सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः २)/अप्रस्तुतप्रशंसालंकारः (२९)

विकिस्रोतः तः
               




   

अथाप्रस्तुतप्रशंसासरः.


 प्रस्तुतविशेषणसाम्यमाश्रित्य समासोक्तिर्निरूपिता । तत्प्रसक्त्या विशेषणाश्रयपरिकरादिकं निरूपितम् । अधुना पुनस्तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते--

स्यात्प्रस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम् ।
अप्रस्तुतप्रशंसाख्या सैषाऽलंकृतिरुच्यते ॥ ८५ ॥

 यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तमवगमयति सैषा अप्रस्तुतप्रशंसोच्यते । समासोक्तौ तु प्रस्तुतेनाप्रस्तुतप्रतीतिरिति विशेषः । प्रशंसनं चात्र वर्णनमात्रं न तु स्तुतिः ‘अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः' इत्यादावव्याप्त्यापत्तेः ॥

कार्ये हेतौ तथा व्याप्ये व्यापके प्रस्तुतेऽन्यगीः ।
समे समस्य चेत्येवं सैषा भवति पञ्चधा ॥ ८६ ॥

 अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च संबन्धे सति भवति । संबन्धश्च कार्यकारणभावः सामान्यविशेषभावः सारूप्यं वा संभवति । सप्तम्यन्तेषु पदेषु प्रस्तुते इत्येतदन्वेति । अन्यगीः तदन्योक्तिः । तथाच कार्ये प्रस्तुते कारणस्य, कारणे प्रस्तुते कार्यस्य, व्याप्यव्यापकशब्दौ विशेषसामान्यपणें । विशेषे प्रस्तुते सामान्यस्य, सामान्ये प्रस्तुते विशेषस्योक्तिरिति चत्वारो भेदाः । समे प्रकृते समस्येति पञ्चमः । यदाहुः--

कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥

 इति । तत्र कार्ये प्रस्तुते कारणस्योक्तिर्यथा--

 हृतसर्वस्वा सरसिजराजी मुरवैरिमुखकृते विधिना । तामरसतां दधानां तदाहुरेनामुदारतरधिषणाः ॥ ९४२ ॥

 तत् तस्मात् तामेनां सरसिजराजीम् । अरसतां नीरसतां निस्सारतामिति यावत् । पक्षे तामरसतां तामरसत्वं दधानां आहुः। स्फुटमन्यत् । अत्र कमलराजीगततया संभाव्यमानेन श्रीनिवासदिव्यवदनारविन्दनिर्माणार्थं सारांशहरणेन तत्कारणेन तत्कार्यरूपो वर्णनीयतया प्रस्तुतश्श्रीनिवासदिव्यवदनारविन्दगतो लोकोत्तरसौन्दर्यसौगन्ध्यसौकुमार्यादिविशेषः प्रतीयत इति कारणनिबन्धनाप्रस्तुतप्रशंसेयम् । श्लेषातिशयोक्तिसंकीर्णा ॥

 यथावा--

 सारहरणाय खाता वाताशनगिरिचिकीर्षुणा विधिना । देवेन निखिलशैलास्तन्नूनमनन्तदेवखातबिलाः ॥ ९४३ ॥

 अत्राप्रस्तुतनिखिलशैलनिष्ठतया संभाव्यमानेन शेषाद्रिसर्जनार्थसारांशहरणेन प्रस्तुतश्शेषाद्रिनिष्ठः कोऽपि निखिलकुलाचलातिशायिमहिमातिशयः प्रतीयते । अनन्तानि अपरिच्छिन्नानि देवेन देवैश्च खातानि बिलानि येषां ते ‘देवखातबिले गुहा' इत्यमरः । देवखातबिलशब्दौ व्यस्तौ गुहावाचिनाविति केचित् । समस्त एवायं देवखातबिलशब्दस्तद्वाचीत्यन्ये ॥  यथावा--

 द्युतिसर्वस्वं तटितामादय विधिस्तवाम्ब तनुमतनोत् । क्षणरुचयो विद्युत इति ता एता जगदिरे ततः कविभिः ॥ ९४४ ॥

 क्षणरुचयः अत्यल्परोचिषः अनुपदमेव विगता द्युत् द्युतिर्यासां तास्तथोक्ताः विशेषेण द्योतमाना इति वस्तुस्थितिः ॥

 एवम्--

 तव दिव्यवपुस्स्रष्टुं हृतसारो वेधसाऽहिशैलमणे । नूनं हरिमणिरखिलो विदिता सुतरामसारताऽस्य ततः ॥ ९४५ ॥

 इत्यत्रापि कारणनिबन्धनाऽप्रस्तुतप्रशंसा द्रष्टव्या । सुतरां असारता निस्सारता । सुतरा अतिशोभना मसारता मसारनामतेति वस्तुस्थितिः । ‘मसार इन्द्रनीले स्यात्' इत्यवोचाम प्रागेव ॥

 कारणे प्रस्तुते कार्याभिधानं यथा--

 आदौ सुमुखा विबुधैरानीता तत्पुरस्सरत्वमपि । पश्चाद्भीतौदार्यात्तवसुरभिरगाद्विसर्गमेवान्ते ॥

 हे भगवन्! सुरभिः कामगवी आदौ त्वन्महौदार्यनिशमनात्पूर्वं सुमुखा पृथग्जनवर्ण्यमाननिजवादान्यकोत्कर्षनिशमनजनितहर्षमूलकसौमुख्यशालिनी । पक्षे सुरभिशब्दे स्ववाचके आदौ सुः सुवर्णः मुखं प्रधानं यस्यास्सा ‘मुखं प्रधाने प्रारम्भे वक्त्रे निस्सरणेऽपि च’ इति रत्नमाला । तत् सुमुखात्वादेव हेतोः विबुधैः गुणज्ञैः देवैः पुरस्सरत्वं वदान्याग्रेसरत्वं पुरस्कारं वा आनीता प्रापिता । अन्यत्र तत्पुर इति समस्तं पदम् । तस्य सुवर्णस्य पुरः अग्रतः अनन्तरमित्यर्थः । सरत्वं रेफसाहित्यं आनीता । पश्चात् तव श्रीनिवासस्य भवतः औदार्यात् । 'य आत्मदा बलदा’ इत्यादिश्रुतिभिः ‘तदन्यः को महोदारः' इत्यादिपुराणवचनैश्च जेगीयमानादिति भावः । भीता निजौदार्यप्रथाकुण्ठनसंभावनात्त्रस्ता । पक्षे पश्चात् रेफानन्तरं औदार्यात् निरर्गळत्वादिति यावत् । भीता भिवर्णेन इता युक्ता । अत एव अन्ते भयदर्शनादनन्तरं विसर्गं एवं त्रस्ता नास्माभिस्संभावनीयेति विबुधकृतं विसर्जनं अगात् त्यक्ताऽभूदित्यर्थः । पक्षे अन्ते स्ववाचकशब्दान्ते विसर्गं विसर्जनीयं अगात् । सुरभिरिति शब्दस्य तथात्वादेवमुक्तम् । अत्राप्रस्तुतेन औचित्यात्संभाव्यमानेन सुरभिभयादिकार्येण तत्कारणभूतः श्रीनिवासमहौदार्यस्यानितरसाधारणो महिमा प्रत्याय्यत इतीयं कार्यनिबन्धनाप्रस्तुतप्रशंसा श्लेषातिशयोक्तिसंकीर्णा ॥

 यथावा--

 विहरन्त्या दिवि भवतः कीर्तिमराळ्या प्रसूतमवदातम् । पेशीनिवहं मन्ये तारासमुदयमिमं मुराराते ॥ ९४७ ॥

 पेशीनिवहं अण्डनिकरं ‘पेशीकोशो द्विहीनेऽण्डम्’ इत्यमरः । अत्राप्रस्तुतस्य तारासमुदयस्य भगवत्कीर्तिहंसीप्रसूतपेशीनिवहत्वोत्प्रेक्षणेन तत्कारणीभूतप्रस्तुतभगवत्कीर्तिधावळ्यातिशयो लोकोत्तर इति प्रतीयते ॥  यथावा--

 अन्तर्वत्न्या फणिगिरिशिरोमणे रोचिषां प्ररोहेण । एते द्यवा प्रसूताः पोतास्स्फीता घनाघनव्राताः ॥ ९४८ ॥

 भगवतो रोचिषां तेजसां प्ररोहेण अङ्कुरेण अन्तर्वत्न्या गर्भिण्या द्यवा दिवा 'द्योदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः । स्पष्टमन्यत् । अत्राप्यप्रस्तुतानां घनाघनव्रातानां भगवत्तनूरुचिप्ररोहगर्भितद्योप्रसूतार्भकत्वेन संभावनात्तत्काराणीभूतभगवत्तनुरुचिप्ररोहेऽत्युत्तमश्यामलिमभूमा प्रत्याय्यते । समासोक्तिसंकीर्णेयम् । पूर्वा तु रूपकसंकीर्णा ॥

 यथावा--

 अब्धौ समुद्भवन्त्या श्रियः प्रसृमराः पदाब्जरुचिकणिकाः । अन्योन्यतरङ्गाहतिपुञ्जीभूताः प्रवाळतां याताः ॥ ९४९ ॥

 अत्रावतारसमये जलधौ प्रसृतानां श्रीमहालक्ष्मीचरणारविन्दरुचिकणिकानामन्योन्यतरङ्गास्फालनवशेन सूक्ष्मतमसिकताफेनलवादिवत्पुञ्जीभूतानां परिणामतया संभाव्यमानाभिः प्रवाळलताभिः कार्यभूताभिस्तत्कारणभूतश्रीचरणारविन्दरुचेस्सर्वातिशाय्यरुणिमभूमा प्रतीयते ॥

 यथावा--

 शौरे भवत्प्रतापात्क्षोदिष्ठौ द्वौ स्फुलिङ्गकौ स्फुटितौ । वियति रविस्तत्रैकः पयसि पयोधेः परस्तु बडबाग्निः ॥ ९५० ॥  अत्राप्रस्तुतयो रविबडबानलयोर्भगवत्प्रतापकार्यभूतस्फुलिङ्गकत्वोत्प्रेक्षया प्रस्तुते तदुपादानकारणभूते भगवत्प्रतापे अनन्तकोटिसहस्रांशुबडबानलातिशाय्यौज्ज्वल्यं गम्यते । अत्र प्रतापस्य महाग्नित्वं गम्यते ॥

 यथावा--

 ब्रह्माण्डभाण्डपूर्णे भगवन्भवदीयशुभयशःपयसि । विलसन्ति बुद्बुदा इव तारा राराष्टि फेनवज्ज्योत्स्ना ॥ ९५१ ॥

 अत्राप्रस्तुतानां ताराज्योत्स्नानां भगवद्यशोदुग्धकार्यभूतबुद्बदफेनत्वसंभावनेन प्रस्तुतस्य भगवद्यशोदुग्धस्य निरतिशयो वैशद्यविशेषः प्रतीयते ॥

 यथावा--

 च्यावितवरवर्णस्त्वद्यशसा कथमप्यधश्शिरा निपतन् । विन्दति वृषशैलेन्दो विभावरीशश्शरीरभावित्वम् ॥ ९५२ ॥

