अलङ्कारमणिहारः (भागः २)/पर्यायोक्तालंकारः (३१)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ पर्यायोक्तसरः.


 पर्यायोक्तं त्वन्यभङ्ग्या कथितं चेद्विवक्षितम् ॥

 येन रूपेण विवक्षितोऽर्थः तदतिरिक्तप्रकारोऽन्यभङ्गी भङ्ग्यन्तरमित्यर्थः । रसगङ्गाधरेऽपि ‘विवक्षितस्यार्थस्य भङ्ग्यन्तरेण प्रतिपादनं पर्यायोक्तम्’ इत्युक्तम् । केनचिद्रूपेण व्यञ्जनया लभ्यस्यार्थस्य ततोऽपि चारुतरेण रूपेण यदभिधया प्रतिपादनं तत्पर्यायोक्तमिति तदर्थः । न चैवं ध्वनेरेवायं विषयस्स्यादिति वाच्यं, तत्र वाच्यव्यङ्ग्ययोर्भेदात् । एवंच यद्वयङ्ग्यं वस्तु व्यङ्ग्यत्वाकारादपि चारुतरेणाकारान्तरेण शब्देनाभिधीयते तत्पर्यायोक्तमिति पर्यवसानात् वाच्यरूपापेक्षया व्यङ्ग्यरूपस्य चारुत्वाभावान्न ध्वनिविषयतेति दिक् । पर्यायोक्ते वाच्यस्य प्राधान्यं, अप्रस्तुतप्रशंसायां तु गम्यस्येति विवेकः । पर्यायेण भङ्ग्यन्तरेणोक्तं व्यङ्ग्यं यत्रेति व्युत्पत्तेरन्वर्थनामधेयमिदम् ॥

 यथा--

 यस्य विहाराहार्यः पाराशर्यस्य पाणिनेश्चापि । सूत्रस्य भाष्यमतनोत्स विनोदी मे मनो धिनोतु पुमान् ॥ १०१३ ॥

 पाराशर्यो वेदव्यासः । तत्सूत्रस्य भाष्यकारो भगवान् रामानुजाचार्यः, पाणिनिसूत्रभाष्यकारो भगवान्पतञ्जलिश्च शेषावतारावित्यागमः । अत्र श्रीनिवासविहाराचलस्य शेषत्वं व्यङ्ग्यं तदेव भङ्ग्यन्तरेणोक्तम् । शेषत्वप्रकारेण व्यङ्ग्यत्वम् । पाराशर्यपाणिनिसूत्रभाष्यकारत्वेन वाच्यत्वं भगवद्विहारगिरेरिति व्यङ्ग्यापेक्षया वाच्यस्यैव चारुतरत्वमिति ध्येयम् । न च व्यङ्ग्यस्यैवाभिधेयत्वं विरुद्धमिति वाच्यम् । न हि वयं येन प्रकारेण शेषत्वाकारेण व्यङ्ग्यता तेनाकारेणाभिधेयतां बूमः । किंतु पाराशर्यपाणिनिसूत्रभाष्यकारत्वरूपेणेति न विरोधः ॥

 यथावा--

 पवनं योऽश्नाति सदा तमपि च योऽश्नाति तावुभौ यस्य । शय्यावाहनभावं श्रयतो जगदशुभमपनयतु स पुमान् ॥ १०१४ ॥

 तमपि च योऽश्नातीति तज्जातीयभुजगाशितृत्वमभिसंधायोक्तम् । अत्र व्यङ्ग्यादनन्तगरुडत्वाकारादपि पवनं योऽश्नातीत्यादिना चारुतरेण रूपेण भगवतश्शय्यावाहनयोरभिधानम् । यद्वा भगवन् स्वसाधारणाकारेण गम्यः पवनाशनशयनत्वादिना रूपान्तरेण स एवाभिहितः ॥

 यथावा--

 वाहनकेतनदक्षिणचक्षुस्स्थानान्यधीयमानानि । यस्य त्रीन् वर्णानपि पवित्रयन्त्येष मे परित्राता ॥

