्धसामान्ये षष्ठी । साधीयान् साधुशब्दादयिसुन् । अतिशयेन साधुरिति प्रथितस्सन् लसति । सूत्रकृता आदेशमात्रविधानेन साधुः कृतः । भाष्यकृता त्वया तु तदनुगुणस्थानिनोऽपि प्रदर्शनेन साधीयान्कृत इति भावः ।

 यथावा--

 अर्हः परंशमाप्तुं गण्यो धातुरपि वेदविदनिट् स्यात् । दान्तत्वमीयुषोऽनिशमात्माऽस्य सकृद्विभातो हि ॥ ८५० ॥

 अत्र ब्रह्मविदः प्रकृतस्य विदधातोरप्रकृतस्य च श्लेषः। तथाहि-- परं निरतिशयं शं सुखं परब्रह्मानुभवानन्दमित्यर्थः । आप्तुं अर्हः अत एव धातुः ब्रह्मणोऽपि गण्यः श्लाघ्यः वेदवित् ब्रह्मवेत्ता अनिट् निट् निशा तत्सदृशमज्ञानमिति यावत् सा न विद्यते यस्य स तथोक्तः स्यात् । तत्र हेतुः दान्तत्वमित्यादि । हि यस्मात् अनिशं दान्तत्वं ‘शान्तो दान्त उपरतः' इत्याद्युक्तं गुणविशेषं ईयुषः अस्य ब्रह्मविदः आत्मा अन्तर्यामी सकृद्विभातः सर्वदा अनावृततया प्रदीप्तः । तस्मादस्य ब्रह्मविदः अज्ञानगन्धोऽपि नास्तीत्यर्थः । अत्र ‘तस्माद्वा एत सेतुंतीर्त्वा अपि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येष ब्रह्मलोकः' इति दहरविद्यागतश्रुत्यर्थस्संगृहीतः । अस्याश्श्रुतेरर्थश्चोपनिषद्भाष्यकारैरेवं वर्णितः-- ‘परमात्मानं प्राप्तस्य नक्तं तमिस्रा रात्रिरपि दिवैव । तस्याज्ञानप्रसक्तेरभावात् अहस्सदृशी रात्रिः अहोरात्रयोर्न विशेषः । तत्र-- हेतुः सकृद्विभातः सदाब्रह्मस्वरूपप्रकाशस्यानावृततया भासमानत्वात्' इति ॥

 पक्षे-- परं स्वस्मात्परं शं 'तुदादिभ्यश्शः' इति विहितं शप्रत्ययं आप्तुं अर्हः। वेदेतिभिन्नं पदम् । विद् 'विद्ल् लाभे' इति तुदादौ पठितः धातुरपि अनिट् अविद्यमानः इडागमो यस्य स तथोक्तः । गण्यः अनिट्सु गणनीयः स्यादिति वेद वेद्मि । ‘विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते’ इत्यनिट्कारिकासूक्तधातोरपि पाठात् ‘एकाच उपदेशेऽनुदात्तात्' इति इण्निषेधादिति भावः । विद् धातुरपीत्यपिशब्देन श्यन् श्नम् विकरणपठितयोस्सत्ताविचारणार्थकयोर्विदधात्वोरिवास्यापीण्निषेधोनिष्प्रत्यूह इति ध्वनितम् । तावपि हि धातू ‘विद्यतिर्विनद्' इत्यनिट्कारिकासु पठ्येते । अस्य विदेरनुदात्तत्वं द्रढयति-- दान्तत्वमित्यादिना । हि यस्मात् अनिशं दान्तत्वं द इति वर्णोऽन्ते यस्य तत्त्वं ईयुषः देत्यत्र अकार उच्चारणार्थः । अस्य विदधातोः आत्मा स्वरूपं सकृत् एकवारमेव विभातः वि इत्याकारकवर्णेन भातः प्रकाशितः विदेरेवंविधस्वरूपत्वेनैकाच्त्वादुक्त इण्निषेधो युक्त एवेति भावः ॥

 यथावा--

 ये कुशला अपि सन्तो न तद्धितप्रत्ययादयो दृष्टाः । इत एते लुप्यन्ते न तद्धितप्रत्ययादयस्त्वेते ॥ ८५१ ॥

 अत्र प्रकृतानां भगवदभक्तभक्तानां 'लशक्वतद्धिते, तस्य लोपः' इति सूत्रार्थस्य च श्लेषः । तथाहि-- ये जनाः कुशलाः कृतिनस्सन्तोऽपि । यद्वा-- ये सन्तः मनीषिणः कुशला अपीति योजना । ऋग्वेदाद्यपरविद्यानिष्णाता अपीत्यर्थः । तद्धितप्रत्ययादयः तस्मै प्रकृताय भगवते हिताः प्रीत्याधायकाः प्रत्ययो ज्ञानं आदिर्येषां ते प्रत्ययादयः आदिशब्देन भक्तिवैराग्यादीनां ग्रहणम् । तद्धिताः प्रत्ययादयो येषां ते तथोक्ताः भगवदभिमतज्ञानभक्तिवैराग्यादिगुणवन्तः न दृष्टाः, ते जनाः इतः अस्मात्तद्धितज्ञानादिमत्त्वादर्शनादेव हेतोः लुप्यन्ते स्वयमेव नश्यन्ति अधःपतन्तीति यावत् । भगवदभिमतज्ञानादिविरहे अखिलकलाकौशल्यमप्यकिंचित्करमिति भावः । तद्धितप्रत्ययादयस्तु भगवत्प्रीत्याधायकज्ञानभक्त्यादिमन्तस्तु एते सन्तो जनाः न लुप्यन्ते 'न मे भक्तः प्रणश्यति’ इति गानादिति भावः ॥

 पक्षे-- सन्तोऽपि सूत्रोच्चारणावसरे श्रूयमाणा अपि ये कुशलाः कवर्गशकारलकाराः अत्र ‘लशकु’ इति वक्ष्यमाणसूत्रोक्तवैपरीत्येन कुशला इत्युक्तिर्विवक्षितश्लेषलाभाय । नतद्धितप्रत्ययादयः तद्धितभिन्नप्रत्ययाद्यवयवभूतास्सन्तः दृष्टाः ज्ञाताः नतद्धितेत्यत्र नशब्देन समासः । एते इमे इतः इत्संज्ञकाः ‘लशक्वतद्धिते' इति तद्धितवर्जप्रत्ययादिभूतानां लशकवर्गाणामित्संज्ञाविधानादिति भावः । अत एव लुप्यन्ते लुप्ता भवन्ति । ‘तस्य लोपः' इतीत्संज्ञकस्य वर्णस्य लोपविधानादिति भावः । लोपश्चादर्शनं ‘अदर्शनं लोपः' इत्यनुशासनात् । अतद्धितेति पर्युदासफलितमाह-- नेत्यादिना । तद्धितप्रत्ययादयस्तु तद्धितसंज्ञकप्रत्ययाद्यवयवभूतास्तु एते कवर्गशकारलकाराः ‘आकर्षादिभ्यः कन्, लोमादिभ्यश्शः, प्राणिस्थादातो लजन्यतरस्याम्' इत्यादितद्धिताधिकारीयसूत्रविहितकादिप्रत्ययाद्यवयवभूता इत्यर्थः । न लुप्यन्ते । ‘आतोऽनुपसर्गे कः, एजेः खश्, पुंसि संज्ञायां घः प्रायेण, लटश्शतृशानचौ, ल्युट्च' इत्यादिविहितातद्धितप्रत्ययादिभूताः कादय इव न लोपं प्राप्नुवन्ति । किंतु आकर्षकः लोमशः जङ्घाल इत्यादिषु श्रूयमाणा एव भवन्तीति भावः ॥

 यथावा--

 सिद्ध्यति मह एव महत्परादतिप्रत्ययाद्बुधेन्द्रा- णाम् । यत्रैव सर्वनामस्थाने सिद्धोनुमागमोऽपि परे ॥ ८५२ ॥

 अत्र भगवतो महधातोश्च श्लेषः । तथाहि-- बुधेन्द्राणां ब्रह्मविदग्रेसराणां परात् विजातीयप्रत्ययाव्यतिकीर्णतया श्रेष्ठात् अतिप्रत्ययांत् अविच्छिन्नात् स्मृतिसन्ततिरूपात् ज्ञानादेव महत् पूज्यं महः ‘तं देवा ज्योतिषां ज्योतिः, परमं यो महत्तेजः' इत्याद्युक्तं स्वप्रकाशरूपं परं ब्रह्म सिद्ध्यति प्राप्तं भवति । तदेव महो विशिनष्टि-- यत्रेति । सर्वनामस्थाने सर्वेषां नाम्नां पर्यवसानभूमौ सर्वशब्दवाच्ये इत्यर्थः । देवादिनामरूपव्याकरणनिदानभूते इति वा । यत्र यस्मिन् परे ब्रह्मण्येव मागमः मायाः श्रियः गमः संगमः संबन्धोऽपि सिद्धः निष्पन्नः मङ्गळकर इति वा ‘षिधू शास्त्रे माङ्गल्ये च' अस्मात्कर्तरि क्तः । अपीत्यनेन निसर्गत एव मङ्गळस्यास्य मङ्गळद्देवतायाश्श्रियस्संबन्धोऽप्यतिशयाधायक इति द्योतितम् । नु इतिच्छात्रानुनये ‘नु वितर्कापमानयोः । विकल्पेऽनुननयेऽतीते' इति मेदिनी । श्रीनिवासभूतं परं महः ब्रह्मवेदिभिरुपासनेन प्राप्तं भवतीति परिनिष्पन्नोऽर्थः ॥

 पक्षे -बुधेन्द्राणां वैयाकरणानां महः ‘मह पूजायाम्' इत्युक्तो महधातुः परात् स्वस्मात्परत्र विद्यमानात् अतिप्रत्ययात् महत् सिद्ध्यति महदिति निष्पद्यत इत्यर्थः । यत्रैव यस्मिन्महच्छब्द एव सर्वनामस्थाने ‘शि सर्वनामस्थानम्, सुडनपुंसकस्य' इति च सूत्रविहितसर्वनामस्थानसंज्ञके प्रत्यये परे सति । नुमागम इत्यत्र नुम् आगम इतिच्छेदः । नुम् ‘वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च’ इत्यतिप्रत्ययान्ततया निपातितस्य शतृवद्भावातिदेशेन उगित्वात् ‘उगिदचां सर्वनामस्थानेऽधातोः' इति विहितो नुमागमः आगमः आ इत्याकारकवर्णस्य गमः संबन्धः ‘सान्तमहतः’ इत्यनेन विहितो नकारोपधादीर्घ इति यावत् । सोऽपि सिद्ध इति ॥

 यथावा--

 इह बृंहति परभूमनि नोद्भवति प्रकृतिसङ्गतो नुमतः । ब्रह्मणि नरस्तथात्वेनोस्स्यान्नाप्यत्र वशिकृतीडितता ॥ ८५३ ॥

 अत्र प्रकृतस्य ब्रह्मविदः अप्रकृतस्य ब्रह्मशब्दस्य च श्लेषः । तथाहि इह बृंहति परभूमनि न उद्भवति प्रकृतिसंगतः नु मतः ब्रह्मणि नरः तथात्वे नो स्यात् न अपि अत्र वशीकृतीडितता इति पदच्छेदः । नरः चेतनः परभूमनि निरतिशयमहिमनि ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ इत्युक्तरीत्या निरतिशयवैपुल्यविशिष्टे इत्यर्थः । अत एव बृंहति वर्धमाने 'नैनमूर्थ्वं न तिर्यञ्चं न मध्ये परिजग्रभत्’ इत्याद्युक्तरीत्या सर्वव्यापिनीत्यर्थः । ब्रह्मणि विषये मतः मन्ता 'मतिबुद्धि' इत्यादिना कर्तरि क्तः । परब्रह्मस्वरूपमननशील इत्यर्थः । प्रकृतिसङ्गतः प्रकृतिसंसर्गात् इह अस्यां भूमौ अस्मिन् लोके इति वा । नोद्भवति नु भूयो न जायत इत्यर्थः । अर्चिरादिपथेन परब्रह्म प्रतिपद्य पुनर्नावर्तते ।

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानस्संसिद्धिं परमां गताः ॥

इति गानादिति भावः । तथात्वे एवमनावृत्तत्वे सति । अत्र अस्मिन् ब्रह्मविदि नरे वशिकृतीडितता वशी सर्वेश्वरः स्वायत्तसकललोक इत्यर्थः । वशोऽस्यास्तीति वशी ‘वश आयत्ततायां स्याद्वश इच्छाप्रभुत्वयोः' इति विश्वः । ‘सर्वस्य वशी सर्वस्येशानः' इति श्रुतेः । ‘जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्’ इति स्मृतेश्च । कृतमस्यास्तीति कृती ‘न मे पार्थास्ति कर्तव्यम्’ इत्युक्तरीत्या स्वार्थकर्तव्यशेषरहित इत्यर्थः । यद्वा-- आश्रितरक्षणेन कृतकृत्यः ‘अभिषिच्य च' इत्यारभ्य ‘कृतकृत्यस्तदा रामः' इत्युक्तेः । अथवा कृतमुपकारोऽस्यास्तीति कृती भूम्नि मत्वर्थीयः । यत्किञ्चिदुपकृतमपि बंहीयो जानातीत्यर्थः । यथोक्तं— 'कथञ्चिदुपकारेण कृतेनैकेन तुष्यति’ इति । कृतेनेत्यत्र ‘आदिकर्मणि क्तः, कर्तुमुपक्रान्तेन’ इति व्याख्यातारः ।

गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् ।
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥

इति च । अत्र ‘वशी वदान्यः' इति पद्ये श्रीयामुनमुनिभिरनुगृहीतानि वशित्वकृतित्वकृतज्ञत्वान्यनुसंहितानि । वशी चासौ कृती चेति विशेषणोभयपदकर्मधारयः । स चासावीट् च । ईट् इश्वरो भगवान् तेन इतः प्राप्तः । वशिकृतीट् इतः प्राप्तो येनेति वा । तस्य भावः वशिकृतीडितता परब्रह्मानुभव इत्यर्थः । साऽपि नोस्स्यादिति न किं त्ववश्यं भाविन्येवेति भावः संभाव्यनिषेधनिवर्तकशब्दद्वयेन ईदृशस्य विदुषः परब्रह्माननुभवसंभावना दूरतो निरस्यते । यथा सूत्रितं वामनेन– 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति । नोस्स्यादित्यत्र सकारस्य ‘अनचि च' इति वैकल्पिकं द्वित्वमर्थान्तरानुगुण्यायावश्यमेष्टव्यम् । यद्वा-- वशिभिः स्वायत्तेन्द्रियैः कृतिभिः विद्वद्भिः ईडितता महाप्रभावोऽयं ब्रह्मविदिति स्तुतता नोस्स्यादिति न किंतु स्तुततैव स्यादिति भावः ।  अन्यत्र-- इह बृंहतिपरभूमनि नः अत् भवति प्रकृतिसङ्गतः नुमतः ब्रह्मणि न रः तथा अत्वेन उः स्यात् न अपि अत्र वशि कृति इडितता इति पदच्छेदः । बृंहतिपरभूमनि बृंहतिः बृहिधातुः ‘बृहि वृद्धौ” इति भ्वादौ पठितः । श्तिपा निर्देशोऽयम् । तस्मात् परभूः परत्र विद्यमानः मन् मन्नित्याकारकप्रत्ययो यस्य तस्मिन् बृंहतेर्मनिन्प्रत्ययेन निष्पन्ने इत्यर्थः । ब्रह्मणि ब्रह्मशब्दे प्रकृतिसंगतः प्रकृतौ मन्प्रत्ययप्रकृतिभूते बृंहेति धातौ संगतः संबद्धः नुमतः अततीत्यतः अततेस्सातत्यगमनार्थकाद्भौवादिकात् एचाद्यच् । नुमः अतः नुमतः बृहिधातोरिदित्वात् 'इदितो नुम् धातोः' इति विहितनुमागमात्प्राप्त इत्यर्थः । नः नकारः अत् भवति । बृहिधातोर्नुमो नकारः ‘तपरस्तत्कालस्य’ इति शाब्दिकसंकेतितो ह्रस्वोऽकारो भवतीत्यर्थः । 'सर्वधातुभ्यो मन्’ इत्यतो मन्नित्यस्यानुवृत्तौ ‘बृंहेर्नोऽच्च’ इत्यौणादिकसूत्रेण नुमो नकारस्य अत्त्वविधानादिति भावः । तथा एवमेव । अत्त्वेन नुमो नकारस्याकारादेशेन । उः बकारोत्तरवर्तिऋकारस्य । ऋशब्दात् ङसि ‘ऋत उत्' इत्येकादेशे उत्वे रपरत्वे ‘रात्सस्य' इति सलोपे रेफस्य विसर्गः । रः रेफः न स्यादिति न इति योजना । स्यादेवेत्यर्थः । बृ अ इति स्थिते ‘इको यणचि’ इति ऋकारस्य यणादेशविधानादिति भावः । अत्र एवं निष्पन्ने ब्रह्मन्शब्दे वशि वश्प्रत्याहारघटकमवर्णादौ कृति कृत्प्रत्यये इडितताऽपि इडागमयुक्तताऽपि न स्यादिति पदद्वयमेवावर्त्यते । न स्यात् न भवेदित्यर्थः । ‘नेड्वशिकृति’ इतीण्निषेधात् । एवं सुदुष्करतमस्यास्य पद्यस्यार्थो ब्रह्ममीमांसाशब्दनयनिपुणतमैस्सहृदयैर्विपश्चित्समुदयैस्सदयैस्सावधानं सूक्ष्मया दृशा विभावनीयः ॥  यथावा--

 प्रददाति निरुपसर्गस्स्वजुषे विश आत्मने पदं देवः । स च तत्र निविशमानो भवति परस्मै पदाय योऽभ्यर्हेत् ॥ ८५४ ॥

 अत्र प्रकृतस्य ब्रह्मजुषो मनुजस्य अप्रकृतस्य विशधातोश्च श्लेषः । तथाहि-- यः पुमान् परस्मै पदाय परमं स्थानं प्राप्तुं 'क्रियार्थ’ इत्यादिना चतुर्थी । अभ्यर्हेत् योग्यो भवेत् । तस्मै स्वजुषे आत्मानं सेवमानाय विशे मनुजशरीरकाय आत्मने चेतनाय । शरीरवाचकानां शब्दानां शरीरिपर्यन्तताया आकृत्यधिकरणन्यायसिद्धतया विशे आत्मने इत्यनयोस्सामानाधिकरण्यम् । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । देवः भगवान् निरुपसर्गः इयत्पदमेतस्मै कथं देयमित्युद्वेगं दूरतः परिहरन्निति भावः । पदं तदर्हं दिव्यं स्थानं प्रददाति । स च स पुमानपि तत्र परस्मिन् पदे निविशमानो भवति । भगवदनुगृहीतनिरवधिकनिश्श्रेयससाम्राज्यस्तत्रैव तत्कैंकर्यैकरतिर्वसतीति भावः ।

 पक्षे-- यः ‘विश प्रवेशने’ इति पठितो धातुः परस्मैपदाय ‘लः परस्मैपदम्’ इति विहिताय परस्मैपदसंज्ञकाय लादेशाय अभ्यर्हेत् योग्यस्स्यात् विशधातोः परस्मैपदिषु पठितत्वादिति भावः । तस्मै स्वजुषे स्वसमभिव्याहारभाजे विशे विशधातवे देवः देवयति धात्वर्थं द्योतयतीति देवः दीव्यतेर्णिजन्तात्पचाद्यच् उपसर्गाणां द्योतकत्वाद्देव इत्युक्तिः । निः नीत्याकारकः उपसर्गः ‘उपसर्गाः क्रियायोगे’ इत्यनुशिष्टो निपातविशेषः । आत्मनेपदं ‘तङानावात्मनेपदम्’ इति विहितं शानजाख्यमात्मनेपदसंज्ञकं प्रत्ययं प्रददाति ‘नेर्विशः' इत्यनेन नीत्युपसर्गात्परीभूतस्य विशतेरात्मनेपदानुशासनात्तस्य तद्दत्तत्वोपचारः । स च नीत्युपसर्गविशिष्टो विशधातुरपि । तत्र तस्मिन्नात्मनेपदे परे सतीति शेषः । निविशमानो भवति तथा निष्पद्यते । निसर्गतः परस्मैपदी विशधातुर्नीत्युपसर्गात्परत्वे उक्तप्रकारेणात्मनेपदितां प्रपद्य निविशमान इति निष्पद्यत इति निर्गळितोऽर्थः । अस्मिन्पक्षे आत्मनेपदं परस्मैपदायेत्यत्र ‘वैयाकरणाख्यायां चतुर्थ्याः' इति ‘परस्य च' इति सूत्राभ्यां चतुर्थ्या अलुगिति ध्येयम् ॥

 यथावा--

 नाथपदद्वयसेवी निर्सगतस्स्वैरमधिधरणिराजः । परमानमतं धत्ते चटुलस्स्थाने तथा सदादेशम् ॥

 अत्र भगवच्चरणसेविनो राजाधिराजस्य राजृधातोश्च प्रकृताप्रकृतयोश्श्लेषः । तथाहि-- निसर्गतः न तु परप्रेरणया । स्वैरं स्वच्छन्दं यथा स्यात्तथा न तु संकुचितं नाथस्य वेङ्कटनाथस्य पदद्वयसेवी चरणयुगं सेवमानः अधिधरणिराजः अधिको धरणिराजः राजाधिराज इत्यर्थः । चटुलः चटवः स्तुतयः अस्य सन्तीति चटुलः । सिध्मादिषु चटुशब्दपाठात् ‘सिध्मादिषु च' इति मत्वर्थीयो लच्प्रत्ययः । चटून् लाति आदत्त इति वा 'आतोऽनुपसर्गे' इति कप्रत्ययः । ‘चटुश्चाटुश्च राजादिस्तुतौ पशुपिचण्डके’ इति वैजयन्ती । श्लाघ्यस्सन्नित्यर्थः । यद्वा-- अचटुल इतिच्छेदः । अचपलस्सन्नित्यर्थः । ‘मदेन किंचिच्चटुलालसानाम्' इत्यत्र ‘चटुलाश्चपलाः' इति मल्लिनाथेन व्याख्यातत्वात् । स्थाने राज्ये इत्यर्थः । स्थितस्सन्नित्यध्याहारः । देशं जनपदं परमानमतं परेण उत्कृष्टेन मानेन गौरवेण मतं संमतं यथा स्यात्तथा सदा सततं तथा अनिर्वचनीयं यथा स्यात्तथेत्यर्थः । धत्ते पुष्णाति । यद्वा-- सदादेशमिति समस्तं पदम् । परमानमतं परैश्शत्रुभिरपि मानेन गौरवेण मतं अभिमतं सन्तं यथाविधि प्रयुक्ततया प्रशस्तं आदेशं शासनं धत्ते पुष्णाति । अथवा-- सतां आदेशं आज्ञां परमानमतं महता पूजनेन विदितं यथा स्यात्तथा धत्ते सज्जनादिष्टेन पथा सबहुमानमाधिराज्यं पुष्णातीति भावः । यद्वा-- स्थाने इति युक्तार्थकमेदन्तमव्ययं पृथक्पदमन्ते योज्यम् । सदादेशं धत्ते स्थाने । भगवच्चरणयुगळसेविनः इदं युक्तमित्यभिप्रायः । अन्यत्समानमेव ॥

 पक्षे-- हे नाथेति संबुद्धिः । अधिधरणीति पृथक्पदम् । विभक्त्यर्थेऽव्ययीभावः, भुवीत्यर्थः । राजः ‘राजृ दीप्तौ' इत्युक्तो धातुः शपा निर्देशोऽयम् । निसर्गत एव न तु यगादिसमभिव्याहारात् स्वैरं यथेष्टं पदद्वयसेवी उभयपदीत्यर्थः । स्वरितेत्त्वानुशासनेन क्रियाफलस्य कर्तृगामित्वविवक्षायामात्मनेपदं परगामित्वविवक्षायां परस्मैपदं च भजमान इति भावः । अत एव चटु श्लाघ्यं यथा स्यात्तथा परं स्वस्मात्परतो विद्यमानं लस्थाने लटस्स्थाने । आनं अतं इतिच्छेदः। आनं अतमिति मुक्तानुबन्धयोश्शानच्शत्रोर्ग्रहणम् । आनं आत्मनेपदित्वे शानचं अतं परस्मैपदित्वे शतरि च ‘लटश्शतृशानचौ’ इति तयोरनुशासनादिति भावः । सदादेशं सत्संज्ञकमादेशं ‘तौ सत्’ इति लादेशयोश्शतृशानचोस्सत्संज्ञाविधानादिति भावः । धत्ते दधाति । राजृधातुस्स्वरितत्वेनोभयपदितया स्वभावसिद्धया यथेप्सितं लस्थानिकं शानचं शतारं च सत्संज्ञकमादेशं लभत इति संपिण्डितोऽर्थः ॥  यथवा--

 इतरेतरयोगोज्ज्वलमुभयपदार्थप्रधानतामधुरम् । भगवद्रूपं द्वंद्वं भजामहेऽनन्तगिरिकृतोत्कर्षम् ॥८५५

 अत्र लक्ष्मीनारायणरूपदिव्यमिथुनस्य प्रकृतस्य द्वंद्वसमासस्याप्रकृतस्य च श्लेषः । तथाहि-- इतरेतरयोगोज्ज्वलं--

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।
राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥

इत्याद्युक्तरीत्या परस्परसंबन्धेन परस्परं प्राप्तपरभागमित्यर्थः । यद्वा-- अन्योन्यमविनाभावेन लब्धसत्ताकमित्यर्थः । यथोक्तं लक्ष्मीतन्त्रे--

अहन्ता ब्राह्मणस्तस्य साऽहमस्मि सनातनी ।
आत्मा स सर्वभूतानामहंभूतो हरिः स्मृतः ।
अहंता सर्वभूतानां साऽहमस्मि सनातनी ॥
अहंतया समाक्रन्तो ह्यहमर्थः प्रसिद्ध्यति ॥
अहमर्थसमुत्था च साऽहन्ता परिकीर्तिता ।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥

इत्यादि । पक्षे ‘चार्थे द्वंद्वः’ इत्यनुशिष्टसमुच्चयान्वाचयेतरेतरयोगसमाहाररूपचार्थचतुष्टयमध्ये इतरेतरयोगलक्षणार्थविशेषे उज्ज्वलं सामर्थ्यसद्भावेन समस्ततया प्रकाशमानम् ॥

 इदमत्रावधेयं-- ईश्वरं गुरुं च भजेति समुच्चये, भिक्षामटगां चानयेत्यन्वाचये च न समासः, एकार्थीभावरूपसामर्थ्यविरहात् । तथाहि-- बहुव्रीहिघटकपदानां कर्माद्यन्तर्भावेणेव द्वंद्वघटकपदानां चार्थान्तर्भावेणैकार्थीभाव आवश्यकः, ‘समर्थः पदविधिः' इति परिभाषितत्वात् ‘चार्थे द्वंन्द्वः' इत्युक्तेश्च । न चेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीभावस्संभवति, येन समुच्चयान्वाचयावेकार्थीभावान्तर्भूतौ स्याताम् । अतश्च इतरेतरयोगे समाहारे च परस्परसाहित्यसत्त्वात्समासो भवति न तु समुच्चयान्वाचययोः। परं त्वितरेतरयोगे साहित्यं विशेषणं द्रव्यं विशेष्यं, समाहारे तु साहित्यं प्रधानं द्रव्यं विशेषणमिति विवेक्तव्यम् । अनयोरपि साहित्यप्रधानकसमाहारापेक्षया वक्ष्यमाणरीत्या द्रव्यरूपोभयपदार्थप्रधानक इतरेतरयोगो ज्यायानित्याशयेनोक्तमितरेतरयोगोज्ज्वलमितीति ॥

 'परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयस्समुच्चयः । अन्यतरस्यानुषङ्गिकत्व अन्वाचयः । मिळितानामन्वय इतरेतरयोगः । समूहस्समाहारः’ इत्याहुः । उभयपदार्थप्रधानतामधुरं उभौ च तौ पदार्थौ लक्ष्मीनारायणात्मकौ तयोः प्राधान्येन उभयविभूतिशेषित्वव्यापित्वेश्वरत्वादौ समप्रधानतया रमणीयम् ॥

अस्या मम च शेषं हि विभूतिरुभयात्मिका ।
यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः ।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ॥

इत्यादीनि प्रमाणान्यत्रानुसंहितानि ॥
पक्षे-–क्रियान्वये वर्तिपदार्थयोरुभयोरपि प्राधान्येन मनोहरमित्यर्थः । 'उभयपदार्थप्रधानो द्वन्द्वः’ इति हि प्राचां प्रवादः । भगवती च भगवांश्च भगवन्तौ ज्ञानादिषाड्गुण्यपूर्णौ भगवन्ताविति रूपं यस्य तत् उभयोरप्युक्तगुणपरिपूर्तेस्तथोक्तिः । द्वंद्वं मिथुनम् । पक्षे-- समासेषु प्रधानभूतभगवद्विभूतितया परिगणितं द्वंद्वसमासमित्यर्थः । 'द्वंद्वस्सामासिकस्य च' इति विभूतिविस्तराध्याये गानादिति भावः । भगवद्विभूतित्वादेव द्वंद्वस्यात्र भगवद्रूपतोक्तिः । ‘सामासिकः समाससमूहः । तस्य मध्ये द्वंद्वसमासोऽहम् । स हि पूर्वोत्तरान्यपदार्थप्रधानेभ्योऽव्ययीभावतत्पुरुषबहुव्रीहिभ्योऽप्युभयपदार्थप्रधानतयोत्कृष्टः' इति भाष्यतात्पर्यचन्द्रिकयोस्स्पष्टम् । एतदभिप्रायेणैव ह्यत्रोभयपदार्थप्रधानतामधुरमित्युक्तम् । द्वंद्वं पुनर्विशिनष्टि-- अनन्तगिरिकृतोत्कर्षमिति । शेषाचले लब्धोत्कर्षमित्यर्थः । पक्षे अनन्तगिरि पतञ्जलिवाचि महाभाष्ये लब्धोत्कर्षम् । अत्र अनन्तस्य भगवतो वासुदेवस्य गिरि गीतारूपायां वाचि कृतोत्कर्षं उदाहृतप्रमाणानुसारेणोत्कर्षितं, अत एव भगवद्रूपमित्यप्यर्थोऽनुसन्धेयः । भजामहे ॥

 यथवा--

 ननु चेतस्तत्पुरुषेपूर्वे त्वां न्यस्तवान् समासेऽहम् । पश्यामीह न तुल्यं परत्र तुल्यं पदे परमवैमि ॥ ८५६ ॥

 अत्र कविना स्वचेतसः क्त्वाप्रत्ययस्य च श्लेषो वर्ण्यते तथाहि-- ननु चेत! हे हृदय! अहं त्वां पूर्वे अखिलजगत्कारणे । स चासौ पुरुषस्तत्पुरुषः तस्मिन् सर्वेश्वरत्वादिना सकललोकविदिते परमपुरुषे न्यस्तवान् विन्यस्तात्मरक्षाभरस्सन्निति यावत् । समासे सम्यगुपविशामि निर्भरतया सुखी संवृत्तोऽस्मीत्यर्थः । संपूर्वकादासेः कर्तरि लडुत्तमैकवचनम् । अत एव इह अस्मिन् लोके तुल्यं मम समं जनं कमपि न पश्यामि ॥

सत्कर्मनिरताश्शुद्धास्सांख्ययोगविदस्तथा ।
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ॥

इत्यादिप्रमाणादिति भावः । परत्र पदे परस्मिन् पदे तु परं

'ब्रह्मविदाप्नोति परम्' इति श्रुतं परमपुरुषमेव तुल्यं मम सदृशं अवैमि जानामि 'निरञ्जनः परमं साम्यमुपैति' इति श्रुत्या परमसाम्यस्यावेदितत्वादिति भावः ।

 पक्षे-- ननु च इतः इति छेदः । इतः अस्मिन् बुद्धिस्थे सार्वविभक्तिकस्तसिः । अपूर्वे नञ्पूर्वे इत्यर्थः । अकारेण लुप्तनकारस्य नञो विवक्षा । तत्पुरुषे च तत्पुरुषसंज्ञके च समासे न तु यस्मिन्कस्मिंश्चित्समासे, अहं त्वां त्वामित्युत्सृष्टानुबन्धस्य क्त्वाप्रत्ययस्य ग्रहणम्, ‘आनेमुक्’ इत्यादौ शानजादेरिवेति भावः । क्त्वाप्रत्ययमित्यर्थः । न्यस्तवान् सन् इह अस्मिन् क्त्वाप्रत्यये तत्स्थाने इत्यर्थः । न तु ल्यं इति पदत्रयम् । ल्यं ल्यमित्युत्सृष्टानुबन्धस्य ल्यपो निर्देशः 'मतौ बह्वचः' इत्यादौ मतुवादेरिवेति भावः । न तु पश्यामि नैव पश्यामि ‘समासेऽनञ्पूर्वे क्त्वो ल्यप' इत्यनञ्पूर्वसमास एव क्त्वो ल्यब्विधानात् अकृत्वेत्यादौ नञ्समासे ल्यपोऽदर्शनादिति भावः । परत्र पदे नञतिरिक्तशब्दपूर्वकसमासस्थले तु ल्यं अवैमि 'अलंकृत्य नमस्कृत्य’ इत्यादौ ल्यपो दर्शनादिति भावः ।

 यथावा--

 कल्पान्तगतत्वेऽपि ह्रस्वान्तत्वं श्रियो न लक्ष्म्यास्स्यात् । भान्त्यपि वाऽन्ते ह्रस्वा नियतं बह्वीतरप्प्रसक्ता सा ॥ ८५७ ॥

 अत्र लक्ष्मीगतायाः तत्कटाक्षलब्धाया वा संपदः प्रकृतायाः श्रीलक्ष्म्यादिशब्दानां चाप्रकृतानां श्लेषः । तथाहि-- लक्ष्म्याः श्रीसंबन्धिन्याः, लक्ष्मीकटाक्षलब्धाया वा । अस्मिन्नर्थे लक्ष्म्या इति पञ्चमी वा । लब्धेति शेषः । श्रियः संपदः । श्रियो लक्ष्म्या इति वा योजना । अर्थस्तु पूर्ववदेव । कल्पान्तगतत्वेऽपि संवर्तसमयभाक्त्वेऽपि । ह्रस्वः अन्तः स्वरूपं यस्य तत्तथोक्तं, सामान्ये नपुंसकं, तस्य भावः ह्रस्वान्तत्वं नश्वरत्वमिति यावत् । ‘अन्तस्स्वरूपे निकटे प्रान्ते निश्चलनाशयोः' इति हेमचन्द्रः । ‘अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्रमाला च । न स्यात् । लक्ष्मीसंबन्धिनी तत्कटाक्षलब्धा वा संपत्तिः कल्पान्तेऽपि न नश्वरी स्यादित्यभिप्रायः । इतरप्प्रसक्ता इतरासु देवतासु स्थिता इतराभ्यो देवताभ्यो लब्धा वा ‘सर्वनाम्नो वृत्तिमात्रे’ इतीतराशब्दस्य पुंवद्भावः इतरप्प्रसक्तेत्यत्र पकारस्य 'अनचि च' इति द्वित्वमर्थान्तरे शब्दावैरूप्यायावश्यकम् । यद्वा--कल्पति कल्पप इव तरेति तरप उत्सृष्टानुबन्धस्य ग्रहणे अर्थान्तरेऽपि पकारस्य न द्वित्वावश्यकतेति बोध्यम् । सा श्रीरित्यर्थः । बह्वी भान्त्यपिवा अविमर्शावसरे अपरिच्छिन्नतया भासमानाऽपि वा अन्ते निर्णयावसरे ह्रस्वा आशुविनाशिनीति यावत् । भवति नियतं नूनं भगवल्लक्ष्म्यतिरिक्तदेवतासंबन्धिनी तत्प्रसादासादिता वा संपत् अविमर्शदशायामनन्ततया भासमानाऽपि तत्त्वनिष्कर्षसमये परिमितैव ज्ञायत इति भावः ।