 हे वृषशैलोन्दो! अनेन प्रसिद्धेन्द्वपेक्षयाऽस्य वैलक्षण्यं गम्यते । विभावरीशः चन्द्रमाः त्वद्यशसा च्यावितः च्युतिं प्रापितः वरः श्रेष्ठः वर्णः धवलिमा यस्य स तथोक्तः वैवर्ण्यं प्रापित इत्यर्थः । यशसा च्यावितवर्णत्वकथनेन क्लीबपराभूतताद्योतकेनातिमात्रदुस्सहदुःखत्वं द्योत्यते । अत एव अधश्शिराः निपतन् सन् चन्द्रमसोऽस्ताचलाभिमुख्यावसरे विपर्यस्ततया दृश्यमानत्वादधश्शिरोनिपतनोक्तिः । कथमपि दूरगमनादियत्नगौरवेणेत्यर्थः । 'कथमादि तथाऽप्यन्तं यत्नगौरवबाढयोः' इत्युत्पलमाला । शरीरभावित्वं शरीरसत्तां विन्दति । ‘सतां माने म्लाने' इत्युक्तरीत्या शरीरत्यागावश्यंभावेऽपि तमकृत्वा ‘अथवा दूरगमनम्’ इति द्वितीयपक्षावलम्बनेन शरीरमधार्षीदित्यर्थः । पक्षे-- विभावरीशशब्दः अर्धश्शिराः निपतन् प्रतिलोमतां प्रपद्यमान इति यावत् । च्यावितः च्युतिं प्रापितः वः वकारः येन स तथोक्तः रवर्णः रेफः यस्मिंस्तथोक्त इति बहुव्रीहिगर्भो बहुव्रीहिः । वकारमुत्सार्य तत्रैव रेफः प्रापित इत्यर्थः । शरीरभावित्वं शरीरभावीत्यानुपूर्वीमत्त्वं विन्दति । विभावरीशशब्दस्योपपादितरीत्या तथा निष्पत्तेरिति ध्येयम् । शब्दार्थयोस्तादात्म्यं तु न विस्मर्तव्यम् । इह विभावरीशस्योपमानभूतस्याप्रस्तुतत्वम् । भगवद्यशसश्चोपमेयभूतस्य प्रस्तुतत्वम् । तथाच विभावरीशगतेन च्यावितवरवर्णत्वादिसंभावनावशोन्मिषितेनाप्रस्तुतेनातिमात्रनिस्तेजस्कतारूपकार्येण किमपि लोकोत्तरं यशोगतमवदातत्वं प्रस्तुतमेव प्रतीयते । अत्र कार्यकारणभावः प्रयोज्यप्रयोजकरूपः । एवमुत्तरत्राप्यस्मिन् प्रकरणे यथायोगं द्रष्टव्यः ॥

 यथावा--

 फणधरधराधरेश्वरकनदधररुचा प्रपद्य मुखभङ्गम् । विद्रुमनिवहो जलधौ विना मुखेनैव लीयते सततम् ॥ ९५३ ॥

 मुखभङ्गं पराभवम् । मुखेन विनैवेति लोकोक्तिः । मुखं दर्शयितुमक्षम एवेति भावः । पक्षे विना वि इत्याकारकवर्णेन मुखेन मुख्यभूतेन उपलक्षितः विद्रुमनिवहः । वाच्यवाचकयोस्तादात्म्यम् । अत्र भगवदधररुचिप्राप्तमुखभङ्गप्रयोज्यतया संभाव्यमानमप्रस्तुतं विद्रुमनिवहस्य जलधिनिलयनरूपं कार्यं तत्कारणभूतप्रस्तुतश्रीनिवासाधरमणिशोणिमातिशयप्रत्यायकमितीयमपि कार्यनिबन्धनाऽप्रस्तुतप्रशंसैव ॥

 यथावा--

 प्रथमं मधुरिमभूम्ना प्रथिता मधुमथनविधुमुखि मधूळी । त्वदधरसुधाविधूता धूळ्यभवत्प्रथमभूमविधुरतया ॥ ९५४ ॥

 हे मधुमथनविधुमुखि! भगवद्वल्लभे! इदं च मधूळीविधूननपाटवमदसीयाधरसुधाया अभिव्यनक्ति । प्रथमं अधरसुधाकर्तृकविधूननात्पूर्वं मधुरिमभूम्ना माधुर्यातिशयेन प्रथिता मधूळी मकरन्दः त्वदधरसुधाविधूता सती प्रथमः आदौ स्थितः यो भूमा माधुर्योत्कर्षः तेन विधुरतया विश्लिष्टतया धूळी पांसुभूता अभवत् निस्साराऽभूदिति यावत् । पक्षे-- प्रथमं भवतीति प्रथमभूः आदौ विद्यमानः यो मः मवर्णः तेन विधुरतया धूळीति निष्पन्ना मधूळीशब्दो मकारोत्सारणे तथा निष्पद्यत इत्यर्थः । अत्र संभाव्यमानाप्रस्तुतमधूळीधूळीभवनरूपकार्येण तत्कारणभूतप्रस्तुतजगज्जनन्यधरसुधामधुरिमोत्कर्षलोकोत्तरत्वावगतिः। अत्रापि कार्यकारणभावः प्रयोज्यप्रयोजकभावरूप एव । श्लेषसंकीर्णत्वं पूर्ववदेव ॥

 यथावा--

 त्वद्गतिलीलाऽवमतस्सेवित्वाऽलं विषं जगज्जननि । क्षीबोऽपि राजहंसः क्लीबत्वं प्रथयति स्म साध्वेव ॥ ९५५ ॥  हे जगज्जननि! राजहंसः क्षीबः मत्तोऽपि त्वद्भतिलीलाऽवमाननात्प्रागिति भावः । त्वद्भतिलीलया अवमतः । अनेन स्त्रीपराजितत्वद्योतकेनातिमात्रदूनत्वं व्यज्यते । अत एव विषं गरळं जलं च अलं पर्याप्तं यथा स्यात्तथा सेवित्वा पीत्वा, पक्षे-- विगळितषकारं यथातथा सेवित्वालमित्यत्र लं इति च्छेदः । लं लकारं सेवित्वा प्राप्य साध्वेव न तु यथाकथंचित् क्लीबत्वं षण्डत्वं प्रथयति स्म । यः कश्चिद्वा पुरुषमानी परैः परास्तश्चेदाश्वस्य पुनः प्रतिकर्तुं पराक्रमत एव । न तु क्लीबतया विषीदति । अयं तु स्त्रीपराजितो विषं पीतवान्कथं न क्लीबतां प्रथयेतेति भावः । पक्षे-- क्षीबशब्दष्षकारापगमनेन तत्रैव लकारसंश्लेषणे क्लीबतया स्वरूपं प्रकाशयतीत्यर्थः । अत्राप्रस्तुतेन राजहंसस्य श्रीगतिलीलाऽवमतत्वादिना संभाव्यमानेन कार्येण तत्कारणभूतप्रस्तुतश्रीगतिलीलारामणीयकातिशयप्रतीतिः ॥

 यथावा--

 तावकनयनश्रीलवचौर्याच्चकिता जगज्जननि शकुलाः । व्यत्यासितमुखवर्णाः कुशला भूत्वैव जीवनमविन्दन् ॥ ९५६ ॥

 हे जगज्जननि! शकुलाः मीनाः तावकनयनश्रीलवस्य चौर्यात् चौर्यं कृत्वेत्यर्थः । चकिताः भीताः अत एव व्यत्यासितः विपर्यासितः मुखस्य वदनस्य वर्णो यैस्ते तथाभूताः इङ्गालचूर्णभस्मादिलेपनेन परैरज्ञातयथापूर्वमुखवर्णा इति भावः । अत एव कुशला भूत्त्वैव न तु प्रमत्ताः । आपदि ईदृशोपायकरणादपि किमन्यदस्ति कौशल्यमिति भावः । जीवनं प्राणधारणं अविन्दन् । अन्यत्र-- व्यत्यासितौ विपर्ययेण पठितौ मुखवर्णौ श कु इति वर्णौ येषां ते तथोक्ताः । अर्थगतबहुत्वस्य शब्दे आरोपः । कुशला भूत्वा । शकुला इति शब्दः आद्ययोर्वर्णयोर्वैपरीत्ये कुशला इति निष्पन्न इत्यर्थः । जीवनं जलं अविन्दन् । तत्र मग्ना इति यावत् । अत्राप्रस्तुतशकुलगतचौर्यादिकार्येण तत्कारणप्रस्तुतलक्ष्मीनयनलावण्यादिसमृद्धिः प्रतीयते ॥

 यथावा--

 त्वन्नयनपराभूतो वातायुर्जननि दृश्यतापगमात् । वायुसखो भूत्वाऽऽनीत्किं नु स वायुस्थितिर्न चेज्जीवेत् ॥ ९५७ ॥

 हे जननि! वातायुः हरिणः वातायुशब्दश्च त्वन्नयनपराभूतस्सन् अत एव दृश्यतापगमात् दर्शनीयतापायाद्धेतोः वायुसखो भूत्वा वायुवददृश्यो भूत्वेति भावः । यद्वा-- दृश्यतापगगमात् अदृश्यतां प्राप्य ल्यब्लोपे पञ्चमी । वायुसखः भूत्वा वायुतुल्यवेगः पलायितो भूत्वेति यावत् । अथवा-- दृश्यः प्रत्यक्षः यस्तापः तस्य गमात् प्राप्तेः वायुसखः अग्निः भूत्वा अग्निवत्तापमयो भूत्वेत्यर्थः । शब्दपक्षे दृश्यः यः ता इति वर्णः तस्य अपगमात् वायुसखः । वायु इत्याकारकवर्णाभ्यामेव युक्त इत्यर्थः । भूत्वा आनीत् प्राणीत् । अन्यत्र सत्तामलभतेत्यर्थः । सः वा आयुस्स्थितिरिति छेदः। सः वातायुः वाशब्द एवशब्दार्थकः । ‘स्युरेवंतुपुनर्वैवेत्यवधारणवाचकाः' इत्यमरः । आयुस्स्थितिर्वा आयुश्शेष एव न चेत् जीवेत्किंनु न जीवेदेव । आयुस्स्थितेर्दुरपनयत्वादेवेदृशं पराभवं प्राप्तोऽप्यजीवदित्यर्थः । शब्दपक्षे तु-- सः वातायुशब्दः वायुस्थितिः वा युः इत्याकारकवर्णस्थितिर्न चेत् किं नु जीवेत् । ताकारवत् वायुः इत्याकारकवर्णसमुदायस्यापि लोपे शब्दस्वरूपस्थितिरेव दुर्लभेति भावः । अत्राप्रस्तुतेन वातायुपराजयादिकार्येण संभाव्यमानेन तत्कारणभूतप्रस्तुतजगज्जननीनयनसुषमाद्यतिशयः प्रतीयते ॥

 यथावा--

 आदाय चौर्यतस्तव वादान्यकसंपदं स्थितोऽपि दिवि । निर्जरपापस्समजन्यपि निर्जरपादपो हरेऽदान्तः ॥ ९५८ ॥

 हे हरे! निर्जरपादपः देवतरुः दिवि स्वर्गे स्थितोऽपि स्वतस्सिद्धस्वर्लोकावस्थानोऽपि तव वदान्यकसंपदं चौर्यतः स्तेयेन आदाय त्वद्वादान्यकसंपच्चौर्याद्विना अस्य इयदपि वा औदार्यं कुतो भवेदिति भावः । अदान्तः केनापि राज्ञा अपराधानुगुणमदण्डितः ‘वा दान्त' इत्यादिना दमेः क्तान्ततया निपातः । ‘दान्तस्तु दमिते, साहसं तु दमो दण्डः’ इति चामरः । निर्जरं दुर्जरं पापं यस्य स तथाभूतः समजनि भुवि क्वापि जात इत्यर्थः । राजदण्डितत्त्वे--

राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥

इति स्मरणाच्छोधितपापत्वं स्यात् । अतथाभूततया निर्जरपापः क्वापि जात इति भावः । पक्षे निर्जरपादपशब्दः दः दकारः अन्ते मध्ये यस्य सः दान्तः स न भवतीत्यदान्तः । मध्ये दकारविधुरस्सन् निर्जरपाप इति निष्पन्न इत्यर्थः । अत्राप्रस्तुते निर्जरपादपस्य चौर्यप्रयुक्तनिर्जरपापतावाप्तिकार्येण संभाव्यमानेन तत्कारणभूतभगवद्वादान्यकमहिमातिशयः प्रस्तुत एवावगम्यते ॥  यथावा--