 अत्र भगवतो वाहनकेतनयोर्यद्वैनतेयरूपत्वं दक्षिणाक्षिनिवासस्थानयोर्यदादित्यरूपत्वं च व्यङ्ग्यं ततोऽपि चारुतरेणाकारेणाधीयमानमिति वेदरूपतया भङ्ग्यन्तरेणाभिहितम् । वाहनादीनां चतुर्णामधीयमानत्वं च ‘सुपर्णोऽसिगरुत्मान्, सैषा त्रय्येव विद्यातपति’ इत्याद्युक्तरीत्या त्रयीमयत्वादौपचारिकम् । यद्वा अत्रापि भगवानेव स्वासाधारणरूपेण गम्यः त्रयीमयवाहनत्वादिना भङ्ग्यन्तरेणाभिधीयत इति ध्येयम् ॥

 यथावा--

 दशशतभुजपरिरम्भक्षोभं व्यपनीय बलिसुतवधूनाम् । कल्याणाशासनपदमासीत्तासां य एष वीरोऽव्यात् ॥ १०१६ ॥

 अत्र बाणासुरबाहासमुदयलवितृतया व्यङ्ग्यो भगवन्वासुदेवः ततोऽपि चारुतरेण दशशतभुजपरिरम्भनिष्पीडनापनयनरूपमहोपकारप्रीततद्वधूवितीर्णमङ्गळाशासनगोचरत्वरूपेण भङ्ग्यन्तरेणाभिहितः ॥

 यथावा--

 नैकशतबाहुवहनश्रममपनयतिस्म कार्तवीर्यस्य । यत्प्रहरणमेष कृतो येन हृतौजास्स विजयतां जगति ॥ १०१७ ॥

 अत्र कार्तवीर्यार्जुनभुजसहस्रच्छेत्तृत्वं विवक्षितोऽर्थः न ताद्रूप्येणाभिहितः । अपितु तद्बाहुभारवहनश्रमापनेतृत्वेनाकारेण । यद्वा स्वासधारणेनाकारेण गम्यो भगवान् दाशरथिः कार्तवीर्यभुजभारश्रमापनेतृपरशुधरतेजोऽपहर्तृत्वरूपेण भङ्ग्यन्तरेणाभिहितः । न च कार्तवीर्यभुजच्छेत्तृपरशुधरजेतृत्वरूपव्यङ्ग्यमादायैव गदितुमर्हं पर्यायोक्तं न तु विशेषणसामर्थ्यलभ्यदाशरथित्वमादायेति वाच्यं, उक्तविधपरशुधरजेतृत्वरूपव्यङ्ग्यस्य वाच्यसिद्ध्यङ्गत्वेन तेनापि विवक्षितं व्यङ्ग्यं प्रधानभूतं दाशरथित्वमिति तदादायैव तद्वर्णनस्य युक्तत्वात् । अस्यैव पद्यस्यान्ते स विजयतां जगतीत्यत्र जगतीति पदमपनीय राम इति पाठे ‘राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः’ इत्यत्र राहुशिरश्छेत्तृत्वमिव कार्तवीर्यभुजच्छेत्तृपरशुधरजेतृत्वमेव विवक्षितं व्यङ्ग्यमिति युक्तं तदादायैव पर्यायोक्तमिति ध्येयम् । अत एव ‘नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ’ इत्यत्र 'अत्र भगवान् वासुदेवस्स्वासाधारणरूपेण गम्यो राहुवधूकुचवैयर्थ्यकारित्वेन रूपान्तरेणाभिहितः' इति कुवलयानन्दोक्तं संगच्छते । यत्तु तत्र भगवद्रूपेणावगमनं विशेषणमर्यादालभ्यत्वेनासुन्दरं पर्यायोक्तस्य विषय इति, तदविचारितरमणीयम् । न हि पर्यायोक्ते व्यङ्ग्यसौन्दर्यकृतो विच्छित्तिविशेषः । येनासुन्दरता स्यात् । किंतु भङ्ग्यन्तराभिधानकृत एव । व्यङ्ग्यं तु भङ्ग्यन्तराभिधानतोऽसुन्दरमेव प्रायेण दृश्यते । यथा इहागन्तव्यमिति विवक्षिते व्यङ्ग्ये अयं देशोऽलंकरणीयः साफल्यं नेय इत्यादौ । तस्मात्तदसुन्दरत्वोद्भावनमकिंचित्करमेवेत्यलं बहुना । एवं 'पवनं योऽश्नाति' इति प्रागुपदर्शितेषूदाहरणेष्वपि द्रष्टव्यम् ॥

