अलङ्कारमणिहारः (भागः २)/प्रस्तुताङ्कुरालंकारः (३०)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ प्रस्तुताङ्कुरसरः.


 प्रस्तुतस्य प्रस्तुतेन व्यञ्जने प्रस्तुताङ्कुरः ॥

 यत्र प्रस्तुतेन वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताङ्कुरनामाऽलंकारः । तथाच प्रधानभूतप्रस्तुतान्तराभिव्यञ्जकं प्रस्तुतवर्णनं प्रस्तुताङ्कुरालंकार इति सिद्धम् । प्रस्तुतस्याभिव्यञ्जकत्वादङ्कुर इवाङ्कुर इति व्युत्पत्तेरन्वर्थनामाऽयम् ॥

 यथा--

 अयि गिरितटि समयेऽस्मित् घनमिममुद्बर्हिबर्हमाश्लिष्य । न किमपि वेत्सि त्वय्यप्यतिचपलोऽयं कियच्चिरं स्थाता ॥ १००२ ॥

 इह प्रावृषि वनविहारावसरे श्रीकृष्णपरिरम्भसुखपारवश्येन तृणीकृतान्यवनितां कांचिद्गोपललनां प्रति तेन पूर्वं विप्रलब्धायाः कस्याश्चिद्गोपिकाया वचने गिरितटीं संबोध्य एवमाहेति वाच्यार्थस्य प्रस्तुतत्वम् । न चानामन्त्रणीयामन्त्रणेन वाच्यासंभवादप्रस्तुतमेव वाच्यमिह सदृशप्रस्तुतद्योतनाय निर्दिष्टमिति वाच्यम्, ‘कर्णिकार त्वया दृष्टा, वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती’ इत्यादौ चित्तविक्षेपादिभिरनामन्त्रणीयामन्त्रणस्यापि दर्शनेन तस्यातिमात्रमसंभावितत्वस्य दुर्वचत्वात् । एवं प्रस्तुतेन गिरितटीकर्मकोपालम्भरूपवाच्यार्थेन वक्त्र्यास्तस्याः अतिचपलममुं नन्दनन्दनमुपगूह्य धन्यंमन्यतयाऽन्याः किमर्थमवमन्यसे त्वय्यपि वाऽसौ कियन्तमवधिमनुरज्येदिति तां प्रत्युपालम्भः प्रस्तुत एव द्योत्यते । अत्र प्रतीयमानार्थे घनमित्यस्य विपरीतलक्षणया अगभीरमित्यर्थः । उद्बर्हिबर्हमिति वाच्यार्थपक्षे उन्नीतानि विकसितानि बर्हिबर्हाणि येन स इति । प्रतीयमानपक्षे उत्तंसितमयूरपिञ्छमित्यर्थः । न किमपि वेत्सीत्येतत् वाच्यगिरितटीपक्षे घनच्छन्नत्वेनौपचारिकम् । प्रतीयमाननायिकापक्षे तु आनन्दपारवश्येन न किमपि जानासीत्यभिप्रायकम् । अतिवेला चपला विद्युत् यस्मन्निति वाच्यपक्षे । व्यङ्ग्ये त्वतिचञ्चलप्रकृतिरिति ॥

 यथावा--

 उच्चैर्विभवस्थानं त्वत्पादसमाश्रयो हि शाखिगणः । सानुगता भजति श्रीस्त्वामस्त्यहिशैल को महांस्त्वत्तः ॥ १००३ ॥