 पक्षे-- कल्पान्तगतत्वे कल्पः कल्पप्प्रत्ययः तस्य अन्तगतत्वे स्वस्मात्परत्रावस्थाने सति । इदमुपलक्षणं तरबादिपरकत्वस्य । अपिशब्दो भिन्नक्रमः श्रिय इत्यत्र संबध्यते । लक्ष्म्या लक्ष्मीशब्दस्य, अर्थगतस्य स्त्रीत्वस्य शब्दे आरोप इत्यसकृदवोचाम । एवमग्रेऽपि । श्रियोऽपि श्रीशब्दस्य च । ह्रस्वान्तत्वं न स्यात् । यतो घरूपकल्पबादिपरकत्वे 'नद्याश्शेषस्यान्यतरस्याम्’ इत्यङ्यन्तनद्या ङ्यन्तैकाचश्च विहितो ह्रस्वविकल्पः 'कृन्नद्या न’ इति निषिध्यते । लक्ष्मीशब्दश्च कृन्नद्यन्तः ‘लक्षेर्मुट्च' इत्यौणादिकसूत्रेण लक्षधातोरीप्रत्ययविधानात् । तस्य च ‘यूस्त्र्याख्यौ नदी’ इति नदीसंज्ञकत्वात् । श्रीशब्दस्तु ‘नेयङुवङ्स्थानावस्त्री' इति निषेधेनानद्यन्तत्वात्तदविषय एव । एवंच लक्ष्मीकल्पा श्रीकल्पेति दीर्घघटितमेव रूपं भवति, न तु लक्ष्मिकल्पा श्रिकल्पेति ह्रस्वघटितम् । विशेषान्तरमप्याह-- भान्तीत्यादिना । अपीत्यस्य अपिचेत्थर्थः । भान्ती भान्तीशब्दः तरप्प्रसक्ता । तरप् तरप्प्रत्ययः प्रसक्तो यस्यां सा तथोक्ता, तरप्प्रत्ययान्तेति यावत् । कल्पान्तगतत्वे च उक्त एवार्थः । अन्ते वाह्रस्वा विकल्पेन ह्रस्वा स्यात् ह्रस्वशब्दात् मत्वर्थीयः, अर्श आद्यच् । ह्रस्वान्ता भवेदित्यर्थः । ‘उगितश्च’ इति घरूपकल्पादिपरकत्वे ह्रस्वस्य विकल्पेन विधानादिति भावः । उगिदन्तश्चायं भान्तीशब्दः । किंच सा भाषितपुंस्कत्वेन ङ्यन्तत्वेनानेकाच्त्वेन च प्रसिद्धेति भावः । बह्वी बह्वीशब्दः तरप्रसक्ता सती कल्पान्तगतत्वे वा अन्ते नियतं ह्रस्वा स्यात् नित्यं ह्रस्वान्ता स्यादित्यर्थः । ‘घरूपकल्पचलड्ब्रुवगोत्रमतहतेषु ङ्योनेकाचो हस्वः' इत्यनेन सूत्रेण नित्यं ह्रस्वविधानादिति भावः । 'भाषितपुंस्कात्परो यो ङीप् तदन्तस्यानेकाचोऽङ्गस्य ह्रस्वस्स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषूत्तरपदेषु च' इति सूत्रार्थः । घेति तरप्तमपोस्संज्ञा ‘तरप्तमपौ घः’ इति संज्ञाविधानात् । एवंच भान्तीशब्दोत्तरप्कल्पपोः परयोः ह्रस्वविकल्पाद्भान्तितरा भान्तिकल्पेति रूपं, हृस्वाभावपक्षे–- ‘तसिलादिषु' इति पुंवद्भावेभात्तरा भात्कल्पेत्येवरूपं न तु भान्तीतरेत्यादि । बह्वीशब्दात्तयोः परयोर्नित्यं ह्रस्वे बह्वितरा बह्विकल्पेति रूपमित्यवहितहृदयैस्सहृदयैश्शब्दविदग्रणीभिर्विभावनीयम् ॥

 यथावा--

 कदशनभुगसूपगतः प्राक्त्वत्पदविदथ भवति यो राजा । अन्नन्तस्यास्य पुनर्नसूपलुप्तं सदाऽपि भवति हरे ॥ ८५८ ॥

 हे हरे! प्राक् त्वच्चरणशरणागतेः पूर्वं यः पुमान् कदशनं कुत्सितान्नं भुङ्क्त इति कदशनभुक् सन् असूपगतः असुभिः प्राणैः उपगतः असवः उपगताः येनेति वा । कदन्नाभ्यवहारेणैव प्राणान् धारयितेति भावः । यद्वा - असूपगतः कदशनभुगिति योजना । सूपं गतस्सूपगतः ‘द्वितीया श्रित’ इत्यादिना समासः । स न भवतीत्यमुपगतः कदशनभुक् कदन्नभोक्ता भवति व्यञ्जनादिदविष्ठयावनाळादिगर्ह्यान्नभोजी भवतीत्यर्थः । अथ त्वत्पदवित् तव पदे चरणे विन्दति प्राप्नोतीति तथोक्तः । त्वच्चरणप्रपन्नस्सन्नित्यर्थः । राजा भवति । तस्यास्य आदौ कदशनभोक्तुः ततो भगवदनुग्रहाधिगतराजभावस्येत्यर्थः । अन्नं पुनः ओदनं तु सदाऽपि न सूपलुप्तं लुप्तसूपं न भवति । सूपेत्युपलक्षणमुपसेचनान्तरस्यापि । मृष्टान्नभोक्तृत्वं भवतीत्यर्थः । अन्नन्तस्येत्यत्रानुस्वारस्य ‘वा पदान्तस्य’ इति वैकल्पिकः परसवर्णः अर्थान्तरे शब्दैकरूप्यायेति ध्येयम् ॥

 पक्षे-- यः कदशनभुक्छब्दः प्राक्छब्द त्वत्पदविच्छब्दश्च सुना सुप्रत्ययेन उपगतो न भवतीत्यसूपगतः भवतीति प्रत्येकं योज्यं ‘हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल्' इत्यनेन लुप्तसुप्रत्ययो भवतीत्यर्थः । अथ अथ च किंचेत्यर्थः । ‘अथ समुच्चये । मङ्गळे संशयारम्भाधिकारानन्तरेषु च । अन्वादेशे प्रतिज्ञायां पश्चात्साकल्ययोरपि' इति हेमचन्द्रः । यो राजा भवति राजेतिशब्दा विद्यते । अन्नन्तस्य अन्निति वर्णसमुदयोऽन्ते यस्य तथोक्तस्य अस्य पुनः राजन्शब्दस्य तु सदाऽपि नित्यमपि नसूपलुप्तं न सु इत्यनयोर्वर्णयोः उपलुप्तं लोप इत्यर्थः । लुम्पतेर्भावे क्तः । भवति ‘हल्ङ्याभ्यः’ इति सुलोपः 'नलोपः प्रातिपदिकान्तस्य’ इति नलोपश्च भवतीत्यर्थः । यद्वा-- अथेत्येतन्नसूपलुप्तमित्यत्रान्वेति । साकल्येन सुप्रत्ययनकारयोर्लोपो भवतीत्यर्थः । अस्य पुनरित्यनेन कदशनभुगादिशब्दापेक्षया वैलक्षण्यं सूचितम् । तेषां सुप्रत्ययमात्रलोपः अस्य तु नकारस्यापि लोप इति वैलक्षण्यं बोध्यम् । अत्र भगवच्चरणारविन्दप्रपन्नस्य प्रकृतस्य कदशनभुगादिशब्दस्याप्रकृतस्य च श्लेषः ॥

 यथावा---

 अप्प्रत्ययो भवति चेत्स्वयं भुवि रमेश भवति भव एव । कथमघवतोऽस्य भावो वृद्धिं प्राप्तो भवेत्साध्वीम् ॥ ८५९ ॥

 अत्र भगवदप्रत्ययितस्य पुंसः प्रकृतस्य अप्प्रत्ययान्तस्य भूधातोरप्रकृतस्य च श्लेषः । तथाहि-- हे रमेश! स्वयंभुवि कारणान्तररहिते सर्वकारणभूते इत्यर्थः । 'प्रभुर्मनीषी परिभूः स्वयंभूः' इति श्रुतेः । भवति त्वयि अप्प्रत्ययः अविश्वासश्चेत् भव एव भवति । त्वयि महाविश्वासोपलक्षितमात्मरक्षाभरमनर्पयितुस्संसारो दुस्त्यज इति भावः । यद्वा-- स्वयंभुवि भवति अप्रत्ययः नञत्र विरोधे विरुद्धज्ञानं नानात्वधीरिति यावत् । भवति चेत् । भवतीत्युत्तरवाक्यादपकृष्यते । तस्य भव एव संसार एव भवति ।

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥

इति श्रुत्युक्तरीत्या परमात्मनि भेदद्रष्टुर्मृत्युशब्दितसंसारप्राप्तिरेव भवतीत्यर्थः । "यदेव परमात्मतत्त्वमत्र लोकेऽहमित्यनुसंधीयमानतयाऽऽत्मभूतं तदेव लोकान्तरस्थानामप्यात्मभूतं, ततश्चात्मभेदो नास्तीत्यर्थः । इह परमात्मनि भेदमिव यः पश्यति सः संसारात्संसारं प्राप्नोति” इति श्रुत्यर्थो वर्णित उपनिषद्भाष्ये । अघवतः एवं विरुद्धज्ञानमूलभूतपाप्मवतः अस्य जनस्य भावः स्थितिः स्वभावः अभिप्रायो वा ‘भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । साध्वीं परब्रह्मध्यानैकतानतया श्रेयसीं वृद्धिं प्राप्तः कथं भवेत् । यद्वा-- अस्य साध्वीं वृद्धिं प्राप्तो भावः कथं भवेदिति योजना । साध्वीं वृद्धिं प्राप्तः अपरिच्छिन्न इति यावत् । भावः विभूतिः नित्यविभूतिरित्यर्थः । 'भावो बुधे विभूतौ च' इति शेषः । इदृशस्योक्तविधं भाग्यं दुर्लभमिति भावः ॥

 पक्षे-- भुवि भूधातौ अप्प्रत्ययः ‘ॠदोरप्' इति विहितः अप् इत्याकारकः प्रत्ययः भवति चेत् भवः स्वयमेव भवात भव इति हेत्वन्तरनिरपेक्षमेव निष्पद्यत इत्यर्थः । अस्य भूधातोः अघवतः घेत्युत्सृष्टानुबन्धस्य घञो ग्रहणम् । अविहितघञ्प्रत्ययस्य सत इत्यर्थः । साध्वीं वृद्धिं ‘अचो ञ्णिति' इति शास्त्रविहितां ञिन्निमित्तां वृद्धिं प्राप्तः भाव इति कथं भवेत् । घञभावे कथमेवं रूपं निष्पद्येतेत्यर्थः ॥  यथावा--

 प्रायस्सत्वं चित्ते पर इह यद्येकदास्थितोऽवसितौ । कृष्ण तदेव समस्तं प्रायश्चित्तं भवेन्न संदेहः ॥ ८६० ॥

 अत्र प्रस्तुतभगवद्ध्यानरूपप्रायश्चित्तस्य अप्रस्तुतप्रायश्चित्तशब्दस्य च श्लेषः । तथाहि-- पर इहेत्यत्र परः इह इति छेदः । हे कृष्ण! परः ‘अक्षरात्परतः परः’ इत्याद्युक्तरीत्या सकलचेतनविलक्षणस्सर्वोत्तरः सः ॥

सकृत्स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥

इत्याद्युक्तरीत्या सकललोककलुषविध्वंसनपटीयस्तया प्रसिद्धः त्वं इह अस्मिन् लोके चित्ते चेतसि अवसितौ । शरीरावसाने एकदा जातुचिदपि वा न तु सर्वदेति भावः । प्रायः सान्तमव्ययं भूम्नि ‘प्रायो भूम्नि' इत्यव्ययेष्वमरः । बहुश इत्यर्थ‌ः । यदि स्थितः स्मृतश्चेदित्यर्थः । तदेव तदवस्थानमेव समस्तं सर्वं प्रायश्चित्तं निष्कृतिः भवेत् । प्रायश्चित्तशब्दश्च रूढ्या योगेन च पापनिवर्तनक्षमं धर्ममाचष्टे । प्रायश्चित्तशब्दः पापक्षयार्थे नैमित्तिककर्मविशेषे रूढ इत्याहुस्सांप्रदायिका निबन्धनकृतः । योगस्त्वङ्गिरसा दर्शितः--

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपो निश्चयसंयुक्तं प्रायश्चित्तमिहोच्यते ॥

इति । अनुष्ठितेन द्वादशवार्षिकादिना अवश्यं पापं निवर्तत इति विश्वासयुक्तं व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तमिति तदर्थः । स्मृत्यन्तरेण चायं निरुक्तः--

 प्रायः पापमिति प्रोक्तं चित्तं तस्य विशोधनम् । इति । न संदेहः नात्र संशयः ।

पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः ।
प्रायश्चित्तानि मैत्रेय जगुस्स्वायंभुवादयः ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥

इत्युक्तप्रक्रियया इदमेवाखिलप्रायश्चित्तं भवेदित्यत्र न संदेग्धव्यमिति भावः । एतत्प्रमाणप्रत्यभिज्ञापनायैव अत्र मूलश्लोके कृष्णेति संबोधनं कृतमित्यवगन्तव्यम् ॥

 पक्षे— एकदा समासविवक्षायामित्यर्थः । प्रायः प्रायशब्दः । अदन्तोऽयम् । अस्मिन् पक्षे पर इहेत्यत्र परे इहेति छेदः । चित्ते चित्तशब्दे परे परत्र विद्यमाने सति । अवसितौ अवसाने विरामे अन्ते इत्यर्थः । एकदा आस्थित इति छेदः । सत्वं आस्थितो यदि समस्तं समासं प्राप्तं तदेव प्रायः चित्तमिति पदद्वयमेव प्रायश्चित्तं भवेत् प्रायश्चित्तमिति निष्पद्येतेत्यर्थः । ‘प्रायस्य चित्तिचित्तयोः' इति प्रायशब्दात्परस्य चित्तशब्दस्य सुडागमविधानात् । यद्यपि सुडागमश्चित्तशब्दाद्यवयवभूत एव, 'आद्यन्तौ टकितौ' इति परिभाषणात् । तथाऽपि तस्य प्रायशब्दान्ते’ श्रवणात् प्रायशब्दोऽवसाने सत्वमास्थित इत्युक्तम् । आगमसकारस्य श्चुत्वेन शत्वम् । वस्तुतस्तु भाष्ये 'प्रायस्य चित्तिचित्तयोस्सुडस्कारो वा’ इति पठितत्वात्प्रायशब्दान्त्यावयवभूतस्याकारस्य अस्कारे प्रायशब्द एवावसाने सत्वमास्थितो भवतीति न पूर्वोक्तक्लेशोऽनुसर्तव्यः । अस्कार इति प्रतीकमादाय ‘अस्य स्थाने अस्कारः अस्कारः शकन्ध्वादित्वात्पररूपम्’ इति कैयटेन विवृतम् । अस्य प्रायशब्दान्त्यस्य ह्रस्वाकारस्य अस्कारः असितिकरणं स एव अस्कारः । अ अस्कार इत्यत्र सवर्णदीर्घमाशङ्क्य शकन्ध्वादित्वात्पररूपमित्युक्तमिति कैयटग्रन्थाभिप्रायः ॥

 यथावा--

 चित्तं परं प्रपद्य प्रायश्चित्ती बुभूषति तरां यः । प्रायेणान्ते सयुजा पूर्वं स्वन्तेन तेन भवितव्यम् ॥

 अत्र भगवत्प्रपित्सुचेतनस्य प्रकृतस्य चित्तशब्दस्याप्रकृतस्य च श्लेषः । चित् तं इतिच्छेदः । यः चित् चेतनः तं 'अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि’ इत्यादिना शरणागत जनसकलकलुषनिर्धूननकृतप्रतिज्ञतया प्रसिद्धम् । परं ब्रह्मविदाप्नोति परम्’ इति ब्रह्मवित्प्राप्यतया श्रुतं परमात्मानं प्रपद्य शरणमुपेत्य प्रायश्चित्ती बुभूषति तरां अतिशयेन प्रायश्चित्तवान्भवितुमिच्छति । ‘अनादेर्निस्सीम्नो दुरितजलधेर्यन्निरुपमं विदुः प्रायश्चित्तं रघुयदुधुरीणाशयविदः' इति प्रपदनस्य निरुपमप्रायश्चित्तत्वोक्तेरिति भावः । पूर्वं आदौ स्वन्तेन शोभनः अन्तो निश्चयो यस्य तथोक्तेन दृढनिश्चयेनेत्यर्थः । बृहस्पतिप्रमुखैरप्यकम्पनीयमहाविश्वासशालिनेति भावः । 'अन्तोऽस्त्री निश्चय नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । तेन चेतनेन अन्ते देहावसाने सयुजा शरण्यसमानापहतपाप्मत्वादिगुणकेनेत्यर्थः । ‘युज्यत इति युक्छब्दो गुणपरः । धर्मिणि हि गुणस्संबध्यते । समानगुणकस्सयुक्’ इति महासिद्धान्ते व्यासार्याः । यद्वा-एकस्मिन् सप्रकारकब्रह्मरूपभोग्ये भोक्तृत्वेन ब्रह्मणा सह युज्यत इति सयुक् तेन तथोक्तेन प्रायेण भवितव्यम् । नात्र सन्देग्धव्यमिति भावः 'सोऽश्नुते सर्वान्कामान्सह । ब्रह्मणा विपश्चिता’ इति श्रुत्यर्थोऽत्रानुसन्धेयः ॥

 नन्वेवं सायुज्यशब्दस्य सार्ष्टिताशब्दस्य च ‘एतासामेव देवताना ्ँ सायुज्य ्ँ सार्ष्टिताम्’ इत्यादिश्रुतिषु सहप्रयोगोऽनुचितस्स्यात् आर्ष्टिर्ह्यशनं भोग इति समानार्थकत्वादुभयोरिति चेदुच्यते । सायुज्यं नाम उभयोर्भोक्तव्ये विशेषाभावः । सार्ष्टिस्तु भोगस्य तरतमभावाभावः । यथाऽनुगृहीतं परिपूर्णब्रह्मानुभवाधिकारे श्रीमदाचार्यैः--

सायुज्यमुभयोरत्र भोक्तव्यस्याविशिष्टता ।
सार्ष्टिता तत्र भोगस्य तारतम्यविहीनता ॥ इति ।

 अन्यत्र-- यः प्रायशब्दः परं परत्र विद्यमानं चित्तं चित्तशब्दं प्रपद्य प्राप्य प्रायश्चित्ती बुभूषति तरां समस्ततया प्रायश्चित्तशब्दो भवितुमिच्छति तराम् । पूर्वं स्वन्तेन सुशब्दस्सुबुपलक्षकः विग्रहदशायां श्रूयमाणसुबन्तेनेति यावत् । तेन प्रायेण प्रायशब्देन अन्ते सयुजा सवर्णयुक्तेन भवितव्यं न तु प्राय इत्यव्ययेन, तस्य 'अव्ययादाप्सुपः' इति सुब्लोपविधानेन सर्वदाऽप्यश्रूयमाणसुब्विभक्तिकत्वात्, स्वत एव सान्ततया अन्ते सयुजेति विधानस्यानावश्यकत्वाच्च । ‘प्रायस्य चित्तिचित्तयोः' इति प्रायशब्दस्यैव ह्यस्कारो विधीयते । स्वतस्सिद्धेऽपि प्रायशब्दस्य सुबन्तत्वे स्वन्तेनेति विशेषणमुक्तविशेषार्थद्योतनायैवेति ध्येयम् । अन्यत्सर्वमव्यवहितपूर्वोदाहरणे निरूपितम् ॥  यथावा--

 ज्ञेयस्स सत्पदविदामादेशो भवति पूर्वपरयोर्यः। एको येनाश्रुतमपि सर्वं स्पष्टं श्रुतं भवति ॥

 अत्र सर्वप्रशासितुः परमात्मनः प्रकृतस्य शब्दशास्त्रीयैकादेशस्याप्रकृतस्य च श्लेषः । तथाहि- सः वक्ष्यमाणः अश्रुतश्रुतत्वकारणभूत आदेशः सत्पदविदां ‘सदेव सोम्येदम्' इति श्रुतसद्वस्तुवेतॄणां 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । ज्ञेयः ज्ञातुं शक्यः । आदेशसच्छब्दयोरेकार्थकत्वादिति भावः । ज्ञेय इति ज्ञाधातुप्रयोगेण सद्विद्योपसंहारगतं ‘तद्धास्य विजिज्ञौ' इत्येतत्प्रत्यभिज्ञाप्यते । सद्विद्यागतार्थप्रतिपादकत्वादस्य पद्यस्य । यद्वा-- सत्पदविदां सतां ब्रह्मविदां पदं स्थानं पादं वा विन्दन्ति प्राप्नुवन्तीति तथोक्ताः तेषां, विन्दतेः क्विप् । ब्रह्मविदाचार्योपसदनशालिनामेवेत्यर्थः । ‘सर्वं वाक्यं सावधारणम्’ इति न्यायात् । सः पूर्वोक्तप्रकार आदेशः ज्ञेयः न तु केवलापरविद्याविदामनूचानमानिनां स्तब्धानामिति भावः । इदं च श्वेतकेतुर्नामोद्दालकस्य पुत्रो द्वादशवर्षाणि गुरुकुले वसन्नधिगतसाङ्गवेदो महामना अनूचानमानी स्तब्धोऽभ्येत्य ब्रह्मविदग्रेसरस्योद्दालकस्य निजपितुस्संनिधिं तेन च ‘यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति’ इति पृष्टस्तदपरिज्ञानेन विगळितचित्तसमुन्नतिस्तदुपसदनेनैव तादृशमादेशं ज्ञातवान्नत्वन्यथेत्येतदभिसंधायोक्तमित्यवगन्तव्यम् । आदेशमेव विशिनष्टि-- भवतीत्यादिना । यः पूर्वपरयोः पूर्वस्य चतुर्मुखादेः परस्य अर्वाचीनस्यास्मदादेश्च एकः अद्वितीयः आदेशः आदिश्यतेऽनेनेत्यादेशः आदेष्टा प्रशास्ता भवति । ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । अन्तः प्रविष्टश्शास्ता जनाना ्ँ सर्वात्मा । एकश्शास्ता न द्वितीयोऽस्ति शास्ता । शास्ता विष्णुरशेषस्य । प्रशासितारं सर्वेषाम्’ इत्यादिप्रमाणात् । आङ्पूर्वकाद्दिशेः करणे घञ्, 'अकर्तरि च कारके संज्ञायाम्' इत्यनुशासनात् । न च विवक्षितादेशकर्तृत्वरूपार्थविरोधश्शङ्क्यः ‘विवक्षातः कारकाणां प्रवृत्तिः' इतिशाब्दिकोक्तनयात्कर्तर्येव करणान्तरनैरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोगोपपत्तेः । आदेशमेव विशिनष्टि-- येनेति । येन श्रुतेनेति यावत् । अश्रुतमपि सर्वं स्पष्टं यथा स्यात्तथा श्रुतं भवति । इदमुपलक्षणं श्रुतेन मतेन विज्ञातेन अश्रुतममतमविज्ञातं श्रुतं मतं विज्ञातं भवतीत्यस्य । अत्र ‘उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतम्’ इति सद्विद्यावाक्यार्थस्सर्वोऽपि प्रत्यभिज्ञापितः । अत्र ‘येनाश्रुतं श्रुतं भवति’ इत्यत्र ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति, आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं भवति’ इति मुण्डकबृहदारण्यकवाक्यानुरोधेन येन श्रुतेनेत्याद्यर्थो वर्णितः । येनाश्रुतं श्रुतमित्यनेन उपादानत्वं प्रशासितृत्वार्थकादेशशब्देन चात्मस्वरूपमुक्तम् । तथाचात्मभूतमुपादानं सद्विद्यावेद्यमिति निष्पन्नोर्थः । अन्यत्सर्वं सुगमं ब्रह्ममीमांसाविदामित्यलं प्रपञ्चेन ॥

 पक्षे-- सत्पदविदां साधुशब्दशास्त्रवेतॄणां सः ज्ञेयः । यः पूर्वपरयोः एकः आदेशः भवति ‘एकः पूर्वपरयोः' इत्यधिकारविहितः 'आद्गुणः' । वृद्धिरेचि । अकस्सवर्णे दीर्घः' इति गुणवृद्धिसवर्णदीर्घादिरेकादेशो विद्यते । येन उक्तविधेनादेशेन अश्रुतमपि असंहितावस्थायां आदेशात्पूर्वं अप्राप्तश्रवणमपि ओकारौकाराकारादि स्पष्टं श्रुतं भवति संहितायां विवक्षितायां प्राप्तश्रवणं भवति । यथा उप-- इन्द्र इति स्थिते गुणादेशविधानात्प्रागश्रुत एकारः तदादेशविधानानन्तरं श्रूयते । यथाच कृष्ण एकत्वमिति स्थिते अश्रूयमाण ऐकारो वृद्ध्यादेशविधानानन्तरं श्रूयते । यथा चात्रैव पद्ये येन अश्रुतमित्यवस्थायामश्रुत आकारः आदेशविधानानन्तरं श्रूयत इत्यादि द्रष्टव्यम् ॥

 यथावा--

 इह तत्पुरुषेऽजादावुत्तरपद एव सति सदाऽधिपतौ । अनुशासनेन भायात्कदधिपतिः कोः कदा देशे ॥ ८६३ ॥

 अत्र परमपुरुषस्य श्रीनिवासस्य प्रकृतस्य कदधिपतिरूपतत्पुरुषस्य चाप्रकृतस्य श्लेषः । तथाहि-- अजादौ अजस्य स्रष्टृतया प्रख्यातस्य ब्रह्मणोऽप्यादौ कारणभूते अधिपतौ ‘एष भूताधिपतिः’ इत्यादिश्रुते निरुपाधिकसर्वलोकेश्वरे । यद्वा-- अजादौ अधिपतौ चतुर्मुखादेरीश्वरे 'स्वामीश्वराधिपति' इत्यादिना अधिपतिशब्दयोगेन अजादावित्यत्र सप्तमी । स चासौ पुरुषश्च तत्पुरुषः । तस्मिन् ‘योऽस्याध्यक्षः परमे व्योमन्' इति श्रुतपरमव्योमनिलयतया प्रसिद्धे ‘पुरुष एवेद ्ँ सर्वम्' इति सर्वजगच्छरीरकतया श्रुते श्रीनिवासे इह अस्मिन् शेषाचलरूपे उत्तरपदे उत्तमे स्थाने सदा न तु यदाकदाचित् सत्येव विद्यमान एव कोः भुवः ‘गोत्रा कुः पृथिवी' इत्यमरः । देशे प्रदेशे कदधिपतिः कुत्सितोऽधिपतिः आकालिकापेक्षिकैश्वर्यवत्तया कुत्सनविषय ईश्वरंमन्योऽन्य इति भावः । अनुशासनेन प्रशासितृत्वेन कदा भायात् । सर्वेश्वरेश्वरे सर्वप्रशासितरि श्रीनिवासे शेषाद्रौ देदीप्यमानवैभवे सति भुवि मितंपचैश्वर्यः कोऽपि प्रशास्तृतया न कदाऽपि भायादिति भावः ॥

 अन्यत्र-- तत्पुरुषे, एवेत्येतदिहान्वेति । तत्पुरुषसमासे विवक्षित एव न तु बहुव्रीहाविति भावः । तेन कूष्ट्रो राजेत्यादौ वक्ष्यमाणः कदादेशो न भवतीति ध्येयम् । अजादौ अज्वर्णादौ अधिपतौ अधिपतिशब्दे । अजादाविति विशेषणं वस्तुस्वरूपकथनमात्रपरं अधिपतिशब्दस्याजादितायाः स्फुटत्वात् । उत्तरपदे सति अनुशासनेन कोः कदित्यादिपदैः प्रत्यभिज्ञापितेन ‘कोः कत्तत्पुरुषेऽचि' इति सूत्रेण । कोः कुशब्दस्य उत्तरपदेन पूर्वपदस्याक्षेपात्पूर्वपदभूतस्येत्यर्थः । कदादेशे कदित्यादेशे सति सदा नित्यतयेत्यर्थः । कदधिपतिः भायात् । कदधिपतिरिति निष्पद्येतेत्यर्थः । उक्तसूत्रेण कदादेशस्य नित्यतया विधानादिति भावः ॥

 यथावा--

 एको गोत्रे नियमादापत्यप्रत्ययः कुतश्शौरौ । नोत्पद्येत तदानीमन्यप्रत्ययपरम्पराऽनिष्टा ॥ ८६४

 अत्र भगवद्विषयध्यानस्य प्रकृतस्य गोत्रापत्यप्रत्ययस्याप्रकृतस्य च श्लेषः । तथाहि-- गाः त्रायत इति गोत्रः गोपालः 'आतोऽनुपसर्गे’ इति कः । तस्मिन् शौरौ भगवति वासुदेवे आपत्य आदृत्येति यावत् । यदेति शेषः । आङ्पूर्वकात्पतेः क्त्वो ल्यप् । नियमात् एकः प्रत्ययः अविच्छिन्नस्मृतिसंततिः कृतः । तदानीं अनिष्टा भयहेतुतया हानिप्रदा अन्यप्रत्ययपरम्परा विजातीयप्रत्ययधारा नोत्पद्येत । विजातीयप्रत्ययानन्तरितत्वमेव हि स्मृतिसंततेरविच्छेदः । अनिष्टेत्यनेन 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य' इति श्रुत्यर्थस्सूच्यते । तथाहि तदर्थः-- एष उपासकः एतस्मिन् परमात्मनि ध्यानस्य अन्तरं विच्छेदं अरं अल्पमपि यः कुरुते तस्य भयमुद्भवति, विदुषो ब्रह्मोपासननिष्ठस्य तदतिरिक्तविषयस्पृहया निरन्तरं मननमकुर्वतः तदेव अमननं भयं, न हि तदपेक्षयाऽन्यद्भयमस्ति । उक्तं च महर्षिभिः--

यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते ।
सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ॥

इत्यादीति । ‘हानिः इष्टहानिः, छिद्रं अनिष्टप्राप्तिरन्ध्रं, भ्रान्तिः तत्कृतचित्तस्खलनं, विक्रिया तेनाङ्गानामवशादयथायथव्यापारः' इति व्यासार्याः ।

 पक्षे-- गोत्रे ‘अपत्यं पौत्रप्रभृति गोत्रम्’ इत्युक्ते अपत्यत्वेन विवक्षिते पौत्रादिगोत्ररूपार्थे नियमात् ‘एको गोत्रे’ इति सूत्रेण कृतात् गोत्रे एक एव प्रत्ययस्स्यादिति नियमात् एकः आपत्यप्रत्ययः अपत्यार्थे विहितः प्रत्ययः यदोत्यध्याहारः । यदि कृतः कृतश्चेत् तदानीं शौरौ शौरिशब्दे, इदमुपलणमौपगवादीनां शब्दानाम् । अनिष्टा अन्यप्रत्ययपरंपरा नोत्पद्येत । अयं भावः-- शूरस्य गोत्रापत्यमित्यर्थे शूरशब्दात् ‘बाह्वादिभ्यश्च' इत्यनेन ‘ऋष्यन्धकवृष्णिकुरुभ्यश्च' इति विहिताणपवादके इञि कृते पुनः ‘तस्यापत्यम्' इत्यण्, ततः पुनस्तस्यापत्यमिति इञ्, इत्याद्यनिष्टप्रत्ययपरंपरा नोत्पद्यते । एवं उपगोर्गोत्रापत्ये अणि औपगवः ततः ‘अत इञ्' इति इञ् औपगविः, ततः ‘यञिञोश्च’ इति फक् औपगवायन इत्याद्यनिष्टप्रत्ययपरंपरा नोत्पद्येत ‘एको गोत्रे' इति नियमादिति । अत्र--

गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परंपरा ।
यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥
अपत्यं पितुरेव स्यात्ततः प्राचामपीति च ।
मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥

इति कारिकाऽर्थोनुसंधेयः । इति विश्रम्यते विस्तरभयात् ॥

 यथावा--

 यो देवेज्याशीलस्संमार्ष्ट्यखिलं ग्रहं पवित्रेण । स्वकरधृतेनासाविह विवक्षितानुग्रहैकतानो हि ॥

 अत्र अपामार्जनोक्तवराहनृसिंहादिभगवन्मन्त्रनिष्ठस्य पुसः प्रस्तुतस्य यायजूकस्याप्रकृतस्य च श्लेषः । तथाहि-- इह अस्मिन् लोके यः पुमान् देवेज्याशीलः देवस्य भगवतः इज्या जपस्तुत्यादिरूपमाराधनं ‘वाग्यज्ञेनार्चितो देवः'--

इति वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥

इत्यादिभिर्जपस्तुत्यादेराराधनरूपताभिधानात् । देवेज्या शीलं स्वभावो यस्य स तथोक्तः । ‘इज्या स्त्री यागदानार्चासंगेषु’ इति रत्नमाला । असौ स्वकरधृतेन पवित्रेण कुशेन जात्येकवचनं, 'मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्यशान्तिकृत्’ इत्युक्तेः । यद्वा--‘अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषिणाऽभ्युदीरिताः इत्युक्तरीत्या स्वहस्तविन्यस्तेन मन्त्रपूतेनाम्भसा ।

दधिकलशगोमयाम्बुषु कुशताम्रब्रह्मसूत्रमन्त्रेषु ।
हेम्न्यर्थे च पवित्रं त्रिषु पूते पुंसि शंभुपावकयोः ॥

इति रत्नमाला । अखिलं सकलं ग्रहं डाकिनीपूतनादिभूतविशेषं--

ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ।
सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥

इति मेदिनी । संमार्ष्टि निरस्यतीति यावत् ॥

सदा कराळवदनो नारसिंहो महारवः ।
ग्रहानशेषान्निश्शेषान् करोतु जगतो हितः ॥
शान्तिरस्तु शिवं चास्तु प्रणंश्यत्वसुखं च यत् ।
वासुदेवशरीरोत्थैः कुशैस्संमार्जितो मया ॥

इत्याद्यपामार्जनाध्यायोक्तक्रमेण वाराहनारसिंहादिमहामन्त्राभिमन्त्रितकुशादकमार्जनेनाखिलान् ग्रहान् प्रणुदतीति भावः । तत्र हेतुमाह-- विवक्षितेति । हि यस्मात् असावित्येतदत्राप्यनुषज्यते । असौ देवेज्याशीलः पुमान् विवक्षितानुग्रहैकतानः विवक्षितेषु वक्तुमिष्टेषु आदेशकारिषु विधेयेष्वित्यर्थः । ‘विधेयो विनयग्राही वचनेस्थित आश्रवः' इति हि विधेयपर्यायाः पठ्यन्ते । न हि वक्तुमनिष्टेषु जनेषु विवक्षा कस्यचिदपि भवति । योऽनुग्रहः तस्मिन् एकतानः एकाग्रः 'एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि' इत्यमरः । विधेयजनानुग्रह एवोक्तरीत्या तदीयग्रहादिसर्वानिष्टनिवारणे हेतुरिति भावः । अनेन--

अनाराधितगोविन्दा ये नरा दुःखभागिनः ।
तेषां दुःखाभितप्तानां यत्कर्तव्यं दयाळुभिः॥

इत्यपामार्जनोक्तप्रश्ने यद्दयाळुत्वमपामार्जनशान्तिकरणहेतुतयोक्तं तत्संगृहीतम् ।

 पक्षे-- हे देव! यः पुमान् इज्याशीलः यायजूकः असौ स्वकरधृतेन पवित्रेण दशापवित्रेण अखिलं ग्रहं होमसाधनपात्रविशेषं सर्वान्ग्रहानित्यर्थः । संमार्ष्टि संमार्जनेन संस्करोति । ननु ‘ग्रहं संमार्ष्टि’ इति संमार्जनकर्मणो ग्रहस्यैकत्वे श्रूयमाणेऽपि कथं सर्वान् ग्रहान् संमार्ष्टीत्युक्तमित्यत आह-- इहेत्यादि । विवक्षिता नु ग्रहैकता नो हि इतिच्छेदः । हि यस्मात् इह 'ग्रहं संमार्ष्टि' इति वाक्ये ग्रहैकता ग्रहस्यैकत्वं ग्रहगतैकत्वरूपा संख्या नो विवक्षिता । न विवक्षितेत्यर्थः । नु इत्येतदनुनये 'नु स्यात्प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः' इति विश्वः । एकत्वस्याविवक्षितत्वात्सर्वान् ग्रहान् संमार्ष्टीति संमार्गाधिकरणोक्तोऽर्थोऽत्रानुसंधेयः । अयं च संमार्गन्यायः जैमिनीयदर्शने तृतीयाध्याये मीमांसितः । तथाहि ज्योतिष्टोमे ‘दशापवित्रेण ग्रहं संमार्ष्टि इति श्रूयते । तत्र संशयः किमेकस्य संमार्गः किं वा सर्वेषामिति । तदर्थं चिन्ता-- किमत्रोद्देश्यगता संख्या विवक्षिता उताविवक्षितेति । यथा 'पशुना यजेत’ इत्यत्र एकत्वश्रुतिबलादुद्देश्यगताऽपि संख्या विवक्षिता, एवमत्राप्युद्देश्यगता संख्या विवक्षिता भवितुमर्हति । तस्मादेकस्यैव ग्रहस्य संमार्ग इति पूर्वपक्षं प्रापय्य पशोरनेनैव वचनेन यागसंबन्धावगमाद्यागं प्रति पशोर्गुणभूतत्वाद्यावद्गुणं प्रधानावृत्त्यभावात्कियता पशुनेति परिच्छेदकाकाङ्क्षायां तत्परिच्छेदकत्वेनैकत्वसंख्या संबध्यत इत्युपादेयगतायास्संख्याया विवक्षितत्वं युक्तम् । ग्रहाणां तु वाक्यान्तरेण यागसंबन्धावगमात् संमार्गवाक्ये, द्वितीयाश्रुत्या संमार्गं प्रति ग्रहस्य प्राधान्यावगमात् यावत्प्रतिप्रधानं गुणस्य संमार्गस्यावर्तनीयत्वात् कियन्तो ग्रहास्संमार्जनीया इत्याकाङ्क्षाया अनुदयादुद्देश्यग्रहगता संख्या न विवक्षिता । तस्मात्सर्वे ग्रहास्संमार्जनीया इति सिद्धान्तितम् ॥  यथावा--

 यदि ननु निष्ठातोनो यदुपतिमहिळेभवत्प्रपदि भवति । अग्रेभवदश्च तदा भवेत्प्रपन्नोऽयमत्र को विशयः ॥ ८६६ ॥

