अलङ्कारमणिहारः (भागः २)/परिकरालङ्कारः (२६)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

श्रीः

अलंकारमणिहारे द्वितीयभागप्रारम्भः


अथ परिकरालंकारसरः (२६)


 साभिप्राये परिकारोऽलंकारस्स्याद्विशेषणे ।

 अत्रालंकार इत्युक्तिः दोषाभावेनैव चरितार्थ्यमिति शङ्कानिरासाय । तच्चाग्रे दर्शयिष्यते । साभिप्राये प्रकृतार्थोपपादकार्थविषयकाभिप्रायपूर्वके तथाभूतार्थव्यञ्जके इति यावत् । तथाच प्रकृतार्थोपपादकार्थव्यञ्जकविशेषणत्वं लक्षणमिति ध्येयम् । ध्वनावतिप्रसङ्गनिरासाय प्रकृतार्थोपपादकेति । हेत्वलंकारवारणाय बोधकत्वमपहाय व्यञ्जकत्वनिवेशः । वक्ष्यमाणपरिकराङ्कुरालंकारवारणाय विशेषणेति । तत्र तु विशेष्यं तथेति नातिप्रसङ्गः ॥

 यथा--

 धुतमपि तव चरणरुचा नतताश्रयणाद्रमे महारजनम्। एत्य महारजतत्वं विद्युद्वर्णे तवैति सावर्ण्यम् ॥ ८०३ ॥

 विद्युद्वर्णे! हे रमे! महारजनं कुसुम्भः ‘स्यान्महारजनं क्लीबं कुसुम्भः' इत्यमरः । तव चरणरुचा धुतमपि नतताश्रयणात् नम्रतावलम्बनात्-

सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।
जानन् विचरति प्राज्ञो न स याति पराभवम् ॥
एवमेव यदा विद्वान्मन्यतेऽतिबलं रिपुम् ।
संश्रयेद्वैतसीं वृत्तिमेतत् प्रज्ञानलक्षणम् ॥

इति भारताद्युक्तरीत्या वैतसवृत्त्याश्रयणादिति भावः । पक्षे— महारजनामितिपदं नतताश्रयणात् नकारस्य तकारत्वाश्रयणात् नकारमपनीय तत्र तकारपठनादिति भावः। महारजतत्वं सुवर्णत्वं ‘महारजतकाञ्चने' इत्यमरः । महारजतशब्दत्वमिति च । एत्य तव सावर्ण्यं एति । अत्र विद्युद्वर्णे इति विशेषणं महारजनस्य उपपादितप्रकारेण महारजततावाप्तिपूर्वकसावर्ण्यलाभार्हताभिप्रायगर्भम् ॥

 यथावा--

 आकालिकसुखदायास्तोकानेकार्तिवर्तनीकाय। लोकाय वराकाय श्रीकान्त ब्रह्मणोऽपि नं स्पृहये ॥

 आकालिकं आशुविनाशि यत् सुखं तद्ददातीति तथोक्ताय समानकालावाद्यन्तौ यस्येति विग्रहः ‘आकालिकडाद्यन्तवचने’ इत्याशुविनाशिन्यर्थे समानकालशब्दाठ्ठक् । समानकालशब्दस्याकालादेशः 'आकालाठ्ठंश्च' इति ठन्वा । अस्तोकाः अनेका आर्तिवर्तन्यः पीडामार्गाः यस्मिंस्तथोक्ताय । अन्यत्सुगमम् । अत्रानेकानि लोकस्य विशेषणान्यतिहेयताभिप्रायगर्भाणि ॥

 यथावा--

 अरिवर्गलुलितहृदयं दुरितच्छुरितं दुरन्तविपदुदयम् । करिवरद कृपासिन्धो त्वरितं मामुद्धरेश नतबन्धो ॥ ८०५ ॥  अत्रानेकान्यहमर्थविशेषणान्यतिदीनत्वेन दयनीयत्वाभिप्रायगर्भितानि । अनेकानि च भगवद्विशेषणानि भक्तवत्सलतया तदुद्धरणावश्यकताभिप्रायगर्भितानि ॥

 यथावा--

 नाचकथं रामकथां नाररचं भारतं च भूरितरम् । नाचकलं भागवतं नाथ कथं तावकस्तवस्येशे ॥ ८०६ ॥

 कथरचकलास्त्रयो धातवश्चुराद्यन्तर्गणे कथादावदन्तेषु पठिताः । तेभ्यस्स्वार्थणिजन्तेभ्यः कर्तरि लुङि 'णिश्रिद्रुस्रुस्यः कर्तरि चङ्' इति च्लेश्चङि णेरग्लोपितत्वात् ‘सन्वल्लघुनि चङ्परेऽनग्लोपे’ इत्यत्रानग्लोपे इति पर्युदासात्सन्वद्भावाभावेन अभ्यासस्य ‘सन्यतः' इति विहित इकारः 'दीर्घो लघोः' इति दीर्घश्च न । ईशे इति ईशधातोर्लडुत्तमैकवचनम् । स्तवस्येत्यत्र ‘अधोगर्थदयेशाम्’ इति कर्मणश्शेषत्वविवक्षया षष्ठी । अत्र नाचकथमित्यादीनि विशेषणानि स्वास्मिन् प्राचेतसपाराशर्यसूतासाधारणकार्यनिषेधमुखेन नाहं प्राचेतस इत्याद्याकूतगर्भितानि ॥