 हे अहिशैल! तव पादाः प्रत्यन्तगिरयः पादौ चरणौ च आश्रयो यस्य सः । शाखिनां तरूणां शाखाध्येतॄणां विप्राणां च गणः उच्चैः वीनां पक्षिणां भवस्थानं जन्मभूः तत्र कृतनीडत्वात्तस्येति भावः । उन्नतस्य विभवस्य स्थानं च भवति । सानूनि प्रस्थान् गता प्राप्ता श्रीः शोभा । अन्यत्र सा जगन्मातृत्वादिना प्रसिद्धा श्रीः लक्ष्मीः अनुगता ‘छायेवानुगता तव’ इत्युक्तरीत्या अनुव्रता सती भजति । त्वत्तः एवंविधात् भवतोऽपि को महान् पृथुलः । पक्षे महाविभूतेः श्रियः पत्युरन्यः को महनीय इत्यर्थः । अत्र प्रस्तुतेनाहिशैलवृत्तान्तेन प्रस्तुतश्रीनिवासवृत्तान्त एव द्योत्यते । वाच्यव्यङ्ग्ययोरुभयोरपि सेवनीयतया प्रस्तुतत्वम् । न चात्र प्रकृताप्रकृतश्लेषशङ्का कार्या, विशेष्यस्यापि श्लिष्टत्व एव तदुन्मीलनात् अत्र च विशेष्यस्याश्लिष्टत्वादिति ॥

 यथावा--

 स्पर्शन एष स्पृहयति घनमाच्छादितवृषाद्रिमपनेतुम् । पश्य सखीति प्रावृषि पतिगिरमाकर्ण्य नम्रवदना श्रीः ॥ १००४ ॥

 स्पर्शनः मारुतः स्पर्शकर्तेत्यपि गम्यते । अत्र प्रस्तुतेन वर्षानिलकर्तृकघनापनयनस्पृहावृत्तान्तेन प्रस्तुत एव प्रावृषि श्रिया विहरतो भगवतस्स्वप्रेयसीपयोधरकञ्चुकापसारणस्पृहारूपवृत्तान्तः प्रत्याय्यते । सखि पश्य प्रावृषीति निर्देशाद्वाच्यार्थस्य प्रस्तुतत्वं स्फुटम् । प्रस्तुतान्तरद्योतनं च पतिगिरमाकर्ण्य नम्रवदनेत्यनेन उत्तरार्धे कविनैवाविष्कृतम् ॥

 यथावा--

 घनचापलतां चपलाश्लिष्टोवहसेऽम्बुद स्थिरा तव दूरे । नीरदलक्ष्यात् क्षितिरिति निगदन्ती शौरिणाऽभिपरिरेभेऽलम् ॥ १००५ ॥

 हे अम्बुद! चपलया तटिता श्लिष्टः घनां चापलतां इन्द्रधनुर्लतां वहसे । स्थिरा भूः तव दूरे तव व्योम्न्यवस्थानादिति भावः । पक्षे-- चपलया चञ्चलशीलया श्रियाऽऽश्लिष्टः ‘चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति विश्वः । अत एव घनं चापलं यस्य स तथोक्तः । तत्तां वहसे तव एवंविधस्य भवतः स्थिरा अचञ्चलशीला भूर्देवी अहमिति भावः दूरा उपेक्षणीयपक्षे निक्षिप्ता । चपलोपगूढस्य चपलशीलस्य तव स्थिरानुरागः कथमिव संभवेदिति भावः । अत्र वर्षासु घनाघनं प्रति भूदेव्या वचनेन प्रस्तुतेन लक्ष्म्यामेव प्रेमभूमानं विदधानेन त्वयाऽहमुपैक्षिषीति प्रस्तुत एव श्रीनिवासं प्रस्तुतपालम्भो द्योत्यते । अत्राम्बुदेति संबोधनेन वाच्यार्थस्य प्रस्तुतत्वं स्फुटमेव । प्रस्तुतान्तरद्योतनं च उत्तरार्धे कविनैव स्फुटीकृतम् ॥

 यथावा--

 सविधगतेऽपि च दयिते नवनीरदमेव पश्यति मयूरी । इति गदिते प्रापृषि वनभुवि गोपी दृशमवाञ्चिचत्कृष्णात् ॥ १००६ ॥