 अत्र लक्ष्मीपदारविन्दप्रपन्नस्य प्रपन्नशब्दस्य च श्लेषः । तथाहि-- ननु यदुपतिमहिळे ! ‘मामेकं शरणं व्रज' इत्यादि वदतो भगवतो वल्लभे! अनेन तस्या अपि ताद्धर्म्यं द्योतितम् । 'नित्यं तद्धर्मधर्मिणीम्' इति ह्युच्यते । भवत्प्रपदि भवत्याः पादाग्रे ‘सर्वनाम्नो वृत्तिमात्रे' इति पुंवद्भावः । ‘पादाग्रं प्रपदम्' इत्यमरः । निष्टातः, सार्वविभक्तिकस्तसिः । तदेकतत्परतया तच्छरणवरणैकव्रततया वा ‘निष्ठा तु नाशे निष्पत्तावन्ते तात्पर्ययाच्ञयोः' इति रत्नमाला । ‘निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते' इति हेमचन्द्रः। अनितीत्यनः प्राणिता ‘अन प्राणने’ पचाद्यच् । 'प्रपन्नश्चातको यद्वत्, धर्मं धारय चातकस्य कुशलिन्धाराधरैकान्तिनः' इत्याद्युक्तरीत्या त्वच्चरणशरणवरणैकान्तिकतैकधारक इत्यर्थः । यद्वा-- निष्ठातः प्रार्थनया । कोशस्तूक्तः । प्रार्थनापलक्षितानुकूल्यमुखाङ्गपञ्चकेन अनः उज्जीवितेत्यर्थः । यदि भवति तदा अयं प्रपन्नः स्वतन्त्रप्रपत्तिनिष्ठः पुमान् अग्रे प्रपत्त्युत्तरं भवं जन्म गर्भप्राप्तिं वा द्यति अवखण्डयतीति भवदः 'दो अवखण्डने’ अस्मात् ‘आदेच उपदेशेऽशिति’ इति कृतात्वात् 'आतोऽनुपसर्गे' इति कः । यद्वा-- अग्रे भवं दायतीति भवदः ‘दैपु शोधने' शोधनार्थकादस्माद्धातोः पूर्वोक्तरीत्यैव कः पुनर्जन्म शोधयति तत्संबन्धं निर्मार्ष्टीत्यर्थः । शोधयतेः 'सर्वपापविशुद्धात्मा' इत्यादौ क्षाळनार्थे प्रयोगदर्शनात् । त च्छरीरावसान एवास्य निश्श्रेयसावाप्तेर्निरर्गळतया पुनर्भवप्रसक्तेरनवकाशादिति भावः । अग्रे भवदश्चेति चशब्देन स्वतन्त्रप्रपदननिष्ठोऽयं ‘प्रारब्धं परिभुज्य कर्मशकलम्’ इत्युक्तरीत्याऽभ्युपगतप्रारब्धं तच्छरीरावधिकमेवानुभूय ‘प्रक्षीणकमान्तरः' इत्युक्तप्रक्रियया अनभ्युपगतप्रारब्धखण्डफलभोगदशरीरान्तरसंबन्धं धुनोति । ‘न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डं च नः' इत्युक्तेः, न त्वङ्गप्रपदननिष्ठ इव संपूर्णप्रारब्धकर्मफलभोगार्थविद्यारम्भोत्तरकालिकशरीरान्तराण्यप्यनुभवतीति सूचितम् । अग्रे भवद इत्यस्य अग्रे प्रपत्त्युत्तरक्षणमेव भवद इत्यर्थविवक्षायां प्रपन्नोऽसावार्तः, प्राथमिकार्थपक्षे दृप्त इति वैलक्षण्य बोध्यम् ॥

 पक्षे-- यदुपतिमहिळेऽभवत्प्रपदीत्यत्र अभवदितिच्छेदः । भवतीति संबुद्ध्यन्तं पदम् । ननु भवति! पूज्ये! यदुपतिमहिळे! प्रपदि प्रपूर्वकपदधातौ निष्ठातः निष्ठा क्तप्रत्ययः 'क्तक्तवतू निष्ठा’ इत्यनुशासनात् । तस्याः यः त् क्तप्रत्ययसंबन्धितकारः तस्य । हलन्तोऽयं शब्दः । अग्रेभवदश्च क्तप्रत्ययापेक्षया पूर्वस्य धात्ववयवस्य दकारस्य च । अयमपि हलन्त एव । नः नादेशो यद्यभवत्, तदा अयं शब्दः प्रपन्नः भवेत् प्रपन्न इति निष्पद्येत ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः' इति रेफदकाराभ्यां परस्य निष्ठातकारस्य तत्पूर्वस्यदकारस्य च नत्वानुशासनादिति भावः । अत्र उक्तेऽर्थे को विशयः न कोऽपि संदेह इत्यर्थः ॥

 यथावा--

 उपदिशतु हरिं स्तौत्विति न तुलोपो दृश्यते कदाऽप्यस्मिन् । निन्देति यदि प्रवदेदतोहिलोपः पुरा भवत्येव ॥ ८६७ ॥  अत्र भगवद्विषयकस्तुतिनिन्दाभ्यनुज्ञानयोस्सदसत्फलकयोः प्रकृतयोः स्तौतु निन्द इति तिङन्तशब्दयोः तुलोपाभावहिलोपवतोरप्रकृतयोश्च श्लेषः । तथाहि-- हरिं स्तौतु इत्युपदिशतु जनानामिति शेषः । अस्मिन् उपदेष्टरि पुरुषे कदाऽपि लोपः श्रेयोहानिः न तु दृश्यते नैव दृश्यते मूढान् भगवन्नुतौ प्रवर्तयितुर्न कदाऽपि काचिदपि हानिर्भवति । प्रत्युत श्रेयोऽतिशय एव--

अज्ञानाय तु यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥

इत्याद्युक्तेः । निन्द हे जनेति शेषः । त्वं भगवन्तं निन्द निन्दतेर्लोण्मध्यमैकवचनम् । इति प्रवदेद्यदि अतः अस्मादेव निन्दाप्रवर्तनवचनात् लोपः हानिः पुरा भवेदेव निकटागाम्येव अव्यवहितोत्तरलक्षणागाम्येव भवति । ‘निकटागामिके पुरा' इत्यमरः । अस्मिन्नर्थे ‘शीघ्रं गच्छ पुरा देवो वर्षति’ इति प्रयोगश्च । भगवन्निन्दनप्रवर्तयितुस्सद्य एव सर्वश्रेयोहानिः संपद्यते इति भावः ॥

यो निन्देत्कमलाकान्तं निन्दयेद्वा पृथग्जनैः ।
न विद्मस्तं महाराज यस्तस्य निरयो भवेत् ॥

इत्युक्तेः ॥

 पक्षे-- हरिं स्तौतु इत्युपदिशतु । अस्मिन् स्तौतु इति पदे तुलोपः तुवर्णलोपः न दृश्यते । लोपविधायकशास्त्राभावात् श्रूयत एवेत्यर्थः । निन्देति प्रवदेद्यदि अस्मिन् निन्देतिशब्दे अतोहिलोपः ‘अतो हेः' इति सूत्रविहितो हिलोपः पुरा भवत्येव अभवदेवेत्यर्थः । ‘पुरि लुङ्चास्मे’ इति पुराशब्दयोगे भूते लट् । लोण्मध्यमैकवचनस्य सिपः ‘सेर्ह्यपिच्च' इति ह्यादेशे ‘अतो हेः' इति अतः परस्य हेर्लुगनुशासनात् । हिलोपानन्तरमेव हि निन्देति रूपं श्रूयत इति भावः ।

 यथावा--

 रघुवरदिव्यकथामृतलिडभूद्यदि भुवि तदा बभूवैवायम् । एकः पुरुषः प्रथमस्तथोत्तमो भवति मध्यमो नैवेह ॥ ८६८ ॥

 अत्र भगवत्कथामृतास्वादिनः पुंसः प्रकृतस्य भूधातोर्विहितस्य लिटोऽप्रकृतस्य च श्लेषः । तथाहि भुवि भूमौ रघुवरदिव्यकथामृतं लेढीति रघुवरदिव्यकथामृतलिट्, लिहतेः क्विप् । अभूद्यदि अयं पुमान् बभूवैव सत्तामलभतैव ‘भू सत्तायाम्' इति हि धातुः ‘भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः' इत्यादौ सत्तार्थकता च प्रसिद्ध्यति । सत्ता चात्मलाभः । भगवद्दिव्यकथामृतास्वादेनैवास्य सत्तालाभो नान्यथेति भावः । अद्यत्वे ईदृशो दुर्लभ इति द्योतनाय परोक्षभूतनिर्देशः । तमेव विशिनष्टि-- एक इति । अयमित्यनुषज्यते । अयमेकः पुरुषः एक एव पुमान् ‘सर्वं वाक्यं सावधारणम्’ इति न्यायात् इह अस्मिन् लोके तथा उत्तमः अनिर्वचनीयतया उत्तमः । तथाशब्दोऽनिर्वचनीयवाची ‘तथा गतां ताम्’ इत्यादौ तथा दर्शनात् । अत एव प्रथमः सर्वेषामग्रणीः भवति मध्यमो नैव भवति कथमीदृशो मध्यमस्स्यादिति भावः ।

 पक्षे-- दिव्यं कथामृतं यस्य तस्य संबुद्धिः हे रघुवर! भुवि भूधातौ लिट् 'परोक्षे लिट्’ इति विहितो लिट् अभूद्यदि परोक्षवृत्तेर्भूधातोर्लिड्यदाऽभूत् तदा अयं भूधातुः बभूवैव । अभूदित्यनुषज्यते । बभूवेत्येव निष्पन्नोऽभूदित्यर्थः । उक्तरूपनिष्पत्तेर्निस्संदिग्धत्वद्योतनाय भूतनिर्देशः । किमखिललिट्यपि बभूवेत्येव रूपं स्यादित्यत अह-- एक इत्यादिना । इह अस्मिन् भूधातौ । अयमित्यनुषज्यते । अयं लिट् एकः एकत्वसंख्याबोधकः प्रथमः पुरुषः प्रथमपुरुषैकवचनमिति भावः । भूधातोर्लिटस्तिपः 'परस्मैपदानां णल्’ इत्यादिना णलादेशे बभूवेति निष्पत्तेः । लिट्प्रथमपुरुषैकवचनस्यैवेदं रूपमिति भावः । न केवलमेतावदेव । तथा उत्तमः तद्वदेव एकत्वबोधक उत्तमपुरुषश्च भवति । मिपो णल्यपि बभूवेत्येव रूपनिष्पत्तेः । नैव मध्यमो भवति मध्यमपुरुषैकवचनं तु न भवति । तत्र बभूविथेत्येव हि रूपं न तु बभूवेति ॥

 यथावा--

 सर्वेषां वर्णानां प्रतिलोमानामुतानुलोमानाम् । तुल्यार्थदोऽखिलात्मन् सन्न्यासो भवति हि स्वनिष्ठानम् ॥ ८६९ ॥

 अत्र प्रकृतस्य भगवति भरन्यासस्य अप्रकृतस्य सन्न्यासशब्दस्य च श्लेषः । तथाहि-- हे अखिलात्मन् ! भगवन् ! भवति त्वयि सन्न्यासः प्रपदनं,

 निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः ।
 सन्न्यासस्त्याग इत्युक्तश्शरणागतिरित्यपि ॥

इति सन्न्यासशब्दस्य प्रपत्तिपर्यायतोक्तेः । स्वनिष्ठानां स्वशब्दस्सन्न्यासपरः स्वस्मिन्निष्ठा येषां ते तथोक्ताः तेषां प्रपदनैकान्त्यभाजामित्यर्थः । सर्वेषां वर्णानां ब्राह्मणादिवर्णचतुष्टयजानामिति यावत् । अनुलोमानां अनुलोमजानां उत प्रतिलोमानां प्रतिलोमजानां वा ‘अच्प्रत्यन्ववपूर्वात्सामलोम्नः' इत्युभयत्रापि समासान्तोऽच् । ‘नस्तद्धिते’ इति टिलोपः । उत्कृष्टवर्णजात्पुंसोऽपकृष्टवर्णजस्त्रियां जाताः अनुलोमजाः । अपकृष्टवर्णजात्पुरुषादुत्कृष्टवर्णजस्त्रियां जाताः प्रतिलोमजाः । तथा च स्मर्यते याज्ञवल्क्येन--

विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशस्स्त्रियाम् ।
अम्बष्ठश्शूद्र्यां निषादो जातः पारशवोऽपि वा ॥
वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ ।
शूद्रायां करणो वैश्याद्विन्नास्वेष विधिस्स्मृतः ॥
ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्स्मृतः ।
शूद्राज्जातस्तु चण्डालस्सर्वकर्मबहिष्कृतः ॥
क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥
माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥

इति । असन्तः प्रतिलोमजाः सन्तस्त्वनुलोमजा इति विज्ञेया इत्यर्थः । तुल्यार्थदः समानपुरुषार्थदायी वर्णाश्रमादिकक्ष्याविभागेन विनैव तत्तदभीप्सितसर्वविधपुरुषार्थप्रद इत्यर्थः ॥

अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता ।
प्रपत्तौ सर्ववर्णानां सात्विकत्वादियोगिनः ।
सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ।

इति भगवत्प्रपदनस्य सर्वाधिकारिकत्वसर्वपुरुषार्थप्रदत्वोक्तेः । एतदभिप्रायेणैव हि मूले भगवतोऽखिलात्मन्निति संबोधनम् ॥

 पक्षे-- सन्न्यासः सन्न्यास इति शब्दः । अयं च समोमकारस्यानुस्वारे 'वा पदान्तस्य' इति वैकल्पिकपरसवर्णे सन्न्यास इति द्विनकारक एव ग्राह्यः । अन्यथा विवक्षितस्यानुलोमप्रतिलोमपाठयोरानुपूर्वीतौल्यस्य दुर्लभत्वात् । स्वनिष्ठानां स्वस्मिन्विद्यमानानां सर्वेषां वर्णानां अक्षराणां अनुलोमानां प्रतिलोमानां वा सतां तुल्यार्थदः समानाभिधेयबोधको भवति । भवतीत्येतदस्मिन्पक्षे तिङन्तम् । स्वनिष्ठवर्णा आनुलोम्येन वा पठ्यन्तां प्रातिलोम्येन वा । उभयथाऽपि तुल्यानुपूर्वीकताया एव दर्शनादानुलोम्यप्रातिलोम्यानादरेणायं सन्न्यास इति शब्दस्तुल्यार्थबोधक एव भवतीति भावः ।

 यथावा--

 यदिवाऽक्रूरसहायो बलवानिह लोकपालकेन्द्रगतः । सौम्योनुग्रह एको भविताऽरिष्टस्य भङ्गदस्सद्यः ॥ ८७० ॥

 अत्र भगवदनुग्रहस्य प्रकृतस्य सौम्यग्रहस्याप्रकृतस्य च श्लेषः । तथाहि-- अक्रूरस्य अक्रूराख्यस्य सहायः त्रातेति यावत् । बलवान् आश्रितोज्जीवनौपयिकसामर्थ्यवान् सौम्यः अनुग्रः । अनेन सुखनिषेवणीयत्वं द्योतितम् । लोकपालकादीनां इन्द्रादीनामपि इन्द्रः ईश्वरः भगवान् ‘एष भूताधिपतिरेष लोकपालः' इत्यनौपाधिकलोकपालत्वश्रवणात् । तं गतः प्राप्तः तदीय इत्यर्थः । एकः सहायान्तरनैरपेक्ष्येणैव स्वकर्तव्यसर्वकार्यनिर्वोढा अनुग्रहः कृपा इह यदिवा भविता अक्रूर इव मय्यपि स्याच्चेदिति भावः । अरिष्टस्य मदीयानादिकालप्रवृत्ताकृत्यकरणकृत्याकरणादिसर्वविधाशुभस्य भङ्गदः निर्मूलयिता सद्य एव भविता न तु विलम्बेन ॥

 तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथाऽसुखम् ।
 यावन्नायाति शरणं त्वामशेषाघनाशनम् ॥ इत्युक्तन्यायेन त्वदनुग्रहावधिक एव ममाशुभस्पर्श इति भावः ॥

 पक्षे--

बुधभार्गवजीवानामेकतमः केन्द्रमागतो बलवान् ।
क्रूरसहायो यद्यपि सद्योऽरिष्टस्य भङ्गाय ॥

इति बालारिष्टभङ्गवादिपद्यार्थोऽनुसन्धेयः । तथाहि-- हे लोकपालेति भगवतस्संबोधनम् । सौम्यः नु ग्रहः इतिच्छेदः। सौम्यः एको ग्रहः बुधभार्गवजीवानामन्यतम इति भावः । बलवान् स्थानदिक्कालचेष्टादिबलाढ्यः केन्द्रगतः लग्नचतुर्थसप्तमदशमान्यतमस्थानस्थितः क्रूरसहायः क्रूराः कुजादिदुष्टग्रहाः सहाया यस्य स तथोक्तः यदि वा स्यात् क्रूरग्रहयुतोऽपि वा सद्यः अरिष्टस्य बालारिष्टस्य भङ्गदः भविता । किमु तदयुक्त इति भावः ।

 यथवा--

 भगवन्विधो तवैतैस्सौम्यैरस्तारिपरिभवस्थितिभिः । अधियोगे ज्योतिर्भिर्जातास्सेनेशसचिवभूपास्स्युः ॥ ८७१ ॥

 अत्र भगवच्चन्द्रमसोः प्रकृताप्रकृतयोश्श्लेषः । तथाहि भगवन्! पूर्णषाड्गुण्य! हे विधो! हे विष्णो! ‘विधुर्विष्णौ चन्द्रमसि’ इत्यमरः । सौम्यैः शुभैः अस्तारिपरिभवस्थितिभिः अस्ता निरस्ता अरिपरिभवस्य वैरिकर्तृकपराभवस्य स्थितिः यैस्तथोक्तैः निरस्तारिपरिभवा स्थितिर्येषां तैस्तथोक्तैरिति वा । परिहृतबाह्यान्तरवैरिवर्गैरित्यर्थः । एतैः तव ज्योतिर्भिः दृष्टिभिः कटाक्षैरित्यर्थः । ‘ज्योतिर्भद्यौतदृष्टिषु' इत्यमरः । ‘ज्योतिरग्नौ दिवाकरे । पुमान्नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः' इति मेदिनी च । अधियोगे अधिकसंबन्धे सति जाताः जन्मवन्तो जनाः सेनेशसचिवभूपाः चमूपतिमन्त्रिराजानः यथायोगं स्युः भगवत्कटाक्षगोचराणां किं दुर्लभमिति भावः ।

 पक्षे-- हे भगवन् ! हे श्रीमन् ! हे विधो ! हे इन्दो ! तव यत्रक्ववा राशौ स्थितस्य तवेति भावः । अस्तारिपरिभवस्थितिभिः अस्तं सप्तमो राशिः अरिः षष्ठः परिभवोऽष्टमः । 'षष्ठं क्षतार्याह्वयं जामित्रास्तकळत्रमन्मथमदद्यूनाभिधं सप्तमम् । रन्ध्रायुर्मरणं पराभवमृतिस्थानं वदन्त्यष्टमम्' इति माधवीयोक्तेः । तेषु स्थानेषु स्थितिर्येषां तैः तथोक्तैः सौम्यैः शुभैः बुधगुरुशुक्रैः ज्योतिर्भिः ताराग्रहेः । कोशस्तूक्तः । अधियोगे सर्वैश्शुभग्रहैर्यत्रक्ववा स्थिताच्चन्द्रात् षष्ठसप्तमाष्टमराशिवर्तिभिः अधियोगो नाम राजयोगः क्रियते । तस्मिन् राजयोगे जाताः जन्मवन्तः सेनेशसचिवभूपाः क्रमात्स्युः ॥

सौम्यैस्समरारिनिधनेष्वधियोग इन्दोः ।
तस्मिंश्चमूपसचिवक्षितिपालजन्म ॥

इति वराहमिहिरोक्तेरिति भावः ॥

 यथावा--

 पामरमपि पदलग्नं लघु कृत्वा निर्ममन्ततस्तमपि । परमात्मा कविवर्यो दर्शयति जनैस्सुदुर्गमं पारम् ॥ ८७२ ॥

 अत्र भगवान् प्रस्तुतः कविवर्यस्त्वप्रस्तुतः । तयोः श्लेषः । तथाहि-- कविवर्यः कविभिर्विद्वद्भिर्वरणीयः । यद्वा-- कवीनां वरेण्यः, पञ्चरात्रगीतादिप्रणेतृत्वात् । ‘कविर्मनीषी’ इति श्रुतेः । परमात्मा 'तस्याश्शिखाया मध्ये परमात्मा’ इति श्रुतस्सर्वान्तरात्मा नारायणः पदलग्नं स्वचरणं शरणं गतं पामरमपि प्राकृतमपि जनं लघु क्षिप्रमेव निर्ममं 'ममेति द्व्यक्षरो मृत्युः' इत्युक्तदेहादिममतारहितं, ममेति विभक्तिप्रतिरूपकमव्ययं, निर्गतं मम यस्येति विग्रहः । कृत्वा ततः निर्ममताहेतोः तमपि एवं कृतं जनमपि । निर्ममन्तत इत्यत्र ‘वा पदान्तस्य’ इति परसवर्णः । जनैः पामरैः 'जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति मेदिनी । सुदुर्गमं अतिवेलदुर्लभं पारं 'तमसः पारं दर्शयति भगवान्' इति श्रुतं संसारसंतमसचण्डभानूयमानोपासनागाचरमात्मानं दर्शयति ‘दृशेश्व' इति द्विकर्मकता । निश्श्रेयसभाजं विदधातीति भावः ॥

 पक्षे-- परमः श्रेष्ठः आत्मा बुद्धिर्यस्य स तथोक्तः । कविवर्यः काव्यकृदग्रणीः । पदलग्नं पदेषु सुप्तिङन्तात्मकेषु व्यवह्रियमाणेषु शब्देषु लग्नं अन्यतमत्वेन संबद्धं पामरं पामरशब्दमपि लघु यथातथा, निर्मं अन्तत इतिच्छेदः । अन्ततः मध्ये ‘अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । निर्मं निर्गतमकारं कृत्वा पामरशब्दे मध्यस्थमकारमुत्सार्येत्यर्थः । जनैः सुदुर्गः गन्तुमशक्यः दुर्विज्ञान इत्यर्थः । तादृशो मः मकारो यस्य तं तथोक्तम् । मकारोत्सारणे पुनर्मकारश्रवणं क्वत्यमिति भावः । पारं पारशब्दं दर्शयति, पामरशब्दमुत्सारितमकारं पारं सन्तं दर्शयतीत्यर्थः ॥

 यथावा--

 देवेशाधीशस्स्याद्विदितो जगदीशवल्लभेयमवेः । किमुत स देशाधीशो दृष्टमदृष्टं च वयमिहाब्रूम ॥

 अत्र भगवत्या श्रियाऽभिरक्षितस्य पुंसः देवेशाधीशशव्दस्य च श्लेषः । तथाहि-- हे जगदीशवल्लभे ! त्वं यं अवेः रक्षेः । अवतेर्लिङ्मध्यमैकवचनम् । स पुमान् देवेशानां लोकपालानामप्यधीशः विदितः प्रसिद्धः स्यात् । देशाधीशः देशानां ऐहलौकिकानां विषयाणां 'देशविषयौ' इत्यमरः । अधीशः राजा स्यादिति किमुत किमु वक्तव्यम् । नैतदाश्चर्यमिति भावः । इह अस्मिंस्त्वद्रक्षिते पुंसि विषये दृष्टं ऐहिकं फलं देशाधीशतावाप्तिरूपं अदृष्टं देवेशाधीशतावाप्तिरूपमामुष्मिकं फलं चेति वैपरीत्येन योज्यम् । वयं त्वत्प्रभावाभिज्ञा इति भावः । अब्रूम अवोचाम ।

 पक्षे-- जगदीशवल्लभेऽयमित्यत्र अयमिति छेदः। देवेशाधीशः देवेशाधीशशब्दः विदितस्स्यात् त्वया ज्ञात एव भवेत् । सोऽयं उक्तो देवेशाधीशशब्द एव अवेः वेकाररहितस्सन् सेः सयौ सयः इतिवदवेश्शब्द एदन्तः । देशाधीशस्स्यात् देशाधीश इति निष्पद्येत । इह अनयोः देवेशाधीशदेशाधीशशब्दयोः वयं वे इति वर्णं वे इति प्रातिपदिकादमि अयादेशे सयमितिवद्द्वितीयैकवचनं दृष्टं देवेशाधीशशब्दे श्रुतं अदृष्टं देशाधीशशब्दे अश्रुतं च यथाक्रमं अब्रूमेति । काव्यार्थापत्तिसंकीर्णोऽयम् । एवं प्रागुपदर्शितेऽषूदाहरणेषु यथासंभवमलंकारान्तरसंकीर्णत्वं प्रतिभाशालिभिरुन्नेयम् ॥

 यथावा--

 श्रीरम्या सैकावळ्यभिख्यया भात्यलंकृतिश्श्लाघ्या । साधुकृतार्थश्रेणीगृहीतमुक्ताकृतिर्यस्याः ॥

 अत्र प्रस्तुतायाः श्रियः अप्रस्तुतयोः मुक्तावळ्येकावळ्यलंकारयोश्चेत्यर्थत्रयस्य श्लेष इति विशेषः । तथाहि, श्रीपक्षे— श्रीः रम्या सा एका वळ्यभिख्यया भाति अलं कृतिश्लाघ्या साधु कृतार्थश्रेणी गृहीतमुक्ताकृतिः यस्याः इति छेदः । वळ्यभिख्यया वळीनां त्रिवळीनां अभिख्यया शोभया रम्या । एका अप्रतिद्वंद्वा सा श्रीः अलं पर्याप्तं यथा स्यात्तथा कृतिभिः विद्वद्भिः श्लाघ्या भाति । तमेव विशिनष्टि-- साध्विति । यस्या इति पञ्चमी । यस्याः श्रियस्सकाशात् तदनुग्रहादिति यावत् । कृतार्थानां अनुष्ठितोपायतया कृतकृत्यानां श्रेणी पङ्क्तिः साधु यथा स्यात्तथा गृहीतमुक्ताकृतिः उपात्तमुक्तस्वरूपा भवतीति ॥

 मुक्तावळीपक्षे तु-- श्रीरम्या सा एकावळ्यभिख्यया भाति अलंकृतिः श्लाघ्या साधु कृता अर्थश्रेणीगृहीतमुक्ता आकृतिः यस्याः इतिछेदः । श्रिया लावण्यलक्ष्म्या रम्या रमणीया श्लाघ्या सा अलंकृतिः आभरणं एकावळ्यभिख्यया एकावळीनाम्ना ‘एकावळ्येकयष्टिका’ इत्यमरः । भाति, यस्याः एकावळ्याख्यालंकृतेः आकृतिः स्वरूपं अर्थश्रेण्या अनल्पेन धनेनेत्यर्थः । गृहीताः क्रीताः मुक्ताः मौक्तिकानि यस्यास्सा तथोक्ता । साधु यथा स्यात्तथा कृता निष्पादितेति ॥

 एकावळ्यलंकारपक्षे तु--पूर्वार्धे पूर्ववदेव छेदः । उत्तरार्धे तु-- साधु कृता अर्थश्रेणी गृहीतमुक्ताकृतिः इति विशेषः । श्रिया काव्यलक्ष्म्या रम्या सा अलंकृतिः अलंकारः एकावळ्यभिख्यया तन्नाम्ना श्लाघ्या सती भाति । यस्याः अलंकृतेः अर्थानां अभिधेयानां श्रेणी पङ्क्तिः गृहीतमुक्ता आकृतिः यस्यास्सा तथोक्ता । साधु कृता रचिता ‘गृहीतमुक्तरीत्याऽर्थश्रेणिरेकावळी मता' इति तल्लक्षणादिति ॥

 यथावा--

 देवोत्तमस्वरूपासितभाभायात्सदात्मनिबिडौ- जाः । द्युमणिर्नलिनदळेक्षण इह सुतरां शूरविख्यातः ॥ ८७५ ॥

 अत्र प्रकृतो भगवान् अप्रकृताविन्द्रादित्यौ त्रयाणामेषां श्लेषः । तथाहि, भगवत्पक्षे-- स्वरूपासितभाः स्वरूपेण स्वभावेन असिता श्यामला भाः दीप्तिर्यस्य स तथोक्तः ‘नीलतोयदमध्यस्था, श्यामाच्छबलं प्रपद्ये’ इत्यादिश्रवणात् । सदात्मनिबिडौजाः सतां ब्रह्मविदां आत्मनि मनसि । संश्चासावात्मा चेति कर्मधारयो वा । उभयथाऽपि विशुद्धे मनसीत्यर्थः । निबिडौजाः अविरळप्रकाशः 'मनोमयः प्राणशरीरो भारूप' इति शाण्डिल्यविद्यायां विशुद्धमनोग्राह्यत्वभास्वररूपत्वयोश्श्रवणात् अत्र--

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं
ध्यायमानः ॥
अन्तश्शरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः
क्षीणदोषाः ॥

इत्यादिश्रुतयोप्यनुसन्धेयाः । ‘आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । द्युमणिः दिवि परमे व्योम्नि मणिरिव विद्योतमानः ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इति श्रुतेः । शूर इति विख्यातः ‘शूरश्शौरिः' इति तन्नामसु पाठात् । यद्वा-- शूरशब्दो यदुशब्दवत्तदपत्येषु लाक्षणिकः । शूरेषु यदुविशेषेषु विख्यातः येन स शौरिरित्यभिधीयते । द्युमणिशब्देन परत्वं शूरविख्यातशब्देन सौलभ्यं च दर्शितम् । देवोत्तमः चतुर्मुखादीनामप्युत्तमः ‘यत्र देवानामधिदेव आस्ते’ इत्यादिश्रुतेः । नलिनदळेक्षणः पुण्डरीकपलाशलोचनः भगवान् इह अस्मिन् लोके सुतरां भायात् ॥  इन्द्रपक्षे-- स्वरूपासितभाः स्वरुणा वज्रेण ‘शतकोटिस्स्वरुः’ इत्यमरः । उपासिता स्वस्मिन्नुपवेशिता तेन सेविता वा ‘आस उपवेशने' अस्माण्णिजन्तात्कर्मणि क्तः । भाः प्रभावो यस्य स तथोक्तः वज्रायुधोन्मिषितप्रभाव इत्यर्थः । ‘भाः प्रभावे मयूखेऽस्त्री’ इति मेदिनी । द्युमणिः स्वर्लोकाभरणभूतः 'द्यौः स्त्री स्वर्गे च गगने' इति मेदिनी । नलिनस्य सहस्रपत्रस्य दलानीव ईक्षणानि यस्य स तथोक्तः सहस्राक्ष इति भावः । शूरः विक्रान्तः स चासौ विख्यातश्च वृत्रादिमहासुरवधप्रख्यातशौर्य इति भावः । देवोत्तमः निर्जरेषु श्रेष्ठः । सदा आत्मनि बिडौजाः इति छेदः । बिडौजाः इन्द्रः सुतरां आत्मनि बुद्धौ सदा भायात् इति ॥

 आदित्यपक्षे तु—स्वरूपे स्वाकारे आसिता उपवेशिता । यद्वा-- स्वरूपेण स्वभावेनैव आ समन्तात् सिता बद्धा भाः दीप्तिः यस्मिन् स तथोक्तः । ‘षिञ् बन्धने' कर्मणि क्तः। 'मुद्दितं संदितं सितम्' इत्यमरः । स्वभावतो निश्चलदीप्तिरित्यर्थः । अथवा आसितं स्थितिः आसेर्भावे क्तः स्वरूपस्यासितं तेन भासत इति स्वरूपासितभाः, भासतेः क्विप्, स्वरूपस्थित्यैव भासमान इत्यर्थः । सदात्मनिबिडौजाः सन् स्वस्मिन्विद्यमानः ‘सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्’ इत्यमरः । यः आत्मा परमपुरुषः 'य एषोन्तरादित्ये हिरण्मयः पुरुषः’ इति श्रुतेः । तेन निबिडौजाः ‘न तत्र सूर्यो भति’ इत्यारभ्य ‘तस्य भासा सर्वमिदं विभाति' इत्यादित्यादितेजसां तदुपजीव्यत्वश्रवणात् । नलिनदळेक्षणः दलयतीति दलं 'दल विशरणे' अस्माद्धातोर्णिजन्तात्पचाद्यच् । ‘णेरनिटि' इति णिलोपः । दलेर्घटादिषु भोजेन पठिततया ‘घटादयो मितः' इति मित्त्वात् णिच्प्रयुक्तवृद्ध्यपवादको ‘मितां ह्रस्वः’ इति हृस्वः । नलिनानां दलं नलिनदलं ईक्षणं दर्शनं यस्य स तथोक्तः कमलविकासकदर्शन इत्यर्थः । सुतरांशुः रविख्यातः इति छेदः । ‘रोरि’ इति रेफलोपे ‘ढ्रलोपे’ इति पूर्वस्याणो दीर्घस्संहितायाम् । सुतराः शोभनतराः अंशवः किरणाः यस्य स तथोक्तः । सुशब्दोऽत्र द्रव्यवाची । अतस्तस्माद्विहितस्य तरपो नामुप्रत्ययः, ‘किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' इति प्रतिषेधात् । रविरिति ख्यातः रविख्यातः । देवोत्तमः 'सुरोत्तमो धामनिधिः’ इति सूर्यपर्यायेषु पाठात् । द्युमणिः आदित्यः इह भायादिति । अत्रार्थत्रयश्लेषः पूर्ववदेव, विशेषणविशेष्यव्यत्यासस्तु विशेष इति ध्येयम् ॥

 यथावा--

 कमलपदायावाण्यावशगो गौर्यास्सदाऽपि साधुरतेः । सुमनोभवहार्यज इह निजपदलग्नांस्तनोति सत्कामान् ॥ ८७६ ॥

 अत्र भगवान् प्रस्तुतः ब्रह्मेशानस्मरा अप्रस्तुताः चतुर्णामेषां श्लेषः । तथाहि, भगवत्पक्षे— अजः न जायते स्मेत्यजः । भगवान् विष्णुः ‘अजायमानः’ इति श्रुतेः । ‘अजश्छागे हरिब्रह्मविधुस्मरनृपे हरे’ इति मेदिनी । गौर्याः हिरण्यवत्पिशङ्गवर्णायाः 'हिरण्यवर्णां, पिङ्गळां हेममालिनीम्' इत्यादिश्रुतेः । ‘गौरोऽरुणे सिते पीते' इत्यमरः । अनेन लावण्यसमृद्धिर्द्योतिता । 'षिद्गौरादिभ्यश्च' इति ङीष् । सदाऽपि साध्वी प्रशस्ता रतिः भर्तृविषयकानुरागो यस्यास्सा तस्याः, अनेन प्रीत्यतिशय उक्तः । आभ्यां विशेषणाभ्यामनतिलङ्घनीयवचनत्वं सूचितम् । कमलं पदं निवासस्थानं यस्यास्सा कमलपदा तस्याः पद्मालयायाः श्रियः । अनेन सौकुमार्यातिशयो व्यज्यते । तेन च तत्प्रार्थनाकरणे म्लानिशङ्कयाऽवश्योपादेयत्वं तद्वचसो ध्वन्यते । वाण्याः ‘किमेवं निर्दोषः क इह जगति’ इत्याद्युक्तप्रकारायाः वाचः वशगः वश्यः । अत एव सुमनसां विदुषां भवं संसारं हरतीति सुमनोभवहारी सन् निजे स्वकीये पदे चरणे स्थाने वा लग्नान् तानेव सुमनस इति भावः । सत्कामान् सत्यकामान् आविर्भूतकल्याणगुणानित्यर्थः । तनोति । अनतिक्रमणीयश्रीवचनविभवविवशो भगवान्निश्शेषाविद्यानिवर्तनपूर्वकं स्वाश्रितानाविर्भूतगुणाष्टकान्विदधातीति निर्गळितोऽर्थः ॥

 चतुर्मुखपक्षे-- कमलपदायाः नलिनमृदुलचरणायाः गौर्याः 'या कुन्देन्दुतुषारहारधवळा’ इत्युक्तरीत्या विशदवर्णायाः सदाऽपि साधुरतेः साधुषु सभ्येषु विद्वत्सु रतिः प्रीतिः यस्याः तथोक्तायाः वाग्देवतात्वादिति भावः । ‘साधुस्त्रिषूचिते चारौ सभ्ये वार्धुषिके तु ना’ इति रत्नमाला । वाण्याः सरस्वत्याः वशगः । सुमनसि बिसप्रसूने पद्मे भवेन जन्मना 'जन्महरौ भवौ' इत्यमरः । हारी मनोहरः भगवन्नाभिनलिनजन्मेत्यर्थः । अजः चतुर्मुखः । निजपदलग्नान् सत्यलोकगतान् सत्कामान् रमणीयभोग्यवस्तुशालिनः तनोतीति ॥