 यथावा--

 यस्यैकमक्षि भुवनं दिवा दिविष्ठं विभासयत्यखिलम् । अन्यत्तु नक्तमद्भुतमनिशं मम शं तनोतु तत्तेजः ॥ १०१८ ॥

 अत्र भगवतस्सूर्यचन्द्रलोचनत्वं गम्यं प्रकारान्तरेण सुन्दरतरेणाभिहितम् ॥  यथावा--

 यत्र चरन्ति त्रिदशा दिवानिशं तच्च यौ परिष्कुरुतः । यस्तौ ग्रसति च पर्वसु लूनशिरास्सोपि येन सोऽव्यान्नः ॥ १०१९ ॥

 यत्र व्योम्नीति भावः । त्रिदशाः चरन्ति, नभश्चरत्वात्तेषाम् । तत् व्योम च । दिवा च निशा च दिवानिशं अत्यन्तसंयोगे द्वितीया । यौ सूर्याचन्द्रमसाविति भावः । परिष्कुरुतः यथाक्रमं भूषयतः । तौ सूर्याचन्द्रमसौ च यः राहुरिति भावः । पर्वसु ग्रसति । सोऽपि येन लूनशिराः सः भगवान् नः अव्यात् । अत्रान्तरिक्षादिकं व्यङ्ग्यं रूपान्तरेणाभिहितम् । अयं च वक्ष्यमाणैकावळीसंकीर्णः ॥

 यथावा--

 धत्ते या तामरसं हस्तेन विलोमतदभिधानार्थम् । हृदयेन यश्च धत्ते हृदये तौ दंपती विहरतां नः ॥

 विलोमतदभिधानार्थं व्यत्यस्ततामरसनामवाच्यं सरमतामित्यर्थः । अत्र व्यङ्ग्यं लक्ष्मीत्वं नारायणत्वं च भङ्ग्यन्तरेणाभिहितम् ॥

 यथावा--

 जलदसरसां यदीयां द्युतिमाहुर्देवताऽवतात्सामाम् । विपरीततदभिधेयं यद्रूपं साऽपि देवताऽवतु माम् ॥ १०२१ ॥

 यस्याः द्युतिं जलदसरसां तोयदश्यामलामिति यावत् । आहुः श्रुत्यादय इति शेषः । सा देवता मां अवतात् । यस्याः रूपं वर्णं ‘रूपं स्वभावे शुक्लादौ’ इति रत्नमाला । विपरीततदभिधेयं व्यत्यस्तेन जलदसरसामितिशब्देन वाच्यं सारसदलजमित्यर्थः । पद्मदलजन्यं तत्तुल्यमिति यावत् ‘पद्मवर्णाम्' इति श्रुतेः । अत एव पदार्थवृत्तिनिदर्शना । सा देवता च मां अवतु । अत्र भगवान् श्रीनिवासः भगवती श्रीश्च व्यङ्ग्यौ जलदसरसदीप्तित्वेन सारसदलजरूपत्वेन च भङ्ग्यन्तरेणाभिहितौ ॥

 यथावा--

 आद्यं भूतमनन्तरमपि पद्भ्यां वदनतस्तृतीयमभूत् । प्राणात्तुर्यं नाभ्याः पञ्चममपि यस्य भूतकृत्सोऽव्यात् ॥ १०२२ ॥

