अलङ्कारमणिहारः (भागः २)/परिकराङ्कुरालंकारः (२७)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ परिकराङ्कुरसरः (२७)


विशेष्यं यदि साकूतं भवेत्परिकराङ्कुरः ।

 विशेष्यस्य साभिप्रायत्वे परिकराङ्कुरालंकारः ॥

 यथा--

 धनुषि त्रिनयनकरजुषि पत्रीभूय त्रिविक्रम पुरा त्वम् । त्रीणि पुराण्यसुराणां सुदुराधर्षाणि भस्मसादकृथाः ॥ ८०८ ॥

 त्रिनयनशब्दः क्षुभ्नादिगणे पठितः । ‘क्षुभ्नादिषु च' इति निषेधात् ‘पूर्वपदात्संज्ञायामगः' इति णत्वं न । अत्र त्रयो वि- क्रमा यस्येति व्युत्पत्त्या योगबलात्त्रिपुराभिभवपटयिस्त्वमभिव्यञ्जयन्त्रिविक्रमेति विशेष्यं वाच्योपस्कारकतां प्रतिपद्यते ॥

 यथवा--

 बलिसुतबाहादशशतविदलनकृत्को विना सहस्रारम्। जलरुहकुलदलदशशतविदलनकृत्कोऽन्तरा सहस्रांशुम् ॥ ८०९ ॥

 अत्र प्रधानवाक्यार्थो दृष्टान्तालंकाररूपः । तत्र बिम्बप्रतिबिम्बरूपयोर्वाक्यार्थयोर्विशेष्यभूतौ सहस्रारसहस्रांशुशब्दौ बाहादलसहस्रविदलनधुरीणतां व्यञ्जयन्तौ वाच्योपस्कारकौ ॥

 यथावा--

 एष नवनीतचोरो मूषति नेत्रं मम स्वहृन्मध्येऽमुम् । सिनुयां बन्धं कथमिव धुनुयाद्दामोदरोऽयमीक्षेयाहम् ॥ ८१० ॥

 एष नवनीतचोरः नन्दनन्दनः मम नेत्रं नयनं मूषति ‘रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्’ इत्युक्तरीत्याऽपहरति । ‘मूष स्तेये' भौवादिकः । अंशुकमपहरतीत्यपि गम्यते । ‘नेत्रं वस्त्रेऽक्ष्णि' इति रत्नमाला । अमुं एवं नेत्रहरं स्वहृन्मध्ये स्वमनोऽन्तरे सिनुयां ध्यायेयमिति यावत् । पक्षे स्वहृतां परस्वापहारिणां मध्ये सिनुयां अस्यापि चोरत्वादिति भावः । अयं एवं बन्धनं प्रापितः दामोदरः बन्धं मम भवबन्धं कथमिव धुनुयात् अहं ईक्षेय मामकभवबन्धविमोचनक्रमममुष्य कीदृगिति परीक्षेयेति भावः । अथवा- स्वयमेव बद्धः कथं मम बन्धमपनयेत् ‘बद्धस्स्वयं किमु विमोचयिता बतान्यम्’ इत्युक्तेरिति भावः । पक्षे--मत्कृतस्वहृन्मध्यबन्धविश्लथनस्यायं नेशीतेति भावः । अत्र नवनीतचोर इति विशेष्यं चौर्यनिष्णातताकूतगर्भं सन्नेत्रमूषणरूपवाच्यार्थोपस्कारकम् । दामोदर इति विशेष्यं बन्धविश्लथनानशिताभिप्रायगर्भं सत्कथंकारं बन्धं धुनुयादिति वाच्योपस्कारकतामश्नुते । अत्र विशेष्यद्वयं भिन्नाभिप्रायकम् ॥

 क्वचित्तु योगमनपेक्ष्य प्रसिद्धिबलादेव व्यञ्जकं भवति विशेष्यम् । यथोक्तमेकावळ्यां--'क्वचित्पुनः प्रसिद्धत्वाद्विशेष्यमतथाभूतं प्रयुक्तमपि तथाभूतमभिप्रायमभिव्यनक्ति’ इति ॥

 यथा--

 न त्रातुं सुत्रामा सत्रारिर्विधिरपीश्वरः खलुमाम् । भवगहनगुहाशयितं नियतं मुचुकुन्दवरद एवेष्टे ॥ ८११ ॥

 अत्र मुचुकुन्दवरद इति विशेष्यं गुहान्तरनिद्राणजनत्राणधुरीणतामभिव्यञ्जयति ॥

 यथावा--

 दूरीकृतसद्दर्शनमूरीकुतमलिनिमाऽहिशिखरीन्दो । दहरगुहाघनतम इह न हरसि किमिमां प्रविश्य चक्रधर ॥ ८१२ ॥