 इति गदिते कयाचिदिति शेषः । गोपी गोपवधूः कृष्णात् दृशं स्वां दृष्टिं अवाञ्चिचत् अवातीतरत् । अवपूर्वकात् ण्यन्तादञ्चतेः कर्तरि लुङि चङ् । अत्र गोपानां वनविहारावसरे प्रावृषि मयूरीं निर्दिश्य कस्याश्चिदुक्त्या प्रस्तुतगोचरया स्वदयितमप्यनादृत्य नन्दनन्दनमेव सानुरागं विलोकमानाया गोपललनाया वृत्तान्तः प्रस्तुत एव द्योत्यते । प्रावृषि वनभुवीति निर्देशो वाच्यार्थस्य प्रस्तुततामवगमयति । प्रस्तुतान्तरद्योतनं च दृशमवाञ्चिचत्कृष्णादिति कविनैवाविष्कृतम् । अत्र पूर्वोदाहरणद्वयापेक्षया द्योतितस्य कविनाऽऽविष्करणं स्फुटतरम् ॥

 अत्राद्योदाहरणयोर्लोचनकारमते अन्यापदेशध्वनिः । स हि-- 'किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया । अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनस्सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाम्' इति प्रस्तुताङ्कुरोदाहरणयोरन्यापदेशध्वनिमाह । तथाहि-- ‘अप्रस्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति तत्राभिधायामपर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः । इह तु वाच्यार्थस्य प्रस्तुतत्वेन तत्राभिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिर्ध्वनिरेव' इति । अयं भावः-- अप्रस्तुतप्रशंसायां वाच्यार्थस्यावर्णनीयतया कविसंरम्भागोचरत्वात्कविसंरम्भसीमावधिः प्रस्तुतवृत्तान्त एवेति तस्य व्यङ्ग्यस्य प्रतीतावेव तात्पर्यपर्यवसाने अभिधाया अपर्यवसानान्न ध्वनिसंभव इति । तत्राप्रस्तुतप्रशंसालंकारसंभवेऽपि उपदर्शितोदाहरणयोर्न तत्संभवः । वाच्यार्थस्य प्रस्तुततया कविसंरम्भस्य तत्र विश्रान्त्या अभिधायांस्तत्रैव पर्यवसितत्वेन व्यङ्ग्यार्थस्य विषयसौन्दर्यबलेन लब्धप्रसरस्य वाच्यकक्ष्यामतीत्य भासमानत्वात् । अतोऽत्रान्यापदेशध्वनिरेव युक्त इति ॥

 'वस्तुतस्तु अयमलंकार एव न ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम्’ इति कुवलयानन्दे दीक्षिताः । अयमभिप्रायः-- समासोक्तौ तावद्वाच्यस्य वृत्तान्तस्य प्रस्तुततया कविसंरम्भगोचरत्वेनाभिधायां पर्यवसितायामपि विशेषणसाम्यबलेनाप्रस्तुतवृत्तान्तावगतावपि प्रस्तुतधर्म्यध्यारोपेण वाच्यार्थसौन्दर्यावहतया यथा न ध्वनित्वं, यथा वा अप्रस्तुतप्रशंसायामप्रस्तुतसामान्यविशेषभावादिसंबन्धेन प्रतीयमानस्य प्रस्तुतस्य वाच्योपस्कारकत्वेन न ध्वन्यन्तर्भावः, तथेहापि भृङ्गोपालम्भे वाच्ये अभिधापर्यवसानेऽपि व्यङ्ग्यप्रियतमोपालम्भस्सारूप्येण प्रतीयमानोऽपि कविसंरम्भगोचर एवेत्युभयोस्तुल्यतया प्राधान्यात्समप्राधान्यरूपगुणीभूतव्यङ्ग्यतैव युक्ता । किंच वाच्यस्याप्राधान्ये व्यङ्ग्यस्य प्राधान्यविवक्षायामेव ध्वनिरिति हि सिद्धान्तः । न चेह व्यङ्ग्यस्य प्राधान्यमस्ति तथात्वे तस्याविवक्षितत्वापत्त्या अस्य विवक्षितान्यपरवाच्यध्वन्यन्तर्भावोक्त्ययोगादिति । अत उक्तोदाहरणयोरन्यापदेशध्वनेरयुक्तत्वात्प्रस्तुताङ्कुर एवोचित इति । तृतीयचतुर्थपञ्चमोदाहरणेषु तु अलंकारतायां न कस्यापि विप्रतिपत्तिः । उक्तं हि ध्वनिकारेण--