 त्वद्वादान्यकनिशमनविशमितमाना विमुञ्चमाना शम् । भूत्वाऽथ विवर्णमुखा शबला कमलालयेऽभवद्विबला ॥ ९५९ ॥

 हे कमलालये ! शबला कामगवी शबलाशब्दश्च । त्वद्वादान्यकस्य निशमनेन विशमितः मानः अहं महावदान्येति चित्तसमुन्नतिः यस्यास्सा तथोक्ता । अत एव शं स्वोत्कर्षज्ञानजन्यं सुखं, पक्षे शकारं विमुञ्चमाना त्यजन्ती । मुञ्चतिस्स्वरितेत् । अत एव विवर्णं निस्तेजस्कं मुखं, पक्षे वि इत्याकारकवर्णं एव मुखं आदिर्यस्यास्सा तथोक्ता सती विबला दुर्बला अभवत् । भग्नोत्साहतया निश्शक्तिरभूदित्यर्थः । न ह्युत्साहादन्यद्बलमस्ति । यथोच्यते — ‘नास्त्युत्साहात्परं बलम्' इति । पक्षे शबलाशब्दः शकारोत्सारणेन तत्रैव विकारन्यसनेन च विबलेति निरपद्यतेत्यर्थः । अत्र भगवत्याश्श्रियो महौदार्ये वर्णनीयत्वेन प्रस्तुते सुपर्वधेनुगर्वशान्त्यादिकमप्रस्तुतमौचित्यात्संभाव्यमानं कार्यं वर्णितम् । इदं च ‘आदौ सुमुखाविबुधैः, विहरन्त्या दिवि भवतः' इत्यादिपूर्वोदाहरणेष्विव न वस्तुकार्यं, किन्तु ‘तत्केशपाशं प्रसमीक्ष्य कुर्युर्वालप्रियत्वं शिथिलं चमर्यः’ इत्यत्र तन्निरीक्षणकार्यवदौदार्यनिशमनकार्यम् ॥

 यथावा--

 दुग्धरसो दुग्धरसो मोचा मोचा सुधा सुधा भवति । द्विरसनगिरिपतिरमणी सरसवचस्स्याद्यदि श्रवणपथगम् ॥ ९६० ॥  दुग्धरसः क्षीररसः दुग्धः प्रपूरितो रेचितः रसः स्वादिमा यस्य स तथोक्तः । मोचा कदळीफलम् । मोचा शाल्मलीफलं तद्वन्नीरसेति भावः । उभयत्र ‘फले लुक्' इति वैकारिकाणो लुक् । मोचायाः फलं मोचेति विग्रहः । ‘कदळ्यां शाल्मलौ मोचा’ इति रत्नमाला । सुधा अमृतं सुधा लेपचूर्णः स्नुहीक्षीरं वा तद्वत्कटुरिति भावः । ‘सुधा लेपोऽमृतं स्नुही' इत्यमरः । स्पष्टमन्यत् । अत्र दुग्धरसादीनां तिरस्काररूपकार्येण तत्कारणभूतजगदीश्वरीवचसस्स्वादिमोत्कर्षो गम्यते । कार्यकारणभावश्चेह ज्ञानयोः । तेन नीरसत्वादेर्दुग्धरसादिगतत्वेन ज्ञायमानस्य स्वरूपतस्तद्वचनरसाजन्यत्वेऽपि न क्षतिः ।

 अर्थस्य कार्यत्व इव बुद्धेः कार्यत्वेऽपि कार्यनिबन्धनत्वं न हीयत इतीदृशान्यपि कार्यनिबन्धनाप्रस्तुतप्रशंसायामुदाहृतानि चिरन्तनैरित्यस्माभिरप्युदाहार्यन्त । वस्तुतस्तु तदतिरेकेऽपि न दोषः । न ह्यप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पञ्चविध एव संबन्ध इति नियन्तुं शक्यते । संबन्धान्तरेष्वपि तद्दर्शनादिति दीक्षिताः ॥

 यथा--

 त्वद्दिव्यकीर्तिमुक्ताफलस्य बिलशयकुलेशशैलेन्दो । विपुलौ शुक्तिकपालौ द्यावाभूमी विभावयामि परम् ॥ ९६१ ॥

 अत्र ह्यप्रस्तुतयोराधारभूतयोर्द्यावाभूम्योर्भगवत्कीर्तिमुक्ताफलकपालत्वोत्प्रेक्षणेन तदाधेयस्य प्रस्तुतस्य भगवत्कीर्तिमुक्ताफलस्य महीयस्त्वादिकं प्रतीयते । न च शुक्तिमुक्ताफलयोः कार्यकारणभावादिसंबन्धोऽस्ति, किंत्वाधाराधेयभाव एव ॥  एवं सहावस्थानादिकमपि संबन्धान्तरमाश्रयणीयमेव । यथा--

 हरिहृच्छाणोल्लेखोट्टङ्कितकौस्तुभकलङ्करेणुकणाः । नभसि क्वचन समूढा नभस्वता भास्वदाख्यया भान्ति ॥ ९६२ ॥

 कौस्तुभस्य कलङ्कः जलधिजननसमयलग्नपङ्कशैवलादिरूपः । समूढाः समूहीकृताः । अत्र कलङ्करेणूनां कौस्तुभस्य च सहावस्थितिस्संबन्धः । अत्र भास्वति भास्वत्त्वमपह्नुत्य तत्र नभस्वत्संपुञ्जितकलङ्करेणुकणत्वारोपेणाप्रस्तुतेन तत्सहावस्थितस्य प्रस्तुतस्य कौस्तुभरत्नस्यानन्तभास्करभासुरत्वं प्रत्याय्यते ॥

 यथावा--

 भूतलसपदिसमुद्गतसीतातनुलग्नरेणुकणनिकराः । अभिषेकजलैर्जलधिं नीतास्स्फीताश्च रत्नतां याताः ॥ ९६३ ॥

 अत्र पूर्वार्धेन--

उत्थिता मेदिनीं भित्वा क्षेत्रे हलमुखक्षते ।
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥

इत्युक्तोऽर्थः प्रत्यभिज्ञाप्यते । अभिषेकजलैः अवतारकालिकमङ्गळाभिषेकसलिलैः । जलधिं नीताः गङ्गादिनदीद्वारेति भावः । स्फीताः जले निहिताश्चणकादय इवोच्छूना इति भावः । स्पष्टमन्यत् । अत्रापि पूर्वोदाहरणवत्सहावस्थितिरेव सीतातनुभूरेणूनां संबन्धः भूरेणुकणानां रत्नत्वेन संभावनात्तत्सहावस्थितसीतादिव्यमङ्गळविग्रहलावण्यप्रकर्षस्य निरवधिकत्वं प्रतीयते । अस्यैव पद्यस्य ‘लङ्कागतभूमिसुतातनुलग्नक्षोणिरेणुकणनिकराः’ इति पाठान्तरं, तदा ‘भूमिशय्या विवर्णाङ्गी’ इत्युक्तरीत्या लङ्कावस्थानावसरे भगवत्यास्सीताया दिव्यमङ्गळविग्रहस्य भूरेणुसंबन्धः । अभिषेकजलैरित्यनेन ‘ततस्सीतां शिरस्स्नाताम्' इति रावणवधानन्तरभाविमङ्गळस्नानं च विवक्षितम् । अन्यत्तु तुल्यं पूर्वेण ॥

 यथावा--

 अम्बुधिसुते सितद्युतिरम्ब त्वद्वदनशेषभूतोऽसौ । यत्सर्वदास्यलक्ष्मीं संपूर्णतयैव वहति नेतरथा ॥ ९६४ ॥

 अम्बुधिसुते! हे अम्ब! सितद्युतिः इन्दुः त्वद्वदनस्य शेषभूतः ‘शेषः परार्थत्वात्’ इत्युक्तलक्षणशेषभावमापन्नः । यत् यस्मात् असौ सितद्युतिः अस्येति शेषः । सर्वदास्यलक्ष्मीं सर्वं 'अहं सर्वं करिष्यामि’ इत्युक्तप्रकारं सर्वदेशकालावस्थोचितं दास्यं कैङ्कर्यं तस्य लक्ष्मीं संपदं संपूर्णतयैव अवैकल्येनैव वहति । नेतरथा न तु वैकल्येन । पक्षे यत् यस्मात् सर्वदा अस्य त्वद्वदनस्य लक्ष्मीं शोभां आस्यलक्ष्मीं मुखश्रियमिति वा संपूर्णतयैव वहति, इतरथा तु न । पूर्णस्यैवेन्दोस्तत्साम्यं न तु विकलस्येति भावः । अत्राप्रस्तुतेन सितद्युतेस्संभाव्यमानेन शेषत्वेन तच्छेषिणः प्रस्तुतस्य श्रीवदनस्य रामणीयकसाम्राज्योत्कर्षः प्रतीयते । अत्र श्रीवदनचन्द्रमसोर्न कार्यकारणभावादिसंबन्धः, किंतु शेषशेषिभावः ॥

 एवमुपमानोपमेयाववलम्ब्य तत्र कविकल्पितकार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्यत्रापि दृश्यते- यथा--

 त्वत्पदविन्यस्तभरस्सदुत्तमो नान्तरेण भवदूनः । अथ तादृशो भवन्नपि सत्तम एवेति वर्ण्यते भगवन् ॥ १६५ ॥

 हे भगवन्! त्वत्पदविन्यस्तभरः सदुत्तमः प्रपन्नाग्रेसरः पुमान् अन्तरेण उपायानुष्ठानफलोपलम्भयोर्मध्ये भवेन संसारेण दूनः परितप्तः न भवति । तस्यार्त्यतिशयात्प्रारब्धदेहधारणस्याप्यनिष्टत्वात् ‘यस्तु प्रारब्धदेहेऽपि शोचत्यार्तस्स उच्यते’ इति हि तल्लक्षणम् । अथ दृप्तप्रपन्नमभिप्रयन्नाह-- अथेति । अथ अथवा तादृशः प्रपन्नो भूत्वा अन्तरेणाभ्युपगतप्रारब्धखण्डतया भवदूनो भवन्नपि सत्तम एव प्रपन्नाग्रगण्य एवेति वर्ण्यते । प्राज्ञैरिति शेषः । न त्वप्रपन्न इत्यवधीर्यते 'यस्य देहान्तरकृते शोको दृप्तस्स उच्यते' इति हि दृप्तप्रपन्नलक्षणम् । यद्वा त्वत्पदविन्यस्तभरः सदुत्तमः ना पुमान् अन्तरेण तादर्थ्येन 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमरमेदिन्यौ । 'ओदनान्तरस्तण्डुलः' इत्यादौ तादर्थ्येऽन्तरशब्दो दृश्यत इति टीकासर्वस्वकारादयः । भवतः त्वत्तः ऊनः भवति ‘शेषः परार्थत्वात्’ इत्युक्तपारार्थ्यलक्षणशेषतास्वाभाव्याच्छेषिणः परमात्मनस्त्वत्तो न्यूनो भवतीत्यर्थः । अथशब्दस्समुच्चये 'अथाथो संशये स्याताम्' इत्युक्रम्य ‘कार्त्स्न्यारम्भसमुच्चये' इति मेदिनी । तादृशः उक्तरीत्या भवदपकृष्टो भवन्नपि सत्तम एवेति वर्ण्यते न त्वपकृष्ट इति ।

स्वोज्जीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा ।
आत्मदास्यं हरेस्स्याम्यं स्वभावं च सदा स्मर ॥