 अत्र पृथिव्यप्तेजोवाय्वाकाशानि व्यङ्ग्यानि प्रकारान्तरेणाभिहितानि । गङ्गाऽत्र द्वितीयभूतत्वेन विवक्षिता । अत्र ‘पद्भ्यां भूमिः । विष्णुपादोद्भवा गङ्गा । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत । नाभ्या आसीदन्तरिक्षम्' । इति प्रमाणान्यनुसन्धेयानि । इदं च वक्ष्यमाणरत्नावळीकाव्यलिङ्गसंकीर्णम् ॥

 यथावा--

 दीव्यतु कोऽपि स देवो भूषां योषां च यस्य जलधिरदात् । स्वयमेव यत्प्रियायास्सारसनमभूत्स एष वसनं वा ॥ १०२३ ॥

 स एषः पूर्वोक्तो जलधिरित्यर्थः । स्वयमेव यस्य देवस्य प्रियायाः वल्लभायाः भुव इति भावः 'विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम्' इति श्रुतेः । सारसनं मेखला । वसनं अंशुकं वा अभूत् । 'भूतधात्र्यब्धिमेखला । निधानगर्भामिव सागराम्बराम्' इत्युभयथाऽपि प्रसिद्धेरिति भावः । अत्र कौस्तुभाभरणत्वं श्रीपतित्वं भूवल्लभत्वं च व्यङ्ग्यम् । इदं तुल्ययोगितादिसंकीर्णम् ॥

 अस्मिंश्चालंकारे व्यङ्ग्यं वाच्यपरं अप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्ग्यपरम् । तेनायमलंकारो वाच्यसिद्ध्यङ्गगुणीभूतव्यङ्ग्यभेद इति ध्वनिकारानुयायिनः । अयं चालंकारः क्वचित्कारणेन वाच्येन कार्यस्य गम्यत्वे क्वचित्कारणेन कार्यस्य क्वचिदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति त्रिविध इति जगन्नाथादयः ॥

 तत्र कारणेन वाच्येन कार्यस्य गम्यत्वे यथा--

 यैरर्प्यन्ते कुसुमान्यसमानि रमासख त्वदीयपदे । तैरुप्यन्ते स्वपदे स्वैरं कल्याणबीजानि ॥

 त्वदीये तावके पदे चरणे त्वदीयानां भागवतानां चरणे वा । स्वपदे स्वस्थाने स्वव्यवसितेऽर्थे स्ववस्तुनि वा । अत्र बीजावापेन कारणेन अभ्युदयः कार्यरूपो गम्यते ॥

 कार्येण कारणस्य गम्यत्वे यथा--

 कामयते यान् लोकांस्तामरसविलोचन त्वदीयजनः । सपदि समुत्तिष्ठन्ते संकल्पादेव देव तस्यामी ॥ १०२५ ॥

 अमी लोकाः अत्र ‘स यदि पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठन्ते’ इति श्रुतेरर्थोऽनुसंहितः । अत्र भगवद्भक्तानां यथेष्टलोकसृष्टिरूपेण कार्येण तत्कारणं ‘स स्वराड्भवति' इत्याद्युक्तं मुक्तैश्वर्यं गम्यते ॥

 यथावा--

 विचरन्विपिनोद्देशे सहस्रनयनं सहस्रकिरणं च । शोकेनानन्देन च सास्रं यो व्यधित सेव्य एष पुमान् ॥ १०२६ ॥

 अत्र सुत्राम्णोऽर्यम्णश्च सास्रावरूपकार्येण वाच्येन सुतात्ययरूपं सुताभ्युदयरूपं च कारणं गम्यते । अयं वक्ष्यमाणयथासंख्यसंकीर्ण इति पूर्वस्माद्विशेषः ॥

 तदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य गम्यत्वे ॥

 यथा--

 उत्पलमहोत्पलव्रजविकासिनी वामदक्षिणे नयने । शिशिराशिशिरे यस्य प्रशमयतु स तापमेष जडतां च ॥ १०२७ ॥