 ईशानपक्षे-- कमलपदायाः पद्यत इति पदा पद्यतेः पचाद्यच् । कमलस्य कुरङ्गस्य पदा, कमलः कुरङ्गः पदं चिह्नं यस्यास्सेति वा तस्याः उभयथाऽपि कुरङ्गपाणेरित्यर्थः । ‘स्यात्कुरङ्गेऽपि कमलः, पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इति चामरः । यद्यपि कुरङ्गपाणित्वमीशानस्यैव प्रसिद्ध्यति । तथाऽप्युमायास्तदर्धाङ्गतया तदुक्तिरिति ध्येयम् । अत एव ‘दीपकमृगायमाणनिजहरिणशावकानुधाव्यमानपार्ष्णिभागौ' इति हरिणस्योभयसाधारण्योक्तिस्संगच्छते । यद्वा कमलानि उत्तममहिळात्वसूचकरेखाकारपद्मानि पदे यस्यास्सेति । साधुरतेः रमणियवल्लभप्रीतेः । गौर्याः पार्वत्याः वाण्याः वाचः वशगः । मनोभवं मन्मथं हरतीति मनोभवहारी । सुष्ठु मनोभवहारी सुमनोभवहारी कन्दर्पवैरीत्यर्थः । अजः ईशानः निजपदलग्नान् स्वचरणसक्तान् सत्कामान् विद्यमानमदनान् तनोतीति विरोधः, फलितमनोरथांस्तनोतीति परिहारः ॥

 स्मरपक्षे तु-- कमलपदायाः अरुणाम्बुजचरणाया गौर्याः अरुणवर्णायाः पातिव्रत्येन विशुद्धाया वा । ‘गौरः पीतेऽरुणे श्वेते विशुद्धे चाभिधेयवत्' इति मेदिनी । रतेः रतिदेव्याः वाण्याः वाचः साधु यथा स्यात्तथा वशगः । तदाज्ञावशंवद इत्यर्थः । सुष्ठ मनसि चित्ते भवेन जन्मना हारी रम्यः मनसिज इत्यर्थः । अजः स्मरः । कोशस्तूदाहृत एव । निजपदेषु स्वकीयवस्तुषु आलम्बनगुणाद्युद्दीपनविभावेष्वित्यर्थः । लग्नान् अभिषक्तान् जनान् सत्कामान् ऊर्जितप्रेयसीसंभोगाभिलाषान् तनोतीति ॥

 यथावा--

 पुष्कलसच्छ्रीलक्षणहृद्यो यो बहुविरोचनाभिख्यः । विद्युद्भाजयतु हरिस्स वृत्रसंहननभिदुरवरहेतिः ॥ ८७७ ॥

 अत्र भगवान् प्रस्तुतः इन्द्रस्सूर्यश्चन्द्रो विद्युत्प्रकाशश्चाप्रस्तुताः । एतेषां पञ्चानां श्लेष इति पूर्वोदाहरणाद्विशेषः । तथाहि, भगवत्पक्षे-- यः हरिः पुष्कले अतिशोभने सती च सच्च सती ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकैकशेषः । सती अभ्यर्हिते च । श्रीश्च लक्षणं च श्रीलक्षणे लक्ष्मीश्रीवत्सौ हृद्ये उरस्स्थिते यस्य सः 'श्रीमान् श्रेष्ठः पुष्कलस्स्यात्सत्तमश्चातिशोभने' इत्यमरः । ‘सत्साधौ धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम्' इति मेदिनी । यद्वा पुष्कलानि पूर्णानि ‘पूर्णश्रेष्ठौ तु पुष्कलौ’ इति रत्नमाला । सन्ति प्रशस्तानि लक्षणानि सामुद्रिकोक्तमहापुरुषत्वज्ञापकाङ्गचिह्नान्वितैः हृद्यः मनोज्ञः । यथोच्यते श्रीरामायणादौ--

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।

इत्यादिना । यद्वा पुष्कला श्रीमती सती साध्वी च या श्रीः लक्ष्मीः तस्याः लक्षणं नामैव हृद्यः तस्याः जगतो वा वशीकारमन्त्रो यस्य स तथोक्तः, हृदयस्य बन्धनो हृद्य इति विग्रहः। ‘बन्धने चर्षौ' इति हृदयशब्दात् षष्ठ्यन्ताद्बन्धने यत्प्रत्ययो वेदेऽभिधेये । हृद्यो वशीकरणमन्त्र इत्याहुः । ‘नारायणस्य किल नित्यजपस्त्वदीयं नाम प्रगल्भतमम्' इत्युक्तरीत्या भगवतो लक्ष्मीनाम नित्यजपार्हमिति भावः ।

लक्षणं कार्षिके चिह्ने नाम्नि मुद्राङ्गसंपदोः ।
हृद्यो वशिक्रियामन्त्रे हृद्यं धध्न्यनुलेपने ॥
हृत्प्रिये हृद्धिते हृज्जे.........॥

इति च वैजयन्ती । अथवा पुष्करा सती श्रीरेव लक्षणं जगदीश्वरत्वज्ञापकमुद्रा हृद्यं हृदयस्थं यस्य स तथोक्तः । बहु अधिकं विरोचनं प्रकाशो यस्यास्तथोक्ता अभिख्या कीर्तिर्यस्य सः बहुविरोचनाभिख्यः 'तस्य नाम महद्यशः' इति श्रुतेः । 'अभिख्या त्विड्यशोनामसु' इति रत्नमाला । वृत्रसंहननभिदुरवरहेतिः वृत्राश्शत्रवः तेषां संहननानि वपूंषि ‘गात्रं वपुस्संहननम्' इत्यमरः । भिन्दन्तीति भिदुराः 'विदिभिदिच्छिदेः कुरच्’ इति कुरच् । वृत्रसंहननानां भिदुराः रिपुवपुर्भेदिन्य इत्यर्थः । वराः श्रेष्ठाः हेतयः सुदर्शनादीन्यायुधानि यस्य सः । 'ध्वान्तारिदानवा वृत्राः। वृत्रो मेघे रिपौ ध्वान्ते दानवे वासवे गिरौ' इत्यमरहेमचन्द्रौ । ‘हेतिर्ज्वालांऽशुरायुधम्’ इति वैजयन्ती । विद्युद्भाः विद्युत्तुल्यप्रकाशः ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ इति श्रुतेः । यद्वा वित् ज्ञानं 'व्यवहारविदे’ इत्यादाविव विदेस्संपदादित्वाद्भावे क्विप् । विदा यौतीति विद्युत् । युधातोर्मिश्रणार्थकात्कर्तरि क्विप् । ‘ह्रस्वस्य पिति कृति तुक्' इति तुगागमः । विद्युत् भाः तेजो यस्य सः विद्युद्भाः । ज्ञानान्विततेजस्संपन्न इत्यर्थः । अत्र--

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥

इत्युक्तेषु गुणेषु प्रत्याहारन्यायेनाद्यन्तयोर्ग्रहणं मध्यस्थानां शक्त्यादीनां चतुर्णामपि गुणानामुपलक्षकम् । तेन पूर्णषाड्गुण्यवत्त्वं दर्शितम् । सः हरिः जयत्विति ॥

 इन्द्रपक्षे-- यः पुष्कले पुष्करे रलयोरभेदाश्रयणात् गगने सीदन्तीति पुष्करसदः द्युसदः, सदेः क्विप् । तेषां देवानां श्रीलक्षणानि साम्राज्यज्ञापकच्छत्रचामरादिचिह्नानि तैः हृद्यः हृदयप्रियः बहूनि सहस्रसंख्याकानि विरोचनानि विलोचनानि रलयोरभेदाश्रयणात् यस्य सः बहुविलोचन इत्यभिख्या प्रसिद्धिः यस्य स तथोक्त इति बहुव्रीहिगर्भो बहुव्रीहिः । वृत्रस्य असुरविशेषस्य संहननं हननसाधनं हन्तेः करणे ल्युट् । यत् भिदुरं कुलिशं 'भिदुरं पविः' इत्यमरः । तदेव वरहेतिः उत्तमशस्त्रं यस्य स तथोक्तः । विद्युद्भाः वित् व्याकरणविषयकं ज्ञानं ‘वाग्वै पराच्यव्याकृताऽवदत्तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्’ इति श्रुतेः । ब्रह्मविषयकं ज्ञानं वा ‘स होवाच मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये’ इत्यादिना प्रतर्दनाय स्वात्मशरीरकब्रह्मोपदेष्टृत्वश्रवणात् । युत् पौलोमादियुद्धं ताभ्यां भासत इति विद्युद्भाः ‘समित्याजिसमिद्युधः' इत्यमरः । यद्वा विदि उद्भाः इतिच्छेदः। विदि पूर्वोक्तज्ञाने विषये उद्भाः उदञ्चद्दीप्तिः अप्रतिहतज्ञान इत्यर्थः । सः हरिः इन्द्रः जयत्विति ॥

 सूर्यपक्षे-- यः पुष्कराणां कमलानां सती या श्रीः संपत् शोभा वा तस्याः लक्षणं रक्षणं रलयोरभेदात् । हृद्यं हृदयहितं यस्य सः । बहु इति भिन्नं पदमग्रेऽन्वेति । विरोचनाभिख्यः विरोचननामा 'चन्द्राग्न्यर्का विरोचनाः' इत्यमरः । यद्वा रोचनानां रक्तकह्लाराणां अभिख्या शोभा । विशिष्टा रोचनाभिख्या यस्मात्सः । रक्तकह्लारसुषमावह इत्यर्थः । ‘रोचना रक्तकह्लारे गवां पित्ते वरस्त्रियाम्' इति रत्नमालावैजयन्त्यौ । बहु यथा स्यात्तथा । इदं भेदनक्रियाविशेषणम् । वृत्राणां पर्जन्यानां संहननं संघः 'अङ्गे संघे संहननम्’ इति शेषः । तेषु भिदुराः वृष्ट्यर्थं मिळिताः वराः हेतयः किरणाः यस्य स तथोक्तः ‘याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति’ इति श्रुतेः । विद्युद्भाः विद्युद्वर्णः सः हरिः सूर्यः जयत्विति ॥

 चन्द्रपक्षे-- पुष्कलं पूर्णं सतां रोहिण्यादिनक्षत्राणां ‘सत्क्लीबमृक्षे’ इति रत्नमाला । श्रियः संपदः रक्षणं हृद्यं हृदयप्रियं यस्य सः । ताराधीशत्वात्तस्येति भावः । यद्वा बहु यथा तथा पुष्करेषु पद्मेषु सती या श्रीः शोभा तस्याः लक्षणं चिह्नं नाम वा हरतीति पुष्करसच्छ्रीलक्षणहृत्, हरतेः क्विप् । पद्मशोभायाश्चिह्नं नामापि वा निश्शेषयितेत्यर्थः । अस्मिन्पक्षे यः पुष्करसच्छ्रीलक्षणहृत् यः विरोचनाभिख्य इति यत्पदद्वयस्य योजना । विरोचनाभिख्यः चिरोचनापरनामा । वृत्राणां ध्वान्तानां संहननस्य संघस्य भिदुराः भेदयित्र्यः वराः हेतयः अंशवो यस्य सः। विद्युत् विशेषेण द्योतमाना भाः प्रभावो यस्य सः । हरिः चन्द्रमाः जयत्विति ॥

 विद्युत्प्रकाशपक्षे तु-- लिङ्गविपरिणामेन विशेषणानि योज्यानि । पुष्करं नक्षत्रं तदिव सती रमणीया । यद्वा पुष्करं अहिविशेषः जलधारा वा तदिव सती विद्यमाना वक्रतनुदीर्घोज्ज्वलरूपा ॥

पुष्करमम्बुनि खे भे युधि वाद्यमुखेऽमरेऽपि धारायाम् ।
द्वीपे भेषजभेदे सारसतीर्थाहिकरिकराग्रेषु ॥

इति रत्नमला । श्रीरस्यास्तीति श्रीला । सिध्मादित्वान्मर्थीयो लच् । ‘लक्ष्मीवान् लक्ष्मणश्श्रीलः' इत्यमरः । क्षणहृद्या अल्पकालरमणीया अचिररुचित्वात् । त्रयाणामेषां कर्मधारयः । हरिः कपिलवर्णा । अत एव विरोचनाभिख्या । रोचना गोरोचना तस्याः अभिख्येवाभिख्या यस्यास्सा विशेषेण रोचनाभिख्या विरोचनाभिख्या । अथवा रोचनाः वरवर्णिन्यः तासां आभिख्येवाभिख्या यस्यास्सा उत्तमललनामणितुल्यशोभेत्यर्थः । अत एव प्रतीपालंकारः । बहु यथा तथा वृत्राणां जीमूतानां संहननं संघः तस्य भिदुराः वराः हेतयः ज्वालाः यस्यास्सा अम्बुदकदम्बसम्भेदनेनोन्मीलितत्वादिति भावः । विद्युद्भाः तटित्प्रकाशः जयत्विति ॥

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।
शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ इत्यमरः ॥

 यथावा--

 राजा स लोकपालो जिष्णुस्समवर्तिताप्प्रथि तनामा । वर्षति तरां प्रचेताश्श्रीदो ननु सर्वतोमुखं कामम् ॥ ८७८ ॥

 अत्रापि भगवानेव प्रस्तुतः । इन्द्रयमवरुणकुबेरचन्द्रा अप्रस्तुताः । षण्णामेषां श्लेषः । (१) भगवत्पक्षे-- जिष्णुः जयशीलः । समवर्तिताप्रथितनामा । मया श्रिया सह वर्तते यस्मिन्कर्मणि तद्यथा स्यात्तथा समं समं वर्तत इति समवर्ती श्रीमत्तयैव विद्यमान इत्यर्थः । यद्वा-- 'समोऽहं सर्वभूतेषु’ इत्युक्तरीत्या सर्वसमं वर्तत इति तथोक्तः । अथवा समेषु सर्वेषु चेतनाचेतनरूपवस्तुषु वर्तते अन्तः प्रविश्य नियन्तृतया विद्यत इति समवर्ती ‘सर्वसाधुसमानेषु समं स्यादभिधेयवत्' इति मेदिनी । तस्य भावः समवर्तिता । तया प्रथितनामा प्रख्याताभिख्यः प्रकृष्टं चेतो यस्य स तथोक्तः महाशय इत्यर्थः । महोदार इति यावत् । महोदारता च पात्रलाघवं प्रदेयगौरवं चानादृत्य दायभागन्यायेन प्रत्युपकारनिरपेक्षं वितरणरसिकत्वं प्राज्यं दत्वाऽप्यतृप्तत्वं च । अत एव श्रीदः आश्रितेभ्योऽखिलसंपत्प्रदः राजो ‘एक इद्राजा जगतः' । एष ब्रह्मलोकस्सम्राट्! राजाधिराजस्सर्वेषां विष्णुर्बह्ममयो महान्' इत्याद्युक्तरीत्या सकललोकाधिराजः सः एवं प्रसिद्धप्रभावः लोकपालः सर्वजगद्रक्षको भगवान् 'एष लोकपालः’ इति श्रुतेः । सर्वतोमुखं अप्रतिहतं कामं मनोरथं अस्माकमिति शेषः । वर्षतितरां ननु अतिशयेन ददात्येव । ननुरवधारणे । यद्वा न नु इति पदद्वयम् । नुः पृच्छायां न वर्षतितरां नु । वर्षत्येवेति भावः ॥

 (२) इन्द्रपक्षे-- समवर्तिताप्रथितं स्वरूपोचितवृत्तितया प्रसिद्धं नाम यस्य स तथोक्तः । प्रचेताः महामनाः श्रीदः आश्रितलक्ष्मीप्रदः । राजा, ‘इन्द्रो राजा जगतः । इन्द्राय राज्ञे’ इत्यादिश्रवणाद्राजतया प्रसिद्धः । लोकपालः जिष्णुः इन्द्रः ‘जिष्णुर्लेखर्षभः' इत्यमरः । सर्वतोमुखं सलिलं ‘पुष्करं सर्वतोमुखम्' इत्यमरः । कामं पर्याप्तं यथा स्यात्तथा वर्षतितरां पर्जन्यवाहनतया वर्षस्य तदधीनत्वादिति ॥

 (३) यमपक्षे-- जिष्णुः जयशीलः प्रचेताः श्रीदः उक्त एवार्थः । राजा 'यमो राजा प्रमृणाभिः' इति श्रुतेरस्य राजत्वम् । समवर्तिताप्रथितनामा समवर्तीति प्रसिद्धाभिधानः । लोकपालः सर्वतोमुखं निरवधिकं कामं अभिलाषं वर्षतितराम् । स्वाश्रितानां प्रददातीत्यर्थः । 'ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व' इति नचिकेतसं प्रति स्वेनैवोक्तत्वादिति भावः ॥

 (४) वरुणपक्षे-- प्रचेता इति विशेष्यम् । समं वर्तत इति समवर्तिता वर्ततेस्तृच् । अर्थः पूर्ववदेव । अप्प्रथितनामेति भिन्नं पदम् । अद्भिः प्रथितं व्यपदिष्टं नाम यस्य सः ‘वरुणोऽपामधिपतिः’ इत्यादिश्रुतेस्तन्नाम्नोऽद्भिः प्रथितत्वम् । राजा ‘राजा त्वा वरुणो नयतु । यासां राजा वरुणः' इत्यादिश्रुतेरस्यापि राजत्वम् । अन्यानि विशेषणानि यथोक्तार्थान्येव । सर्वतोमुखं जलं कामं वर्षतितरां सलिलाधिपतित्वात्तस्य पर्जन्यद्वारा वर्षणमिति ध्येयम् ॥

 (५) कुबेरपक्षे-- श्रीद इत्येतद्विशेष्यम् । अन्यानि विशेषणानि यथोदितार्थान्येव । राजा ‘कुबेराय वैश्रवणाय महाराजाय नमः' इति श्रुतिप्रसिद्धेरस्यापि राजत्वम् । एवं चाष्टानामपि दिगधीशानां लोकपालत्वाविशेषेऽपीन्द्रयमवरुणकुबेराणामेव महादिगधीशतया राजत्वं श्रुत्या ख्यापितम् । न तु विदिगधीशानामग्निनिऋतिमरुदीशानानां तेषां राजत्वाश्रवणादित्यवधेयम् । श्रीदः कुबेरः सर्वतोमुखं कामं वर्षति तरां ‘स मे कामान् कामकामाय मह्यं, कामेश्वरो वैश्रवणो ददातु' इति श्रुतेः ॥

 (६) चन्द्रपक्षे तु-- लोकपालः--

इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च ।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः॥

इत्युपक्रम्य ‘अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो नृपः’ इत्युक्तेश्चन्द्रस्यापि लोकपालत्वम् । अन्यानि विशेषणानि पूर्वोक्तार्थान्येव । राजा इदं विशेष्यं चन्द्र इत्यर्थः । ‘सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः' इति श्रवणादस्य राजत्वम् । सर्वतोमुखं निरङ्कुशं यथा तथा कामं वर्षतितरां मन्मथमुद्दीपयतीति यावत् ॥

 नन्वत्रोपपादितेषु सर्वेष्वप्यर्थेषु विशेषणानां विशेष्याणां चानियमात्कथमस्य श्लेषोदाहरणता ‘सर्वदोमाधवः पायात्' इत्यादौ तन्नियमस्यैव दर्शनादिति चेत् उभयेषामपि श्लिष्टत्वनियमानतिक्रमादित्यवधेहि । विशेषणविशेष्योभयश्लिष्टत्वमेव हि श्लेषलक्षणम् । न हि विशेषणैर्विशेष्यैर्वा सर्वेष्वप्यर्थेष्वैकरूप्येणैव भाव्यमित्याग्रहः । तेषां श्लिष्टतानियममात्रस्यैवापेक्षितत्वादिति दिक् । एवं सर्वत्रापि द्रष्टव्यम् ॥

 यथावा--

 गोविसरोपात्तश्रीरुदारसत्त्वाऽधिदेवतामहती । वसुमत्ताविद्योता समुपाश्रयते परां काष्ठाम् ॥  अत्रापि श्रियःपतिरेव प्रकृतः, बृहस्पतिदिवस्पतिपशुपतिग्रहपतिवसुमतीनरपतयोऽप्रकृताः । सप्तानामेतेषां श्लेषः तथाहि,

 (१) श्रीपतिपक्षे- गोविसरोपात्तश्रीः गवां अपां विसरस्समूहः वाराशिः तस्मात् उपात्ता श्रीः लक्ष्मीः यया सा तथोक्ता

गौ क्रतौ वृषभे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम् ।
द्वयोस्तु रश्मिदृग्बाणस्वर्गवज्राम्बुलोमसु ॥

इति रत्नमाला । ‘विसरः प्रसरे व्रजे । श्रीर्वेषरचनाशोभाभारतीसरळद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तिविधोपकरणादिषु । विभूतौ च गतौ च स्त्री’ इति च मेदिनी । उदारं श्रेष्ठं सत्त्वं स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम्’ इत्युक्तो गुणविशेषः यस्यास्सा ‘यत्सत्त्वं स हरिर्देवः' इत्याद्युक्तेश्शशुद्धसत्त्वमयाप्राकृतदिव्यमङ्गळविग्रहेत्यर्थः । 'उदारो दक्षिणे ख्याते दानशौण्डे महत्यपि' इति, ‘सत्त्वं गुणे पिशाचादौ व्यवसायस्वभावयोः । गुणप्राणबलस्वान्तसत्तास्वस्त्री तु जन्तुषु' इति च रत्नमाला । वसुमत्ताविद्योता वसवः देवविशेषाः प्रसिद्धाः मत्ताः तृप्ताः यस्मात्सः वसुमत्तः । अविः आदित्यः तस्मिन् द्योतत इति द्योता ‘असौ वा आदित्यो देवमधु’ इत्युपक्रम्य 'तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति’ इति मधुविद्योक्तप्रक्रियया वसुतृप्तिहेतावादित्ये ‘यश्चासावादित्ये' इत्याद्युक्तरीत्या विद्योतमानेत्यर्थः ॥

वसुर्ना देवभेदेषु योक्त्राग्निधनदांशुषु ।
मधुरे तु त्रिषु क्लीबे सलिले धनरत्नयोः ॥

इति रत्नमाला । ‘हृष्टो मत्तस्तृप्तः' इत्यमरः ।

अविर्ना पर्वते सूर्ये मेषे मूषककम्बळे ।
प्राकारे भवने भासि स्त्री तु पुष्पवतीभुवोः ॥

इति रत्नमाला । महती देवता ‘महते दैवतायाज्यं, दैवतानां च दैवतम्’ इत्युक्तो भगवान् वासुदेवः परां काष्ठां स्थितिं श्रयते । सैव परमप्राप्येत्यर्थः । ‘सा काष्ठा सा परा गतिः' इति हि श्रुतिः ।‘काष्ठोत्कर्षे स्थितौ दिशि' इत्यमरः ।

काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके ।
दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥

इति हेमचन्द्रः ॥

 (२) बृहस्पतिपक्षे-- गोविसरेण वाक्प्रसरेण उपात्ता श्रीः देवाचार्यकविभूतिर्यया सा तथोक्ता । उदारं ख्यातं सतो भावस्सत्त्वं वैदुष्यं यस्यास्सा ‘सन् सुधीः कोविदो बुधः' इत्य मरः । वसुमत्ता तेजस्विता ब्रह्मवर्चसमिति यावत् । सा च विद्या ऋग्वेदादिविद्या च वसुमत्ताविद्ये पूर्वनिपातप्रकरणस्य ‘लक्षणहेत्वोः' इत्यादिसूत्रनिर्देशेनानित्यताया ज्ञापितत्वान्नेहाल्पाच्तरस्य विद्याशब्दस्य परनिपातविरोधः । वसुमत्ताविद्याभ्यां ऊता संततेति यावत् ।‘ऊतं स्यूतम्' इत्यमरः । वेङः कर्मणि क्ते संप्रसारणम् । महती देवपूज्या देवता बृहस्पतिनामेति भावः । परां काष्ठां उत्कर्षं समुपाश्रयते ॥

 (३) दिवस्पतिपक्षे-- गोविसरेण नयननिवहेन लोचनसहस्रेणेत्यर्थः । उपात्ता श्रीश्शोभा यया सा तथोक्ता । उदारसत्त्वामहाव्यवसाया । वसवो देवविशेषाः तेऽस्य सन्तीति वसुमत् तस्य भावः वसुमत्ता ‘शरदः कृतार्थता’ इत्यादाविव सामान्ये नपुंसकम् । तया आविद्योता समन्तात्प्रकाशमाना । अखिलदेवाधीशत्वात्सततमपि वसुसाहित्येन भासमानेत्यर्थः । महती देवता ‘यो वृत्रमवधीत्तन्महेन्द्रस्य महेन्द्रत्वम्' इति श्रुत्युक्तरीत्या प्राप्तमहत्त्वा । देवता इन्द्ररूपा देवता । अपरां परा पश्चिमा सा न भवतीत्यपरा पूर्वेत्यर्थः । तां काष्ठां दिशं समुपाश्रितेति ॥

 (४) पशुपतिपक्षे-- गौः वृषभः विसरतीति विसरा, पचाद्यच् । गवा विसरा गोविसरा । भिन्नं पदम् । वृषभचारिणीत्यर्थः । उपात्ता पीता श्रीः विषं यया सा तथोक्ता--

श्रीर्वेषरचनाशोभासंपत्सरलशाखिषु ।
वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽपि........ ॥

इति रत्नमाला । अत एवायं श्रीकण्ठ इत्युच्यते । उदाराणि महान्ति सत्त्वानि भूतपिशाचादीनि यस्यास्सा तथोक्ता । भूतेशत्वादिति भावः । वसुरग्निः सोऽस्यास्तीति वसुमान् तस्य भावः वसुमत्ता फाललोचनाग्निमत्तेत्यर्थः । तया यः अविः भाः । उदाहृतः कोशो न विस्मर्तव्यः । तेन द्योता द्युतिमती । यद्वा वसुः धनदः वसुमत्ता तद्वता तया अवौ शैले कैलासनाम्नि । यद्वा वसुर्धनदः मत्तः हृष्टो यस्मिन् तस्मित् अवौ कैलासगिरौ द्योतत इति तथोक्ता द्वयोरपि तयोः कैलासनिलयत्वादिति भावः । महती देवता महादेवत्वेन प्रसिद्धा देवता परां ‘दिक्ष्वैशानी दिगुत्तमा' इति प्रशस्ततया स्मृतिप्रतिपादितां काष्ठां दिशं समुपाश्रयते ॥

 (५) ग्रहपतिपक्षे-- गवां दिशां विसरेण निवहेन उपात्ता श्रीः प्रकाशो यस्यास्सा सर्वदिक्प्रकाशिकेत्यर्थः । अराण्यस्य सन्तीत्यरि चक्रं मत्वर्थीय इनिः । तन्नामकत्वात्कोका अत्र विवक्षिताः ‘कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः' इत्यमरः । अरिणां समूहः आरम् । सामूहिकं ‘प्राणिरजतादिभ्योऽञ्’ आरस्य सत्त्वमन्तःकरणं आरसत्त्वं तदुल्लासितं ययेत्युदारसत्त्वा प्रादिभ्यो धातुजस्य' इति बहुव्रीहौ लासितशब्दलोपः । वसवः किरणाः अस्य सन्तीति वसुमान् भूम्नि अतिशायने वा मतुप् । तस्य भावः वसुमत्ता तया अविद्योता अविर्मेषराशिः तस्मिन् द्योतत इति तथोक्ता मेषराशेस्तदुच्चस्थानत्वात्तत्र द्योतत इत्युक्तम् । यथोच्यते कार्तान्तिकैः— ‘स्वोच्चे प्रदीप्तः' इति । महती सर्वैस्त्रिसन्ध्यमभिवन्द्यमाना देवता सूर्याभिधानेत्यर्थः । परां 'दिशां प्राची' इत्युक्तरीत्या मुख्यां पूर्वां परां पश्चिमां च काष्ठां दिशं समुपाश्रयते उदयास्तमयार्थमिति भावः ॥

 (६) वसुमतीपक्षे-- गावो धेनवः अवयः मेषाः सरांसि कासाराः आपः अन्यानि नद्यादिजलानि । सरसां आपः सरोऽपा इति वा । एतेषां समाहारः गोऽविसरोऽपं ‘ऋक्पूरप्' इत्यादिना समासान्तोऽप्रत्ययः । तेन आत्ता श्रीश्शोभा यया तथोक्ता । उदाराः महान्तः सत्त्वाः जन्तवः यस्यां सा । यद्वा-- आरः अङ्गारकः ‘आरा चर्मप्रभेदिन्यां पुंसि भौमे शनैश्चरे' इति मेदिनी । स एव सत्त्वं गर्भो यस्यास्सा उत्कर्षेण आरसत्त्वा उदारसत्त्वा । सत्त्वशब्दो गर्भवाची । अत एव आपन्नसत्त्वेति गर्भिणीपर्यायशब्दश्श्रूयते । अङ्गारको हि वसुधागर्भोदितः । स हि ‘रोहिताङ्गो महीसुतः' इत्यभिधीयते । वसुमत्ता रत्नवत्ता निधिरूपधनवत्ता वा यत इयं वस्तुमतीत्याख्यायते अवयः गिरयः । वसुमत्ता च अवयश्च वसुमत्तावयः तैः द्योतत इति तथोक्ता । यद्वा-- विगतो द्योतो यस्यास्सा न भवतीत्यविद्योता । वसुमत्तया अविद्योता रत्नगर्भतया नित्यप्रकाशेत्यर्थः । महती विपुला देवता भूरूपा ‘हन्ताहमिमास्तिस्रो देवताः’ इत्यन्नशब्दाभिलपनीयाया भुवो देवतात्वश्रवणात् । परां काष्ठां श्रयते सर्वा दिशो व्याप्नोतीत्यर्थः ।

 (७) नरपतिपक्षे-- गोविसरात् तत्तद्देशभूनिवहात् दृष्टिप्रसरणात् बाणप्रयोगाद्वा उपात्ता सामन्तवर्गादुपाहृता श्रीः विभूतिः यया सा तथोक्ता उदारं सत्त्वं बलं प्राणो वा यस्यास्सा वदान्यचित्ता वा । वसुभिः धनैः मत्ता तृप्ता । अविभिः प्राकारैः भवनैः भाभिर्वा सर्वैर्वा द्योतत इति तथोक्ता । उदाहृतः कोशो न विस्मरणीयः । महती देवता भूपतिरूपा ‘महती देवता ह्येषा नररूपेण तिष्ठति’ इति स्मरणात् । परां काष्ठां उत्कृष्टां स्थितिं आधिराज्यपदमिति यावत् । समुपाश्रितेति ॥

 एवमष्टानां नवानां दशानां ततोप्यधिकानां वाऽर्थानां श्लेषश्शक्यः कर्तुं, अथाऽपि भगवत्या भारत्या भूयान् स्यात्क्लेश इति भिया विश्रम्यते ॥

 एवं प्रकृताप्रकृततदुभयगोचरतया श्लेषत्रैविध्यं प्रपञ्चितम् । तत्र सभङ्गाभङ्गरूपवैलक्षण्यं च सामान्यतः प्रदर्शितम् । इदानीं विशिष्य तद्भेदः प्रपञ्च्यते । अत्र कौस्तुभकारः-- "श्लेषस्सभङ्गोऽभङ्गश्च । विभिन्नानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्तरकत्वं सभङ्गत्वम् । समानानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्तरकत्वमभङ्गत्वम्। द्विविधोप्ययं श्लेषोऽर्थालङ्कार एव । अर्थान्तरस्य वाक्यार्थानन्वये नानार्थकपदसद्भावेऽपि श्लेषव्यवहारविरहात् । आद्यश्चाष्टधा-- वर्णपदलिङ्गभाषाविभक्तिप्रकृतिप्रत्ययवचनभेदात्” इत्यभाणीत् । तथाहि-

आद्योऽष्टधा वर्णपदलिङ्गभाषाविभक्तिभिः ।
प्रकृतिप्रत्ययाभ्यां च वचनैश्श्लेष ईरितः ॥७७



तत्र च वर्णश्लेषः.



विभक्त्यादिवशाद्यत्र नानावर्णैकरूपता ।
श्रूयते स हि विद्वद्भिर्वर्णश्लेष इतीर्यते ॥ ७८ ॥

 यत्रानेकेषां वर्णानां विभक्त्यादिबलादैकरूप्यं श्रूयते स वर्णश्लेष इत्यभिधीयते ॥

 यथा--

 श्रेयोहेतौ शुभकरभूषणवेणौ समुल्लसज्जानौ । त्वयि भगवति विनिविशतां चित्तं देवेश्वरे मम दयाळौ ॥ ८८१ ॥

 अत्र लक्ष्मीश्रीनिवासयोश्श्लेषः। तत्र लक्ष्मीविषये हे देवेश्वरे । देवानामीश्वरा ईशाना तस्यास्संबुद्धिः । ‘स्थेशभास' इत्यादिना वरजन्तत्वान्न ङीप् । हे भगवति! श्रेयसां हेतौ कारणे 'श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्’ इत्युक्तेः । शुभकराणि भूषणानि यस्यां सा तथोक्ता वेणिः प्रवेणी यस्यास्सा तथोक्ता तस्याम् । इदन्तोऽयं वेणिशब्दः । ‘वेणृ निशामनवादित्रादानगमनज्ञानचिन्तासु' इति भौवादिकाद्धातोरौणादिक इन् प्रत्ययः । ‘वेणिप्रवेणी' इत्यमरः । ‘करणश्रोणिवेणयः’ इति स्त्रीकाण्डे निगमः ‘देवस्स त्वामसूत द्विषदुपमृदितस्वर्वधूवेणिबन्धा’ इति मुरारिमिश्रप्रयोगश्च । समुल्लसन्ती रत्नमुकुराकारतया दीप्यमाने जानुनी यस्याः तस्यां तथोक्तायाम् । दया आळिस्सखी यस्याः तस्यां तथोक्तायां दयापरवशायामिति यावत् । त्वयि मम चित्तं विनिविशताम् । विनिपूर्वकाद्विशतेर्लोट् ‘नेर्विशः’ इत्यात्मनेपदम् ॥

 श्रीनिवासपक्षे तु-- देवेश्वरे इत्यत्र देवेति च्छेदः । हे देव! श्रेयस्यः प्रशस्यतराः हेतयः दिव्यायुधानि यस्य तस्मिंस्तथोक्ते । शुभः करयोः हस्तयोः भूषणं अलंकारभूतः वेणुः यस्य तस्मिन् गानकृते पाणिगृहीतवेणावित्यर्थः । समुल्लसन्ती कल्याणदिव्यविग्रहवत्तया प्रकाशमाना जाया यस्य तस्मिन् समुल्लसज्जानौ ‘जायाया निङ्' इति बहुव्रीहौ समासान्तो निङ् ‘लोपो व्योर्वळि’ इति यलोपः । ‘सुमज्जानये विष्णवे' इति श्रुतिरत्र प्रत्यभिज्ञाप्यते । दयाळौ कृपाशालिनि 'स्पृहि गृहि पति दयि’ इत्यादिना कर्तर्याळुच् । ईश्वरे अनौपाधिकनिर्देशादसंकुचितैश्वर्यवति भगवति त्वयि चित्तं निविशताम् । अत्र हेतौ वेणौ जानौ दयाळौ इत्यत्र हेति हेतु वेणि वेणु जानि जानु दयाळि दयाळु पदानां सप्तमीविभक्ताविकारोकारावेकोच्चारणविषयतया श्लिष्टाविति वर्णश्लेषोऽयम् । ईश्वरे भगवतीत्यत्र संबुद्धिसप्तमीविभक्त्योर्वक्ष्यमाणरीत्या श्लेषश्चाभ्युच्चीयते ॥

 यथावा--

 हृदयं सदाऽऽशरारौ दुर्गतिवाराशितरणदिव्यतरौ । कलशोदधिभवने मम कस्मिंश्चिद्देवते चिरं लगतात् ॥ ८८२ ॥  अत्रापि श्रीश्रीनिवासयोरेव श्लेषः । अशरारौ अहिंस्रे अनुग्रहमयत्वेनाज्ञातनिग्रहे इत्यर्थः । पक्षे-- आशरारावितिच्छेदः । आशराणां रक्षसां अरौ विरोधिनि ‘क्रव्यादोऽस्रप आशरः' इत्यमरः । दुर्गतिर्दारिद्र्यं वाराशिरिव दुर्गतिवाराशिः तस्य तरणे दिव्यतरौ कल्पशाखिनि ‘दारिद्र्यार्णवतारिणीम्' इत्याद्युक्तेः । 'दुर्गतिर्नरके नैस्व्ये' इति मेदिनी । पक्षे-- दुर्गतिः नरकः स एव वाराशिः तस्य तरणे दिव्या अद्भुता तरिः नौः तस्यां दिव्यतरौ । कलशोदधौ दुग्धजलधौ भवनं जन्म निवासश्च यस्य तस्मिंस्तथोक्ते कस्मिंश्चिद्दैवते श्रीरूपे श्रीनिवासरूपे च मम हृदयं सदा लगतात् । अत्र सदाऽऽशरारौ दिव्यतरौ इत्यत्र अशरारु आशरारि दिव्यतरु दिव्यतरिपदानां सप्तमीविभक्तावुकारेकायोर्वर्णयोश्श्लेषः ॥

 यथावा--

 स्वात्मनि चोदयमानं त्वां सुधियोऽब्जा क्ष सर्वदातरणौ । एकं हन्त विदन्तो मुक्ता विन्दन्त्यमन्दमानन्दम् ॥ ८८३ ॥

 सर्वस्य दाता सर्वदाता तस्य संबुद्धिः सर्वदातः! 'य आत्मदा बलदाः' । ‘सकलफलप्रदो हि विष्णुः' इत्युक्तरीत्या आत्मपर्यन्तसर्वस्वदानशीलेत्यर्थः । हे अब्जाक्ष ! अनेन "तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणि” इति विवक्षितश्रुत्यर्थस्स्मारितः । अणौ अणुपरिमाणे ‘एषोऽणुरात्मा' इति श्रुतेः । स्वात्मनि ‘स्वत्वमात्मानि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम्’ इत्युक्तरीत्या स्वामिनस्स्वस्य स्वभूते आत्मनि प्रत्यगात्मनि सुधियः सुप्तानि ज्ञानेन्द्रियाणि चोदयमानं प्रेरयन्तमित्यर्थः । अनेन ‘धियो यो नः प्रचोदयात्' इति श्रुतिः प्रत्यभिज्ञाप्यते । यद्वा-- 'य आत्मनि तिष्ठन्नात्मनोऽन्तरः’ इत्युक्तरीत्याऽन्तर्यामितया स्थित्वा ‘स नो देवश्शुभया स्मृत्या संयुनक्तु’ इत्युक्तप्रकारेण स्वप्राप्त्यौपयिकीर्धियः प्रेरयन्तमित्यर्थः । अत्र ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ इत्येतत् स्मर्तव्यम् । नैतावदेव, स्वात्मनि स्वशरीरभूते ‘यस्यादित्यश्शरीरम्’ इति श्रुतेः । 'आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । सर्वदा तरणौ च उदयमानं इति छेदः । तरणौ चेत्यन्वयः, आदित्ये च सर्वदा उदयमानं प्रकाशमानं त्वां अनेन च सन्दर्भेण 'स यश्चायं पुरुषे । यश्चासावादित्ये' इति श्रुतिखण्डः प्रत्यभिज्ञाप्यते । एकं उभयत्र विद्यमानमभिन्नम् । अनेन उदाहृतश्रुतिशेषस्थं 'स एकः’ इत्येतत्प्रत्यभिज्ञाप्यते । विदन्तः जानन्तः । अनेन 'स य एवं वित्' इत्येतत् । सुधियः विपश्चितः मुक्तास्सन्तः, अनेन ‘अस्माल्लोकात्प्रेत्य’ इत्युक्तार्चिरादिमार्गगमनपूर्वकवितमःपदप्राप्तिरुक्ता । अमन्दमानन्दं विन्दन्ति । अनेन 'एतमानन्दमयमात्मानमुपसङ्क्रामति’ इति श्रुत्यर्थस्समगृह्यत । उदाहृतश्रुत्यर्थो व्यासार्यैरित्थमभिवर्णितः 'सर्वोsपि विद्वानस्माल्लोकात्प्रेत्यान्नमयादिसमष्टिव्यष्टिविभूतिकं निरतिशयानन्दं परमात्मानं भोग्यभूतं भोक्ता सन्ननुभवति' इति । हन्तेतीदृशार्थपरिचिन्तनजनितहर्षे । अत्र तरण्यणुशब्दयोस्सप्तमीविभक्तौ इकारोकारयोर्वर्णयोश्श्लेषः पूर्ववदेव । सर्वदातः अणौ सर्वदा तरणौ इतिच्छेदाद्वक्ष्यमाणपदश्लेषश्च । एषु श्रेयोहेतावित्यादिषु त्रिषूदाहरणेषु हेतौ वेणौ इत्यादौ हेतुहेतिवेणुवेणीत्यादिविभिन्नानुपूर्वीकशब्दयोरेकोच्चारणगोचरतया प्रतिसन्धानेनार्थद्वयस्य बोधितत्वात्सभङ्गश्लेषसामान्यलक्षणानुगतिः । हेतौ इत्यादौ ‘अच्च घेः इत्यदादेशोत्तरमानुपूर्वीभेदाभावेऽप्यादेशिनि भेददर्शनाद्विभिन्नानुुपूर्वीकत्वं द्रष्टव्यम् । एवमन्यत्राप्यूह्यम् ॥


पदश्लेषः.