इति प्रत्यगात्मपरमात्मनोश्शेषशेषिभावज्ञानस्यैव सत्ताहेतुतोक्तेरिति भावः ॥

 पक्षे-- सदुत्तमशब्दः अन्तरेण मध्ये भवः विद्यमानः सुप्सुपेति समासः । यः दुः दुवर्णः तेन ऊनः न्यूनः न भवति । तस्मिन् शब्दे दुवर्णश्रवणात् । अथ यदाकदाचिदिति भावः । तादृशः दुवर्णेन ऊनो भवन्नपि सत्तम एव सत्तमशब्द एवेति वर्ण्यते । सदुत्तमशब्दे दुवर्णोत्सारणे तथा निष्पत्तेः । अत्राप्रस्तुतेन प्रपन्नजनसंसारदुःखविधुरतादिवर्णनेन तत्कारणस्य भगवच्चरणारविन्दप्रपदनस्य महिमोत्कर्षः प्रत्याय्यते । नात्रोपमानोपमेयावलम्बी कविकल्पितः कार्यकारणभावः, किंतु स्वाभाविकः ॥

 यथावा--

 लक्ष्मीक्षणभेदवशाद्दीनेशोऽपि च दिनेश इव भायात् । अथ च दिनेशो भजते दीनेशत्वं किमत्र विशयेन ॥ ९६६ ॥

 लक्ष्म्याः ईक्षणभेदवशात् कटाक्षान्वयवशात् दीनेशः पूर्वं दरिद्रसार्वभौमोऽपि दिनेश इव सहस्रभानुरिव भायात् । अथच किंच दिनेशः भास्वानपि लक्ष्म्याः ईक्षणभेदवशात् कटाक्षव्यतिरेकवशात् दीनेशत्वं भजते । अत्र विशयेन संशयेन किम् । पक्षे हे लक्ष्मि! दीनेशोऽपि दीनेशशब्दोऽपि ईक्षणभेदवशात् ईवर्णस्य इवर्णत्वेन दर्शनवशात् दिनेश इव भायात् । दिनेशशब्दतया प्रकाशेत । इवशब्दो वाक्यालंकारे । इवर्णस्य ईवर्णत्वेनेक्षणे तु दिनेशशब्दो दीनेशशब्दतां भजत इत्यर्थः । अत्र दीनेशदिनेशयोर्दिनेशत्वदीनेशत्वप्राप्तिरूपकार्येणाप्रस्तुतेन तत्कारणभूतयोर्लक्ष्मीकटाक्षान्वयव्यतिरेकयोः प्रभावो निरङ्कुशः प्रस्तुत एवावगम्यते । अत्रापि पूर्वोदाहरणवदेव कार्यकारणभावः ॥

 यथावा--

 गोपालको भवन्नप्यपाकृतश्चेत्त्वया जगज्जननि। गोलक एव स भविता चातुर्वर्ण्योज्झितोऽत्र को विशयः ॥ ९६७ ॥

 हे जगज्जननि! गोपालकः त्रिदिवरक्षक इन्द्रः अन्यो दिक्पालो भूपालो वाक्पतिर्वा भवन्नपि पुमान् त्वया अपाकृतः तिरस्कृतश्चेत् चातुर्वर्ण्येन ब्राह्मणादिवर्णचतुष्टयेन, स्वार्थे ष्यञ् । उज्झितः बहिष्कृतः गोलकः ‘मृते भर्तरि गोलकः’ इत्युक्तलक्षणो वैधवेयः भविता उत्पत्स्यते । अत्र को विशयस्संदेहः न कोऽपीत्यर्थः। पक्षे गोपालकशब्द अपाकृतः पावर्णरहितः कृतश्चेत् चत्वारो वर्णाः यस्य सः चतुर्वर्णः तस्य भावः चातुर्वर्ण्यं तेन उज्झितः गोलक एव भविता । गोपालकशब्दो वर्णचतुष्टयात्मकः पावर्णोत्सारणे त्रिवर्ण एव भवितेर्त्यः । अत्राप्रस्तुतगोपालकदुरवस्थाप्राप्तिरूपकार्यात्संभावनाविषयात्तत्कारणभूतजगज्जननीनिग्रहनिरङ्कुशप्रभावः प्रस्तुतः प्रतीयते ॥

 यथावा--

 काञ्चनलक्ष्मीमञ्चन्त्यकिञ्चनानां घनानि भवनानि । किमिदं स्यात्फणिशैलं याता एते दिदृक्षमाणास्तम् ॥ ९६८ ॥

 अत्र फणिशैलं प्रति गतानामकिञ्चनानां भवनेषु कुचेलभवनेष्विव श्रीनिवासकटाक्षेणोन्मिषितां निरवधिकां संपदं वीक्ष्य तन्निमित्ते केनचिदनुयुक्ते भगवत्प्रसादरूपं तन्निमित्तमनभिधाय दिदृक्षमाणाः फणिशैलं याता इति तत्कारणमभिहितमितीयमपि कारणनिबन्धनाऽप्रस्तुतप्रशंसैवेत्यलं दूरधावनेन । प्रकृतमनुसरामः ॥

 सामान्ये प्रस्तुते विशेषवचनं यथा--

 छायाफलमसृणस्तरुरायासं लोकतस्समायाति । शाकोटकं तु लोके काकोलूकादिकोऽपि नाकाङ्क्षेत् ॥ ९६९ ॥

 अत्र श्रीनिवासं प्रति त्वादृशो महौदार्यादिगुणनिधिरेव स्वाभीप्सितफलप्रेप्सुभिरायास्यते । गुणलेशवन्ध्यस्तु दूरीक्रियत एव सर्वैरिति सामान्ये कथनीये तत्प्रत्यायनायाप्रस्तुतो विशेषोऽभिहित इतीयं विशेषनिबन्धना ॥

 यथावा--

 कल्पतरुं श्रयतां न ह्यल्पतराऽपीप्सितानवाप्तिस्स्यात् । इति जानन्मतिमांश्चेत्क्षितिजानन्यान्किमर्थमाश्रयताम् ॥ ९७० ॥

 अत्रापि श्रीनिवासतुल्यं महावदान्यमाश्रयतां न कदाचिदप्यभीष्टार्थानवाप्तिरिति जानानो बुद्धिमांश्चेत्किमर्थमन्यान्मितंपचानाश्रयतामिति सामान्ये वक्तव्ये तदवगमनार्थमप्रस्तुतो विशेषोऽभिहितः । क्षितिजान् तरून् भूमिष्ठान् मनुजांश्चेत्यर्थः ॥  यथावा--

 स्वाराज्यैश्वर्यमदान्नहुषः स्थितवानजागरो भूत्वा । जातोऽह्रस्वाकारोऽजगरो जगदम्ब तव कृपामान्द्ये ॥ ९७१ ॥

 हे जगदम्ब! तव कृपामान्द्ये सति नहुषः स्वराज्यैश्वर्यमदात् त्रिदिवाधिराज्यवैभवप्रयुक्ताच्चित्तविकारात् अविद्यमाना जागरा जागर्या यस्य तथाविधो भूत्वा भविष्यदनर्थपरिहारे अजागरूको भूत्वेत्यर्थः । स्थितवान् अत एव अह्रस्वः अनल्पः आकारः आकृतिः यस्य स तथोक्तः । महाशरीर इत्यर्थः। 'त्रिषु ह्रस्वोऽल्पखर्वयोः' इति रत्नमाला । अजगरः व्याळविशेषः जातः मुनिशापादिति भावः । जातः स्थितवानिति वा योजना । अत्र भारतीयं नाहुषमुपाख्यानमनुसंधेयम् । पक्षे अजागरशब्दः जातः जकारसंबन्धिन्याकारे । सार्वविभक्तिकस्तसिः । हृस्वः अकारो यस्य स तथोक्तः । आकारस्थाने अकारं प्रापितः अजगरः स्थितवान् अजगर इति निष्पन्न इत्यर्थोऽपि चमत्कारी । अत्र श्रियं प्रति त्वत्कृपाप्रसरमान्द्ये महतोऽपि दुरवस्थाप्राप्तिर्भवतीति सामान्येऽभिधेये विशेषोऽभिहितः ॥

 यथावा--

 इनतनयस्तव राघव राज्यमदान्नाकरिष्यदाज्ञां चेत् । सनयोऽपि ननय एव ह्यभविष्यदितस्ततोऽपि विभ्रष्टः ॥ ९७२ ॥

 हे राघव! इनतनयः सुग्रीवः राज्यमदात् राज्यलाभप्रयुक्तचित्तसमुन्नतेः तव आज्ञां यथाप्रतिश्रुतं सीतान्वेषणादिविषयं शासनं नाकरिष्यद्यदि सनयोपि नीतिमानमपि इतः राघवात् तत्सौहार्दादिति यावत् । ततः राज्यादपि विभ्रष्टस्सन् ननयः नीतिविधुर एव अभविष्यत् । नशब्देन समासः । अनीतिमानित्येव प्रासैत्स्यदिति भावः । यद्वा इतस्ततः अस्मादमुष्माच्च लोकात् विभ्रष्ट इत्यर्थः । ‘कृतं ह्यप्रतिकुर्वंस्तु भ्रश्येल्लोकद्वयादपि' इति स्मरणात् । अथवा अर्थधर्माभ्यां विभ्रष्ट इयर्थः । 'धर्मलोपो महांस्तात कृते ह्यप्रतिकुर्वतः । अथलोपश्च मित्रस्य' इति श्रीरामायणोक्तेः । यद्वा इतस्ततो विभ्रष्ट इति लोकोक्तिः। अयुक्ताप्रशस्तप्रदेशेषु पतित इत्यर्थः । अभविष्यत् । हीत्यवधारणे । अपिर्भिन्नक्रमः गर्हायाम् । पक्षे सनयः नकाराभ्यां यकारेण च युक्तः इनतनयः इनतनयशब्दः इतः इवर्णात् ततः तवर्णाच्च विभ्रष्टः विश्लिष्टश्चेत् ननय इति निष्पद्येतेत्यर्थः । अत्र महाकुलीनोऽपि यदि भगवच्छासनमतिवर्तेत तदा लोकद्वयादपि भ्रश्येदिति सामान्ये कथनीये विशेषः कथितः । प्रदर्शितेषूदाहरणेषु प्रायेण श्लेषसंकीर्णताऽस्त्येव । अलंकारान्तरसंकीर्णता तु तत्रतत्र यथासंभवं बुद्धिमद्भिरूहनीया ॥

 यथावा--

 प्राप्य नियन्तारं त्वामतिद्युपतिरर्जुनः कुरुरणाग्रे । अपराजित एवाभूदतिद्युतिश्चापि कंसविध्वंसिन् ॥ ९७३ ॥

 हे कंसविध्वंसिन्! अर्जुनः त्वां नियन्तारं सारथिं नेतारं च प्राप्य द्युपतिमिन्द्रमतिक्रान्तोऽतिद्युपतिः कुरुरणाग्रे अपराजितः परैरनभिभूत एव भवन् अत एव अतिद्युतिः अतितेजस्वी चाप्यभूत् । पक्षे अतिद्युपतिशब्दः पेन पकारेण राजितः न भवतीत्यपराजित एव सन् अतिद्युतिरिति निष्पन्न इत्यर्थः । अत्र भगवन्तं नियन्तारं प्राप्तो जनस्सर्वत्र विजयी द्युतिमांश्च भवतीति सामान्ये प्रस्तुतेऽभिधेये अप्रस्तुतविशेषाभिधानम् ॥

 यथावा--

 शरकुलकमलतरणे भूरितरे पारिजातहरणरणे । बलरिपुतुलितं भवता कुलिशं चालितमतानि कुशमेव ॥ ९७४ ॥