 यथावा--

 नोदायिषि ज्वलनतो नोदाहार्षीश्च मत्कृते गीताम् । कोऽसाविति मम दयसे व्यासान्नाजनिषि चाहमब्जाक्ष ॥ ८०७ ॥

 अत्र ज्वलनतो नोदायिषीत्यादीनि विशेषणानि स्वस्मिन् द्रौपदीधनञ्जयशुकासाधारणकार्यनिषेधमुखेन नाहं द्रौपदीत्याद्याभिप्रायगर्भाणि । अत्राद्ये उदाहरणे एकं विशेषणं, समनन्तरोदाहरणयोः प्रत्येकं बहूनि विशेषणानि पदार्थरूपाणि एकाभिप्रायगर्भाणि अन्तिमोदाहरणयोः वाक्यार्थरूपाणि भिन्नाभिप्रायगर्भाणि चेति भिदा । एतेषु व्यङ्ग्यार्थसद्भावेऽपि न ध्वनिव्यपदेशः । सुवर्णस्य रमासावर्ण्यप्राप्तौ चतुर्मुखलोकस्यास्पृहणीयतायां भगवत्तद्भक्तयोरवश्योद्धर्तृतोद्धरणीयत्वयोः स्वस्मिन् दयाकरणकारणाभावे च वाच्य एवोपस्कारकत्वात् । अतएव व्यङ्ग्यार्थस्य वाच्यपरिकरत्वात् परिकर इति नाम अस्यालंकारस्य ॥

 ननु-- निष्प्रयोजनविशेषणोपादाने अपुष्टार्थदोषस्य सर्वसंप्रतिपन्नतया सप्रयोजनविशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्भवितुमर्हति न त्वलंकार इति । अत्र प्राञ्चः-- एकधर्मिनिष्ठतया बहूनां साभिप्रायविशेषणानामुपादाने विच्छित्तिविशेषोऽनुभवारूढतया दुरपलप इत्यलंकारमध्ये परिगणित इति ॥

 अत्र दीक्षिताः-- अनेकविशेषणोपन्यास एव परिकर इति न नियमः । श्लेषयमकादावपुष्टार्थस्य दोषत्वाभावात्तत्रैकस्य विशेषणस्य साभिप्रायत्वेऽप्यलंकारता दुर्निवारा । एवंच ‘सुधां शुकलितोत्तंसः' इत्यत्रापि तस्यात्मलाभो न निरुध्यते । अपिच--एकपदार्थहेतुकं काव्यलिङ्गमलंकार इति सर्वसम्मतं, तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंकारत्वं युक्तमेवेत्याहुः ॥

 अन्ये तु—-श्लेषाद्यतिरिक्तस्थले साभिप्रायविशेषणोपादानेन विच्छित्तिविशेषस्वीकारे तस्यालंकारत्वं दुर्वारं, अन्यथा च श्लेषादिस्थलेऽपि विच्छित्तिविशेषो नास्तीत्यपि कक्तुं शक्यम् । यदि च तत्रानुभवः प्रमाणमित्युच्यते तदाऽन्यत्रापि तत्तुल्यमिति न पृथगलंकारतेति दीक्षितमतं दूषयित्वा सुन्दरत्वे सत्युपस्कारकत्वमलंकारत्वं, चमत्कारापकर्षकाभावमात्रत्वं दोषाभावत्वं, तयोश्च क्वचिदेकत्र समावेशेऽपि नैकेनैकस्यान्यथासिद्धिः उपधेयसंकरेऽप्युपाधेरसंकरात् । यथा ब्राह्मणस्य मूर्खत्वं दोषः विद्या तु दोषाभावो भवति गुणश्च, तद्वदिहाप्युपपत्तिः । न च दोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम् । उभयात्मकत्वेन दोषान्तरवैलक्षण्यज्ञापनार्थतया तदुपपत्तेः । यथा गुणीभूतव्यङ्ग्यभेदतया संगृहीताऽपि समासोक्तिरलंकारगणनायां पुनर्गण्यते, यथा वा प्रासादवासिषु गणितोऽप्युभयवासी भूवासिगणनायां पुनर्गण्यते तथेहापीति न कश्चिद्दोषः । अन्यथा काव्यलिङ्गमप्यलंकारो न स्यात् । निर्हेतुरूपदोषाभावात्मकत्वादिति प्राहुः ॥

इत्यलंकारमणिहारे परिकरालंकारसरः षड्विंशः.