 पदश्लेषस्स यश्श्लेषः पदभेदनिबन्धनः ॥ ७९ ॥

 यथा वा--

 समुपनतवत्सलक्ष्मास्निग्धमनास्सत्सुहृद्यनित्यश्रीः । कलिकल्मषहृत्पद्मा कल्याणगुणाम्बुधिस्स्वभूरव्यात् ॥ ८८४ ॥

 अत्र श्रीश्रीशयोः श्लेषः । श्रीपक्षे-- समुपनतेषु शरणागतेषु वत्सला वात्सल्यशालिनी या क्ष्मा भूर्देवी तस्यां स्निग्धं स्नेहशालि मनो यस्यास्सा । भुवः ‘लक्ष्मीप्रियसखीं देवीम्' इति विशेषितत्वश्रवणात् । सत्सुहृद्यनित्यश्रीः सती साध्वी 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः । सुहृद्या अतिमात्रहृदयप्रिया सतां सुहृद्या वा नित्या अनश्वरी श्रीः शोभा संपत्तिर्वा यस्यास्सा तथोक्ता । कलिकल्मषहृत् कलिकलुषहारिणी । कल्याणाः गुणाः यस्यास्सा । स्वेन भवतीति स्वभूः, स्वेच्छायत्तजन्मा न तु कर्मकृतजनिः अम्बुधौ स्वभूः अम्बुधिस्वभूः । पद्मा श्रीः अव्यात् पायात् । इति ॥

 श्रीशपक्षे तु-- वंत्से-- वक्षसि ‘उरो वत्सं च' इत्यमरः । लक्ष्म श्रीवत्साख्यं चिह्नं तत् समुपनतं प्राप्तं येन सः समुपनतवत्सलक्ष्मा । सत्सु ब्रह्मवित्सु स्निग्धमनाः 'स च मम प्रियः’ इति गानात् । हृद्या वक्षस्स्था नित्या ‘नित्यैवैषा जगन्माता’ इत्युक्तेः श्रीः लक्ष्मीः यस्य स तथोक्तः । कलिकल्मषहृत्पत् मा इति च्छेदः। कलिकल्मषं हरत इति तथोक्तौ पदौ चरणौ यस्य स तथोक्तः ‘पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः ॥

यावत्स पादपद्माभ्यां पस्पर्शेमां वसुन्धराम् ।
तावत्पृथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥

इत्येतदत्रानुसंहितम् । कल्याणगुणाम्बुधिः स्वभूः भगवन् ‘केशवो माधवस्स्वभूः' इत्यमरः । मा मां अव्यादिति योजना अनन्वादेशेऽपि वैकल्पिको मादेशो भवत्येव ‘एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः’ इत्युक्तेः । पद्मा इत्यत्र संहितायामनुनासिकनकारादेशाभावः, ‘यरोऽनुनासिकेऽनुनासिको वा’ इति तस्य वैकल्पिकत्वानुशासनात् । अत्र 'समुपनतवत्सलक्ष्मा’ इत्यादौ पदभेदनिबन्धनः श्लेषः । अयमेव सभङ्गश्लेष इति काव्यदर्पणकृत् ॥



लिङ्गश्लेषः.



लिङ्गश्लेषस्स विज्ञेयो ह्रस्वदीर्घसमासतः । स्त्रीपुंनपुंसकानां चेच्छब्दानां तुल्यरूपता ॥

 ह्रस्वैर्दीर्घैर्वा वर्णैः लघोर्दीर्घत्वेन दीर्घस्य लघुत्वेन वा समासैर्वा स्त्रीपुंनपुंसकलिङ्गानां सारूप्यं वर्ण्यते चेत्स लिङ्गश्लेष इत्यर्थः ॥  यथा--

 किमपि महस्स्वानस्मान् श्रेयो नयता दधत्कराग्रेऽब्जम् । मातृत्वभाक्त्रिजगतां नितरां जाग्रन्नतेप्सितविधाने ॥ ८८५ ॥

 अत्रापि श्रीश्रीशयोरेव श्लेषः । त्रिजगतां मातृत्वं जननीत्वं पदत्रयेण मितिकर्तृत्वं च भजतीति मातृत्वभाक् । भजतेर्ण्विः । नितरां नतानां ईप्सितविधाने जाग्रत् जागरूकं जागरूकश्च । पक्षे-- 'नाभ्यस्ताच्छतुः' इति नुमभावः। कराग्रे अब्जं पद्मं शङ्खं च दधत् दधानं दधानश्च । किमपि महः तेजस्त्वेनाध्यवसितं वस्तु विशेषणमहिम्ना श्रीरूपमिति लक्ष्यते । स्वान् स्वकीयान् अस्मान् श्रेयः कल्याणं नयताम् ॥

 पक्षे-- महस्स्वानित्येकं पदम् । महस्स्वान् तेजस्वी विशेषणमहिम्ना भगवानिति लभ्यते । अस्मान् किमपि श्रेयो नयतामिति योजना । महस्वानित्यत्र ‘तसौ मत्वर्थे’ इति भसंज्ञायां न पदकार्यरुत्वादि । अस्मिन्पक्षे सकारस्य 'अनचि च' इति द्वित्वं बोध्यम् ॥

 यथावा--

 पद्मानुरागिशुभदृक्छुकवागमृताब्धिजाततयशोभाक् । पायादेव महोज्ज्वलभामामणिहारिहृत्सततमस्मान् ॥ ८८६ ॥

 अत्रापि श्रीश्रीशयोरेव श्लेषः । श्रीपक्षे-- प्रथमैकवचनान्तानि विशेषणानि । श्रीशपक्षे संबुद्ध्यन्तानीति द्रष्टव्यम् । पद्मेषु अनुरागिणी शुभा दृक् यस्यास्सा कमलसुहृन्नयनेत्यर्थः । शुकस्य कीरस्य वागिव वाक् यस्यास्सा शुकवाक् । अमृताब्धिजा दुग्धाम्बुधिजनिता । ततं विस्तृतं यशो भजत इति ततयशोभाक् । महोज्ज्वला अत्युज्ज्वला भाः यस्यास्सा । मा मणिहारिहृत् इति छेदः । मणिहारोऽस्मिन्नस्तीति तथोक्तं हृत् वक्षो यस्यास्सा । मा लक्ष्मीः सततं अस्मान् पायादेव रक्ष्यादेव नात्र संदेह इति भावः ॥

 भगवत्पक्षे-- पद्मायां लक्ष्म्यां अनुरागिणी शुभा दृक् यस्य सः तस्य संबुद्धिः । शुकस्य शुकमहर्षेः वाक् श्रीभागवतरूपा सैव अमृताब्धिः तस्माज्जातमिति शुकवागमृताब्धिजं आततं च यद्यशः तद्भजतीति तथोक्तः तस्य संबुद्धिः श्रीभागवतप्रख्यातविपुलकीर्ते ! इत्यर्थः । महोज्ज्वलभामामणिहारिहृदित्येकं पदं समस्तम् । ज्वलतीति ज्वला पचाद्यच् । महसा ज्वला महोज्वला 'अनचि च' इति जकारस्य द्वित्वम् । या भामामणिः लक्ष्मीः तया हारि मनोहरं हृत् वक्षः यस्य तस्य संबुद्धिः । पायाः देवेतिच्छेदः । हे देव ! भगवन् ! सततं अस्मान् पायाः अव्याः, पाधातोराशीर्लिङि मध्यमैकवचनम् । पूर्वत्र प्रथमैकवचनम् । अनयोः पद्ययोः दधत् इत्यादीनां पुंनपुंसकलिङ्गानामेकोच्चारणगोचरत्वाल्लिङ्गश्लेषः । ईदृशं च लिङ्गश्लेषोदाहरणमलङ्कारकौस्तुभकृदुदाहरणानुरोधेन । वस्तुतस्तु तन्मतेन नेदमुदाहरणं, तेन हि वर्णाद्यष्टविधश्लेषाणां सभङ्गत्वं प्रतिज्ञाय ‘विभिन्नानुपूर्वीकशब्दप्रतिसन्धानबोध्यार्थान्तरकत्वं सभङ्गत्वम्’ इति सभङ्गतां परिष्कृत्य--

उन्निद्राब्जपरिष्कृतप्रवरदोः प्रह्वीभवद्दैवतः
श्रेणीमौळितटावघट्टितमणिज्योत्स्नासमुल्लासितात् ।

उन्मीलद्धनसारसन्ततिसदृक्फुल्लारविन्दाभदृ
ग्रूपं कैटभभेदिनो मदनजिद्वा चन्द्रिका वाऽवतु ॥

इत्युदाहृत्य ‘अत्र दोरित्यादीनां रूपं क्लीबपुंस्त्रीलिङ्गेषु समानम्' इत्युक्तम् । एवं च तदुदाहरणे लिङ्गत्रयस्य दधदित्याद्यस्मदुदाहरणे पुंनपुंसकलिङ्गयोश्चानुपूर्व्या एकाकारतया विभिन्नानुपूर्विकतायाः कथमप्यदर्शनान्न भवतीदं सभङ्गविशेषलिङ्गश्लेषोदाहरणं, अपितु हर्यादिशब्दवदभङ्गश्लेषोदाहरणमेव ॥

 ननु हर्यादिशब्देषु लिङ्गभेदाभावादानुपूर्व्या अविभिन्नत्वमस्तु प्रवरदोरित्यादौ दधदित्यादौ च तत्सद्भावाद्विभिन्नत्वमानुपूर्व्या इति चेन्न, लिङ्गभेदस्य तदप्रयोजकत्वात् । शब्देष्वानुपूर्वी नाम अव्यवहितोत्तरत्वसंबन्धेन पूर्वपूर्ववर्णविशिष्टचरमवर्णत्वरूपा । सा च प्रदर्शितस्थले अविभिन्नैव दृश्यत इति क्वास्ति विभिन्नानुपूर्वीकता । न च पुंनपुंसकादिरूपार्थभेदात्तद्भेदनिर्वाहः, अर्थभेदस्यापि तदप्रयोजकत्वात् । लिङ्गस्य शब्दवृत्तिताभ्युपगमेऽपि न लिङ्गमानुपूर्वीघटकं भविष्यति । लिङ्गं हि नाम स्त्रीत्वपुंस्त्वादिरूप उदात्तत्वानुदात्तत्वादिवत्कश्चन शब्दवृत्तिधर्मः पृथगेवानुपूर्व्याः । अत एव ‘तटादिशब्देषु समानानुपूर्वीकेषु लिङ्गत्रयम्’ इति वैयाकरणभूषणोक्तं संगच्छते । लिङ्गस्याप्यानुपूर्व्यन्तःपातित्वाभ्युपगमे ‘अब्जेन त्वन्मुखं तुल्यं कमलानां त्वदीक्षणे’ इत्यादावप्यब्जकमलपदयोर्लिङ्गभेदप्रयुक्तानुपूर्वीभेदेन सभङ्गश्लेषत्वापत्तिः । इष्टापत्तौ च तत्राभङ्गश्लेष इति सकलालङ्कारिकाभिमतिविरोधप्रसङ्गः । तस्मान्न लिङ्गमानुपूर्वीभवितुमर्हतीति विभिन्नानुपूर्वीकताया उपदर्शितोदाहरणगतप्रवरदोरित्यादिशब्देष्वसम्भवात्तेषां सभङ्गावान्तरलिङ्गश्लेषोदाहरणत्वं न युज्यते 'बिभ्रन्नीलोत्पलरुचिं हरिरव्यात्तदक्षि वा’ इति काव्यदर्पणकृतो लिङ्गश्लेषोदाहरणं तु तन्मते सम्यगेव । तस्या भङ्गतायामप्यविरोधात् । तेन ह्यष्टविधश्लेषान्तःपातिपदश्लेषमुदाहृत्यायमेव सभङ्गश्लेष इत्युक्तम् । न तु भेदान्तरस्याभङ्गत्वं सभङ्गत्वं वा कण्ठतः । तस्मात् पदश्लेषातिरिक्तानां वर्णादिश्लेषाणां यथायथं सभङ्गे अभङ्गे वा श्लेषे अन्तर्भाव इति तदाशय उन्नीयते । साहित्यदर्पणकारस्तु--

"श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष इष्यते ।
वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ।
श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।

इत्यादिना अष्टविधान् श्लेषान्निरूप्य,

पुनस्त्रेधा सभङ्गोथाभङ्गस्तदुभयात्मकः ॥

इति पुनस्त्रिधा विभज्य ‘एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम्" इत्यभाणीत् । एवंच काव्यदर्पणादिमते ‘बिभ्रन्नीलोत्पलरुचिम्' इत्यादेः दधदित्यादेश्चाभङ्गश्लेषत्वेऽपि लिङ्गश्लेषोदाहरणत्वं निरर्गळमेव । अलङ्कारकौस्तुभमते तूपपादितप्रकारेण तदीयलक्षणासङ्गतेः ‘प्रवरदोः' इत्यादितदीयलिङ्गश्लेषोदाहरणमसमीचीनमेव । इदं तु तन्मतेऽप्युदाहरणं भविष्यति--

 यथा--

 त्वमखिलजगदानन्दी त्वमशुभहारी त्वमेव शभकारी । न्यस्य परमात्मनीने मनोरमे त्वयि हरेऽत्र परमेनः ॥ ८८७ ॥

 अत्रापि श्रीश्रीशयोरेव श्लेषः । भृशं आत्मने परमात्मने हिता आत्मनीना । तस्यास्संबुद्धिः हे आत्मनीने! ‘आत्मन्विश्वजन' इत्यादिना हितार्थे खप्रत्ययः । ‘आत्माध्वानौ खे’ इति प्रकृतिभावः । हे रमे ! त्वं अखिलजगत् आनन्दयतीत्यखिलजगदानन्दी त्वं अशुभं हरतीत्यशुभहारी ल्वमेव शुभं करोतीति शुभकारी च । सर्वत्र कर्मण्यणि 'टिढ्ढाणञ्' इति ङीप् । अत्र त्वयि अस्यां त्वयि मनो न्यस्य परं भरन्यासोत्तरकालिकं एनः अघं ‘कलुषं वृजिनैनोऽघम्' इत्यमरः । हरे हरामि । पुर्वाघस्य विनष्टत्वादुत्तराघस्याश्लेषादिति भावः । हृञस्तङि लट्युत्तमैकवचनम् ॥

 भगवत्पक्षे-- आत्मनि इने मनोरमे परमे नः इति छेदः । हे हरे ! त्वं भृशं ‘अखिलजगत् आनन्दयतीति तथोक्तः त्वं अशुभहारी । त्वमेव शुभकारी च । आभ्यां विशेषणाभ्यां—

अशुभानि निराचष्टे तनोति शुभसंततिम् ।
स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मंगळं परम् ॥

 इति प्रमाणार्थस्संगृहीतः । सर्वत्र 'सुप्यजातौ’ इति णिनिमनोरमे सैन्दर्यसौशील्यादिकल्यणगुणैश्चित्तापहारिणि इने सः वैश्वरं परमे आत्मनि सर्वान्तरात्मनि अत्र अस्मिन् त्वयि नः अस्मान् न्यस्य न्यस्याः । त्वयि न्यस्तभरान् कुर्या इत्यर्थः । निपुर्वकादस्यतैर्दैवादिकाल्लोण्मध्यमैकवचनम् । अत्र जगदानन्दीत्यादिविशेषणत्रये स्त्रीपुल्लिङ्गयोश्श्लेषः, तयोरैकरूप्येण श्रवणात् । आनन्दत्यादेः ङ्यन्तत्वणिन्यन्तत्वकृता विभन्नानुपूर्वीकतेति तादृशशब्दप्रतिसन्धानबोध्यत्वादर्थद्वयस्य सामान्यलक्षणसंगतिः । न्यस्य हरे इत्यत्र सुप्तिङ्प्रत्यययोश्श्लेषः । आत्मनीने मनोरमे परमेनः इत्यत्र पदश्लेषश्चेत्यपि विभावनीयम् ॥  यथावा--

 साधुजनपक्षपाता सकलपरित्यक्तवायसत्राता । सुरराड्बहुमानेता सुमहाश्श्रीस्स्फुरतु मम जगन्माता ॥ ८८८ ॥

 अत्रापि भगवतो लक्ष्म्याश्च श्लेषः । साधुजनपक्षस्य पाता रक्षिता । साधुजने पक्षपातो यस्यास्सा तथोक्ता च । सकलपरित्यक्तस्य ‘स पित्रा च परित्यक्तः' इत्युक्तरीत्या सकललोकोपेक्षितस्य वायसस्य इन्द्रात्मजस्य काकस्य त्राता पालयिता । उक्तविधो वायसस्त्रातो यया सा च । इदं च पाद्मोत्तरे प्रसिध्यति । जगतां माता पदत्रयेण मितिकर्ता जननी च । सुरराट् देवानामधीशः । बहु इति भिन्नं पद्मुमुत्तरान्वयि । मानेता श्रीनायकः । पक्षे-- सुरराडित्यादि समस्तं पदं, सुरराज इन्द्रस्य बहुमानेन अतिशयितेन पूजनेन इता युक्ता । इणः क्तः । तत्पूजितेत्यर्थः । प्रसिध्यतीदं वैष्णवे पुराणे । सुमहती अतिपूज्या श्रीः लक्ष्मीः संपत्तिर्वा यस्य स तथोक्तः । इदं मानेतेत्यस्यैव विशेषणम् । पक्षे-- सुमहाः शोभनतेजाः । सुमहेत्यादन्ततया वा छेदः । शोभनोत्सवेत्यर्थः । श्रीः लक्ष्मीः मम स्फुरतु प्रकाशताम् । अत्र पुंस्त्रीलिङ्गयोरेकोच्चारणविषयतया लिङ्गश्लेषः । साधुजनपक्षपातृत्वसाधुजनपक्षपातात्वादिरूपविभिन्नानुपूर्वीकशब्दप्रतिसंधानेनार्थद्वयबोधात्सभङ्गत्वमिति ध्येयम् ॥


भाषाश्लेषः.


भाषाश्लेषस्तु भिन्नार्थनानाभाषैक्यतो भवेत् ॥ ८१

 भिन्नार्थकानां नानाभाषाणां श्लेषणे भाषाश्लेषः ॥
 यथा--

 बाहासमं सहजसंपरिणाहिदयारसं सरलभासम् । सुगळन्तमोहमीडे कमलावासंतमहिहरेसन्तम् ॥ ८८९ ॥

 अत्र सांस्कृती भाषा भगवत्परा, प्राकृती तु लक्ष्मीपरा । तथा हि, भगवत्पक्षे-- बाहासमं बाहाभिः भुजाभिः असमं असदृशं सकलभुवनरक्षणविचक्षणलोकोत्तरचतुर्बाहुमित्यर्थः । सहजसंपरिणाहिदयारसं सहजः निसर्गसिद्धः संपरिणाही अतिविपुलः दयारसः यस्य तं तथोक्तम् । सरलभासं सरला उदारा भाः यस्य तं तथोक्तम् । सुगळं शोभनः रेखात्रयलक्षणवत्तया कल्याणः गळः कण्ठो यस्य तं तमोहं तमः अज्ञानं हन्तीति तथोक्तम् ‘अन्येष्वपि दृश्यते’ इति हन्तेर्डः, सुगळशब्दान्त्यानुस्वारस्य 'वा पदान्तस्य’ इति वैकल्पिकः परसवर्णः । हरति संहरतीति हरः अहीनां हरः अहिहरः नागान्तकः तस्मिन् सन्तं स्थितं तार्क्ष्यवाहनमित्यर्थः । कमलावासं श्रीनिवासं ईडे स्तौमि ॥

 लक्ष्मीपक्षे-- बाहासमं बाधाशमां, शमयतीति शमा, पचाद्यच् । बाधायाः जगत्पीडायाः शमा तां तथोक्ताम् । "खघधथभां ह:’ इति सूत्रेण बाधाशब्दधकारस्य हकारः । ‘शोस्सल्' इत्यनेन शमशब्दशकारस्य सकारः ‘स्वरस्य बिन्द्वमि' इति समाशब्दाकारस्य ह्रस्वः । एवमुत्तरत्रापि । सहजसं सहयशसं यशसा सहितां ‘तेन सहेति' । इत्यादिना समासे 'वोपसर्जनस्य' इत्यस्य वैकल्पिकत्वात्सभावाभावः । ‘आदेर्जः' इति यशश्शब्दयकारस्य जः । ‘अन्त्यहलोऽश्रदुदी" इत्यन्त्यसकारलोपः । ‘स्नमदामशिरोनभोनरि’ इति यशश्शब्दस्य पुंस्त्वेऽपि बहुव्रीहौ स्त्रीत्वम् । ह्रस्वः पूर्ववत् । परिणाहिदयारसं विपुलकरुणारसाम् । प्रायो लुक्कगचजतदपयवाम्' इत्यत्र प्रायोग्रहणाद्दयाशब्दयकारस्य नलुक् । ‘समासे वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपीष्यते’ इत्युक्तत्वात् सुदोह इत्यादाविव दयाशशब्ददकारस्य न लुक् । सरलभासं सरलभाषां उदारगिरमित्यर्थः । ‘शोस्सल्' इति षकारस्य सकारः । भासमित्यस्य समासे पूर्ववद्भिन्नपदत्वेन भकारस्यादितया ‘खघथधभां हः' इति न हकारादेशः, ‘अखोः' इत्यनुवृत्तेः । ऐकपद्यविवक्षायामपि प्रायोग्रहणानुवृत्तेः ‘पट्टणभवो’ इत्यादाविव न हकारः ह्रस्वः प्राग्वदेव । सुगळ्न्तमोहमिति समस्तं पदम् । सुगळन्मोहां सुगळन्तेत्यत्र ‘शतृशानचोः' इति सूत्रेण न्तादेशः । ततो मोहशब्देन सुष्ठु गळन्तो मोहो यस्या इति पञ्चमीबहुव्रीहिः । सर्ववैचित्यनिवारयित्रीमित्यर्थः । ह्रस्वः अहिहरे अहिधरे शेषाद्रौ स्थितामित्यध्याहारः । समासस्स्यैकपदत्वविवक्षया धकारस्यानादित्वलाभात् 'खघथध' इत्यादिना हादेशः । सन्तं शान्तां प्रसन्नामिति यावत् । तं तां कमलावासं पद्मावासां । ईडे । उड्वादेराकृतिगणत्वान्नेह लत्वम् । अत्र संस्कृतप्राकृतभाषयोरेकोच्चारणविषयतया भाषाश्लेषः। एवं शौरसेन्यादिभाषाश्लेषोऽप्यूह्यः ॥


विभक्तिश्लेषः.



 सुपां तिङां च श्लेषश्चेद्विभक्तिश्लेष ईरितः ॥

 केवलसुपां केवलतिङां मिळितानां वा सुप्तिङां श्लेषश्चेत्स विभक्तिश्लेष इत्युच्यते ॥

 यथा--

 उरुगायान्यथ च सदानन्दानि महामहांसि भूयांसि । फणिशिखरिशिखरसीमनि विलगन्ति जगन्ति चावन्ति ॥ ८९० ॥

 अत्रापि भगवतो लक्ष्म्याश्च श्लेषः । तथाहि-- उरुः विपुलः गायः कीर्तिः येषां तानि । अथ च सन् आनन्दो येषां तानि । भूयांसि अतिबहूनि । बहुत्वं चात्र वैपुल्यं न तु सङ्ख्याविशेषः । बहुशब्दस्य ‘बहुषु बहुवचनम्' इत्यादौ सङ्ख्यायामिव ‘अल्पं वा बहु वा यस्य’ इत्यादावल्पत्वप्रतियोगिवैपुल्येऽपि प्रयोगदर्शनात् ‘बहु स्यात्र्यादिसङ्ख्यासु विपुलेऽप्यभिधेयवत्' इति मेदिनी । वैपुल्यं चात्र गुणतस्स्वरूपतश्च । तथाचानन्तकल्याणगुणानि सर्वव्यापीनि चेत्यर्थः । महामहांसि तथात्वेनाध्यस्तो भगवानित्यर्थः । फणिशिखरिशिखरसीमनि विलगन्ति अवतिष्ठन्ते । तत्र हेतुमभिप्रयन्नाह-- जगन्ति लोकान् अवन्ति रक्षन्ति च । लगतेरवतेश्च लट्प्रथमबहुवचनम् ॥

 पक्षे फणिशिखरिशिखरसीमनि विलगन्ति विद्यमानानि जगन्ति अवन्ति त्रायमाणानि । भूयांसि उक्तोऽर्थः । महामहांसि द्वितीयाबहुवचनम् । तत्त्वेनाध्यवसितां श्रियमित्यर्थः । उरु अधिकं यथा स्यात्तथा गायानि गायेयं तद्यशःकीर्तनं करवाणीत्यर्थः । अथच गानानन्तरं च सदा सर्वदा नन्दानि नन्देयं प्रमोदेयेत्यर्थः । उभयत्र प्रार्थनायां लोडुत्तमैकवचनम् । अत्र विलगन्तीत्यादौ सुप्तिड़्विभक्त्योः श्लेषः ॥

 यथावा--

 चरणाम्बुजशरणगतं कंचिदपि त्वं पुराऽपि न निरास्थः । अद्यत्वेऽच्युत मदवनविषयेऽपि तथैव को विशयः ॥ ८९१ ॥

 हे अच्युत! आश्रितरक्षणव्रतान्नच्यवतीत्यच्युत इति निरुक्तिः तस्य संबुद्धिः । इदं च प्रकृतविवक्षितार्थोपस्कारकं, चरणाम्बुजशरणगतं कंचिदपि जातिवृत्तादिनिहीनमपीति भावः । पुराऽपि पूर्वमपि न निरास्थः न निराकार्षीः । निःपूर्वकादस्यतेर्लुङि सिपि च्लेरङि ‘अस्यतेस्थुक’ इति थुक् । अद्यत्वे मदवनविषये मद्रक्षणविषयेऽपि तथैव न निरास्थ एव निरपेक्षो न किंतु सापेक्ष एवेति भावः । निर्गता आस्था यस्य निरास्थः न निरास्थः ननिरास्थः । ‘आस्था त्वालम्बनास्थानयत्नापेक्षासु योषिति' इति मेदिनी । अत्र तिङ्सुब्विभक्त्योः श्लेषः ॥

 यथावा--

 सुमनोहृत्सरसीरुहनिवासभागब्जलोचनाऽनर्घश्रीः । शिशिरकृपासारस्स्याद्भूयान्मयि सर्वदा च भवतस्तप्ते ॥ ८९२ ॥

 अत्र श्रीश्रीपतिविषयकः प्रथमासंबुद्धिविभक्त्योः श्लेषः । श्रीपक्षे सुमनोहृदिति व्यस्तं पदं, अतिमनोहारिणीत्यर्थः । समस्तं सरसीरुहविशेषणं वा । सरसीरुहे निवासभाक् । अनर्घश्रीः दिव्यशोभा । सर्वं ददातीति सर्वदा च । अखिलाभीष्टदात्रीत्यर्थः । एवंविधा अब्जलोचना श्रीरित्यर्थः ‘पद्मदलायताक्षि’ इत्येतदत्र स्मर्तव्यम् । शिशिरकृपासारस्स्यात् । ल्यब्लोपे पञ्चमी । शीतलदयासरसतां प्राप्येत्यर्थः । द्वितीयसकारस्य ‘अनचि च' इति द्वित्वमर्थान्तरानुरोधात् । भवतः संसारेण । सार्वविभक्तिकस्तसिः। तप्ते मयि भूयात् सन्निधत्तामित्यर्थः ॥

 श्रीपतिपक्षे तु-- सुमनसां विदुषां हृत्सरसीरुहे निवासभाक् सद्भिर्ध्येयेत्यर्थः । संबुद्ध्यन्तमिदमब्जलोचनेत्यस्य विशेषणम् । एवमग्रेऽपि । अनर्घा श्रीः लक्ष्मीर्यस्य तस्य संबुद्धिः । हे अब्जलोचन ! भगवन् ! पुण्डरीकाक्ष ! भवतः तव भूयानिति छेदः अतिबहुः शिशिरः कृपासारः तप्ते आध्यात्मिकादितापग्रस्ते मयि सर्वदा सदा स्यात् प्रसरतादिति यावत् । अत्र पदश्लेषोऽपि द्रष्टव्यः ।

 यथवा--

 भक्तार्थदया सततं सुरेषु दत्ताभयाऽलमुदधिजया । ननु सर्वभूतधात्र्यादरतस्तत्रेऽखिलं भुवनमेतत् ॥ ८९३ ॥

 अत्र भूश्रीविषयकः प्रथमातृतीययोः श्लेषः । भक्तानां अर्थं अभीष्टं पुरुषार्थं ददातीति भक्तार्थदा तथोक्तया । पक्षे भक्तेभ्य इयं भक्तार्था 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्’ इति समासो विशेष्यलिङ्गता च । तादृशी दया कृपा यस्यास्सा तथोक्ता सततं सुरेषु देवेभ्य इत्यर्थः । ‘सममब्राह्मणे दानम्’ इत्यादाविव संप्रदानस्यैवाधिकरणत्वविवक्षया सप्तमी । अलं दत्ता आभा दीप्तिः यया सा तथोक्ता तया । पक्षे सुरेषु विषये दत्तं अभयं यया सा तथोक्ता । उदधेः क्षीरोदाज्जाता उदधिजा । तया तथोक्तया । पक्षे उत् उत्कृष्टः अधि अधिकः जयः यस्यास्सा तथोक्ता । सर्वभूतानां धात्र्या सवित्र्या लोकमात्रा । श्रियेत्यर्थः । अखिलं एतद्भुवनं दरतः संसारभयात् तत्रे त्रातम् । कर्मणि लिट् । 'भीत्रार्थानाम्’ इति पञ्चमी । पक्षे सर्वभूतधात्री आदरत इति छेदः । सर्वभूतधात्री भूः ‘भूतधात्र्यब्धिमेखला' इत्यमरः । आदरतः आदरात् अखिलं एतद्भुनं तत्रे त्रायते स्म । त्रायतेः कर्तरि लिट् । अत्र सर्वभूतधात्र्यादरत इत्यत्र पदश्लेषोऽपि वेदितव्यः ॥

 यथावा--

 क्षेमकृतो दामभृतस्स्थेमपुषस्सकलदुरितनाममुषः । सरसीरुहवासिन्यास्सदृशा ददतां श्रियं ममापाङ्गाः ॥ ८९४ ॥

 अत्र सरसीरुहवासिन्यास्सदृशा इति तदपाङ्गानां विशेषितत्वात् क्षेमकृत इत्यादीनि पदानि तस्यास्तेषां चाविपरिणामेनैव विशेषणानीति बोध्यम् । अत एव षष्ठीप्रथमयोर्विभक्त्योः एकवचनबहुवचनयोश्च श्लेष इत्यवधेयम् ॥

 यथावा--

 नमदवनास्वप्नतरावम्लानौ सर्वसंपदामवनौ । हृदयमनुविहरतां फणिगिरिधामनिविष्टपादौ नः ॥

 अत्र भगवत्पक्षे सप्तम्याः तत्पादपक्षे प्रथमायाश्च विभक्तेः श्लेषः । तथाहि-- नमतां नन्तॄणां अघने प्रीणने विषये अस्वप्नतरुस्सुरद्रुमः तस्मिंस्तथाभूते सर्वेप्सितदातरीति भावः । पक्षे नमदवने अतिशयेनास्वप्नौ अस्वप्नतरौ अतिजागरूकावित्यर्थः । प्रथमाद्विवचनम् । एवमग्रेऽपि । अम्लानौ अविद्यमाना म्लानिः हर्षक्षयो यस्य तथोक्ते । पक्षे न म्लानौ अम्लानौ ग्लानिविहीनावित्यर्थः । सर्वसंपदां अवनौ भूमौ आधारभूत इत्यर्थः । पक्षे रक्षकावित्यर्थः । फणिगिरिः धाम स्थानं यस्य तस्मिन् फणिगिरिधामनि । विष्टपानां लोकानामादौ प्रथमे जगत्कारणभूते परस्मिन् ब्रह्मणि नः अस्माकं हृदयं चित्तं अनुविहरताम् । लग्नं भवत्वित्यर्थः । अनुपूर्वकात् हृञस्तङि लोट्प्रथमपुरुषैकवचनम् । पक्षे फणिगिरिधामनिविष्टपादौ इति समस्तं पदम् । फणिगिरिरिति यद्धाम स्थानं तस्मिन् निविष्टः स्थितः श्रीनिवास इत्यर्थः । तस्य पादौ चरणौ । नः हृदयं चित्तं अनु 'अनुर्लक्षणे' इति कर्मप्रवचनीयसंज्ञायां ‘कर्मप्रवचनीययुक्ते द्वितीया’ इति हृदयशब्दाद्द्वितीया । विहरतां क्रीडताम् । हृञः परस्मैपदिनो लोट्प्रथमपुरुषद्विवचनम् । ‘तस्थस्थमिपां तांतंतामः’ इति तसस्तामादेशः । अत्रैकवचनद्विवचनयोः इकारोकारयोः इकाराकारयोर्वर्णयोयोश्च श्लेषः ॥

 यथावा--

 द्राघीयोविख्यातावतिप्रशस्तौ नितान्तपरिपुष्टौ । चेतोहरौ सदाऽऽस्तां दोषौदास्यं वितन्वतोऽस्य मम ॥ ८९६ ॥