 शूरो नाम यदुवंश्यो राजा तस्य कुलमेव कमलं तस्य तरणिः द्युमणिः तस्य संबुद्धिः हे भगवन्! इदं च संबोधनं महातेजस्विताद्योतनाय । भूरितरे पारिजातहरणरणे । बलरिपुणा मघवता तुलितं उद्धृतं कुलिशं वज्रं चालितं अयथावस्थितं कृतं निर्वीर्यं कृतमित्यर्थः । 'कम्पने चलि.' इति नियमात् शीलं चालयतीत्यादाविव मित्त्वाभावात्तन्निमित्तकह्रस्वाभावः । कुशमेव अतानि तृणप्रायमेव व्यधायीत्यर्थः । पक्षे च अलितं इतिच्छेदः । अविद्यमानो लिः लिवर्णः यस्मिंस्तत् अलि अलि कृतं अलितं अलिशब्दात्तत्करोतीति ण्यन्तात्कर्मणि क्तः । ‘निष्ठायां सेटि’ इति णिलोपः । यद्वा लिः संजातोऽस्य लितं न लितं अलितं लिवर्णविधुरमित्यर्थः । इतचि 'यस्येति च' इतीकारलोपः । कुशमेव अतानि । कुलिशपदं लिवर्णापसारणेन कुशमिति निष्पादितमित्यर्थः । अत्र भगवता अखिलप्रत्यनीकससंरम्भोद्यतानि महान्त्यप्यस्त्राणि तृणवन्निस्सारीक्रियन्त इति सामान्येऽभिधेये इन्द्रोद्यतदम्भोळिदम्भोन्नतिसंभेदनरूपविशेषोऽभिहितः ॥  यथावा--

 सारघमम्ब भवत्या वचनात्स्वमवरमवेत्य साघमभूत् । नेयाद्यदि तु तथाऽघं सारं स्यादेव कोऽत्र संदिग्धाम् ॥ ९७५ ॥

 हे अम्ब! सरघाभिः कृतं सारघं मधु कर्तृ । तेन कृते इत्यर्थे 'संज्ञायाम्' इत्यण् ‘सरघा मधुमक्षिका' इत्यमरः । स्वं आत्मानं भवत्याः वचनात् अवरं निहीनं, पक्षे अवधूतः रः रेफो यस्मात्तत्तथाभूतं रेफविहीनमित्यर्थः । ‘प्रादिभ्यो धातुजस्य' इति धूतशब्दलोपः । अवेत्य ज्ञात्वा अघेन दुःखेन सह वर्तत इति साघं अभूत् । श्रीवचनापेक्षया स्वस्य निहीनतां विज्ञाय दुःखितमभवदित्यर्थः । 'अंहोदुःखव्यसनेष्वघम्' इत्यमरः । पक्षे सारघमिति पदं रेफावधूननेन साघमिति निष्पन्नमित्यर्थः । यदि तु तथा उक्तप्रकारेण अयं नेयात् न प्रप्नुयात् तर्हि सारं श्रेष्ठं रसवदित्यर्थः । स्यादेव । न नीरसं स्यादिति भावः । पक्षे घं इतिच्छेदः । तथा एवं घं घवर्णं नेयाद्यदि सारमेव स्यात् सारघपदं घवर्णापनयने सारमित्येव निष्पद्येतेति भावः । अत्र सर्वातिशायि श्रीवचनमाधुर्यमिति सामान्ये वक्तव्ये मधुनीरसत्वरूपविशेषवचनम् ॥

 विशेषे प्रस्तुते सामान्यवचनं यथा--

 कर्मज्ञानोपासनमर्मज्ञा ये स्वयं कृतार्थास्ते । आकिंचन्यैकधना विना कृपां ते कथं भवन्ति जनाः ॥ ९७६ ॥  कथं कृतार्था भवन्तीति योजना । अत्र अकिंचनोऽहमुपायान्तरस्थाने स्थितेन त्वयैवोज्जीवयितव्य इति विशेषे प्रस्तुते आकिञ्चन्यैकधना इत्यादिना सामान्यमभिहितमिति सामान्यनिबन्धनाऽप्रस्तुतप्रशंसा ॥

 यथावा--

 श्रेयोऽर्थिनामुपेयो भूयो नॄणां महापुरुष एव । किंचिदपि वाञ्छितं स्यादकिंचनैर्वञ्चनापरैर्न परैः ॥

 अत्र सकलपुरुषार्थप्रेप्सुभिरपि जनैश्श्रीनिवास एव सेवनीयो न मितंपचानि देवतान्तराणीति विशेषे वक्तव्ये तत्प्रत्यायनायाप्रस्तुतं सामान्यमुक्तमिति ध्येयम् ॥

 यथावा--

 कतिकति फणाभृदधिपतिगिरिपतिशेखर भवत्पदनखेन्दुम् । सन्तश्शेखरयन्तस्सर्वज्ञाश्चेश्वराश्शिवा नासन् ॥ ९७८ ॥

 अत्र भगवन्तं श्रीनिवासं प्रति त्वत्पदनखेन्दुशिरोधारणेन मम सार्वज्ञ्याधिकं सेत्स्यतीति विशेषे वक्तव्ये सामान्याभिधानम् ॥

 यथावा--

 शशिकरदत्तत्रपया कृपया भगवन् सुशीतलस्त्वमसि । अत एव सुशीलोऽपि श्रितावनेऽशीत एव सुतलश्च॥ ९७९ ॥

 हे भगवन्! त्वं शशिकराणां दत्ता त्रपा यया सा तया ततोऽपि शिशिरयेत्यर्थः । कृपया स्वार्थनिरपेक्षपरदुःखनिराचिकीर्षालक्षणया दयया सुशीतलः अतिमात्रशिशिरः असि । अत एव अस्मादेव हेतोः सुशीलोऽपि । शोभनं शीलं यस्य तथोक्तोऽपि । अपिस्समुच्चये सौशील्यवांश्चेत्यर्थः । असि । सौशील्यं नाम महतो मन्दैस्सह नीरन्ध्रसंश्लेषस्वभावत्वम् । एतच्च रामकृष्णाद्यवतारेषु गुहशबरीगोपालादिवृत्तान्तेषु प्रसिद्ध्यति । दयाशिशिरतावैधुर्ये सौशील्यस्य क्व समुन्मेषो भवेदिति तयोः कार्यकारणभावकथनम् । अत एव श्रितानां अवने रक्षणे विषषे अशीतः अनलस एव ‘शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिषु' इति मेदिनी । यद्वा अपिर्विरोधे । एवं दयाशिशिरतया सुशीलोऽपि श्रितावने अशीतः अशिशिरः उष्ण इति विरोधः परिहारस्त्वनलस इत्येव । सुतलश्च सुष्ठु तलति प्रतिष्ठत इति सुतलः ‘तल प्रतिष्ठायाम्’ इति धातोः पचाद्यच् । आश्रितरक्षणे जागरूक एव प्रतिष्ठित इत्यर्थः । यद्वा-- शोभनं तलं यस्य सः सुतलः । कल्याणस्वरूपश्च असि । आश्रितपरित्राणजागरूकतयैव कल्याणस्वभावो भवसीति भावः । ‘अधस्स्वरूपयोरस्त्री तलम्' इत्यमरः । पक्षे सुशीतल इति शब्दः अत एव अविद्यमानतकारमात्रस्सन् सुशील इति निष्पद्यते । स एव अशीतः शी इति वर्णेन इतः शीतः न शीतः अशीत एव अविद्यमान शीवर्णमात्रः सुतल इति निष्पद्यत इत्यर्थः । अत्र मद्रक्षण एव जागरूकतया प्रतिष्ठितस्त्वमिति विशेषे वक्तव्ये सामान्यकथनम् ॥

 तुल्ये प्रस्तुते तुल्याभिधानं यथा--

 वहमाने पवमाने घनाघने चाभिमुख्यवलमाने । चातकपोतकदवभवतापाटोपो न ते चिरं स्थाता ॥ ९८० ॥  अत्र चातकपोतकवृत्तान्तकीर्तनं तत्सरूपे सानुग्रहमभिमुखे सदाचर्ये तदधीने च भगवत्याभिमुख्यमुपेयुषि भवतापस्तव न चिरं स्थास्यतीति प्रपन्नाश्वासनवृत्तान्ते पर्यवस्यतीति सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसेयम् ॥

 यथावा--

 मणिनामभृतः कतिकति फणिनाथगिरीश दिशिदिशि न सन्ति । चिन्तारत्नत्वं ते किं तावदमी कदाऽपि विन्दन्ते ॥ ९८१ ॥

 अत्र चिन्तारत्नेतररत्ननिन्दा निन्दनीयत्वेन प्रस्तुतानां मितंपचफलवितरीतॄणां भगवदितरदेवताभेदानां निन्दायां पर्यवस्यतीतीयमपि सारूप्यनिबन्धनैव ॥

 श्लिष्टविशेषणाऽपीयं दृश्यते । यथा--

 अनुविद्धः पत्रिगणैरुच्छ्रितमानोऽतिभीमसत्त्वाढ्यः । संख्याग्रसरश्शूरस्सुप्रथनश्श्रीनिवासतामयते ॥ ९८२ ॥

 अत्र श्लिष्टैर्विशेषणैरप्रस्तुतशूरपुरुषस्तुतिः स्तव्यत्वेन प्रस्तुतस्य तत्सरूपस्य शेषाद्रेः स्तवे पर्यवस्यति । शूर इति विशेष्यमत्राश्लिष्टम् । पत्रिणां शराणां खगानां च गणैरनुविद्धः ताडितः अनुबद्धश्च । उच्छ्रितः मानः चित्तसमुन्नतिः अन्यत्र मानः प्रमाणं यस्य स तथोक्तः ‘मानश्चित्तोन्नतौ ग्रहे । क्लीबं प्रमाणे प्रस्थादौ' इति मेदिनी । भीमं भीमसेनं रुद्रं वा अतिक्रान्तं अतिभीमं यत् सत्त्वं बलं यस्य सः । पक्षे अतिभीमाः अतिघोराः सत्त्वाः व्याघ्रादिजन्तवः यस्मिन् स तथोक्तः । संख्ये युद्धे अग्रसरः । पक्षे-- संख्यायां महागिरिगणनायां अग्रसरः अग्रणीः । शूरः वीरः शोभनं च तत् प्रथनं च सुप्रथनं श्लाघ्यं युद्धं तस्य श्रियः जयलक्ष्म्याः निवासतां स्थानताम् । पक्षे-- शोभनं प्रथनं प्रख्यातिः यस्य स तथोक्तः । श्रीनिवासः भगवान् यस्मिन् तस्य भावं अयते इत्यर्थः ॥

 यथावा--

 पद्म कृती त्वं नूनं हरिप्रसादात्सदा मुखविकासम् । अभ्येषि रसं लब्ध्वाऽऽमोदमनन्तं च विन्दसे यस्मात् ॥ ९८३ ॥

 हे पद्म! ‘वा पुंसि पद्मम्’ इत्यनुशासनात्पुल्लिङ्गता । त्वं कृती धन्यः । यस्मात् हरेः भानोः भगवतश्च प्रसादात् प्रकाशात् अनुग्रहाच्च सदा मुखविकासं अभ्येषि । रसं मरन्दं लब्ध्वा अनन्तं अमितं आमोदं सौरभं विन्दसे । अन्यत्र ‘रसो वै रसः, रस्ँ ह्येवायं लब्ध्वाऽऽनन्दी भवति’ इति श्रुत्युक्तरीत्या आनन्दरूपं परं ब्रह्म प्राप्य शतगुणितोत्तरक्रमेणाभ्यस्यमानमानन्दं विन्दस इत्यर्थः । अत्रापि श्लिष्टैर्विशेषणैः पद्मस्याप्रकृतस्य स्तवः प्रकृते ब्रह्मविदि तत्सरूपे पर्यवस्यति । पद्मेति विशेष्यमश्लिष्टम् ॥