शब्दार्थशक्त्याऽऽक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविक्रियते स्वोक्त्या साऽन्यैवालंकृतिर्ध्वनेः ॥

इति । एतानि सादृश्यनिबन्धनान्युदाहरणानि । संबन्धान्तरनिबन्धनान्यपि कथंचिद्वाच्यव्यङ्ग्ययोः प्रस्तुतत्वावलम्बनेनोदाहार्याणि

 तत्र दिङ्मात्रमुदाह्रियते--

 एकेन मुखेन त्वां स्तुवीत यः कविरुदारधीर्भगवन् । चत्वारि पञ्च षड्वा यात्वा वदनानि पूज्यते स सुरैः ॥ १००७ ॥

 अत्र विधित्वशिवत्वस्कन्दत्वानीव तदवयवतया उदाहृतवाक्यवाच्यानि चत्वारि पञ्च षडाननान्यपि श्रीश्रीनिवासस्तुतिमहिमप्रयुक्ततया वर्णनीयानीति तन्मुखेन कृत्स्नं विधित्वं शिवत्वं स्कन्दत्वं च गम्यत इत्यवयवावयविभावनिबन्धनोऽयं प्रस्तुताङ्कुरः ॥

 यथावा--

 मुखलावण्यसुधाम्बुधिमध्यसमुद्बुद्धबुद्बुदनिभायाः । भायासुस्ता मुक्ता भगवद्वदने ललाटिकासक्ताः ॥ १००८ ॥  बुद्बुदनिभाः याः इतिच्छेदः । ललाटे भवोऽलंकारो ललाटिका ‘तत्र भवः' इत्यधिकारे ‘कर्णललाटात्कनलंकारे’ इति कन् । अत्र वर्णनीयत्वेन प्रस्तुतानां भगवल्ललाटिकामुक्ताफलानां वदनलावण्यसुधाम्बुधिबुद्बुदतया संभावनात्तत्कारणीभूतवदनलावण्यसमृद्धिरनवधिका प्रतीयते । साऽपि वर्णनीयत्वेन प्रस्तुतैव । अत्र वदनलावण्यसमृद्धेः तद्बुद्बुदत्वेन संभाव्यमानानां मौक्तिकानां च अवयवावयविभावः प्रकृतिविकृतिभावो वा संबन्धः ॥

 यथावा--

 अतिवेलतया प्रवहन्नभितो हरिदिव्यविग्रहद्वीपम् । श्रीतनुलावण्याम्बुधिपरिवाहः पीतमम्बरं नूनम् ॥ १००९ ॥

 अत्र वर्णनीयत्वेन प्रस्तुतस्य पीताम्बरस्य लक्ष्मीदिव्यविग्रहलावण्याम्बुधिपरीवाहत्वोत्प्रेक्षणेन निर्भरसलिलदुर्भरतटाकतत्परिवाहनिमित्तभूता तद्दिव्यविग्रहे अमान्ती तल्लावण्यसमृद्धिर्द्योत्यते । अत्रापि लावण्यसमृद्धेः तत्परिवाहतादात्म्यापन्नपीताम्बरस्य च एकदेश्येकदेशभाव एव संबन्धः ॥

 यथावा ममैव प्रपन्नानन्दस्तवे--

 वदनरुचिह्रदविहरन्नयनमहामीनराजनिष्ठ्यूतम् । नासाविवरविलग्नं नूनं ध्यायामि मौक्तिकं देव्याः ॥ १०१० ॥

 अत्र वर्णनीयत्वेन प्रस्तुताया नासामौक्तिकमणेः प्रसवितृत्वौपयिकमीनतादात्म्यापन्नस्य श्रीदिव्यनयनस्य तदुचितलावण्यादिसमृद्धिर्व्यज्यते । साऽपि वर्णनीयतया प्रस्तुतैव । अत्र जन्यजनकभावस्संबन्धः । एवं नयनमहामीनराजविहारौपयिकतया ह्रदतादात्म्यमापादिताया वदनरुचेस्समृद्धिरनवधिकेति द्योत्यते । साऽपि प्रस्तुतैव । अत्राधाराधेयभावः ॥