 द्राघीयसी विख्यातिर्यस्य तस्मिन् तथोक्ते इति भगवत्पक्षे । द्राघीयो यथा स्यात्तथा विख्यातौ द्राघीयांसाविति विख्याताविति वा तद्भुजपक्षे । एवमग्रेऽपि । अतिशयिता प्रशस्तिर्यस्य सः अतिप्रशस्तिः तस्मिन् । पक्षे अतिशयेन प्रशस्तौ । नितान्ता परिपुष्टिर्यस्य तथोक्ते । पक्षे नितान्तं परिपुष्टौ पुष्टिमन्तौ । हरौ उक्तविधे भगवति दोषौदास्यं दोषेषु औदास्यं उदासीनतां वितन्वतः अस्य मम चेतः कर्तृ सदा आस्तां उपविशतात् ‘आस उपवेशने' लोट्प्रथमपुरुषैकवचनम् । पक्षे चेतोहराविति समस्तं पदम् । सदा स्तां दोषौ दास्यं इति छेदः । अस्य प्रस्तुतस्य भगवतः दोषौ बाहू 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । दास्यं शेषत्वं वितन्वतः विस्तारयतः मम सदा चेतोहरौ चित्तहारिणौ स्तां भवताम् । अस्तेर्लोट्प्रथमपुरुषद्विवचनं, ‘श्नसोरल्लोपः' इत्यकारलोपः । अत्र सप्तमीप्रथमयोर्विभक्त्योः तदेकवचनद्विवचनयोश्च श्लेषः । सदास्तामित्यत्र पदश्लेषः । तिङ्विभक्तिवचनश्लेषश्च ॥

 यथावा--

 आदृतसुमनस्सेवे शुभगुणमहिते सदाऽपि लक्ष्मिपदे । घनरुचिभूम्नि यशस्विनि ननु मेधावति मनोहरे भवति ॥ ८९७ ॥

 अत्र श्रीश्रीनिवासयोर्विषये क्रमेण संबुद्धिसप्तम्योर्विभक्त्योश्श्लेषः । तथाहि, श्रीपक्षे-- आदृतसुमनः सेवे शुभगुणमहि ते सदा अपि लक्ष्मि पदे ननु मेधावति मनोहरे भवति इति छेदः । आदृताः सुमनसो बुधाः यया सा आदृतसुमनाः तस्यास्संबुद्धिः हे आदृतसुमनः ! शुभगुणानां महि ! निवासभूमे ! घनः सान्द्रः रुचिभूमा यस्यास्सा तस्यास्संबुद्धिः हे घनरुचिभूम्नि ! 'अन उपधालोपिनोऽन्यतरस्याम्' इति वैकल्पिको ङीप् । यशस्विनि ! पूर्ववत्संबुद्धिः । मेधा अस्या अस्तीति मेधावती तस्यास्संबुद्धिः । मनोहरे ! मनोज्ञे ! हे भवति ! पूज्ये मातरिति वा । हे लक्ष्मि ! सदाऽपि ते तव पदे चरणे सेवे भजे इति ॥

 भगवत्पक्षे तु--आदृतसुमनस्सेवे शुभगुणमहिते सदा अपि लक्ष्मिपदे ननु मे धावति मनः हरे भवति इतिच्छेदः । ननु हरे ! हे भगवन् ! आदृता सुमनसां विबुधानां सेवा येन तस्मिंस्तथोक्ते । शुभगुणैः महितः तस्मिन् । लक्ष्म्याः पदं स्थानं लक्ष्मिपदं तस्मिंस्तथोक्ते श्रीनिवासे इत्यर्थः । लक्ष्मीशब्दस्याङ्यन्ततया समासे ‘इको हृस्वोऽङ्यो गालवस्य' इति वैकल्पिको हृस्वः ‘लक्ष्मणो लक्ष्मिसंपन्नः’ इतिवत् । घनस्याम्बुदस्य रुचिभूमेव रुचिभूमा यस्य तस्मिन् । यशस्विनि 'तस्य नाम महद्यशः’ इत्युक्तरीत्या कीर्तिमति । भूम्नि प्रशंसायां वा मत्वर्थीय इनिः । भवति त्वयि मे मनः चित्तं धावति प्रवर्तते । अत्र पदश्लेषादिकमपि द्रष्टव्यम् ॥

 यथावा--

 स्वामिनि जगतां लक्ष्मीकामिनि वरदे विभावतिमनोज्ञे । भवतान्मनस्त्वयि शुभे भवरहिते पद्मजातहृन्महिते ॥ ८९८ ॥

 अत्रापि पूर्ववदेव संबुद्धिसप्तम्योः श्लेषः । तथाहि, लक्ष्मीपक्षे-- वरदेवि भावति मनोज्ञे भवतात् मनः त्वयि शुभे भवरहिते इति छेदः । हे स्वामिनि ! ऐश्वर्यशालिनि ! जगतां लक्ष्मीं कामयते इति लक्ष्मीकामिनी । तस्यास्संबुद्धिः। जगतामैश्वर्यदानाभिलाषिणीत्यर्थः । भाः अस्या अस्तीति भावती तस्यास्संबुद्धिः । तेजस्विनीत्यर्थः । मनोज्ञे मनोहारिणि । शुभे कल्याणि । भवरहिते कर्मकृतजन्मविधुरे । पद्मानां जातं बृन्दं ‘जातं जनसमूहयोः' इति विश्वः । तस्य हृदि मध्यदेशे कर्णिकायामित्यर्थः । महिते पूजिते 'पद्मे स्थितां, तां पद्मनेमिम्’ इति च श्रुतेः । हे वरदेवि! वरा च सा देवी च वरदेवी तस्यास्संबुद्धिः देवदिव्यमहिषीत्यर्थः। 'देवो कृताभिषेकायाम्' इत्यमरः । त्वयि मनः कर्तृ, ममेति शेषः । भवतात् वर्तताम् । भवतेर्लोट्प्रथमैकवचनम् । ‘तुह्योस्तातङाशिष्यन्यतरस्याम्' इत्याशीरर्थे तोस्तातङ् । त्वय्येव लग्नं भवत्वित्यर्थः ।

 भगवत्पक्षे-- वरदे विभौ अतिमनोज्ञे भवतात् मनः तु अयि शुभेभवरहिते इति छेदः । जगतां स्वामी ईश्वरः तस्मिन् वरदे अभीष्टप्रदे । विभौ सर्वव्यापिनि । अतिमनोज्ञे । शुभः ‘मङ्गळानां च मङ्गळम्' इत्युक्तेः । स चासौ इभवराय गजेन्द्राय हितः शुभेभवरहितः गजेन्द्रहितकारीत्यर्थः । तथोक्ते । यद्वा-- शुभः निश्श्रेयसरूपकल्याणकरः इभस्य गजस्य वरः वरदानमिति यावत् । तस्मै हितः तस्मिन् । पद्मजातो ब्रह्मा तस्य हृदा मनसा महितः पूजितः तस्मिन् लक्ष्मीकामिनि श्रियःपत्यौ । अयि मनः ! हे हृदय ! भवतात् भूयाः । तुशब्दोऽवधारणे । भगवत्येव सक्तं भूया इत्यर्थः । भवतेरेव लोण्मध्यमैकवचने हेः आशिषि तातङ् । अत्र स्त्रीपुंसलिङ्गयोश्श्लेषः । वरदेविभावतिमनोज्ञे इत्यादौ पदश्लेषः । भवतादित्यत्र पुरुषश्लेषश्चेति बोध्यम् ॥

 यथावा--

 कुवलयदळासितिम्नश्श्रिय आकाङ्क्षाम्यपाङ्गरुचिभूम्नः । भगवत उच्चमहिम्नः पगुणतमैश्वर्यदाननिस्सीम्नः ॥ ८९९ ॥  अत्र लक्ष्मीकटाक्षविषये द्वितीयायाः भगवद्विषये पञ्चम्याश्च विभक्तेः श्लेषः । तद्बहुवचनैकवचनयोश्च श्लेषः । तथाहि-- कुवलयदलस्य असितिमेवासितिमा येषां तान् कुवलयदळासितिम्नः । भगवतः श्रीनिवासादपि उच्चमहिम्नः अतिशयितवैभवान् । अत एव प्रगुणतमं अतिमात्रऋजु यदैश्वर्यं तस्य दाने निस्सीम्नः उद्वेलानित्यर्थः । ‘ऋजावजिह्मप्रगुणौ' इत्यमरः । श्रियः लक्ष्म्याः अपाङ्गानां कटाक्षानां रुचिभूम्नः प्रकाशातिशयान् आकांक्षामि । लक्ष्मीकटाक्षरुचयो मयि प्रसरन्त्वित्याशास इति भावः ॥

 पक्षे-- कुवलयदळासितिम्न इत्यादीनि भगवत इत्यस्य विशेषणानि पञ्चम्येकवचनान्तानि । नीलोत्पलदळश्यामलादित्यर्थः । अपाङ्गस्य अनङ्गस्य रुचिभूमेव रुचिभूमा यस्य तस्मात् कन्दर्पतुल्यसौन्दर्यादित्यर्थः । उच्चमहिम्नः निरतिशयभूम्नः प्रगुणतमैश्वर्यदाननिस्सीम्नः उक्त एवार्थः । भगवतः उक्तविधात् श्रीनिवासात् श्रियः मुक्तैश्वर्यपर्यन्तास्संपदः आकांक्षामि अभिलष्यामीति । अत्र भगवत इत्यत्र पञ्चमीषष्ठ्येकवचनयोः श्रिय इत्यत्र षष्ठ्येकवचनद्वितीयाबहुवचनयोश्च श्लेषः ॥

 यथावा--

 घनकरुणानुत्तानां भजेयशोभाभृतां सुबहुदानाम् । सरसीरुहधामधृतां परंपरां मादृशां श्रियमवित्रीम् ॥ ९०० ॥

 अत्र श्रीविषये तत्कटाक्षविषये च द्वितीयाषष्ठ्योर्विभक्तयोः श्लेषः । तथाहि घनया करुणया अनुत्ताना न उत्ताना गम्भीरा तां तथोक्ताम् । ‘निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये’ इत्यमरः । ‘त्रिष्वागाधात्’ इत्युक्तेर्भेद्यलिङ्गता । पक्षे-- घनकरुणया नुत्तानां प्रेरितानामिति षष्ठीबहुवचनम् । एवमग्रेऽपि । 'नुत्तनुन्नास्तनिष्ठ्यूतविद्धक्षिप्तेरितास्समाः' इत्यमरः। नुदेर्निष्ठायां ‘नुदविदोन्दीत्राघ्राहीभ्योऽन्यतरस्याम्' इति नत्वविकल्पानुशासनात् निष्ठातस्य पूर्वस्य दस्य च न नत्वं, किंतु चर्त्वम् । भजे यशोभाभृताम् इति छेदः । यशश्च भा च यशोभे ताभ्यां भृतां पूर्णाम् । अत्र भाशब्दस्य द्वन्द्वे अल्पाच्तरत्वनिमित्तकपूर्वनिपाताभावो न दोषाय । ‘समुद्राभ्राद्धः, लक्षणहेत्वोः क्रियायाः’ इत्यादिनिवेशेन तस्य प्रकरणस्यानित्यताज्ञापनात् । यद्वा-- यशसो भा प्रकाशः तया भृतामिति विग्रहः । पक्षे-- भजेयेति छेदः । शोभां बिभ्रतीति शोभाभृतः तासाम् । सुबहु दानं वितरणं यस्यास्ताम् । पक्षे सुबहु ददतीति सुबहुदाः तासां 'आतोऽनुपसर्गे' इति कः । सरसीरुहमेव धाम स्थानं तेन धृतां कमलालयामित्यर्थः । पक्षे-- सरसीरुहाणां धाम त्विषं धरन्तीति तथोक्तानाम् । धृञः क्विप् । परं अतिमात्रं परां उत्तमां मादृशां मद्विधानां अवित्रीं पालयित्रीं श्रियं लस्मीं भजे सेवे । लट् । पक्षे-- श्रियं संपदं अवित्रीं अवतेस्तृन् । ‘न लोक’ इति षष्ठीनिषेधात्कर्मणि द्वितीया । मायाः श्रियः दृशः कटाक्षाः तासां मादृशां परंपरां रेखां भजेय सेवेय, लिङ् । अत्रोक्तयोर्विभक्त्योरेकवचनबहुवचनयोश्च श्लेषः । भजेयशोभेत्यत्र परंपरामित्यादौ च पदश्लेषश्चानुसन्धेयः ॥

 यथावा--

 दुरितभिदे सर्वविदे नतनिवहेष्टार्थकल्पभूमिरु हे । कमलाप्रख्यातिभृते नमोस्तु मम दैवते सदाऽब्जधृते ॥ ९०१ ॥

 अत्र भगवद्विषये चतुर्थ्याः श्रीविषये सप्तम्याश्च विभक्तेः श्लेषः । तथाहि-- दुरितानि भिनत्तीति दुरितभित् तस्मै दुरितभिदे । ‘सत्सूद्विष’ इत्यादिना क्विप् । पक्षे-- भिनत्तीति भिदं 'इगुपधज्ञा’ इत्यादिना कः । तस्मिन् । एवमग्रेऽपि । सर्वविदे सर्वं वेत्ति विन्दति वा सर्ववित् तस्मै 'यस्सर्ववित्’ इति श्रुतेः । पक्षे-- सर्वज्ञे इति, नतनिवहेष्टार्थानां कल्पभूरुट् कल्पतरुः तस्मै । अभीप्सितार्थप्रदायेत्यर्थः । पक्षे-- कल्पभूमिरुहः तस्मिन् । कमलया श्रिया या प्रख्यातिः तां बिभर्तीति कमलाप्रख्यातिभृत् तस्मै श्रीनिरूपितस्वरूपायेत्यर्थः। ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ, सुमज्जानये विष्णवे' ।

यदपाङ्गाश्रितं सर्वं जगत् स्थावरजङ्गमम् ।
यस्य वक्षसि सा देवी प्रभाऽग्नेरिव तिष्ठति ॥
स वै सर्वेश्वरश्श्रीमान् कल्याणगुणसागरः ।

 इत्यादिश्रुतिपुराणवचनान्यत्रानुसन्धेयानि । पक्षे कमलेति प्रख्यात्या भृतं पूर्णं तस्मिन् । अब्जं शङ्खं धरतीत्यब्जधृत् तस्मै । पक्षे-- पद्मेन धृते इत्यर्थः । ‘पद्मे स्थिताम्' इत्यादिश्रुतेः । मम दैवते महालक्ष्मीरूपे दैवते । सदा नमः अस्तु । पक्षे-- दैव ते इति पदद्वयम् । हे मम दैव ! मद्भागधेयरूप ! भगवन् ! ते तुभ्यं नमः अस्तु । ‘नमस्स्वस्ति' इत्यादिना चतुर्थी । अत्र पदश्लेषोऽपि द्रष्टव्यः ॥  यथावा--

 प्रभवेऽखिलभुवनानां विभवे तत्तादृशे स्वमात्मानम् । सुरराजश्रीजीवनदयालवे ननु समर्पये महिते ॥ ९०२ ॥

 अत्रापि पूर्ववदेव श्लेषः। हे सुरराज! देवधीश! हे श्रीजीवन! श्रियो लक्ष्म्या जीवनभूत! श्रीर्जीवनं यस्य तस्य संबुद्धिर्वा हे श्रीनिवासेत्यर्थः । अखिलभुवनानां प्रभवे अधीश्वराय । विभवे व्यापकाय च । तत्तादृशे अवाङ्मनसगोचरस्वरूपस्वभावविभवायेति भावः । तत्तादृक्छब्दस्तादृक्छब्दसमानार्थकः । यथा तत्तुल्यशब्दस्तुल्यशब्दसमानार्थकः । सः तादृक् यस्य स तथोक्त इति वा । असदृशायेति तदर्थः । दयालवे कृपाशालिने ‘स्पृहिगृहि’ इत्यादिना कर्तर्यालुच्प्रत्ययः । ते तुभ्यं स्वं ‘स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम्' इत्युक्तप्रकारेण स्वभूतं आत्मानं समर्पयेमहि । संपूर्वकादर्पयतेर्लिङुत्तमबहुवचनम् ॥

 पक्षे-- अखिलभुवनानां प्रभवो जगत्कारणभूत इत्यर्थः । तस्मिंस्तथोक्ते । सुरराजश्रीजीवनदयालवे इति समस्तमेकं पदम् । सुरराजश्रिय इन्द्रैश्वर्यस्य जीवनः जीवयिता दयाया लवो लेशः यस्य तस्मिन्, प्रसिद्ध्यतीदं वैष्णवे पुराणे । महिते पूज्ये तत्तादृशे विभवे विभूतौ भगवत्यां श्रीमहालक्ष्म्यामित्यर्थः । श्रीभागवते-- ‘वक्षोनिवासमकरोत्परमं विभूतेः’ इति लक्ष्मीर्विभूतित्वेन हि व्यपदिश्यते । ननुरवधारणे । लक्ष्म्यामेवेत्यर्थः । स्वं आत्मानं समर्पये । संपूर्वकादर्पयतेर्लडुत्तमैकवचनम् । अत्र शेषिदंपत्योरात्मनिक्षेप उक्तः ॥  यथावा--

 भवमयपाशलवित्रे भजमानानां विशालशुभनेत्रे। निखिलचराचरधात्र्या निजमात्मानं निवेदयेपत्ये ॥ ९०३ ॥

 अत्रापि पूर्ववदेव श्लेषः । भगवत्पक्षे-- भजमानानां भक्तानां भवमयस्संसाररूपः यः पाशः तस्य लाविता छेत्ता तस्मै तथोक्ताय, लूञस्तृच् । विशालं विपुलं शुभं निश्श्रेयसरूपं कल्याणं तस्य नेता प्रापयिता तस्मै, णीञस्तृच् । निखिलचराचरधात्र्याः सकललोकजनन्याः श्रियः पत्ये भर्त्रे निजं आत्मानं निवेदये अर्पये--

सर्वलोकशरण्याय राघवाय महात्मने ।
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ॥

इत्यत्रेव ‘क्रियया यमभिप्रैति सोऽपि संप्रदानम्’ इत्युक्तरीत्या संप्रदानसंज्ञायां पतिशब्दस्य चतुर्थी ।

 श्रीपक्षे-- भजमानानां भवमयपाशस्य लवित्रं दात्रं तस्मिन् । ‘अर्तिलूधूसूखनसहचर इत्रः’ इति लूनातेरित्रच् ‘दात्रं लवित्रम्' इत्यमरः । छेत्तरीत्यर्थः । विशाले शुभे नेत्रे यस्य तस्मिन् । निखिलचराचरधात्र्याः सकलंभूतधात्र्याः भुवः । यद्वा-- निखिलाः पूर्णाः चराचराः जङ्गमस्थावराः यस्यां सा तथाविधायाः धात्र्याः भुवः ‘विपुला गह्वरी धात्री' इत्यमरः । निवेदयेऽपत्ये इत्यत्र अपत्ये इति छेदः । अपत्ये दुहितरि । ‘सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोस्समे, इत्यमरः । भगवत्यां जनकनन्दिन्यामित्यर्थः । निजं आत्मानं निवेदये । ‘निवेदयीत स्वात्मानं विष्णावमलतेजसि' इत्यत्रेव संप्रदानस्याधारत्वविवक्षया अपत्यशब्दात्सप्तमी । अत्र पदलिङ्गश्लेषावपि द्रष्टव्यौ ॥

 यथावा--

 सुन्दर्यग्रण्यां परदैवतवामभ्रुवामुदारधियाम् । अञ्जलयो निपतन्तस्सञ्जनयन्त्यखिलसंपदं तासाम् ॥ ९०४ ॥

 अत्र षष्ठीसप्तम्योर्विभक्त्योः श्लेषः, तद्बहुवचनैकवचनयोरपि । सुन्दरीणां अग्रण्यां अग्रगण्यायाम् । उदारधियां महाप्रज्ञायां वदान्यमनीषायां वा । परदैवतस्य भगवतः वामभ्रुवां ललनायां लक्ष्म्याम् । सर्वत्र 'ङेराम्नद्याम्नीभ्यः' इति ङेरामादेशः । निपतन्तः श्रीविषये अहमहमिकया समुदयन्त इत्यर्थः । तासां सुन्दर्यग्रण्यामित्यादिविशेषणविशिष्टानामित्यर्थः । तासामित्युक्त्या प्रदर्शितानां सप्तम्येकवचनान्तानां पदानां षष्ठीबहुवचनान्तत्वं ज्ञापितम् । तथाहि-- सुन्दरीणां अग्रण्यां अग्रगण्यानां, अनद्यन्तत्वादामो न नुट् । उदारधियां महामतीनाम् । पराणि च तानि दैवतानि चतुर्मुखादयो देवाः तेषां याः वामभ्रुवः महिलाः पराश्च ताः दैवतवामभ्रुवश्चैति वा तासां ‘बृन्दारका दैवतानि' इत्यमरः । वाणीरुद्राणीन्द्राणीप्रभृतीनां सुरसुदतीनामित्यर्थः । उभयत्र 'वाऽमि’ इति नदीसंज्ञाया विकल्पितत्वेन तदभावादामो न नुट् । अखिलसम्पदं जनयन्तीति योजना ॥


प्रकृतिश्लेषः.


अश्लिष्टप्रत्ययकृता प्रकृत्योश्चेत्सरूपता ।
स एष प्रकृतिश्लेषो द्विधा सुप्तिङपेक्षया ।

 नानारूपयोः प्रकृत्योः अश्लिष्टप्रत्ययकृतं चेत्सारूप्यं स प्रकृतिश्लेषः । द्विवचनं बहूनामप्युपलक्षकम् । स च सुप्रत्ययापेक्षस्तिङ्प्रत्ययापेक्षश्चेति द्विप्रकारकः । अश्लिष्टेति प्रत्ययविशेषणं प्रत्ययश्लेषे अतिप्रसङ्गवारणाय । प्रत्ययश्लिष्टतायां स एव हि भविष्यति ॥

 तत्राद्यो यथा--

 चित्रं हरिकृपया यः कुपया यो देवतान्तरस्यापि । वृद्धिं भजेत स पुमान् सुकृतीशस्तोमहाव्यसनरुत्स्यात् ॥ ९०५ ॥

 यः हरिकृपया वृद्धिं भजेत स पुमान् सुकृती पुण्यवान् शस्तः समस्तलोकस्तुतः महान्ति व्यसनानि विपदः रुणद्धीति महाव्यसनरुत् । रुधेः क्विपि जश्त्वचर्त्वे । विपल्लेपविधुरस्स्यात् । विभीषणादिवदिति भावः । योऽपि देवतान्तरस्य कृपया वृद्धिं भजेत सोऽपि पुमान् उक्तविध एव भवेदिति चित्रम् । वस्तुतस्तु सुकृतीशस्तोमहेतिच्छिन्नं समस्तमिदं पदम् । सुकृतीशाः पुण्यवदग्रगण्याः तेषां स्तोमं व्यूहं हन्तीति सुकृतीशस्तोमहा ‘अन्येभ्योऽपि दृश्यते' इति हन्तेर्विच् । न तु क्विप् ‘ब्रह्मभ्रुणवृत्रेषु क्विप्’ इत्यत्र चतुर्विधनियमाश्रयणात् । एतेन ‘मातृहा वै त्वमसि पितृहा वै, विश्रुतात्मा सुरारिहा, पुमान् भवाब्धिं न तरेत्स आत्महा' इत्यादिप्रयोगा व्याख्याताः । व्यसनैः ‘मृगयाऽक्षा दिवास्वप्न’ इत्याद्युक्तैः कामजैर्दशाभिः, ‘पैशुन्यं साहसं द्रोहः’ इत्याद्युक्तैरष्टभिः क्रोधजैश्च दोषैः रोदिति अश्रु विमुञ्चतीति तथोक्तः । रुदेरश्रुविमोचनार्थकात्क्विप्, चर्त्वम् । उक्तविधव्यसनवर्गक्षुभितहृदयो भवेत् । रावणादिवदिति भावः । 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः । अत्र रुधिरुद्योः क्विच्निमित्तकं सारूप्यमिति प्रकृतिश्लेषः । सुकृतीत्यादौ पदश्लेषोऽपि ।

यथावा

 साधुसमित्यग्रेसरयुद्यो बहुशास्त्रविज्जयति शत्रून् । स हि विरचितशुभरक्षोवैरियशस्तुद्भवेन्महाधीरः ॥ ९०६ ॥

 अत्र भगवद्भक्तो विद्वान् प्रस्तुतः अप्रस्तुतस्तु शूरः तयोः श्लेषः । यः पुमान् साधूनां विदुषां समितौ सभायां ये अग्रेसराः तैर्यौतीत्यग्रेसरयुत् । ‘यु मिश्रणे’ इत्यस्मादादादिकाद्धातोः क्विपि तुक् । सत्सङ्गशालीत्यर्थः । अन्यत्र साधु यथा स्यात्तथा समितौ युद्धे ‘समितिस्सांपराये स्यात्सभायां सङ्गमेऽपि च' इति मेदिनी । ये अग्रेसराः तैः युद्ध्यत इति तथा । युद्ध्यतेः क्विप् । जश्त्वचर्त्वे । बहूनि शास्त्राणि वेत्तीति तथा । विदेः ‘सत्सूद्विष’ इत्यादिना क्विप् । चर्त्वम् । पक्षे शस्त्राणां ममूहश्शास्त्रं बहु यच्छास्त्रं तेन विध्यतीति तथा । विध्यतेः क्विपि जश्त्वचर्त्वे । शत्रून् कामादिनित्यवैरिणः, पक्षे अरातीन् जयति अभिभवति । सः महाधीरः महाविद्वान् अतिधैर्यवांश्च पुमान् । ‘धीरस्स्यात्त्रिषु पण्डिते । स्वच्छन्दे धैर्ययुक्ते च' इति मेदिनी । विरचितं शुभं मङ्गळं येन तत्तथोक्तं यत् रक्षोवैरियशः दैत्यारिकीर्तिः तत् स्तौतीति तथोक्तः जगन्मङ्गळभगवद्दिव्ययशोविषयकप्रबन्धप्रणेता । पराशरव्यासादिवदिति भावः । स्तौतेः क्विपि तुक् । पक्षे विरचिता शुभानां कल्याणानां रक्षा शुभा वा रक्षा येन स तथोक्तः । विशिष्य जगत्क्षेमङ्कर इत्यर्थः । भिन्नं पदम् । वैरिणां यशः तुदतीति तथोक्तः । तुदतेः क्विप् । भवेत् । अत्र यौतियुध्यतोः वेत्तिविध्यत्योः यशश्शब्दोपपदकस्तौतितुदत्योश्च क्विपि सारूप्यमितीदृशप्रकृत्योस्सुप्प्रकृत्यपेक्षयोः श्लेषः । उत्तरार्धे पदश्लेषोऽपि ॥

 यथावा--

 त्वदभिमुखो भवमुक्स्यात्त्वद्विमुखश्चापि पन्नगनगेन्दो । उभयोरपि महती रुक्प्रभवत्यनयोरितीदमाश्चर्यम् ॥ ९०७ ॥

 त्वदभिमुखः त्वद्विमुखश्चापि भवमुक् भवं संसारं मुञ्चतीति तथोक्तः । मुचेः क्विप् 'चोः कुः' इति कुत्वम् । पक्षे-- भवे संसारे भवेन वा मुह्यतीति तथोक्तः । मुहेः क्विपि 'वा द्रुहमुहष्णुहष्णिहाम्' इति हस्य वैकल्पिकं घत्वं, जश्त्वचर्त्वे । अनयोरुभयोरपि महती रुक् रुचि दीप्तिः 'स्युः प्रभारुग्रुचिः' इत्यमरः । रुचेर्दीप्त्यर्थकात्क्विप् । पक्षे रुक् रोगः “स्त्री रुग्रुजा च' इत्यमरः । रुजेः क्विप् । उभयत्र जश्त्वचर्त्वे । अत्र भवशब्दोपपदकयोर्मुञ्चतिमुह्यत्योः केवलयो रुचिरुज्योश्च क्विपि सारूप्यमिति प्रकृतिश्लेषः ॥

 यथावा- भवपाशबन्धमुडिति त्वां त्वत्तोऽन्यं च नाथ निगदामः । जानात्यनेकधातुप्रकृतिज्ञोऽन्ते बुधस्तदाकूतम् ॥ ९०८ ॥

 हे नाथ! त्वां त्वदन्यं चतुर्मुखादिकं च भवपाशबन्धमुडिति निगदामः । विविधश्लेषवक्तारो वयमिति भावः । तदाकूतं उभयत्र तादृशशब्दप्रयोगाभिप्रायं तु अन्ते निर्णयावसरे अनेकधा बहुप्रकारेण निस्सन्दिग्धमिति भावः । प्रकृतिं जगत्कारणभूतं परं ब्रह्म भवबन्धनिदानभूतां मूलप्रकृतिं च जानातीति प्रकृतिज्ञः ‘प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्गे' इति मेदिनी । योनिः कारणम् । लिङ्गं चिह्नं 'प्रकृतिर्या मयाऽऽख्याता’ इत्यादौ मूलप्रकृताविव ‘वासुदेवः परा प्रकृतिः, प्रकृतिश्व प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादौ प्रकृतिशब्दो हि जगत्कारणेऽपि प्रयुक्तः । यद्वा-- प्रकृतिं तव त्वदन्यस्य च स्वभावं जानातीति तथोक्तः । भवपाशच्छेत्तृत्वं तव स्वभावः । भवपाशमुग्धत्वं त्वदन्यस्येति जानन्निति भावः । अथवा अनेके बहवः ये धातवः धातारः तत्तदण्डान्तर्वर्तिनश्चतुर्मुखाः तेषां प्रकृतिः कारणं ‘यो ब्रह्माणं विदधाति पूर्वम्' इत्यादिश्रुतिभ्यः । धातुशब्दो धाञ्धातोः ‘सितनिगमिमसिसिच्यविधाञ्क्रुशिभ्यस्तुन्' इत्यौणादिकतुन्प्रत्ययेन निष्पन्नतया उदन्तः 'धातुप्रसादान्महिमानमात्मनः' इत्यत्र व्यासार्यैरेवमेव निष्पादितः ॥

 पक्षे-- अन्ते भवपाशबन्धमुडित्यत्रावसाने विद्यमानाः अनेके ये धातवः ‘मुट आक्षेपप्रमर्दनयोः, मुष स्तेये, मुह वैचित्ये' इति धातवः क्रमेण तुदादौ क्र्यादौ दिवादौ च पठिताः । तद्रूपाः प्रकृतीः क्विप्प्रत्ययप्रकृतीः जानातीति तथा । बुधः परावरतत्त्ववित् शाब्दिकश्च जानाति । भवपाशबन्धं मुटतीति वा मुष्णातीति वा विग्रहे क्विपि अयं शब्दो भगवद्विषयः भवपाशबन्धेन मुह्यतीति विग्रहे क्विपि निष्पन्नो भगवदन्यविषयः तयोरत्र श्लेष इति तदभिप्रायं वेत्तीत्यर्थः । अत्र मुटमुषमुहीनां क्विप्प्रत्यये सारूप्यम् । मुटिमुष्योर्जश्त्वचर्त्वे । मुहेस्तु ‘वा द्रहमुह’ इति वैकल्पिकघत्वाभावे ‘हो ढः' इति ढत्वे जश्त्वचर्त्वे इति बोध्यम् ॥

 यथावा--

 त्वं विमृडसि स्वतोऽच्युत भक्तततेरागसा तथाऽघानाम् । योगक्षेमाणामपि बहुधातुविशेषवित्त्विदं विद्यात् ॥ ९०९ ॥

 हे अच्युत! त्वं स्वतः स्वभावादेव विमृट् विशेषेण मृडति सुख्यतीति तथोक्तः । अपरिच्छिन्नसुखस्वरूप इत्यर्थः । 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म यद्वाव कं तदेव खं यदेव खं तदेव कम्’ इत्यादौ तथा श्रवणात् । तथा भक्तततेः तत्संबन्धिनां इदमुत्तरत्राप्यन्वेति । आगसां अपराधानां विमृट् विशेषेण मृष्यति क्षमत इति विमृट् । महापराधसहिष्णुरित्यर्थः । किंच-- अघानां तदीयानां दुःखानां विमृट् । विशेषेण मार्ष्टि शोधयतीति तथा । सकलव्यसननिश्शेषयितेत्यर्थः। अपिच योगाः अलभ्यलाभाः क्षेमाः लब्धपरिपालनानि तेषां विमृट् विमृशतीति विमृट् विचारयितेत्यर्थः ।

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

इति गानात् । इदं तु उक्तं भगवतो गुणजातं सर्वमपि बहुधा 'बहुभ्यश्श्रोतव्यं बहुधा श्रोतव्यम्’ ।

अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यो मतिमान्नरः ।
सर्वतस्सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥

इत्युक्तप्रक्रियया बहुप्रकारेण । विशेषवित्तु तुरवधारणे । शास्त्रार्थतत्त्ववेत्तैव विद्यात् जानीयात् । नान्यः

यस्य नास्ति स्वयं प्रज्ञा केवलं तु बहुश्रुतः ।
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ।

इत्युक्तप्रकारः स्थूलमतिरिति भावः । बहवो ये धातुविशेषाः तद्विदेव अमुमर्थं जानीयात् । नान्यः अशाब्दिक इत्यर्थोप्युपस्कार्यः । अत्र क्रमेण ‘मृड सुखने' तौदादिक, ‘मृष तितिक्षायाम्’ दैवादिकः, 'मृजू शुद्धौ’ आदादिकः, ‘मृश आमर्शने । तौदादिकः । एषां चतुर्णां धातूनां विपूर्वकाणां क्विप्यैकरूप्यम् । पूर्वोदाहरणे त्रयाणामैकरूप्यमिति ध्येयम् । अत्र विपूर्वकात् मृडेः क्विपि चर्त्वे मृषेः जश्त्वेन डत्वे चर्त्वे च मृजिमृशिभ्यां तु ‘व्रश्च' इत्यादिना षत्वे जश्त्वेन डत्वे चर्त्वे विमृडिति तुल्यं रूपम् ॥

 एवमाद्यस्सुप्प्रत्ययापेक्षः प्रकृतिश्लेषो निरूपितः । तिञ्प्रत्ययापेक्षो द्वितीयः प्रकारो यथा--

 अवशाद्यस्त्वां नाम्ना जुहाव यश्चाध्वरेषु नियमात्ते । फलमुभयोरप्यनयोर्जलजाक्ष निरङ्कुशो बत ददासि ॥ ९१० ॥  यः अजामिळादिः अवशात् हठात् त्वां नाम्ना नारायणाद्यभिधानेन जुहाव आहूतवान् ‘ह्वेञ् स्पर्धायां शब्दे च' इति भौवादिकाद्धातोर्लिट् । ‘अभ्यस्तस्य च' इत्यभ्यस्तीभविष्यतो ह्वेञस्संप्रसारणं, ततो द्वित्वम् । यश्च यजमानः उपरिचरवसुप्रभृतिः नियमात्--

ये तु वाकनिषन्निष्ठास्तत्तत्संस्कारसंस्कृताः ।
ते वै भागवताश्शुद्धा वासुदेवैकयाजिनः ।

इत्युक्तप्रक्रियया शुद्धयाजित्वरूपपारमैकान्त्यादित्यर्थः । अध्वरेषु ते तुभ्यं जुहावेति योजना । हुतवान् त्वामुद्दिश्य हविर्दत्तवानित्यर्थः । ‘हु दानादनयोः' अस्माज्जौहोत्यादिकाद्धातोर्लिट् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यत इत्याहुः । अत्र लिटि ह्वयतिजुहोत्योः प्रकृतेरैकरूप्यमिति तिञ्प्रत्ययापेक्षप्रकृतिश्लेषोऽयम् ॥

 यथावा--

 तस्याः कियदिव भाग्यं या त्वां गर्भे जगन्निवासाधात् । यस्याश्च शिशुरिव भवान् स्तन्यं शौरे जगत्सविता ॥ ९११ ॥

 हे जगन्निवास! इदं च संबोधनं विवक्षितगर्भधारणार्हत्वस्याश्चर्यावहत्वं द्योतयितुम् । या देवकीति भावः । त्वां गर्भे अधात् दधार दधातेर्लुङ् । तस्याः भाग्यं कियत् अपरिच्छिन्नमित्यर्थः । इवशब्दो वाक्यालंकारे । जगतां सविता जनकः इदमपि विवक्षितस्तन्यपानाद्भुतत्वव्यञ्जनाय । शिशुरिव प्राकृतस्तनंधय इव यस्याः यशोदाया इति भावः । स्तन्यं अधात् पपा तस्याश्च भाग्यं कियदिवेति योजना । ‘धेट् पाने' लुञ् ‘विभाषा घ्राधेट्शाच्छासः’ इति वैकल्पिकस्सिचो लुक् । अत्र धाञ्धेटोः प्रकृतेरैकरूप्यम् ॥

 यथावा--

 वरयति विनतानखिलानुरगधराधरकृपा यशश्चैषाम् । क्षोदयति रिपूनेषां तदीयसेनाश्च यदिह निश्शेषम् ॥ ९१२ ॥

 उरगधराधरकृपा कर्त्री अखिलान् विनतान् वरान् श्रेष्ठान् करोति वरयति । वरशब्दाण्णिच् । एषां विनतानां यशः कीर्तिं च उरुं विपुलं करोति वरयति । उरुशब्दाण्णाविष्ठवद्भावे ‘प्रियस्थिर’ इत्यादिना वरादेशः । तत्र हेतुमाह-- क्षोदयतीत्यादिना । यत् यस्मात् एषा भगवत्कृपा एषां विनतानां रिपून् क्षुद्रान् कृपणान् करोति क्षोदयति । क्षुद्रशब्दाण्णाविष्ठवद्भावे ‘स्थूलदूर’ इत्यादिना तस्य यणादिपरलोपः पूर्वस्य गुणश्च । तदीयाः विनतरिपुसम्बन्धिनीः सेनाश्च निश्शेषं यथा स्यात् तथा क्षोदं करोति क्षोदयति । क्षोदशब्दाण्णिच् । चूर्णयतीत्यर्थः । ‘चूर्णे क्षोदः' इत्यमरः । अत्र वरोरुशब्दयोः क्षुद्रक्षोदशब्दयोश्च णिजन्तयोस्तिप्यैकरूप्यात्प्रकृतिश्लेषः ॥