 यथावा--

 माकन्द त्वं धन्यो माधवसक्त्यैषि सुमत आमोदभरम् । अतिरागिणमपि पल्लवमचिराद्रचयसि च साधु हरितत्त्वविदम् ॥ ९८४ ॥  हे माकन्द! रसालतरो! त्वं धन्यः । धन्यतामेवाह-- माधवेति । माधवस्य वसन्तस्य सक्त्या सुमतः सुमैः सार्वविभक्तिकस्तसिः । पक्षे-- माधवे भगवति सक्त्या शोभनं मतं यस्य स तथोक्तः त्रय्यन्तनिष्णातसिद्धान्तानुयायीत्यर्थः । यद्वा-- सुमत आमोदमित्यत्र सुमते इति छेदः । हे सुमते! महाप्राज्ञेति माकन्दविशेषणम् । आमोदभरं आनन्दातिशयं एषि प्राप्नोषि । अतिरागिणमपि अतिरक्तिमशालिनमपि पल्लवं किसलयं अचिरात् हरितस्य भावः हरितत्वं हरिद्वर्णत्वं विन्दतीति तथोक्तं विन्दतेः क्विप् । रचयसि च । किसलयावस्थायां लोहितत्वं पत्रावस्थायां हरिद्वर्णत्वं च दळस्य प्रसिद्धम् । नवदळं किसलयं युवदळं पत्रमिति विभागः । अन्यत्र न केवलं स्वयं धन्यः । किंत्वाश्रितानविरक्तानप्युज्जीवयसीत्याह-- अतिरागिणमिति । अतिरागिणं विरक्तिशून्यं पल्लवं षिद्गमपि हरेः तत्त्वं याथात्म्यं हरिरूपं तत्त्वं प्रामाणिकं वस्तु वा । हरिसंज्ञकं तत्त्वं परमात्मानं वा वेत्तीति तथोक्तम् । विदेः क्विप् । ‘तत्त्वं स्वरूपे परमात्मनि' इति मेदिनी । ब्रह्मविदमित्यर्थः । रचयसि च । अत्राप्रस्तुतमाकन्दतरुप्रशंसा प्रस्तुतस्वाश्रितोज्जीवयितृब्रह्मवित्प्रशंसायां पर्यवस्यति । अत्र विशेष्यभूतो माकन्दशब्दोऽश्लिष्टः ॥

 एवंजातीयकेषु पद्येषु श्लिष्टविशेषणाऽप्यप्रस्तुतप्रशंसैव । न तु समासोक्तेस्तदनुग्राहकत्वं, तस्या एतदलंकारप्रत्यनीकाकारतयाऽनुग्राहकत्वायोगात् । यत्तु काव्यप्रकाशे समासोक्तेरेतदनुग्राहकत्वमभिहितं तन्न, प्रतीयमानवृत्तान्तस्य प्रस्तुतत्वे अनुग्राहिकायास्समासोक्तेरेवानुन्मेषात् । प्रस्तुतस्य वाच्यतायामेव तदभ्युपगमात् । अप्रस्तुतत्वे त्वनुग्राह्याया अप्रस्तुतप्रशंसाया एवाभावात् । अप्रस्तुतवृत्तान्तस्य वाच्यतायामेव तदङ्गीकारात् । तस्मात् श्लिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभिप्रायेण यथाकथंचित्तदुक्तिस्संगमनीया । इयं च सादृश्यमूलाऽप्रस्तुतप्रशंसोच्यते । अस्यां च वाच्यार्थः क्वचित्प्रतीयमानार्थताटस्थ्येनैवावतिष्ठते । क्वचिच्च स्वगतविशेषणान्वययोग्यतामासादयितुं प्रतीयमानभेदमपेक्षते । क्वचिच्च प्रतीयमानमपि क्वचिदंशे वाच्यतादात्म्यम् । वाच्यं च क्वचिदंशे प्रतीयमानतादात्म्यमपेक्षते ॥

 तत्राद्या यथा--

 उच्छ्रितभूधरशिखरं कृच्छ्रादाढौकितोऽपि मार्जारः । समुदग्रव्याघ्रतुलामाघ्रातुं वा कदाऽपि किं प्रभवेत् ॥ ९८५ ॥

 अत्र प्रस्तुतो मार्जारवृत्तान्तः स्वल्पप्रज्ञैः प्राज्ञंमन्यैरिदमेव त्रयीशिरस्सु जगत्कारणतया प्रतिपादितं परं ब्रह्मेति हठाज्जल्पितमपि देवतान्तरं सर्वकारणत्वनिरुपाधिकसर्वेश्वरत्वादिना त्रयीशिरस्सहस्रसन्ततजोघुष्यमाणमहामहिमोन्नतेः श्रीपतेः परस्य ब्रह्मणस्साम्यगन्धस्यापि दविष्ठमेवेति प्रस्तुतेऽर्थे पर्यवस्यति । अत्र वाच्यभूतानामर्थानां मार्जारे संभवादुपपादितप्रतीयमानार्थानध्यारोपेणैव वाच्यप्रतीतिः ॥

 द्वितीया यथा--

 भ्रमर क्षमस्व कतिचन निमिषान्बिसकुसुमकोशबन्धमिमम् । जलरुहदलविदलयिता रविरिह हरिहरिति किरति किरणगणम् ॥ ९८६ ॥  अत्राप्रस्तुतेन कमलकोशान्तर्निरुद्धभ्रमराश्वासनवृत्तान्तेन तत्सरूपः स्वल्पमेव कालं संसारबन्धमिमं सहस्व भगवत्कटाक्षास्त्वयि प्रत्यासन्नप्रसरा इति प्रस्तुतो भगवच्चरणारविन्दप्रपन्नाश्वासनवृत्तान्तः प्रतीयते ॥

 यथावा--

 रवितापशोषितापं पल्वलमभ्येत्य खल्वलं तपसि । मीन त्वं दीनत्वं विमुञ्च पुरतोऽभ्युदञ्चति घनाळी ॥ ९८७ ॥

 अत्राप्रस्तुतमीनसमाश्वासनवृत्तान्तेनातिमात्रदुर्गतिदूषितकुटुम्बमध्यनिवासपरितप्तं दीनं प्रति मा शुचः प्रत्यासन्ना तव श्रीरिति समाश्वासनरूपोऽर्थोऽवगम्यते ॥

 यथावा--

 मर्कटक वयसि सततं तन्तुभिरहमपि च तन्तुवाय इति । देवार्हांशुकवातुः का वा हानिस्ततः कुविन्दस्य ॥ ९८८ ॥

 मर्कटकः ऊर्णानाभो नाम क्रिमिः ‘लूता स्त्री तन्तुवायोर्णानाभमर्कटकास्समाः' इत्यमरः । वयसि वस्त्रं करोषि ‘वेञ् तन्तुसन्ताने’ इति हि धातुः । देवार्हांशुकस्य वाता वयनकर्ता तस्य, वेञस्तृच् । शेषषष्ठ्यास्समासः । अत्राप्रस्तुतस्योर्णानाभेर्निन्दनं कुविन्दस्य प्रशंसनं च निन्दनीयत्वेन प्रस्तुते तत्तुल्ये अक्षोदक्षमासंबद्धदुर्विषयकतिपयपद्यघटयितरि कुकवौ प्रशंसनीयत्वेन प्रस्तुते भगवत्कल्याणगुणरमणीयभव्यकाव्यनिर्माणालंकर्मीणे कविकुलसार्वभौमे च पर्यवस्यति । इयं च वक्ष्यमाणावज्ञालङ्कारसंकीर्णेति विच्छित्तिविशेषः ॥

 यथावा--

 न विशुष्यसि तपनकरैर्न च हृष्यसि हिमकरांशुभिरपि त्वम् । दुस्तरकाठिन्योऽसि प्रस्तर तव चरितविस्तरेणालम् ॥ ९८९ ॥

 अत्राप्रस्तुतेन प्रस्तरवृत्तान्तेन तत्सरूपस्य निन्दनीयतया प्रस्तुतस्य भूयोभिरपि भवतापैरनभितप्तस्यासकृद्भगवत्कथामृतश्रवणादिभिरद्रवच्चित्तस्य मूर्खमूर्धन्यस्य वृत्तान्तः प्रत्याय्यते ॥

 यथावा--

 पुष्कलकसीमगन्धा यूयं यत्रक्ववाऽपि जायेध्वम् । पुष्कलसौरभ्यान्वः पुष्यति हृदये स पुष्कराक्षोऽपि ॥ ९९० ॥

 पुष्कलकस्य सीमा पुष्कलकसीमा । पुष्कलको गन्धमृगविशेषः । यं गन्धमार्जार इत्याहुः । सीमा अण्डकोशः ‘अथ पुष्कलको गन्धमृगे’ इति 'सीमा घटस्थितिक्षेत्रेष्वण्डकोशेऽपिच स्त्रियाम्' इति च मेदिनी । ‘मनः' इति निषेधान्न नान्तलक्षणो ङीप् । तस्याः गन्धाः तत्र भवो गन्धद्रव्यविशेषः तस्य संबुद्धिः । अर्थस्यैकत्वेऽप्ययं शब्दो दाराः गृहा इतिवन्नित्यबहुवचनान्तः, 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः’ इत्यनुशासनात् । अत्र पुष्कलकसीमगन्धवृत्तान्तेनाप्रस्तुतेन निहीनकुलजन्मानोऽपि तत्त्वज्ञानविरक्तिभक्त्यादिशुभगुणसमृद्धिमन्तश्चेतनाः श्री श्रीनिवासस्य भगवतः कृपाभाजनतया मणिवरवन्नित्यहृद्या भवन्तीति तत्तुल्यः प्रस्तुतवृत्तान्तः प्रत्याय्यते ॥

 यथावा--

 माकन्दमुखास्तरवः स्तोकं ददते फलं किमेतैर्नः । मन्दार महोदार त्वं दाता नूनमीप्सितादधिकम् ॥ ९९१ ॥

 अत्राप्रस्तुतानां माकन्दादितरूणामनादरः मन्दारस्य प्रशंसा च अनादरणीयतया प्रस्तुतेषु देवतान्तरेषु प्रशंसनीयतया प्रस्तुते तत्सरूपे भगवति श्रीनिवासे च पर्यवस्यति । अत्राद्येषु त्रिषूदाहरणेषु भ्रमरमीनतन्तुवायक्रिमीणां तिरश्चां अनन्तरेषु त्रिषूदाहरणेषु प्रस्तरगन्धद्रव्यमन्दाराणामचेतनानां च संबोधनानर्हतया प्रतीयमानाध्यारोपेणैव वाच्यार्थप्रतीतेस्तत्तादात्म्यमपेक्ष्यते ॥

 यथावा--

 मधुकर शृणु मम वचनं मा गाः खेदं त्वमशुचिवर्ण इति । श्रीश्रीनिवासपद्माश्रयणेनोज्जीवितो यतोऽसि कृती ॥ ९९२ ॥

 अशुचिवर्णः नीलवर्णः अशुद्धवर्णश्शूद्रश्च । श्रीश्रियः श्रीमहालक्ष्म्याः निवासभूतं यत्पदं कमलं तस्याश्रयणेन श्रीयुक्तः यः श्रीनिवासः भगवान् पद्मा लक्ष्मीश्च तयोः आश्रयणेन च । अत्र मधुकरस्य खेदनिवारणकारणतया विशेषणमुपात्तं तच्च न संभवति न हि मधुकरे नीलवर्णत्वं दोषः अरविन्दाश्रयणेनोज्जीवितत्वं गुणः येन तत्प्रशंसाखेदनिरासाय कल्पेत । तस्माद्वाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्षणीयम् । पूर्वत्र अंशे इह तु साकल्येनेति विशेषः ॥

 यथावा--

 ननु चातक सुमहांस्त्वं स्तोकक इति मा स्म गाः क्वचिद्दैन्यम् । अमृतार्थी हरिमेव श्रयसे त्वत्तोऽधिको द्विजः कोऽन्यः ॥ ९९३ ॥