 यथावा--

 सर्वंकषा मनीषा कीर्तिः कूलंकषा तथा ककुभाम् । अभ्रंकषा गृहाळी त्वद्भक्तानां मृगेन्द्रशैलेन्दो ॥ १०११ ॥

 अत्र भगवतो लोकोत्तरत्वप्रकटनाय तन्महौदार्यवत्तत्कार्याणि तद्भक्तजनसंपत्सारस्वतादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन तन्महौदार्यमवगम्यत इति कार्यकारणभावसंबन्धनिबन्धनोऽयं प्रस्तुताङ्कुरः ॥

 यत्र कार्यमुखेन कारणस्यावगतिरपि पद्ये निबध्यते न तत्रायमलंकारः । किंत्वनुमानमेव ॥

 यथा--

 कण्ठे नॄणां हारा उपकण्ठे सुरुचिरानना दाराः । सुकुमाराश्च कुमारा ब्रुवते लक्ष्मीदृशो महोदाराः ॥

 महोदारा इत्येतत् द्वितीयान्तस्य लक्ष्मीदृश इत्यस्य विशेषणम् । इदं कर्म, हारा इत्यादयस्तु कर्तारः । अत्र मुक्ताहारादिसमृद्धिरूपकार्येण लक्ष्मीदृशां कारणत्वावगतिर्वदतीत्यनेनाविवक्षितवाच्येनोपनिबद्धेत्यनुमानालंकारः ॥  अयमलंकारो दीक्षितोपज्ञम् । प्राञ्चस्सर्वेऽप्येनमप्रस्तुतप्रशंसायां सारूप्यनिबन्धनायामेवान्तरभावयन्नित्यप्रस्तुतप्रशंसायामवोचाम ॥

इत्यलंकारमणिहारे प्रस्तुताङ्कुरसरस्त्रिंशः.


अथ पर्यायोक्तसरः.


 पर्यायोक्तं त्वन्यभङ्ग्या कथितं चेद्विवक्षितम् ॥

 येन रूपेण विवक्षितोऽर्थः तदतिरिक्तप्रकारोऽन्यभङ्गी भङ्ग्यन्तरमित्यर्थः । रसगङ्गाधरेऽपि ‘विवक्षितस्यार्थस्य भङ्ग्यन्तरेण प्रतिपादनं पर्यायोक्तम्’ इत्युक्तम् । केनचिद्रूपेण व्यञ्जनया लभ्यस्यार्थस्य ततोऽपि चारुतरेण रूपेण यदभिधया प्रतिपादनं तत्पर्यायोक्तमिति तदर्थः । न चैवं ध्वनेरेवायं विषयस्स्यादिति वाच्यं, तत्र वाच्यव्यङ्ग्ययोर्भेदात् । एवंच यद्वयङ्ग्यं वस्तु व्यङ्ग्यत्वाकारादपि चारुतरेणाकारान्तरेण शब्देनाभिधीयते तत्पर्यायोक्तमिति पर्यवसानात् वाच्यरूपापेक्षया व्यङ्ग्यरूपस्य चारुत्वाभावान्न ध्वनिविषयतेति दिक् । पर्यायोक्ते वाच्यस्य प्राधान्यं, अप्रस्तुतप्रशंसायां तु गम्यस्येति विवेकः । पर्यायेण भङ्ग्यन्तरेणोक्तं व्यङ्ग्यं यत्रेति व्युत्पत्तेरन्वर्थनामधेयमिदम् ॥

 यथा--

 यस्य विहाराहार्यः पाराशर्यस्य पाणिनेश्चापि । सूत्रस्य भाष्यमतनोत्स विनोदी मे मनो धिनोतु पुमान् ॥ १०१३ ॥