 यथावा--

 कलयति विषयं तव यं करुणारसमेदुरः कटाक्षलवः । लोकेश्वरदयिते तं लोके बृन्दयति तस्य विभवांश्च ॥ ९१३ ॥  हे लोकेश्वरदयिते ! करुणारसमेदुरः तव कटाक्षलवः यं पुमांसं विषयं कलयति गोचरयति तं पुमांसं लोके सर्वस्मिन् जने बृन्दयति बृन्दारकं मुख्यं करोति । बृन्दारकशब्दाण्णाविष्ठवद्भावे ‘प्रियस्थिर' इत्यादिना तस्य बृन्दादेशः सर्वोपजीव्यं करोतीत्यर्थः। 'बृन्दारकौ रूपिमुख्यौ’ इत्यमरः । तस्य विभवांश्च बृन्दयति बृन्दानि करोति संपुञ्जयति । तस्मिन्नेव समाहारयतीत्यर्थः । बृन्दशब्दात् ‘तत्करोति' इति णिच् । अत्र बृन्दारकबृन्दशब्दयोर्णिजन्तयोस्तिप्यैकरूप्यम् । आद्ययोरुदाहरणयोश्शुद्धधातुरूपप्रकृत्योरैकरूप्यम् । अनन्तरयोस्तु ण्यन्तनामधातुलक्षणप्रकृत्योरिति वैलक्षण्यं बोध्यम् ॥

 यथावा--

 त्वद्भुक्तशेषमनघं भक्त्याऽच्युत येन भक्ष्यते पुंसा । स ह्यातिवाहिकैरपि हुतवहमुख्यैरितीदमाश्चर्यम् ॥ ९१४ ॥

 हे अच्युत ! अनघं त्वद्भुक्तशेषं येन भक्ष्यते अद्यते स पुमात् अर्चिरादिकैरातिवाहिकैरपि भक्ष्यते हि इत्येतदाश्चर्यम् ॥ सेविष्यत इति तु तत्त्वम् । भगवन्निवेदितशेषप्रसादास्वादनमहिम्ना अर्चिरादिकैरातिवाहिकैरपि मान्यते पुमान् किमुतान्यैरिति भावः ।

निवेदितहविश्शेषं भुक्त्वा भगवतोऽनघम् ।
व्यपोह्य सर्वपापानि मोक्षमृच्छत्यसंशयम् ॥

इति भगवच्छास्त्रीयप्रमाणार्थ इहानुसन्धेयः । अत्राद्येऽर्थे भक्षधातोः कर्मणि यकि लट्, द्वितीये भजधातोर्लृटि स्यप्रत्यये 'चोः कुः' इति कुत्वे 'इण्कोः’ इति स्यावयवसस्य षत्वम् । अत्र भक्षेर्भजेश्च यक्स्यप्रत्ययकृतं सारुप्यम् । यद्यपि प्रत्ययविधावुद्धेश्यत्वं प्रकृतित्वमिति भक्षिभज्योस्तिङ्निरूपितप्रकृतित्वात्तयोर्नैकरूप्यं, तथाऽपि प्रत्ययनियतपूर्ववृत्तित्वं तदित्यभ्युपगमेन भक्ष्येत्यनयोस्तिङ्पूर्ववृत्तितया प्रकृतिभूतयोरैकरूप्यमिति निर्वोढव्यम् । यद्वा प्रकृतिश्लेष इत्यस्याङ्गश्लेष इत्यर्थः । तथा सतीदृशोदाहरणस्यापि संग्रहो निरर्गळ एव, वक्ष्येत्यनयोस्तिङ्निरूपिताङ्गत्वेन तयोश्चैकरूप्यात् । 'यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्' इति ह्यङ्गलक्षणम् ॥

 उक्तस्योभयविधप्रकृतिश्लेषस्य सङ्करोऽपि संभवति ।यथा--

 दृश्ये योगिवरैस्त्वयि निहितात्माऽहं त्वया दयार्द्रदृशा । त्वन्नाम वहन्नास्ये नरकाराते पुरा नरके ॥ ९१५ ॥

 योगिवरैः सुक्ष्मदर्शिभिः दृश्ये 'दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ इत्युक्तप्रकारेण द्रष्टुं योग्ये दृशेः ‘ॠदुपधात्' इति क्यप् । त्वयि निहितात्मा विन्यस्तात्मा अहं त्वया कर्त्रा दयार्द्रदृशा करणेन । यद्वा दयार्द्रदृशेति बहुव्रीहिः त्वयेत्यस्यैव विशेषणम् । दृश्ये इति आवृत्त्या योजना । इष्टो भवामीत्यर्थः । दृशेः कर्मणि यकि लडुत्तमैकवचनम् । आस्ये मुखे त्वन्नाम वहन् त्वन्नामोच्चारयन्निति यावत् । नरके निरये पक्षे वहन्नास्ये इत्यत्र न आस्ये इति छेदः । पुरेति निश्चयद्योतको निपातः । पुरा नास्ये इति योजना । निश्चयेन क्षिप्तो न भविष्यामीत्यर्थः । क्षेपणार्थकादस्यतेराङ्पूर्वकात्कर्मणि लडुत्तमैकवचनम् । अयं च लट् षुराशब्दयोगाद्भविष्यदर्थे । ‘यावत्पुरानिपातयोर्लट्’ इति स्मरणात् । अत्र ङि इट् इति सुप्तिङ्प्रत्ययप्रकृत्योः क्रमेण क्यब्यगन्तयोः ण्यद्यगन्तयोः द्दश्येत्यनयोः आस्येत्यनयोश्च प्रकृत्योः श्लेष इति तयोस्सङ्कीर्णता । उभयत्र धात्वैक्येऽपि प्रत्ययभेदकृतं भेदमादाय प्रकृतिश्लेषनिर्वाहः । 'अस्यन्ते वर्णाः येन अस्यते ग्रासो वाऽस्मिन्नित्यास्यम् ।‘असु क्षेपणे’ ‘कृत्यल्युटो बहुळमिति ण्यत्' इत्यमरसुधायाम् । आस्यन्दते आम्लादिना प्रस्रवतीत्यास्यम् । ‘स्यन्दू प्रस्रवणे' 'अन्येभ्योपि दृश्यत इति डः' इत्यपि तत्रैव व्युत्पादितम् । अस्मिन्पक्षे तु आस्ये इत्यत्र धातुभेदात्प्रकृतिभेदः स्पष्ट एवेत्यलम् । न केवलमत्र प्रकृतिमात्रश्लेषः, किन्तु प्रत्ययश्लेषोऽपीति विच्छित्तिविशेषो ज्ञेयः ॥

 न केवलं सुप्तिङ्प्रत्ययापेक्ष एव प्रकृतिश्लेषः, किन्तु तद्धितप्रकृत्यपेक्षोऽपि संभवति ॥

 यथा--

 त्वामाश्रितः प्रथीयांस्तद्विभवश्चापि नाथ तव घृणया । त्वत्प्रतिकूलस्तु भवेत्साधीयांस्तद्विपत्तिनिवहश्च ॥ ९१६ ॥

 हे नाथ ! त्वामाश्रितः पुमान् तव घृणया कृपया प्रथीयान् प्रथा नाम गुणवत्ताप्रख्यातिः साऽस्यास्तीति प्रथावान् अतिशयेन प्रथावान् प्रथीयान् भवेत् । प्रथाशब्दान्मतुबन्तादीयसुनि ‘विन्मतोः' इति मतुपो लुक् । तद्विभवः भगवदाश्रितस्य विभवोऽपि प्रथीयान् अतिशयेन पृथुः अतिविपुल इत्यर्थः । पृथुशब्दादीयसुनि ‘र ऋतो हलादेर्लघोः' इति ऋकारस्य रेफादेशः । त्वत्प्रतिकूलस्तु तव घृणयेत्येतदत्रापि संबध्यते । घृणया जुगुप्सया ‘जुगुप्साकरुणे घृणे’ इत्यमरः । अनर्होऽयमिति त्वत्कर्तृकजुगुप्सयेत्यर्थः । साधीयान् आधिना सह वर्तत इति साधिः । अतिशयेन साधिः साधीयान् निरतिशयमनोव्यथ इत्यर्थः । भवेत् । तस्य त्वत्प्रतिकूलस्य विपत्तिनिवहोऽपि साधीयान् अतिशयेन बाढः अतिमात्रदृढ इत्यर्थः । बाढशब्दादीयसुनि ‘अन्तिकबाढयोर्नेदसाधौ’ इति साधादेश । 'गाढबाढदृढानि च' इत्यमरः । अत्र प्रथावत्पृथुशब्दयोः साधिबाढशब्दयोश्च प्रकृतेस्तद्धितप्रत्यये परे ऐकरूप्यम् ॥

 तिङ्तद्धितप्रकृतिप्रत्ययोभयश्लेषोऽपि संभवति । यथा--

 असुलभमाशासै कथममृतं श्रीशारदघी महानन्दात् । इत्यङ्ग मा त्रपिष्ठा इह कतिकति तेन नामृतं गमिताः ॥ ९१७ ॥

 अघमस्यास्तीत्यघी । नित्ययोगे मत्वर्थीय इनिः । नित्यदुःखीत्यर्थः । ‘अंहोदुःखव्यसनेष्वघम्' इत्यमरः । महानन्दात् 'स एको ब्रह्मण आनन्दः' इत्युक्तनिरवधिकानन्दात् । इदमुभयोरतिमात्रानानुरूप्यं द्योतयितुम् । श्रीशात् भगवतः असुलभं दुर्लभं अमृतं निश्श्रेयसं कथं आशासै अपेक्षिषीय । श्वेव देवभोग्यं पुरोडाशमिति भावः । ‘एत ऐ' इति लोडुत्तमस्य एकारस्य ऐआदेशः । इति एवं अङ्ग ! इदं कस्यचिद्वा स्वस्य वा संबोधनम् । मा त्रपिष्ठाः मा लज्जिष्ठाः ‘त्रपूष् लज्जायाम्' अस्माल्लुङि ऊदित्वाद्वैकल्पिक इट् । माङ्योगादडभावः । ईदृशोऽहं तादृशाशासने कथं न त्रपेयेत्यत्राह-- इहेत्यादिना । इह अस्मिन् लोके तेन श्रीशेन कतिकति त्रपिष्ठा इति योजना । अतिशयेन तृप्राः त्रपिष्ठा जनाः । तृप्रं दुःखमिति माधवः । अयं चात्र तद्वति वर्तते । त्वत्तोप्यतिशयित दुःखा इत्यर्थः । तृप्रशब्दादतिशायनेऽर्थे इष्ठनि ‘प्रियस्थिर' इत्यादिना त्रपीत्यादेशः । अमृतं न गमिताः भूयांस एव निश्श्रेयसं नीताः । त्वं कुतस्तदाशासनाय लज्जस इति भावः । अत्र त्रपधातोः तृप्रशब्दस्य च प्रकृतेः क्रमेण इडाश्लिष्टथासि तिङि इष्ठनि तद्धिते चैकरूप्यम् । एवं प्रत्यययोरप्यैकरूप्यमिति ध्येयम् ॥


अथ प्रत्ययश्लेषः.



प्रकृतिप्रत्ययौघस्यानेकस्य प्रत्ययैर्यदि ।
श्लिष्टैस्सरूपता सोऽयं प्रत्ययश्लेष उच्यते ॥

 यत्रानेकेषां प्रकृतिप्रत्ययसमुदायानां तद्घटकप्रत्ययश्लेषनिमित्तकं सारूप्यं दृश्यते सोऽयं प्रत्ययश्लेषः । इमे च प्रकृतिप्रत्ययश्लेषलक्षणे रुद्रटानुरोधेन वर्णिते । वस्तुतस्तु--

स एष प्रकृतिश्लेषः प्रकृत्योः श्लिष्टता यदि ।
श्लिष्टतायां प्रत्यययोः प्रत्ययश्लेष इष्यते ॥

इत्येतावती एव लक्षणे अलं, काव्यप्रकाशाद्यनुरोधित्वात् । 'विभक्तेर्वैचित्र्यस्य विशेषहतुतया पृथगुपादानात्प्रत्ययपदं तदतिरिक्तपरम्’ इति काव्यप्रदीपकारः ॥  यथा--

 कमिता श्रियो मदागः क्षमिता यत्रावभासते वितता । अमिता ममतापाळिश्शमितानेनाप्स्यते तथाऽभिमता ॥ ९१८ ॥

 श्रियः कमिता भगवान् । अनेन पुरुषकारसान्निध्यमुक्तम् । मदागः ममापराधं क्षमिता सोढा क्षमतेर्लुट् । ऊदित्त्वाद्वैकल्पिक इट् । तत्र हेतुमाह-- यत्रेति । यत्र यस्मिन् श्रीवल्लभे वितता विस्तृता क्षमितेति योजना । क्षमत इति क्षमी । क्षमेः ‘शमित्यष्टाभ्यो घिनुण्’ इति घिनुण् प्रत्ययः । ‘नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । तस्य भावः क्षमिता महापराधसहिष्णुता अवभासते । अथ तत्कार्यमाह-- अमिता मम तापाळिः आध्यात्मिकादितापपरंपरा शमिता शमिष्यति । शाम्यतेर्लुट् । भगवता मदागसि क्षान्ते मम तापत्रयव्यथा नङ्क्ष्यत्येवेत्यर्थः । न केवलमेतावदेव, तथा अनेन मयेत्यर्थः । अभिमता शास्त्रसम्मता शमिता शाम्यतीति शमी पूर्ववदेव घिनुण्, वृद्ध्यभावश्च । तस्य भावः शमिता ‘शान्तो दान्तः' इति श्रुता शान्तता भगवदुपासनौपयिकीति भावः । आप्स्यते लप्स्यते । अत्र क्षमिता शमितेति प्रकृतिप्रत्ययसमुदायस्य तास्तल्प्रत्ययश्लेषनिमित्तकं सारूप्यमिति प्रत्ययश्लेषः ॥

 यथा--

 अग्राहि हृदा भगवान् दुर्विषयस्येन्द्रियं च निखिलं मे । धन्येनाभावि मया मम भवकान्तारचारदुःखमपि ॥ ९१९ ॥  भगवान् हृदा मनसा मयेति शेषः । अग्राहि अगृह्यत ध्यात इत्यर्थः । ग्रहेः कर्मणि लुङि चिण् । मे मम निखिलं इन्द्रियं चक्षुरादिकं च इदं कर्तृ, दुर्विषयस्य कर्मणि षष्ठी । अग्राहि अग्राहकं भवतीति शेषः । ग्रहेः कर्तरि 'नन्दिग्रहि' इति णिनिः । अत एव मया धन्येन कृतार्थेन अभावि । भवतेर्भावे लुङि चिण् अभूयत । मम भवकान्तारचारदुःखमपि अभावि न भावि अभावि । इतःपरं पुनर्न भविष्यतीत्यर्थः । 'भविष्यतिगम्यादयः’ इति भविष्यत्यर्थे ‘भुवश्च' इत्यौणादिक इनिः । स च णित् । 'आङिणित्’ इत्यतो णिदित्यनुवृत्तेः । ततो नञ्समासः । अत्र अग्राहि अभावीत्युभयत्रापि चिण्णिन्योः प्रत्यययोरैकरूप्यम् ॥

 यथावा--

 जगतामादिरभूस्त्वं तव महिमा त्वनिदमादिवचसोऽपि । अभवस्त्वं फणिशैले त्वामाश्रित्याहमपि भवानि हरे ॥ ९२० ॥

 हे हरे! त्वं जगतां आदिः 'यतो वा इमानि’ इत्युक्तरीत्या कारणं अभूः आसीः । भवतेर्लुङ् मध्यमैकवचनम् । तव महिमा तु अनिदमादिवचसोऽपि अभूः अविषयः 'यतो वाचो निवर्तन्ते' इति श्रुतेः । नञो भूशब्देन समासः । त्वं एवंजगत्कारणभूत इति भावः । फणिशैले अभवः जगदवनार्थमर्चात्मना प्रादुरासीरित्यर्थः । भूधातोर्लङ्मध्यमैकवचनम् । त्वां आश्रित्य अहमपि विषयमरुमरीचिकाहरिणायमानहृदयोऽपीति भावः । अभवः पुनर्जन्मविधुरः भवानि प्रार्थनायां लोट् । भवितुमाशासे इत्यर्थः । अत्र अभू : अभवः इत्युभयत्रेऽपि सिप्सुप्रत्यययोरैकरूप्यम् ॥

 यथावा--

 आचार्याणामभिमुखमतनोर्मां दूरतोऽस्य बाधा मे । त्वरितं हरेर्ममाखिलदुरितं तस्याम्ब मां प्रियं तनुयाः ॥ ९२१ ॥

 हे अम्ब ! मां आचार्याणामभिमुखं अतनोः अकरोः । तनोतेर्लङि मध्यमैकवचनम् । अस्य अतनोरित्यावर्त्यते । अतनोः कामस्य बाधा मे मम दूरतो भवति । आचार्याभिमुख्येन कामादयो मां न स्पृशन्तीति भावः । मम अखिलं दुरितं पूर्वमुत्तरं चाघं हरेः अपनुदेः । हृञस्संभावनायां लिङ्मध्यमपुरुषैकवचनम् । मां तस्य हरेरित्येतदत्रावर्त्यते । हरेः भगवतः प्रियं 'सच मम प्रियः’ इत्युक्तरीत्या प्रीतिविषयं तनुयाः कुर्याश्च । तनोतेस्संभावनायां लिङ् । आचार्याभिमुख्यदात्री त्वं उत्तरपूर्वाघलोपविनाशपूर्वकं परमे व्योम्नि भगवन्नित्यकिंकरं कुर्या एवेति सम्भावये ॥

यो मे गर्भगतस्यापि वृत्तिं कल्पितवान् प्रभुः ।
शेषवृत्तिविधानाय स किं सुप्तोऽथवागतः ॥

इति न्यायादिति भावः । अत्र अतनोः हरेः इत्यत्र सिप्ङसोरैकरूप्यम् ॥

 यथावा--

 त्वामाश्रितस्य पातो न किंतु सोऽपि त्वया दयाजलधे । त्वच्चरणौ मामेवं किमन्यदवशिष्यतेऽर्थनीयं मे ॥ ९२२ ॥

 हे दयाजलधे ! त्वां आश्रितस्य पातः अधोगतिः पततेर्भावे घञ् । न भवति । किंतु, त्वया सोऽपि पातः रक्षितः पातेः कर्मणि क्तः । अनेनानिष्टनिवारणमिष्टप्राप्तिश्चोच्यते । ‘पातस्तु रक्षिते । पतने च' इति रत्नमाला । आश्रितस्यैवंविधातिशयलाभे तव किमायातमित्यत्राह-- त्वदिति । त्वच्चरणौ मां, अहमपि न किं तवाश्रित इति भावः । एवं पातः रक्षतः । पातेर्लट् प्रथमपुरुषद्विवचनम् । एवमिति साभिनयनिर्देशः । आश्रितान्तरं त्वमेक एव रक्षसि । मां तु त्वच्चरणौ द्वौ रक्षत इति तदपेक्षया ममैवातिशयलाभ इति भावः । अन्यत् अनिष्टनिवारणेष्टप्रापणरूयरक्षणादन्यत् किं ममाशास्यं सर्वस्यापि प्रार्थनीयस्यात्रैवान्तर्गतत्वादिति भावः । अत्र द्वितीयतृतीययोरर्थयोस्सुबन्तकृत्प्रत्ययस्य क्तस्य तिङन्ततस्प्रत्ययस्य चैकरूप्यमिति प्रत्ययश्लेषः प्राथमिकपदश्लेषेण संकीर्ण इति पूर्वेभ्यो विशेषः ॥


अथ वचनश्लेषः.


स भवेद्वचनश्लेषः श्लिष्यन्ति वचनानि चेत् ॥

 सुब्विभक्तीनां तिण्विभक्तीनां वा वचनानि श्लिष्टानि चेद्वचनश्लेष इत्यर्थः ।

 यथा- खेलन्ती हरिहृदये तुदती विपदः प्रपुष्णती विभवान् । लक्ष्मीस्तच्चरणे वा रुन्धां मम चापलानि दीव्यन्ती ॥ १२३ ॥

 अत्र खेलन्ती दीव्यन्ती इत्यनयोः ‘शप्छ्यनोर्नित्यम्’ इति शीनद्योः परयोर्नित्यं नुम् । तुदती इत्यत्र तु न नुम् । ‘आच्छीनद्योर्नुम्’ इति विकल्पेन विहितत्वात्तस्य । रुन्धा निरुद्धानि करोतु कुरुतामिति चार्थः । 'रुधिर् आवरणे' अस्मादात्मनेपदिनो लोटि प्रथमपुरुषैकवचनम् । पक्षे तस्मादेव धातोः परस्मैपदिनो लोट्प्रथमपुरुषद्विवचनम् । अत्र खेलन्ती इत्यादिसुबन्तेषु रुन्धामिति तिङन्ते चैकवचनद्विवचनयोः श्लेषः । लिङ्गश्लेषोऽप्यत्र द्रष्टव्यः ॥

 यथावा--

 सुमहामहास्स्वयंभूकृतबहुधामान ऊर्जितार्चाविभयः । सुश्रीकमनास्सततं सर्वात्मानः परश्रियं सन्दधताम् ॥ ९२४ ॥

 अत्र श्रीपरवासुदेवस्य श्रीवेंकटाचलादिदिव्यदेशस्थार्चावताराणां च श्लेषः । प्रथमपक्षे-- सुमहत् महः तेजो यस्य स तथोक्तः । स्वयंभुवा वेधसा कृतः बहुधा बहुप्रकारः मानः पूजा यस्य सः । ऊर्जितौ अर्चा श्रीवेङ्कटाचलादिगतोऽर्चावतारः, विभवः रामकृष्णाद्यवतारश्च यस्य येन वा स तथोक्तः । सततं शोभना श्रीः लक्ष्मीः यस्मिंस्तत् सुश्रीकं मनो यस्य सः सुश्रीकमनाः। 'अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्’ इत्युक्तरीत्याऽनवरतमपि लक्ष्मीलालसमानस इत्यर्थः । सर्वेषामात्मा अन्तः प्रविश्य नियन्ता परः परवासुदेवः नः अस्माकं श्रियं सर्वप्रकारसमृद्धिं संदधतां संधत्ताम् । ‘दध धारणे' अस्माद्भौवादिकाल्लोट्प्रथमपुरुषैकवचनम् ।

 द्वितीयपक्षे तु— इमानि विशेषणानि बहुवचनान्तानि, विभव इति विशेष्यानुरोधात् । सुमहान् महः उत्सवः नित्योत्सवपक्षोत्सवादिः येषां ते । ‘मह उद्धव उत्सवः' इत्यमरः । अदन्तोऽयं महशब्दः । स्वयं आत्मना अनितरप्रेरणमित्यर्थः । भुवि कृतानि आश्रितानि बहूनि धामानि वेंकटाचलादिस्थानानि यैस्ते तथोक्ताः । ऊर्जिताः ऊर्जस्वलाः अर्चाः पूजाः प्रतिकृतयो वा येषां ते तथोक्ताः । ‘अर्चा पूजाप्रतिमयोः' इति मेदिनी । श्रिया लक्ष्म्याः कमनाः कामयितारः सुष्ठु श्रीकमनाः सुश्रीकमनाः । सुष्ठु लक्ष्म्याः अभिरूपा वा ‘कमनः कामुके कामेऽभिरूपेऽशोकपादपे' इति मेदिनी । सर्वेषां चेतनाचेतनानां आत्मानः विभवः प्रभवः जगदीश्वरा इत्यर्थः । तत्तद्दिव्यदेशार्चाबहुत्वप्रयुक्तं बहुवचनम् । सततं परश्रियं श्रेष्ठां संपदं संदधताम् । दधातेर्जौहोत्यादिकाल्लोट्प्रथमबहुवचनम् । अत्र सुमहामहा इत्यत्र सुबन्ते संदधतामित्यत्र तिङन्ते च प्रथमैकवचनबहुवचनयोः श्लेषः । स्वयंभूकृतेत्यादौ तु पदश्लेष इति वेदितव्यम् । परश्रियमित्यत्र समस्ततायां शकारस्य 'अनचि च' इति वैकल्पिकं द्वित्वम् ॥

 यथावा--

 सकृदपि वामित्रतया रघुनन्दन यस्त्वया पुर स्क्रियतेऽलम् । भोक्ताचतुरश्राणां रसाभृतां प्राणदं सविषयं वाऽयम् ॥ ९२६ ॥

 हे रघुनन्दन ! यः पुमान् मित्रतया सुहृत्त्वेन पक्षे अमित्रतया असुहृत्त्वेन त्वया सकृदपि वा पुरस्क्रियते पूज्यते आद्रियत इति यावत् । पक्षे अभियुज्यत इत्यर्थः । ‘पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते’ इत्यमरः । सः अयं उक्तविध एष पुमान् । चतस्रः अश्रय कोटयो येषां तेषां तथोक्तानां 'स्त्रियः पाळ्यश्रिकोटयः' इत्यमरः । ‘सुप्रातसुश्व' इत्यादिना बहुव्रीहावजन्ततया निपातितोऽयम् । चतुर्दिगन्तविद्यमानानामिति यावत् । रसाभृतां भूपालानां प्राणदं शक्तिप्रदं विषयं देशं 'देशविषयौ' इत्यमरः । वाशब्दो भिन्नक्रमः । अलं भोक्ता वा भोक्ष्यत्येव पालयिष्यत्येवेत्यर्थः । ‘भुज पालनाभ्यवहारयोः' 'अस्माल्लुट् । ‘वा स्याद्विकल्पोपमयोरेवार्थे च तदव्ययम्’ इति विश्वः ॥

 अन्यत्र-- सः अमित्रतया अभियुक्तः पुमान् भोक्ता अचतुरः श्राणां इति छेदः । अलं अचतुरः अकुशलः । नभृता अभृता रसेन अभृता रसाभृता तां नीरसामित्यर्थः । श्राणां यवागूं 'यवागूरुष्णिका श्राणा' इत्यमरः । भोक्ता अभ्यवहर्ता पातेत्यर्थः । भुजेस्तृन् । अत एव ‘न लोक' इति निषेधात् श्राणेत्यत्र न कर्मणि षष्ठी किंतु द्वितीयैव । प्राणं द्यतीति प्राणदं असूच्छेदकम् ।

देहान्तरानिले प्राणो जीवात्मपरमात्मनोः ।
आयुरिन्द्रियसत्त्वेषु प्रणवे काव्यमर्मणि ॥

इति रत्नमाला । अयं अविद्यमानयकारं विषयं विषमित्यर्थः । शब्दार्थयोस्तादात्म्यं न प्रस्मर्तव्यम् । तद्वा भोक्ता । त्वदभियुक्तो दुर्गतो यत्र क्वा कदन्नाभ्यवहारेण जीवति । तथा जीवितुमनिच्छुर्गरळं वा पिबति । न तु त्वदग्रतः पराक्रमत इति भावः । अत्र चतुरश्राणां रसाभृतामित्यत्र षष्ठीबहुवचनद्वितीयैकवचनयोश्श्लेषः पदश्लेषसंकीर्णः । भोक्तेत्यत्र सुबन्तकृत्तिङोः श्लेषः । अयमित्यत्र पदश्लेषसंकीर्णः प्रथमाद्वितीययोर्विभक्त्योश्श्लेषश्च ॥

 यथावा--

 सर्वविदो भजतान्नश्चेतस्सुगुणादिमान्यदुवरीयान् । अप्रतिहतप्रभावान्महास्वभावान् दुरन्तदुरितनुदः ॥ ९२७ ॥

 अत्र भगवतो भागवतानां च श्लेषः । तथाहि-- वेत्तीति विदः, इगुपधलक्षणः कः । सर्वस्य विदः सर्वविदः सर्ववित् 'यस्सर्वज्ञस्सर्ववित्' इति श्रुतेः । सुगुणादिमान् सुगुणाः सत्यकामत्वादयः कल्याणगुणाः आदयो येषां ते सुगुणादयः आदिशब्देन स्वरूपरूपादीनां ग्रहणम् । तेऽस्य सन्तीति तथोक्तः । नित्ययोगे अतिशायने वा मतुप् । अप्रतिहता च सा प्रभा च तद्वान् । 'न तत्र सूर्यो भाति' इत्याद्युक्तसूर्याद्यभिभावुकदिव्यप्रभाशाली । तत्र हेतुः महती च सा स्वभा च तद्वान् महास्वभावान् लोकोत्तरस्वयंप्रकाशस्वरूपः न ह्यस्य प्रकाशस्सूर्यादेरिवान्याधीनः । यद्वा भाः प्रभावः ‘भाः प्रभावे च दीप्तौ च' इति मेदिनी । महाप्रभावशालीत्यर्थः । नुदतीति नुदः, इगुपधलक्षणः कः । दुरन्तं यद्दुरितं तस्य नुदः पूर्वोत्तराघनिर्धूनन इत्यर्थः । अतिशयेन उरुः वरीयान् उरुशब्दादीयसुनि ‘प्रियस्थिर' इत्यादिना वरादेशः । यदुषु वरीयान् यदुवरीयान् यदुकुलोत्तंसो भगवान् नः चेतः भजतात् हृदि सं निधत्तामित्यर्थः ॥

 पक्षे-- भज तान् नः इति छेदः । नः अस्माकं चेतः ! हे मनः! सर्वं विदन्तीति सर्वविदः तान् विदेः क्विप् । सर्वज्ञानित्यर्थः । शोभनाः गुणाः ‘अष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गळमकार्पण्यमस्पृहा’ इत्यादिगौतमाद्युक्ता महागुणाः येषां ते सुगुणाः तेषु आदिमाः अग्रिमाः तांस्तथोक्तान् आदिशब्दाद्भवार्थे 'अग्रादिपश्चाड्डिमुच्' इति डिमच् । अप्रतिहतप्रभावान् अकुण्ठितमहिमशालिनः । महान् स्वभावो येषां ते तथोक्तान् उत्तमशीलान् दुरन्तं दुरितं नुदन्तीति तथोक्तान्, नुदेः क्विप् । तान् प्रसिद्धान् यदुवरस्य इमे यदुवरीयाः तान् । गहादेराकृतिगणत्वाच्छः । भागवतानित्यर्थः । भज सेवस्व । भजतेः परस्मैपदिनः लोण्मध्यमैकवचनम् । पूर्वत्र लोट्प्रथमैकवचनम् । अत्र सुगुणादिमानित्यादौ पदश्लेषसङ्कीर्ण एकवचनबहुवचनयोः श्लेषः। एवं प्रथमाद्वितीययोर्विभक्त्योरपि । यदुवरीयानित्यादौ तु वचनविभक्तिश्लेषः पूर्ववदेव । इयांस्तु विशेषः--ईयसुन्छरूपतद्धितप्रत्ययान्तप्रकृत्योः तत्रापि उरुवरशब्दरूपपरमप्रकृत्योश्च श्लेष इति ॥

 यथावा--

 व्रजजनतानां न्यरुणस्त्वं वर्षीयानुपप्लवान् शौरे । अपिच गरीयान् दोषान् काळिन्द्याः काळियोद्धृतेर्व्युधुनोः ॥ ९२८ ॥

 हे शौरे! वर्षीयान् ज्यायान् पुराणपुरुष इति भावः । अतिशयेन वृद्ध इति विग्रहः । वृद्धशब्दादीयसुनि ‘प्रियस्थिर' इत्यादिना वर्षादेशः । त्वं व्रजजनतानां नन्दव्रजजनसमूहानां वर्षीयान् अतिवृष्टिसंबन्धिनः गोवर्धनयागावसरक्रुद्धवृद्धश्रवःकलितानिति भावः । उपप्लवान् उपद्रवान् न्यरुणः न्यगृह्णाः । अपिच गरीयान् अतिशयेन गुरुः गुरूणामपि गुरुः प्रथमाचार्य इत्यर्थः । ‘त्वमस्य पूज्यश्च गुरुर्गरीयान्’ इत्युक्तेः । ‘गुरुर्गुरुतमः’ इति नामसहस्रपाठाच्च । काळीयस्य तन्नाम्न आशीविषस्य उद्धृतेः उत्सारणात् काळिन्द्याः यमुनायाः गरीयान् गरः गरळं तत्संबन्धिनः । गहादित्वाच्छः । एवं वर्षीयानित्यत्रापि दोषान् व्यधुनोः निराकार्षीः । अत्र प्रथमैकवचनद्वितीयाबहुवचनयोः श्लेषः । अन्यत्सर्वं यदुवरीयानित्यत्रेव बोध्यम् ॥

 यथावा--

 गाते तवब्जतुलनां ग्रीवा नयने नखानि च मुरारे । व्यतिपाते जगदखिलं कृपा तव दृशौ भुजाश्च चत्वारः ॥ ९२९ ॥

 हे मुकुन्द! तव ग्रीवा अब्जतुलनां शङ्खतौल्यं गाते गच्छति प्राप्नोतीत्यर्थः । नयने आब्जतुलनां पद्मसाम्यं गाते गच्छतः । नखानि च अब्जतुलनां चन्द्रसाधर्म्यं गाते गच्छन्ति । 'गाङ् गतौ' अस्माद्भौवादिकात् क्रमेण लट्प्रथमपुरुषैकवचनद्विवचनबहुवचनानि । बहुवचने ‘आत्मनेपदेष्वनतः’ इति झस्य अत् । तव कृपा अखिलं जगत् व्यतिपाते कर्मव्यतिहारेण रक्षति । कर्मव्यतिहारो नाम क्रियाविनिमयः । दृग्भुजयोग्यं पालनं करोतीत्यर्थः । तव दृशौ अखिलं जगत् व्यतिपाते कृपाभुजयोग्यं पालनं कुर्वाते । चत्वारो भुजाश्च व्यतिपाते कृपादृग्योग्यं पालनं कुर्वन्तीत्यर्थः । व्यतिपूर्वकात्पातेः ‘कर्तरि कर्मव्यतिहारे’ इत्यात्मनेपदे क्रमेण लट्प्रथमपुरुषैकद्विबहुवचनानि । अत्र गाते व्यतिपाते इति च वचनत्रयेऽपि तुल्यरूपमिति वचनश्लेषः । अयं शुद्धः न तु पूर्ववत्सङ्कीर्णः इति विशेषः ॥

 अमीषामष्टानां श्लेषाणां मध्ये यस्य यस्मिन्नन्तर्भावः प्रतिभाति तत्र तद्भिन्नत्वं विवक्षणीयम्' इत्यलङ्कारकौस्तुभकारः । एते श्लेषभेदाः प्रागुपदर्शितेषु प्रकृताप्रकृतादिश्लेषोदाहरणेष्वपि यथायथं संभवन्तीति ध्येयम् । एवं अष्टविधस्सभङ्गश्लेषो निरूपितः । अभङ्गश्लेषो यथा, मदीय एव नृसिंहविलासे--

 अमृतश्रियं प्रयच्छन् सतां प्रवर्धितहिरण्यगर्भो यः । मुग्धेन्दुबिम्बधामा मुखे हरिस्स्तान्मुदे महान् स पुमान् ॥ ९३० ॥

 अत्र श्रीहयग्रीवनृसिंहयोरुभयोरपि स्तव्यत्वेन प्रस्तुतयोरेव श्लेषः । यः सतां अमृतश्रियं त्रयीमित्यर्थः । 'ऋचस्सामानि यजूग्ँषि । सा हि श्रीरमृता सताम्' इति श्रुतेः । प्रयच्छन् प्रदानेन हेतुना ‘लक्षणहेत्वोः' इति शता । प्रवर्धितः समेधितः हिरण्यगर्भः ब्रह्मा येन सः मधुकैटभापहृतवेदाहरणतत्प्रदानोज्जीवितचतुर्मुख इत्यर्थः । ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै' इति श्रुतेः । अत्र मोक्षधर्मगतहयशिरउपाख्यानमनुसन्धेयम् । पक्षे-- सतां ब्रह्मविदां अमृतश्रियं मुक्तिसंपदं प्रयच्छन् प्रवर्धितः प्रकर्षेण छिन्नः हिरण्यस्य हिरण्यकशिपोः गर्भः कुक्षिः येन स तथा । मुग्धेन्दुबिवं धाम स्थानं यस्य, पक्षे मुग्धेन्दुबिम्बस्य धामेव धाम तेजः यस्य स तथोक्तः । नृसिंहदिव्यविग्रहस्य ‘इन्दुधवळं लक्ष्मीनृसिंहं भजे' इति पाण्डुरत्वोक्तेः । मुखे हरिः तुरङ्गः सिंहश्च स महान् मुदे अस्तु । अत्रान्योन्यविलक्षणं पदभङ्गमनपेक्ष्य समानानुपूर्वीकशब्दप्रतिसन्धानबोध्यानेकार्थक्रोडीकरणादभङ्गश्लेषः ॥

 अत्र केचित्-- अनयोस्सभङ्गाभङ्गश्लेषयोः ‘सर्वदोमाधवः' इत्यादौ सर्वदः सर्वदेति पदद्वयस्य जतुकाष्ठन्यायेन संबन्धात्सभङ्गश्लेषश्शब्दालङ्कारः, शब्दवृत्तित्वात् । अभङ्गश्लेषस्तु अब्जकमलादिशब्देषु पदभेदाभावेन पदद्वयसंबन्धाभावाच्छब्दवृत्तितानुपपत्तेरेकस्मिन् शब्दे अर्थद्वयस्य वाच्यतया संबद्धत्वादयमेकवृन्तगतफलद्वयन्यायेनार्थालङ्कार इत्याहुः ॥