 स्तोककः अत्यल्पः स्तोकशब्दादल्पार्थे कन् । पक्षे-- स्तोकं कायति रौतीति स्तोककः चातकः ‘स्तोककश्चातकस्समौ' इत्यमरः। अमृतार्थी सलिलार्थी तृषित इत्यर्थः । पक्षे— निश्श्रेयसार्थी हरिं मघवन्तं भगवन्तं च त्वत्तोऽधिकः द्विजः खगः विप्रश्च । कः अधिकः न कोऽपि । अत्र चातकस्य दैन्यनिवारणकारणतयोपात्तं विशेषणं न संभवति । न हि चातके स्तोककत्वं दैन्यहेतुः न वा प्रथमोदबिन्दुकाङ्क्षितया मघवदाश्रयणमुत्कर्षहेतुः । येन तत्प्रशंसया वार्येत दैन्यं, अतो वाच्यार्थस्योक्तरीत्या प्रतीयमानतादात्म्यं विशेष्यविशेषणांशयोरुभयोरप्यपेक्ष्यते ॥

 यथावा--

 नित्यं मराळ शुचिरसि निपुणतरस्त्वं विषामृतविवेके । दक्षिणवामौ पक्षौ द्वौ श्रयसेऽधःकृतोसि तद्विधिना ॥ ९९४ ॥  हे मराळ! हंस! नित्यं शुचिः शुभ्रः । पक्षे—' योऽर्थे शुचिर्हि स शुचिः’ इत्युक्तरीत्या परस्वापहाराद्यभिसन्धिविधुर इत्यर्थः । असि । विषामृतयोः नीरक्षीरयोः ‘विषं तु गरले तोये’ इति, ‘अमृतं यज्ञशेषे स्यात्पीयूषे सलिले धृते’ इति च मेदिनी । विवेके पृथक्करणे । पक्षे-- विषामृतशब्दौ गौण्या वृत्त्या असदर्थसदर्थपरौ । तयोः विवेके सम्यग्विमर्शे निपुणतरः । दक्षिणवामौ अपसव्यसव्यौ सरळप्रतिकूलौ च ‘दक्षिणो दक्षिणोद्भूतसरळच्छन्दवर्तिषु' इति मेदिनी । ‘वामा वध्वां सव्यरम्यप्रतीपेष्वेषु वाच्यवत्” इति रत्नमाला । पक्षौ गरुतौ सिद्धान्तौ च संश्रयसे तत् तस्मात् विधिना ब्रह्मणा दैवेन च अधःकृतः वाहनतयाऽधरीकृतः । पक्षे-- सर्वैर्न्यक्कृतः नरके पतितो वा असि । अत्राप्रस्तुतमराळवृत्तान्तेन भगवत्तदन्यपरसिद्धान्तद्वयस्यापि तुल्यतया स्वीकर्तुः कस्यचिद्बहुशाखमतेः कोविदंमन्यस्य गुणप्रख्यापनपूर्वकमुपालम्भो द्योत्यः । तत्राप्रस्तुते मराळे शुचित्वादिना प्रशंसाया वा दक्षिणवामपक्षाश्रयणादिना निन्दाया वा असंभवादुपदर्शितप्रकारेण वाच्यार्थस्य द्योत्यार्थतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्षणीयम् ॥

 यथावा--

 अपि शाखिनो जटाला वटा इमे नीरसे फले रक्ताः। तत्फलकामैरेव स्तोमैः पततां च बत निषेव्यन्ते ॥ ९९५ ॥

 इमे वटाः न्यग्रोधतरवः वक्ष्यमाणरीत्या फलकामिन इति च व्यज्यते । शाखिनः शाखाशालिनः जटाला अपि शिफान्विताश्च सन्तः नीरसे रसविधुरे फले स्वकीयफले रक्ताश्शोणवर्णा भवन्ति । प्रसिद्ध्यति हि ताद्विध्यं तत्फलानाम् । पक्षे-- शाखिनः वेदभागाध्येतारः जटालाः जटान्वितास्तापसा अपीत्यर्थः । ‘शाखापक्षान्तरे बाहौ वेदभागद्रुभागयोः’ इति, ‘जटालग्नकचे मूले' इति च मेदिनी । नीरसे तुच्छानन्दे फले पशुपुत्रस्वर्गादिप्रयोजने रक्ताः आसक्ताः भवन्ति । तत्फलकामैः तथाविधनीरसफलकामैरेव पततां पक्षिणां, अधःपातिनां जनानां च स्तोमैः व्रजैः निषेव्यन्ते च । बतेति तदनौचित्यचिन्तनजनितखेदे । अत्र न्यग्रोधानां श्लाघनपूर्वकनिन्दनहेतुतयोपात्तं विशेषणमसंभवि । न हि शाखित्वं जटालत्वं च श्लाघनहेतुः, नापि शोणवर्णनीरसफलत्वं तादृशफलसक्तविहगनिषेव्यत्वं च निन्दनहेतुः, येन तादृग्गुणश्लाघनपूर्वकं ते निन्द्येरन् । अतो वाच्यार्थस्य उपपादितरीत्या व्यज्यमानतादात्म्यं विशेष्यविशेषणांशयोरपेक्ष्यते पूर्ववत् ॥

 तृतीया यथा--

 अनुकूलभूरिदाशानतिबलभावारिमुहुरुदितभङ्गान् । मत्स्याः कथमगभीरांस्तुच्छानाश्रयथ हन्त कासारान् ॥ ९९६ ॥

 कूले अनुकूलं तीरे भूरयः बहुलाः दाशाः कैवर्ताः येषां तान् । पक्षे-- अनुकूलानां स्वाश्रितानां भूरि बहुलं वस्तु सुवर्णं वा दाशन्तीति भूरिदाशाः तान् ‘दाशृ दाने’ कर्मण्यण् । अतिबलस्य समीरणस्य भासा प्रभावेन 'प्रकम्पनश्चातिबलः' इत्यमरः । ‘भाः प्रभावे मयूखे स्त्री' इति मेदिनी । वारिणि सलिले मुहुः शाश्वत् उदिताः उत्सृत्वराः भङ्गाः तरङ्गाः येषां तान् । अन्यत्र बलस्य सामर्थ्यस्य भावः सत्ता अतिशयितः बलभावो येषां ते अतिबलभावाः ये अरयः वैरिणः दैत्यादयः तैः मुहुः असकृत् उदितः भङ्गः पराभवो येषां तान् । स्पष्टमन्यत् । अत्राप्रस्तुततुच्छकासारतदाश्रितमत्स्योपालम्भेन प्रस्तुतभगवदितरक्षुद्रदेवतदुपासकोपलम्भः प्रत्याय्यः । तत्र यथा अगभीरत्वं तुच्छत्वं च वाच्यप्रतीयमानयोरुभयोरप्याश्रयणानौचित्ये निमित्तं, न तथा अनुकूलभूरिदाशत्वातिबलभावारिमुहुरुदितभङ्गत्वे; यतोऽनुकूलभूरिदातृत्वं प्रतीयमानक्षुद्रदेवरूपार्थे न दोषः प्रत्युत गुण एवेति तदंशे वाच्यभूतकासारतादात्म्यमपेक्ष्यते । कासारेषु च अतिबलभावारिमुहुरुदि भङ्गत्वांशे प्रतीयमानक्षुद्रदेवतादात्म्यं, मारुतप्रभावहेतुकजलजनिततरङ्गत्वस्य कासारत्यागाननुगुणत्वात् प्रत्युत तदाश्रयणानुगुणत्वात् ॥

 यथावा--

 वाताशनानुयातामेतां सूनश्रियाऽतिविख्याताम् । भ्रमर किमर्थं भजसे भ्रमन्नरण्येषु केतकीं भ्रातः ॥ ९९७ ॥

 वाताशनैः व्याळैः मुनिभिश्च अनुयातां उपाश्रितां सूनानां प्रसूनानां श्रिया समृद्ध्या सूनया सुतरां ऊनया हीनया श्रिया संपदा अतिविख्यातां परदेवतापेक्षया अत्यल्पवैभवेति जगद्विदितामित्यर्थः । अत्र कस्यचित्पुरुषस्य परदेवतेतरक्षुद्रदेवताभजनं तव निष्फलमिति द्योत्यम् । तत्र वाच्यप्रतीयमानयोः केतकीक्षुद्रदेवतयोरुभयोरपि भजनानौचित्ये हेतुतयोपात्तं विशेषणमसंभवि । यस्मात् सूनश्रियाऽतिविख्यातत्वं केतक्यामदोषः । यावता गुण एव, कुसुमसमृद्धिमत्ताया भजनानुगुणत्वात् । तदंशे क्षुद्रदेवतातादात्म्यमपेक्ष्यं, क्षुद्रदेवतायां च केतकीतादात्म्यं, तापसाश्रितत्वस्य तत्त्यागाननुगुणत्वात् । यावता तद्भजनानुगुणत्वात् । एवमन्योन्यतादात्म्यावलम्बनेन वाक्यार्थस्सिद्ध्यतीति ध्येयम् ॥

 अयं तृतीयः प्रकारस्सादृश्यमूलाप्रस्तुतप्रशंसाया रसगङ्गाधरानुरोधेन दर्शितः । काव्यप्रदीपादौ तु इयं सारुप्यनिबन्धनाप्रस्तुतप्रशंसा त्रिधा । क्वचिद्वाच्यार्थे प्रतीयमानार्थानध्यारोपमात्रेण । क्वचित्प्रतीयमानाध्यारोपेण । क्वचित्तु अंशभेदेन तदध्यारोपानध्यारोपाभ्यामिति त्रैविध्यमभिहितम् । तत्राद्ये प्रकारद्वये न वैलक्षण्यं, तृतीये तु प्रकारे किंचिदस्ति वैलक्षण्यम् । तत्रेदमुदाहरणम् ॥

 प्रथममनिद्रा स्वपदे सा द्राक्षा क्षान्तिमत्त्वमुपयाता । प्राप्ताऽथ कृष्णरूपं फले रसघना च कियदिदं भाग्यम् ॥ ९९८ ॥

 सा प्रसिद्धा द्राक्षा मृद्वीका प्रथमं आदौ स्वपदे स्ववाचकशब्दे अनिद्रा निर्गतो द्रा इति वर्णो यस्यास्सा न भवतीत्यनिद्रा ‘निवातपद्मस्तिमितेन' इत्यादाविव निशब्देन समासः । आदौ द्रावर्णसहितेत्यर्थः । अर्थगतस्य स्त्रीत्वस्य शब्दे आरोपः । क्षा इत्याकारकवर्णः अन्तिमो यस्य तदिति सामान्ये नपुंसकम् । तस्य भावः क्षान्तिमत्त्वं 'अनचि च' इति तकारस्य द्वित्वम् । उपयाता क्षाकारान्वितपश्चार्धेत्यर्थः । फले अथ कार्त्स्न्येन कृष्णरूपं असितवर्णतां प्राप्ता फलपरिणामदशायां तथाविधत्वात्तस्याः । रसघना रससान्द्रा च भवति । पक्षे स्वपदे स्वत्राणे स्वव्यवसये च ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । स्वोज्जीवने तदर्थमुपायानुष्ठाने चेति भावः । अनिद्रा अप्रमत्ता अत एव क्षान्तिमतो भावः क्षान्तिमत्त्वं ‘शान्तो दान्त उपरतस्तितिक्षुः’ इत्युक्तरीत्या तितिक्षुत्वम् । इदमुपलक्षणं समाहितत्वादेः । अनेनोपायानुष्ठानपूर्तिरुक्ता । अथ फले फलदशायां कृष्णरूपं भगवत्सारूप्यं प्राप्ता उपायानुष्ठानानुरूपं फलं प्राप्तवतीत्यर्थः । रसघना परिपूर्णब्रह्मानुभवानन्दमेदुरा च भवति । अस्याः भाग्यं इदं भाग्यं कियत् वचसामगोचरमिति भावः । अत्र द्राक्षायां प्रथमं स्वपदे अनिद्रात्वं क्षान्तिमत्त्वं च प्रशंसाहेतुत्वेन वाच्ये । न च ते तद्धेतुभूते तदंशे प्रतीयमानब्रह्मविद्व्यक्त्यध्यारोपापेक्षा । फले कृष्णरूपावाप्तिः रसघनात्वं च प्रशंसाहेतुरेवेति तदंशे नाध्यारोपः ॥