 हे चक्रधर! दूरीकृतं सतां ब्रह्मविदां दर्शनं येन तत्तथोक्तम् । पक्षे सतां नक्षत्राणां दर्शनं येन तत् गुहान्तर्गतस्य घनतमसो नक्षत्रनिर्वर्णनासंभवादिति भावः । ऊरीकृतः मलिनिमा पाप्मा नैल्यं च येन तत्तथोक्तं, दहरगुहायाः घनतमः तत्र विद्यमानस्सान्द्रस्तमोगुण एव गाढतमिस्रं मेघावृतिप्रयुक्तं तिमिरं वा । इमां दहरगुहां प्रविश्य किं न हरसि, न हरसि किमिति वा योजना । केन हेतुना न हरसि वा न जानीम इति प्राथमिकयोजनायामभिप्रायः, हरस्येवेति द्वितीययोजनायाम । अत्र चक्रधरेति विशेष्यं चक्रस्य भास्करकोटिभास्वरतया तद्धारिणो भगवतः हृदयगुहान्तर्गतघनतमोनिबर्हणसौकर्यमभिप्रैति ॥

यथा वा--

 दूरोत्सारितदुस्सहदुरन्तदुर्वासनं विधायैव । वनमालिन्नामोदय ननु मानसमानतस्य मम ॥ ८१३

 अत्र वनमालिन्निति विशेष्यं दूर्वासनादूरोत्सारणपूर्वकामोदनोपपत्तिरूपमभिप्रायमभिव्यञ्जयद्वाच्यस्योपस्कुरुते ॥

 यथा वा--

 राम इति नाम यत्तव तामरसेक्षण सहस्रनामसदृक्षम् । को महिमानं गदितुं नामास्य पटुस्तमन्तरेणानन्तम् ॥ ८१४ ॥

 अस्य महिमानं गदितुं को नाम पटुरिति योजना । ‘पर्याप्तिवचनेष्वलमर्थेषु' इति तुमुन् । अत्रानन्तमिति विशेष्यं सहस्रशीर्षत्वमभिप्रयत्सत् ‘सहस्रनामतत्तुल्यं रामनाम’ इति श्रीविष्णुसहस्रनामसमानवैभवरामनाममहिमवर्णनपटुतारूपवच्यार्थौन्मुख्यमुपैति ॥  यथा वा--

 तव नामसहस्रस्य स्तवनाय रमे स एक एवालम् । भुवनाधीश्वरि पुरुषः पवनाशनपरिषदग्रणीरथवा ॥

 स पुरुषः ‘सहस्रशीर्षा पुरुषः’ इति प्रथितः परमः पुमान् एक एव तव स्तवनाय अलं समर्थः । अथवा पवनाशनपरिषदग्रणीः भुजगकुलधौरेयश्शेषः अलमिति योजना । अत्र पुरुषः पवनाशनपरिषदग्रणीरिति विशेष्यद्वयं सहस्रशीर्षत्वाभिप्रायगर्भितं सत् लक्ष्मीसहस्रनामस्तवनसमर्थतारूपवाच्यार्थपरिकरतां प्रतिपद्यते । पूर्वेषूदाहरणेषु चतुर्षु एकमेव विशेष्यं साभिप्रायं, इह तु विशेष्यद्वयं तदप्येकाभिप्रायकम् ॥

 यथा वा--

 न हि तादृश्यभिमन्यौ विहिता भवताऽऽर्तिभाजि शतमन्यौ । द्विरदे यादृक्करुणा वरदेह वदामि किं भवन्तमहम् ॥ ८१६ ॥

 अत्र अभिमन्यौ शतमन्यौ इति विशेष्यद्वयं भागिनेयत्वेन भ्रातृत्वेन तत्रापि योगमहिम्ना अतिवेलदैन्यवत्त्वेन चावश्यादरणीयत्वं, द्विरदे इति विशेष्यं वन्यत्वेनाननुबन्धितया उपेक्षणीयत्वं, वरदेति विशेष्यं तु अविवेचितस्वपरवरदानेन मुग्धतमत्वं चाभिव्यञ्जयतीति चत्वारि विशेष्याणि भिन्नाभिप्रायगर्भाणीति पूर्वस्माद्विशेषः । अनुबन्ध्यपेक्षया अननुबन्धिन्येव त्वया परिपूर्णा कृपा व्यधीयतेति इह वदामि किं भवन्तमहमिति वाक्येनोपालम्भो द्योतितः ॥  अत्रेदं बोद्धव्यं-- परिकराङ्कुरो नालंकारान्तरं भवितुमर्हति साभिप्रायपदविन्यासः परिकर इति तं लक्षयित्वा विशेषणविशेष्यपदत्वाभ्यां तस्य द्वैविध्याभिवर्णनेऽस्य तदवान्तरभेदत्वसंभवात् । विच्छित्तिवैलक्षण्याधीनं ह्यलंकारवैलक्षण्यं, न ह्येकवाक्यगतपदसाभिप्रायत्वनिबन्धने तदस्तीति । अयं चालंकार एकावळीकारादिभिर्लक्षितः । प्राञ्चस्तु प्रकाशकारादयो नालक्षयन्नमुम् ॥

इत्यलंकारमणिहारे परिकराङ्कुरसरस्सप्तविंशः.