 अन्ये तु-- सभङ्गाभङ्गश्लेषौ द्वावपि शब्दालङ्कारावेव, शब्दान्वयव्यतिरेकानुविधायित्वात् । न तु सभङ्गश्लेषस्य शब्दाश्रितत्वाच्छब्दश्लेषत्वं अभङ्गश्लेषस्यार्थाश्रितत्वादर्थश्लेषत्वं युक्तं, कष्टत्वादिदोषगाढत्वादिगुणानुप्रासाद्यलङ्कारवदत्राप्यन्वयव्यतिरेकाभ्यामेव व्यवस्थोपपत्तावतिरिक्तनियामकान्तरकल्पने गौरवात् । न चैवमभङ्गश्लेषस्यापि शब्दान्वयव्यतिरेकानुविधायितया शब्दश्लेषत्वे अर्थश्लेषो निर्विषयस्स्यादिति वाच्यं,

स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी रीतिस्तुलाकोटेः खलस्य च ॥

इत्यादौ यत्र स्वल्पेनोन्नतिमायातीत्यादिना शब्दपरिवर्तनेऽपि न श्लेषत्वभङ्गः । तत्रैवार्थश्लेषपदवीसाम्राज्यादित्यवादिषुः ॥

 कुवलयानन्दकृतस्तु-- उभयमप्यर्थालङ्कार इति । अयं हि तेषामाशयः-- सभङ्गाभङ्गभेदेन द्विविधोऽप्ययं श्लेषोऽर्थालङ्कार एव, अनेकार्थप्रतिपादनात्मनस्तस्यार्थालङ्कारत्वस्यैवोचितत्वात् । आश्रयाश्रयिभावस्यैव लौकिकालङ्कारवत्तत्तदलङ्कारप्रयोजकत्वम् । लौकिकालङ्कारो हि कङ्कणमञ्जीरादिः पाणिपादादिनिष्ठः पाणिपादाद्यलङ्कारतयैव व्यवह्रियते । इयमेव रीतिः काव्यगतालङ्कारेष्वपि । न च शब्दान्वयव्यतिरेकानुविधायित्वादस्य शब्दालङकारत्वमिति वाच्यम् । तथा सति सर्वेषामप्यलङ्काराणां तदन्वयव्यतिरेकानुविधायित्वेन शब्दालङ्कारताप्रसङ्गात् । न चाभङ्गश्लेषस्य एकवृन्तगतफलद्वयन्यायेन एकपदाश्रितार्थद्वयनिष्ठतयाऽर्थालङ्कारत्वं, सभङ्गस्य तु जतुकाष्ठन्यायेन शब्दद्वयसंश्लेषरूपत्वाच्छब्दालङ्कारत्वमिति सर्वस्वकाराद्यक्तं युक्तं, 'अर्थभेदेन शब्दभेदः' इति मते ‘अन्याय्यं चानेकार्थत्वम्' इत्युपपत्तिकबळिते अभङ्गश्लेषेऽपि सभङ्ग इव शब्दभेदस्य दुर्निवारतया शब्दयोरेव श्लेषस्य सुवचत्वात् । अत उभयं शब्दालङ्कार इति वा सभङ्गस्य शब्दालङ्कारत्वमभङ्गस्यार्थालङ्कारत्वमिति वा मतद्वयमप्ययुक्तम् । तस्मात् द्वयोरप्यर्थालङ्कारत्वमेव युक्तमिति । अन्ये तु-- चमत्कारे अर्थमुखप्रेक्षित्वादुभयोरप्यर्थालंकारत्वं, अनुप्रासयमकादेस्तु न चमत्कारेऽर्थमुखप्रेक्षित्वमिति न तेषामर्थालंकारत्वं अपितु शब्दवैचित्र्याच्छब्दालंकारत्वमेवेत्यप्याहुः ॥

 काव्यप्रकाशानुयायी जगन्नाथस्तु– “ श्रुत्यैकयाऽनेकार्थप्रतिपादनं श्लेषः । तच्च द्वेधा-- अनेकधर्मपुरस्कारेण एकधर्मपुरस्कारेण च । आद्यं द्वेधा--अनेकशब्दप्रतिभानद्वारा एकशब्दप्रतिभानद्वारा चेति त्रिविधश्श्लेषः । तत्राद्यस्सभङ्गः द्वितीयोऽभङ्ग इति वदन्ति । तृतीयस्तु शुद्धः । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रिविधः । तत्राद्ये भेदे द्वितीये च विशेष्यस्य श्लिष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्लिष्टत्वं न विशेष्यवाचकस्य तथात्वे शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात् । विशेषणमात्रश्लिष्टतायामपि प्रकृताप्रकृतधर्मिणोरुपादान एव श्लेषः । प्रकृतधर्मिमात्रस्योपादाने तु समासोक्तेरेव विषयः । तदित्थं प्रकृतमात्रविशेष्यकानेकार्थविशेषणं यत्र स एकः । एवमप्रकृतेत्यादि द्वितीयः । पृथगुपात्तप्रकृताप्रकृतोभयविशेष्यकनानार्थविशेषणं तृतीयः । एतदन्यतमत्वं च लक्षणं पर्यवसितम्” इत्यभाणीत् । तन्मतानुसारेण दिङ्मात्रमुदाह्रियते--

 तत्राद्यः प्रकृतमात्रविषयस्सभङ्गः श्लेषो यथा--

 जगदवति यस्य पाणिस्सुभव्यभावेत्रसत्तया दीव्यन् । शेषाहार्यादरणो विष्वक्सेनस्स शमयताद्विघ्नान् ॥ ९३१ ॥

 यस्य भगवतः पाणिः त्रसतो भावः त्रसत्ता न त्रसत्ता अत्रसत्ता तया अनुद्विग्नतया सुभव्यस्य जगत्क्षेमस्य भावे प्राप्तौ विषये ‘भू प्राप्तावात्मनेपदी’ इत्याधृषीयाद्भवतेर्घञ् । दीव्यन् जगत् अवति । पक्षे यस्य भगवत्सेनाधिनाथस्य विष्वक्सेनस्य सुभव्या अतिरमणीया भाः दीप्तिर्यस्य सः पाणिः वेत्रस्य सत्तया स्थित्या प्राशस्त्येन वा दीव्यन् जगदवति ‘यद्वेत्रशिखरस्पन्दे विश्वमेतद्व्यवस्थितम्’ इत्युक्तेः । शेषाहार्ये शेषाद्रौ आदरणं यस्य स तथोक्तः । पक्षे शेषे अनन्ते अहार्यं इतरैरनपनोद्यं आदरणं यस्य स तथा । स्वस्येव तस्यापि नित्यसिद्धतया तस्मिन्नविच्छिन्नप्रीतिरिति भावः । सः विष्वक्सेनो भगवान् 'विष्वक्सेनश्चतुर्भुजः' इत्यमरः । पक्षे भगवत्सेनानीः विघ्नान् विद्यानिष्पत्तिविरोधिनोऽन्तरायान् ऐहिकश्रेयोन्तरायांश्च शमयतात् । ‘शुक्लाम्बरधरं, यस्य द्विरद’ इति पद्याभ्यामुभयोरपि विघ्नोपशमनार्थमुपास्यत्वाभिधानात् । अत्र भगवद्विष्वक्सेनयोरुभयोरपि प्रकृतत्वात् प्रकृतमात्राश्रितोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभङ्गः ॥

 विशेष्ययोरश्लिष्टत्वेऽप्ययं संभवति, यथा--

 बहुधामरविद्रावणपरासुहृद्बाणभुजविततिलविता । भृगुनेता रघुनेता यदुनेता वा ममाविता भविता ॥ ९३२ ॥

 द्रावयतीति द्रावणः रवेः द्रावणः रविद्रावणः । बहुना धाम्ना तेजसा रविद्रावणः वह्निनेव स्वर्णपिण्डं स्वतेजसा विलापयतीत्यर्थः । महाप्रतापशालीति भावः । यथोच्यते मात्स्यादिषु पुराणेषु--

योऽसौ बाहुसहस्रेण ज्याघातकठिनत्वचा ।
भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥

 इति,

सहस्रकरमत्येति सोऽयं करसहस्रवान् ।
तेजसा महता श्रीमान् कार्तवीर्योर्जुनो नृपः ॥

इति च । एवंविधो यः परः विरोधी 'परोऽरिपरमात्मनोः' इति विश्वः । अर्थात्कार्तवीर्य इत्यर्थः । तस्य असुहृतः रिपुप्राणापहारिणः बाणाः येषु ते असुहृद्बाणाः । इदं च विशेषणं ‘उत्ससर्जैकवेगेन पञ्चबाणशतानि यः' इत्येतदभिसंधायोक्तम् । असुहृदां रिपूणां बाणप्राया इति वा । ये भुजाः सहस्रसंख्याकाः तेषां विततेः समूहस्य लविता छेत्ता । भृगुनेता भार्गवो रामः । पक्षे बहुधा अमरान्विध्यतीत्यमरवित् , विध्यतेः क्विप् । यो रावणः तस्य परेषां रिपूणां असुहृतः प्राणापहारिणो बाणाः येषु ते तथोक्ताः भुजाः विंशतिसंख्याकाः तेषां विततेः लविता रघुनेता भगवान् राघवः । अन्यत्र बहुधा अमराणां देवानां विद्रावणे दूरोत्सारणे परः आसक्तः असुहृत् द्वेषी यो बाणः बलिसुतः तस्य भुजानां विततेः लविता यदुनेता भगवान्वासुदेवो वा मम अविता रक्षिता भविता इति । अत्र त्रयाणां भगवदवताराणामपि प्रस्तुतत्वात्प्रकृतश्लेषस्सभङ्गः अश्लिष्टविशेष्यकः ॥

 अयमेवाभङ्गात्मको द्वितीयो यथा--

  दीव्यतु पुराणरत्नं दिव्यं मन्वन्तरप्रथितविभवम् । वंश्यानुचरितगीतं सर्गप्रतिसर्गरचननिष्णातम् ॥ ९३३ ॥

 मन्वन्तरेषु प्रथिताः विभवाः विभवावताराः ‘मन्वन्तरावताराश्च विष्णोर्हयशिरादयः’ इति श्रीभागवताद्युक्ताः यस्य तत् । अन्यत्र मन्वन्तरानुवर्णनेन ख्यातवैभवम् । वंशे वेणौ भवं वंश्यं दिगादित्वाद्यत् । वंशनाळमित्यर्थः । तेन आचरितं गीतं गानं येन तत्तथोक्तं वेणुगानरसिकमित्यर्थः । पक्षे वंश्यानां सूर्यादिवंशजानां राजादीनां अनुचरितं चरित्रं गीतं उदीरितं यस्मिंस्तत् आहिताग्न्यादेराकृतिगणत्वान्निष्ठायाः परनिपातः । सर्गः--

अव्याकृतगुणक्षोभान्महतस्त्रिविधाहमः ।
भूतसूक्ष्मेन्द्रियार्थानां संभवस्सर्ग उच्यते ॥

इति श्रीभागवतोक्तलक्षणा समष्टिसृष्टिः। प्रतिसर्गः--

पुरुषानुगृहीतानामेतेषां वासनामयः ।
विसर्गोऽयं समाहारो बीजाद्वीजं चराचरम् ॥

इत्युक्तलक्षणो महदादिसमाहाररूपचराचरादिव्यष्टिसृष्टिर्विसर्गापरपर्याया । तयोः रचने करणे निष्णातं कुशलम् । पक्षे सर्गप्रतिसर्गवर्णने कुशलं दिव्यं अप्राकृतं रमणीयं च पुराणं सनातनं रत्नं तत्त्वेनाध्यवसितं परं ब्रह्म । इतरत्र--

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंश्यानुचरितं चेति लक्षणानां तु पञ्चकम् ॥

 इत्युक्तपञ्चलक्षणं पुराणश्रेष्ठं श्रीमद्वैष्णवं पुराणं तस्यैव 'निरमिमीत पुराणरत्नम्' इति पुराणरत्नत्वोक्तेः । दीव्यतु दीप्यताम् । अत्र मन्वन्तरेत्यादावेकशब्दप्रतिभानद्वाराऽनेकधर्मपुरस्कारेणानेकार्थप्रतिपादनादभङ्गश्लेषः श्लिष्टविशेष्यकः ॥

 विशेष्ययोरश्लिष्टत्वे अभङ्गो यथा--

 कमलाञ्चितकरयुगळं कलशपयोराशिसंभवस्थानम् । तनुतां श्रियममितां नस्तत्परमं ब्रह्म तत्कळत्रं वा ॥ ९३४ ॥

 कमलैः अञ्चितं पूजितं ततोऽपि श्लाघ्यं, कमलाभ्यां अञ्चितं युक्तं च करयुगळं यस्य तत्तथा । कलशपयोराशिसंभवं तत्र विद्यमानं स्थानं निवासो यस्य कलशपयोराशिः संभवस्थानं जन्मगृहं यस्य च तत्तथोक्तम् । अत्र विशेष्ययोरश्लिष्टता ॥

 तृतीयश्शुद्धः प्रकृतमात्रविषयो यथा--

 भारतविख्यातयशास्स्मेरतरप्रावृषेण्यवारिदभाः । प्रेक्षामनघां वितरतु साक्षान्नारायणः पुराणमुनिः ॥ ९३५ ॥  भगवत्कृष्णद्वैपायनोभयविषयकोऽयमेकधर्मपुरस्कारेणानेकार्थप्रतिपादनाच्छुद्धः । अयमेवार्थश्लेष इति वदन्ति । महाभारताख्यप्रबन्धविख्यातयशस्त्वं प्रावृषेण्यजलदनीलत्वं सक्षान्नारायणत्वमित्येतान्युभयत्राप्येकरूपाण्येव धर्माणि । ‘कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्' इति प्रमाणार्थोऽत्रानुसंहितः । अयं श्लिष्टविशेष्यकश्शुद्धः ॥

 अयमेव अश्लिष्टविशेष्यको विशेषणमात्रश्लिष्टो यथा--

 कलशोदधिराजोदरकलितोदयमर्यमातिशायिरुचि । हरिहृदयहारि रत्नं तच्च वधूरत्नमवतु मां प्रत्नम् ॥ ९३६ ॥

 अर्यमातिशायिरुचीति लक्ष्मीविशेषणं तु ‘आदित्यवर्णे तपसोऽधिजातः' इति श्रुतेः ॥

 एवमेते त्रयोऽपि भेदाः प्रकृतमात्रविषयाः प्रदर्शिताः ॥

 अप्रकृतविषया यथा--

 निरधावि चित्रभानुर्निरङ्कुशोष्माहविस्फुरद्धेतिः । जगदुल्लासिश्रीकृद्ध्वान्तध्वंसी तवौजसा भगवन् ॥ ९३७ ॥

 हे भगवन् ! निरङ्कुशं यथा स्यात्तथा ऊष्मणः अहः ऊष्माहं ग्रीष्मर्तुदिनं ‘राजाहः' इत्यादिना टच् । तस्मिन् विस्फुरन्त्यः प्रकाशमानाः हेतयः किरणाः येन यस्य वा स तथोक्तः । ‘स्फुरति स्फुलत्योर्निर्निविभ्यः' इति षत्वस्य विकल्पेन विधानात् इह वीत्युपसर्गात्परस्य स्फुरतेस्सस्य न षत्वम् । 'ग्रीष्मोष्मबाष्पा ऊष्माणः', 'हेतिर्ज्वालायुधांशुषु' इति च रत्नमाला । अन्यत्र निरङ्कुशोष्मेति भिन्नं पदं, अप्रतिहतौष्ण्य इत्यर्थः। हविषा आज्येन 'घृतमाज्यं हविः' इत्यमरः । स्फुरन्त्यः हेतयो ज्वालाः यस्य सः । जगत् उल्लासयति प्रकाशयति प्रहर्षयति चेति जगदुल्लासिनी या श्रीः द्युतिः संपच्च तां करोतीति तथोक्तः । भानोर्जगत्प्रकाशकत्वं प्रत्यक्षसिद्धम् । वह्नेस्संपत्प्रदत्वं च 'चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह, श्रियमिच्छेद्धुताशनात्’ इति श्रुतिस्मृतिप्रसिद्धम् । ध्वान्तध्वंसी इदमुभयत्र तुल्यार्थकम् । चित्रभानुः भास्करः वह्निश्च ‘सूर्यवह्नी चित्रभानू' इत्यमरः । तव ओजसा निरधावि निर्धूतः । निःपूर्वकाद्धावतेः कर्मणि लुङि चिण् । अत्र पूर्वार्धे सभङ्गः तृतीयपादे अभङ्गः ध्वान्तध्वंसीत्यत्र शुद्धश्च श्लिष्टविशेष्यकोऽप्रकृतमात्रविषयकः श्लेषः ॥

 यथावा--

 संपूर्णभास्वदम्भोळ्युज्ज्वलमूर्तिर्मरुन्महास्फूर्तिः । जगदाप्यायनवृष्टिस्तव श्रिया पर्यभावि पर्जन्यः ॥ ९३८ ॥

 हे भगवन् ! संपूर्णा अनूना भाः छविः यस्य स तथोक्तः स्वः स्वकीयः यो दम्भोळिः वज्रायुधं तेन उज्ज्वलमूर्तिः । पक्षे संपूर्णं पूरितं भास्वत् भासुरं यत् अम्भः पयः तेन अळिः भ्रमर इव उज्ज्वलमूर्तिः तद्वच्छयामल इत्यर्थः । यद्वा संपूर्णं यथातथा भास्वत् अम्भो यस्य स तथा । अत एव अळ्युज्ज्वलभाः उक्तोऽर्थः । विशेषणोभयपदकर्मधारयः। मरुत्सु देवेषु महास्फूर्तिः अतिप्रकाशः, पक्षे मरुता वायुना महास्फूर्तिः अतिस्फुरणः अतिवेलचलन इत्यर्थः । ‘स्फुर संचलने' अस्माद्भावे क्तिन् । जगदाप्यायनवृष्टिः इदं पक्षद्वयेऽपि तुल्यार्थकम् । ‘निकामे निकामे नः पर्जन्यो वर्षतु, यदिन्द्रो वर्षते' इति द्वयोरपि वर्षप्रदत्वोक्तेः । पर्जन्य इन्द्रः ध्वनदम्बुदश्च ‘पर्जन्यौ रसदब्देन्द्रौ' इत्यमरः । इदमपि तस्य पूर्वविशेषणवत् प्रावृषेण्यत्वसूचनाय । तव श्रिया संपदा त्विषा च । पर्यभावि परिभूतः । अत्र विशेषणत्रये क्रमेण सभङ्गोऽभङ्गश्शुद्धश्च श्लेषः केवलाप्रकृतविषयः श्लिष्टविशेष्यकः ॥

 अप्रकृतयोर्विशेष्ययोरश्लिष्टत्वे यथा--

 ह्रादिन्यन्तर्विलसत्सारङ्गोल्लासदायिरसदमलम् । परिभूतं हरिभासा कुवलयम्भोदवलयमपि नीलम् ॥ ९३९ ॥

 ह्रादिन्याः नद्याः, पक्षे ह्रादिन्या तटिता । अन्तः विलसन् 'तटिनी ह्रादिनी धुनी, ह्रादिन्यौ वज्रतटितौ’ इति चामरः । अलं सारङ्गाणां भृङ्गाणां उल्लासदायी यो रसः मकरन्दः तं ददातीति सारङ्गोल्लासदायिरसदम् । पक्षे सारङ्गाणां चातकानां 'सारङ्गश्चातके भृङ्गे’ इति शेषः । उल्लासदायि इदं भिन्नं पदम् । रसत् अमलमिति छेदः । रसत् गर्जत् अमलं अकलुषं अतिस्निग्धमित्यर्थः । नीलं कुवलयं इन्दीवरं अम्भोदवलयं च हरिभासा परिभूतम् । अत्र प्रथमे पादे अभङ्गः द्वितीये सभङ्गः नीलमित्यत्र शुद्धश्च श्लेषः अश्लिष्टविशेष्यकः ॥

 प्रकृताप्रकृतोभयविषयो यथा--

 हृद्यमहापद्मश्रीर्नीलरुचिः कुन्दसहजवरशङ्खः । धनद इव कनति शौरिर्वियद्धुनीविमलवृषगिरीशाप्तः ॥ ९४० ॥  हृद्या वक्षस्स्था महापद्मा महती पूज्ये पद्मे करधृते यस्यास्सा तथोक्ता श्रीः यस्य स तथोक्तः । पक्षे हृद्या हृदयप्रिया महापद्मश्रीः महापद्माख्यनिधिसंपत् यस्य स तथा । नीला रुचिर्यस्य नीले नीलनाम्नि निधौ रुचिः अभिलाषो यस्येति च । कुन्दसहजः कुन्दकुसुमसदृशः तद्वद्धवलः वर: श्रेष्ठ: शङ्खः पाञ्चजन्यो यस्य स तथोक्तः, पक्षे कुन्दनिधेस्सहजौ तत्सहावस्थायिनौ वरशङ्खौ तन्नामानौ निधी यस्य स तथा । वियद्धुन्या आकाशगङ्गया विमलः विगमितजगत्कलुषो यो वृष इति गिरीशः अद्रिवरः तेन आप्तः प्राप्तः सः आप्तो येनेति वा । पक्षे वियद्धुनी गङ्गेव विमलो विशदः वृषः वृषभो यस्य स तथोक्तः । गिरीशो रुद्रः आप्तः प्रत्ययितो यस्य सः तस्याप्त इति वा ‘आप्तप्रत्ययितौ समौ’ इत्यमरः । त्र्यम्बकसख इत्यर्थः । भगवान् श्रीनिवासः धनदः कुबेर इव कनति दीप्यते । अत्र प्रकृताप्रकृतयोः भगवद्धनदयोरश्लिष्टत्वाद्विशेषणानां च श्लिष्टत्वाद्भवति तृतीयो भेदः । परं त्वयमुपमया संकीर्णः । यदि च भगवान् धनदो विलसतीति पठित्वा अप्रकृतांशमपि श्लेषग्रस्तं विधाय रूपकं क्रियते तदाऽपि प्रकृतविशेष्यस्य शौरेरश्लिष्टत्वादखण्डित एव श्लेषः । न चात्र समासोक्तिरिति भ्रमितव्यं, अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात् । यत्र त्वप्रकृतव्यवहार एव शब्दशक्तिं सहेतापि न त्वप्रकृतधर्मी तत्र समसोक्तेरिष्टेः ॥

 अत्र विचार्यते—अयं चालंकारः प्रायेणालंकारान्तरस्य विषयमभिनिविशते । तत्र किमस्य बाधकत्वं स्यात् आहोस्वित्संकीर्णत्वं उताहो बाध्यत्वमिति । अत्राहुरुद्भटादयः-- "येन नाप्राप्ते य आरभ्यते स तस्य बाधकः” इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते न चास्य विविक्तः कश्चिदस्ति विषयः । यत्र लब्धावकाशो नेतरं बाधेत । तथाहि-- अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तावत्तुल्ययोगितैव जागर्ति प्रकृताप्रकृतयोस्तु दीपकम् । तदनुमोदिता उपमादयश्च । न च--

देव त्वमेव पाताऽलमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरतो लोकत्रयात्मकः ॥

इत्यादिकाव्यप्रकाशोक्तौ विवक्तो विषय इति वाच्यं, रूपकस्यैवात्र स्फुटत्वात् । श्लेषोपस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्रयात्मकत्वस्य दुरुपपादत्वात् । कथं तर्हि ‘नदीनां संपदं बिभ्रद्राजाऽयं सागरो यथा' इत्यादावुपमायाः प्रत्ययः । कथं वा तत्रैव यथाशब्दस्थाने किमुशब्ददाने उत्प्रेक्षायाः । अपर इति कृते च रूपकस्येति चेन्न । अत्र हि उपमादीनां प्रतिभानमात्रं, न तु वास्तवी स्थितिः । न हि श्वैत्येन शुक्तौ रजतत्वं प्रतीयमानमपि वस्तुतोऽस्ति । तस्मादुपमादिप्रतिभोत्पत्तिहेतुश्श्लेष एव स्वविषये सर्वत्रालंकार इति ॥

 एतच्चापरे न क्षमन्ते, तथाहि-- यत्तावदुच्यते येननाप्राप्ते इत्यादि तत्र ‘सर्वदोमाधवः पायात्स योऽगङ्गामदीधरत्' इत्यादिपरकीयपद्ये,

गौरविताऽऽसच्छ्रीरिह नित्यं हृद्याहितासुहृल्लेखा ।
येन स वृषाचलाहितधामा देवाधिनायको जयति ॥

इति प्रागुदाहृतेऽस्मदीयपद्ये च श्लेषातिरिक्तः कोऽलंकारः ? न तावत्तुल्ययोगिता, विशेष्ययोः पृथगनुपादानात् औपम्यस्य च गम्यत्वाभावात् । सा हि द्वयोरपि प्रकृतयोरप्रकृतयोर्वा विशेष्ययाः पृथगुपादाने सादृश्यप्रत्ययनियमे च लब्धपदा भवति । न हीह हरिहरयोर्भगवदिन्द्रयोर्वा सादृश्यं प्रतिपिपादयिषितम् । नापि चात्रैकश्रुत्याऽर्थद्वयोपादानमन्तरेणान्यत्किंचिच्चमत्कारमुन्मेषयति । येनालंकारान्तरमभ्युपगच्छेम । एकश्रुत्याऽर्थद्वयोपादानं तु श्लेष एव । एवंच सावकाशत्वाच्छ्लेषस्य नालंकारान्तरापवादकत्वं युक्तम् । अत एव उपमादीनां प्रतिभानमात्रमिति यदुक्तं तदपि न संगतं गुणक्रियादेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावद्बाधकाभावात् । अत एव 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव’ इत्यत्र शब्दमात्रसाम्येऽप्युपमेति सांप्रदायिकाः । तदुक्तं रुद्रटेन--

स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किंतु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ॥

इति । एवमेवालंकारान्तरस्यापि श्लेषविषये पारमार्थिक्येव सत्ता न प्रातिभासिकी । प्रत्युत श्लेषस्यैव प्रतिभानमात्रमिति वक्तुं युक्तं पूर्णोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रान्तत्वान्निरवकाशतयाऽस्य सावकाशस्य स्वविषये बाधौचित्यात् । ‘समरार्चितोऽप्यमरार्चितः' इत्यादौ श्लेषस्य तैमिरिकचन्द्रद्वयवत्प्रतिभानमात्रमेव । न त्वलंकारत्वं तज्जीवातोर्द्वितीयार्थस्याप्रतिष्ठानात् । विरोधस्य त्वाभासरूपस्याप्यलंकारत्वं न तु श्लेषस्येति स्फुटमेव । तस्मादेवमादौ श्लेषप्रतिभयोत्पाद्यो विरोध एवालंकारः । न तु विरोधप्रतिभयोत्पद्यश्श्लेषः । एवं--

सद्वंशमौक्तिकमणे विद्वन्मानससारस ।
नाल्पः कविरिवास्वच्छश्लोको देव महान् भवान् ॥

इत्यत्र पूर्वार्धे श्लेषप्रतिभयोत्पाद्यं रूपकमेव, न तु रूपकप्रतिभयोत्पाद्यश्श्लेषः । उत्तरार्धे व्यतिरेकोऽप्येवम् । किंच प्रत्येकं तत्तद्रूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्लेषविषये नाप्राप्तत्वम् । अलंकारान्तरत्वपुरस्कारेणेति चेत् एवं तर्हि बाध्यसामान्यचिन्तया स्वविषये प्राप्तस्य सर्वस्य बाधापत्तौ श्लिष्टपरंपरितरूपकस्य श्लिष्टसमासोक्तेश्चोच्छेद एव स्यात् । तस्मात् श्लेषस्य नापवादकत्वं संकीर्णत्वं तु स्यादिति ॥

 अन्ये तु-- अलंकारा हि प्राधान्येन चमत्काराधायकाः स्वांस्वामाख्यां लभन्ते । त एव परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा—‘ रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाङ्कबिम्बम्’ इत्यत्र प्रकृताप्रकृतात्मनामेकधर्मसंबन्धो दीपकाख्यां लभते । त्यजति च ‘राजते वदनं तन्व्या नभसीव निशाकरः' इत्यत्र । अत एवोच्यते ‘प्राधान्येन व्यपदेशा भवन्ति’ इति । एवंचालंकारान्तरोपस्कारकतया स्थितश्लेषः कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एवेत्यप्याहुः ॥

 अयं चोपमेव म्वतन्त्रोऽपि तत्रतत्र सर्वालंकारानुग्राहकतया स्थितस्सरस्वत्या नवंनवं सौभाग्यमावहन्नानाविधेषु लक्ष्येषु सहृदयैर्विभावनीयः ॥

 इदं चावधेयम्-- यत्र प्रकृताप्रकृतयोर्विशेष्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनेर्विषय इति प्राञ्चः । तथाहि-- प्रकृताप्रकृतश्लेषोदाहरणे ‘असावुदयमारूढः' इत्यादौ न श्लेषोऽलंकारः, अर्थद्वयस्याभिधाव्यापारेण तुल्यवृत्तिकत्व एव तस्योन्मेषात् । अत एव प्रकृतश्लेषे अप्रकृतश्लेषे च प्रकरणादीनामभिधानियामकानामभावादर्थद्वयेऽपि शब्दस्य तुल्यवृत्तित्वात् श्लेषालंकारः । इह तु प्रकृतार्थे प्रकरणादिना नियन्त्रितायास्तस्या अप्राकरणिकेऽर्थे कुण्ठितप्रसरतया शब्दो व्यञ्जनया वृत्त्या तमर्थमवगमयतीति शब्दशक्तिमूलानुरणनतुल्यव्यङ्ग्यध्वनिः ॥

भद्रात्मनो दुरधिरोहतनोर्विशाल-
वंशोन्नतेः कृतशिलीमुखसंग्रहस्य ।
यस्यानुप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगस्सततं करोऽभूत् ॥

 अत्र नृपे कस्मिंश्चिद्वर्ण्यमाने भद्रात्मन इत्यादिविशेषणैर्मङ्गळात्मकस्य विशालकुलोद्भवस्यानेकशरसंग्रहशालिनः प्रत्यर्थिनिवारकस्य राज्ञः पाणिरभूदिति प्रकृतवाक्यार्थे प्रकरणसनाथेनाभिधाव्यापारेण शब्दतः प्रतीते पश्चाद्भद्रादिपदसामर्थ्यमहिम्ना भद्रजातीयस्य विशालपृष्ठास्थिसमुन्नतेर्भ्रमरपरीतस्योत्कृष्टगजस्य कर इत्यप्रकृतगजाद्यर्थस्य प्रतीतिस्तावदनुभवसिद्धा । सा च नाभिधाव्यापारेण, प्रकरणादिना तस्य नियन्त्रणात् । अतो व्यञ्जकव्यापारेण तत्प्रतीतिरित्यप्राकरणिकार्थस्य व्यङ्ग्यतया शब्दशक्तिमूलानुरणनोपमाव्यङ्ग्यध्वनिरिति मम्मटोपाध्यायादयः ॥

 दीक्षितास्तु-- प्रकरणादिना प्रकृतार्थाभिधानपर्यवसाने अप्रकृताभिधाने वाक्यस्यासंबद्धार्थकत्वं मा प्रसांक्षीदिति तेन प्रकृतार्थस्योपमा व्यज्यते इति शब्दशक्तिमूलानुरणनव्यङ्ग्या सेति तेषामाशय इत्यभिप्रयन्तः “यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चः तत्प्रकृताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यङ्ग्यत्वाभिप्राया, न त्वप्रकृतार्थस्यैव व्यङ्ग्यत्वाभिप्राया, अप्रकृतार्थस्यापि शब्दशक्त्या प्रतिपाद्यस्याभिधेयत्वावश्यंभावेन व्यक्त्यनपेक्षणात् । यद्यपि प्रकृतार्थे प्रकरणबलाज्झडिति बुद्धिस्थे सत्येव पश्चान्नृपतितद्ग्राह्यधनादिवाचिनां राजकरादिपदानामन्योन्यसन्निधानबलात्तत्तद्विषयशक्त्यन्तरोन्मेषपूर्वकमप्रकृतार्थस्स्फुरेत् । नैतावता तस्य व्यङ्ग्यत्वम् । शक्त्या प्रतिपाद्यमाने सर्वधैव व्यक्त्यनपेक्षणात् पर्यवसिते प्रकृतार्थाभिधाने पश्चात् स्फुरतीति चेत् कामं गूढश्लेषो भवतु । अस्ति चान्यत्रापि गूढश्लेषः" इत्युक्त्वा ‘अयमतिजरठाः’ इत्यादिकं गूढश्लेषतयोदाहार्षुः ॥

 अयं हि तेषामाशयः-- प्रकरणेन प्रकृतार्थतात्पर्यग्रहेण तद्गोचरशब्दबोधे जनिते पश्चादप्रकृतार्थस्य बोधोदयात्कुतो न व्यङ्ग्यत्वमिति न शङ्कनीयम् । पश्चात्तत्तदर्थगोचरशक्त्यन्तरोन्मीलनेनाप्रकृतार्थस्य स्फुरणेऽपि न व्यङ्ग्यत्वम् । पश्चात्प्रतीत्या हि गूढश्लेष इति भण्यत इति ॥

 परे तु — ‘प्रकरणादेरप्रकृतगोचराभिधासामर्थ्यप्रतिबन्धकत्वे द्वितीयस्मिन्नर्थे यत्र नाभिधा संक्रामति तत्रापि यदि संक्रामकशब्दसमभिव्याहारस्स्यात् तदा प्रकरणादेस्तेन कुण्ठनशक्तौ प्रतिहतायां पूर्वं बाधिताऽप्यभिधाशक्तिः प्रतिप्रसूयत इति तया अप्रकृतार्थस्फूर्तिरिति नासौ ध्वनेर्विषयः । यथा--

 इह पद्मिनी सुहसिता कामयते स्वप्रियं रमावासम् । इति निशमयन्नुपश्रुतिमिच्छुः पद्मावतीं हरिर्मुमुदे ॥ ९४१ ॥

 इदं हि प्रत्यूषे प्रफुल्लां कमलिनीं विलोक्य केनचित्कंचित्प्रति कथितं पद्मिन्याख्यायामाकाशराजपुत्र्यामनुरक्तस्य तत्समागमः कथं स्यादिति चिन्तयतो भगवतश्रीनिवासस्योपश्रुतिरूपं सदानन्दावहमासीदित्येतदर्थप्रतिपादकं वचनम् । अत्र सुहसिता सम्यग्विकासिता पद्मिनी कमलिनीलता स्वस्य आत्मनः प्रियं अभीष्टं रमायाः श्रियः वासं स्थितिं कामयते अभिलष्यतीत्यर्थे प्रकरणादिना यद्यप्येते नियमिताभिधाश्शब्दाः, तथाऽपि सा द्वितीयस्मिन्नर्थे विवरिष्यमाणे निरुद्धा सती उपश्रुतिमित्यनेन शब्देन प्रत्युज्जीविता । इह सुहसिता समन्दस्मिता पद्मिनी आकाशराजतनया पद्मावत्यपरनामा पद्मिनी रमावासं भगवन्तं श्रीनिवासं स्वप्रियं स्ववल्लभं कामयते स्ववल्लभो भूयादित्यभिलष्यतीति द्वितीयोऽर्थः प्रकरणादिना निरुद्धाभिधाशक्तिकशब्दप्रतिपाद्यमानो ध्वनिपथगमनाय प्रस्थित उपश्रुतिशब्देन सूचिततया ततो गळहस्तितोऽभिधाव्यापारमासाद्य वाच्यतामापन्नश्श्लेषालंकारविषयः । अन्यत्र तु ताद्दशाभिधाप्रत्युज्जीवनाभावे अर्थान्तरध्वनिपद्धतिमध्यास्ते’ इति वदन्ति ॥

 अयमलंकारान्तरासंकीर्णतया श्लेषस्य विविक्तो विषयोऽपि भवति । न चात्राप्रस्तुतप्रशंसाशङ्का, कस्यचिद्वचने कमलिनीवृत्तान्तस्य प्रकृतत्वेनाप्रस्तुतेन प्रस्तुतस्य गम्यत्वाभावात् । न च तर्हि प्रस्तुतेनाप्रस्तुतस्य गम्यत्वात्समासोक्तिरस्त्विति वाच्यं, पद्मिनीति विशेष्यस्यापि श्लिष्टत्वेन तदनवतारात् । नापि प्रकृताप्रकृतयोरेकधर्मसंबन्धाद्दीपकमस्त्विति वाच्यम्, उदासीनस्य कस्यचिद्वक्तुः प्रकृताप्रकृतयोर्धर्मैक्यस्य विवक्षावैधुर्यात् । प्रकृताप्रकृतयोर्विशेष्ययोः पृथगनुपादानाच्च । तत्तु तयोः पृथगुपादान एवोन्मिषति । नापि गूढोक्तिः, अन्योद्देशेनान्यं प्रति कथनस्यात्राविवक्षणात् । तस्मादयं श्लेषस्यैव विविक्तो विषय इति दिक् । विस्तरस्तु प्राचां निबन्धेषु द्रष्टव्यः ॥

इत्यलंकारमणिहारे श्लेषालंकारसरोऽष्टाविंशः.