 यथावा--

 आपातमधुरनीरसदुर्ग्रहकर्कशफलेन तालेन । उद्विजमानेन मनाक्स्पर्शनतः कीर किमिव साधयसे ॥ ९९९ ॥

 कीर! हे शुक! आपाततः आमुखतः मधुराणि अन्ततो नीरसानि अथापि दुर्ग्रहाणि असुलभानि गृहीतत्वेऽपि कर्कशानि कठोराणि अनुभवदशायां क्लेशापादकानि च फलानि यस्मिन् तेन स्पर्शनतः मारुतात् मनाक् ईषदेव उद्विजमानेन चलता कर्कशपत्रत्वादिति भावः । पक्षे मनाक्स्पर्शनतः अत्यल्पवितरणादपि उद्विजमानेन बिभ्यता अतिमात्रलुब्धेनेत्यर्थः । ‘ओ विजी भयचलनयोः' इति तौदादिकाद्धातोश्शानच् । प्रायेणायं धातुरुत्पूर्वः । तालेन तालतरुणा किंनु साधयसे न किमप्यनेन तव प्रयोजनं सिद्ध्येदिति भावः । अत्राप्रस्तुतश्शुकं प्रति हितोपदेशो भगवदनादरेण क्षुद्रदेवानां लुब्धनृपालानां वा सेवनाय प्रवर्तमाने कस्मिंश्चित्पुरुषे विषये पर्यवस्यति । तत्र तालतरोरापातमधुरत्वादिविशिष्टफलदातृत्वमुपालम्भहेतुरेवेति तदंशे द्योत्यमानक्षुद्रदेवतालुब्धनृपालाध्यारोपो नावश्यकः । मनाक्स्पर्शनोद्विजमानत्वे तु तदध्यारोप आवश्यकः । मारुताद्यत्किञ्चिच्चलनस्योपालम्भाहेतुत्वादित्यंशे अध्यारोपः अंशे तदभावश्च ॥

 यथावा--

 अतिवृत्तोऽपि सरन्ध्रोप्यग्रसरो यदसि परगुणग्रथने । श्रीनायकभाक्तदसावसि मणिगण हृद्य एव सुदृशां त्वम् ॥ १००० ॥

 हे मणिगण! त्वं अतिवृत्तोऽपि अतिवर्तुलोऽपि सरन्ध्रोऽपि सुषिरोऽपि यत् यस्मात् श्रीयुक्तो नायकः श्रीनायकः हारमध्यमणिः तं भजतीति तथोक्तः । ‘नायको नेतरि श्रेष्ठे हारः मध्यमणावपि' इति मेदिनी । परः श्रेष्ठः यो गुणः तन्तुस्वर्णमय इति भावः । तस्य ग्रथने संदर्भे तत्स्यूतत्वे सतीत्यर्थः । अग्रः श्रेष्ठः सरः हारः भवसि । तत् तस्मादेव असौ त्वं सुदृशां ललनानां हृद्यः वक्षस्स्थः हृदयशब्दाद्भवार्थे ‘शरीरावयवाच्च' इति यत् । असि । वर्तुलत्वेऽपि सुषिरत्वेऽपि नायकमणिघटित उत्तमतन्तुस्यूत एव हारतामापन्नो मृगाक्षीणां हृदयमधिवससि नान्यथेति भावः । पक्षे— अतिक्रान्तो वृत्तं अतिवृत्तोऽपि दुराचारोऽपि अत एव सरन्ध्रोऽपि स दोषोऽपि ‘रन्ध्रं तु दूषणे श्वभ्रे' इति मेदिनी । यत् यस्मात् श्रीनायकः श्रीनिवासः तं भजतीति तथोक्तः तद्भक्तिमानित्यर्थः । परस्य तस्यैव परमात्मनः गुणानां सार्वज्ञ्यसत्यसंकल्पत्वसौशील्यादीनां कल्याणगुणानां ग्रथने तद्विषयकग्रन्थरचने अग्रसरः प्राथमिकः भवसि । तत्तस्मात् असौ त्वं सुदृशां विदुषां हृद्यः हृदयप्रिय एव असि ‘हृदयस्य प्रियः' इति यत् । अत्र प्रथमेन पदेन ‘अपिचेत्सुदुराचारः' इत्यस्य, द्वितीयेन तृतीयेन च ‘भजते मामनन्यभाक् ’ इत्यस्य, चतुर्थपादखण्डेन 'साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः' इत्यस्य च गीतावचनस्य समग्रस्यार्थोऽनुसंहितः । अत्रातिवृत्तत्वसरन्ध्रत्वे मणिगणस्य न दोषः प्रत्युत ? अतिवर्तुलत्वस्य रन्ध्रवैशिष्ट्यस्य च हारघटनानुगुणत्वात् । तस्मात्तदंशे प्रतीयमानपुरुषविशेषाध्यारोपोऽपेक्ष्यः । श्रीनायकभाक्त्वपरगुणग्रहणाग्रसरत्वसुदृग्जनहृद्यत्वेषु न तदध्यारोप इति ध्येयम् ॥

 एवं काव्यप्रकाशाद्यनुरोधेनाप्रस्तुतप्रशंसा निरूपिता । रसगङ्गाधरकारस्तु-- 'अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साऽप्रस्तुतप्रशंसा’ इत्यप्रस्तुतप्रशंसां लक्षयित्वा 'इयं पञ्चधा, अप्रस्तुतेन स्वसदृशं प्रस्तुतं गम्यते यस्यामित्येका' इत्यादिना तस्याः पञ्च प्रकारान् प्रदर्श्य तदुदाहरणानि च प्रपञ्च्य "एवं पञ्चप्रकारेयमप्रस्तुतप्रशंसा प्राचामनुसारेण निरूपिता । वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति । यत्रात्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकारो गदितः । एवं यत्र स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येकः । यथा जलक्रीडाप्रकरणे भ्रमरकमलिन्यादिषु पुरस्स्थितेषु नायके च स्वनायिकायामनुरक्ते पार्श्ववर्तिनि नायिकासख्याः कस्याश्चिदुक्तौ--

मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥

इति पद्ये अथात्र कथमप्रस्तुतप्रशंसा ? वाच्यार्थस्य प्रस्तुतत्वेन तल्लक्षणानालीढत्वादिति चेन्न, अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयीभूतार्थातिरिक्तार्थे विवक्षितः । स च क्वचिदत्यन्ताप्रस्तुतः क्वचित्प्रस्तुतश्चेति न कोऽपि दोषः । न च ध्वनिमात्रस्याप्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम् । अत एव लक्षणे सादृश्याद्यन्यतमप्रकारेणेति विशेषणमुपात्तमिति विभावनीयम् । एतेन द्वयोः प्रस्तुतत्वे प्रस्तुताङ्कुरनामाऽन्योऽलंकार इति कुवलयानन्दाद्युक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरताकल्पने वाग्भङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्ग इत्यसकृदावेदितत्वात् ॥

 इदं तु बोध्यम्-- अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितयाऽभिधया प्रतीयमानार्थस्य बलादाकृष्टत्वेन ध्वनित्वं न निर्बाधम् । द्वयोः प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव । एवं सादृश्यमूलप्रकारे द्वैतम् । कार्यकारणभावसामान्यविशेषभावमूलाश्चत्वारः प्रकारा गुणीभूतव्यङ्ग्यस्यैव भेदाः । अभिधादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनिप्रयोजकत्वात् ॥

 अथ

आपेदिरेऽम्बरभुवं परितः पतङ्गा-
भृङ्गा रसालकुसुमानि समाश्रयन्ते ।
संकोचमञ्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥

 अत्र क्षीणराजादितदेकावलम्बिपुरुषादिवृत्तान्ते प्रस्तुते अप्रस्तुतप्रशंसैवेति निर्विवादम् । यदा तु सरोवृत्तान्तो राजवृत्तान्तश्चेत्युभयं प्रस्तुतं तदाऽपि प्रागुक्तदिशा सैव । यदा तु सरोवृत्तान्त एव प्रस्तुतस्तदा गुणीभूतराजवृत्तान्तरूपव्यङ्ग्येऽस्मिन्पद्ये

कोऽलंकारः? न तावदप्रस्तुतप्रशंसा प्रस्तुतस्यैव प्रशंसनात् । नापि समासोक्तिः तज्जीवातोर्विशेषणसाम्यस्य सकलालंकारिकसंमतस्यात्राभावात् । न च विशेषणसाम्यप्रकार इव शुद्धसादृश्यमूलेऽपि तस्या एव प्रकारो वाच्यः । एकधर्मालीढत्वमन्तरेणैकालंकारत्वे सर्वेषामेकालंकारत्वापत्तेः । व्यवस्थापकैस्तद्भेदताया अनुक्तेश्च । अत एवालंकारसर्वस्वकारादिभिर्विशेषणवाचिशब्दसाम्यं संरक्ष्यैव समासान्तराश्रयणेन सादृश्यमूलत्वं प्रदर्शितं, न तु तदुपेक्ष्येति चेत्-- उच्यते । अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्य प्रशंसेति न तदर्थः । किंत्वप्रस्तुतेनेति । सा चार्थात्प्रस्तुतस्यैव । एवंच वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यङ्ग्यं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साऽप्रस्तुतप्रशंसेति तत्राप्यप्रस्तुतप्रशंसेति । न तु वाच्ये नैव व्यङ्ग्यमेव” इत्यभाणीत् । एवंच ‘पुरा यत्र स्रोतः’ इत्यादावप्यप्रस्तुतेन व्यक्तेन विपर्यस्तधनसन्तानादिसमृद्ध्यसमृद्धिकुटुम्बिसमाश्रयग्रामनगरादिनाऽर्थेन नदीस्त्रोतःपुलिनतरुघनविरलभावविपर्यासवद्वनरूपप्रस्तुतार्थस्य प्रशंसेति तत्राप्यप्रस्तुतप्रशंसैवेति तदाशयः ॥

 अलंकारसर्वस्वकारस्तु-- ‘यदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदपञ्चकमुद्दिष्टं तत्र द्वयोस्सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदाऽर्थान्तरन्यासाविर्भावः । सारूप्ययोस्तु वाच्यत्वे दृष्टान्तः। अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथा अप्रस्तुतप्रशंसेति निर्णयः' इत्यवादीत् ॥

 एतन्मते तु 'पुरा यत्र स्रोतः' इत्यादौ प्रस्तुतस्यैव वाच्यत्वेन अप्रस्तुतस्य गम्यत्वेन च समासोक्तिरेवेत्यलं पल्लवितेन ।

 किंच 'वैधर्म्येणापीयं दृश्यते’ इत्युक्त्वा ‘धन्याः खलु वने वाताः' इत्युदाहार्षीत् । तदनुरोधेन इदमुदाहरणम्--

 ते मान्यास्ते धन्याः येऽनन्याः पन्नगाद्रिमूर्धन्यान् । भूम्नः कांश्चिदवन्यां तरवोऽप्यर्चन्ति निजसुमैर्धन्याः ॥ १००१ ॥

 अत्र ते मान्यास्ते धन्या इत्याद्यप्रस्तुतात् श्रीनिवासमनर्चन्तो मानवजन्मभाजोपि चेतना अमान्या अधन्या इति वैधर्म्येण प्रतीयते । मम्मटादयस्तु 'धन्याः खलु वने वाताः' इत्यत्र वातस्तुत्या स्वनिन्दाप्रतीतेः व्याजस्तुतिरेव युक्तेत्याहुः । तदा अस्मदुदाहृतमिदमपि पद्यं व्याजस्तुतेरेवोदाहरणतामर्हतीति ध्येयम् ॥

इत्यलंकारमणिहारे अप्रस्तुतप्रशंसासरः एकोनत्रिंशः