 स एषः तापं आध्यात्मिकादिकं संज्वरं च । जडतां शैत्यं अज्ञतां च प्रशमयतु । अत्रोत्पलमहोत्पलविकासकारिशिशिराशिशिरवामदक्षिणविलोचनत्वेन वाच्येन न कार्येण नापि कारणेन केवलं सहचरितेन चन्द्रसूर्यविलोचनत्वं गम्यते । अत्र हि वाच्यव्यङ्ग्ययोः केवलं सहचरितत्वं संबन्धः न तु कार्यकारणभावरूपः एवं प्रागुपदर्शितेषु ‘यस्य विहाराहार्यः’ इत्याद्युदाहरणेष्वपि यथायोगं संबन्धो द्रष्टव्यः । इदं यथासंख्यपरिकराभ्यां संकीर्णम् ॥  केचित्तु प्रस्तुतेन कार्येण प्रस्तुतस्य कारणस्य गम्यत्वे पर्यायोक्तमाहुः । त एते प्रस्तुताङ्कुरस्य न पृथगलंकारतामभ्युपगच्छन्ति । दीक्षितादयस्तु एवंविधे विषये प्रस्तुताङ्कुर एवेत्याहुः । स्पष्टं चैतत्कुवलयानन्दादौ ॥


द्वितीयपर्यायोक्तम्.


व्याजेन रमणीयेन यदि स्वस्य परस्य वा ।
साध्यतेऽभीप्सितं तच्च पर्यायोक्तं विदुर्बुधाः ॥

 पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेरिदमपि पर्यायोक्तम् । अयं च प्रकारो दीक्षितोपज्ञमेव । प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणमिति ध्येयम् ॥

 तत्राद्यं यथा--

 गर्जति जलदो विद्युत् स्फूर्जति वर्जय बहिर्गतिं भीरु । इति झडिति वारयन्किल चतुरश्श्लिष्यन् श्रियं जयतु शौरिः ॥ १०२८ ॥

 अत्र जलदगर्जितादिभयप्रदर्शनव्याजेन भगवता लक्ष्मीसमाश्लेषरूपस्वेष्टसाधनं निबद्धम् ॥

 यथावा--

 अलकाश्चलिता मरुता तिलको लुलितस्समीकरिष्यामि। तदिदमिति मुदितहृदयो वदनं चुम्बन् श्रियो हरिर्जयतात् ॥ १०२९ ॥  अत्र लुलितालकादिसमीकरणापदेशेन पीताम्बरस्याम्बुधिसुतावदनाम्बुजचुम्बनरूपस्वेष्टसाधनमेव दर्शितम् ॥

 द्वितीयं यथा--

 कुसुमापचायलोभाद्विषमां कुञ्जस्थलीं प्रयाति रमा । सह याहि त्वं श्रान्ताऽस्म्यहमित्यहिमहिभृदशिमाह सखी ॥ १०३० ॥

 अपचायेत्यत्र ‘हस्तादाने चेरस्तेये’ इति घञ् । महिशब्दो हृस्वान्तोऽप्यस्ति, ‘वीचिः पङ्किर्महिः केळिरित्याद्या हृस्वदीर्घयोः' इति वाचस्पत्यनुशासनात् । अत्र कुसुमापचायव्यग्रतया कुञ्जस्थलीं प्रविष्टायाः श्रियस्साहायकविधानप्रेरणव्याजेन भगवतस्तत्संभोगाभीप्सितं श्रान्तताव्याजेन पृथगवस्थितया सख्या साधितमिति परेष्टसाधनं निबद्धम् ॥

इत्यलंकारमणिहारे पर्यायोक्तसर एकत्रिंशः.


अथ व्याजस्तुतिसरः.


स्तुत्याभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि ।
तत्र व्याजस्तुतिं नाम प्राज्ञाः प्राहुरलंकृतिम् ॥

 यत्र स्तुतिरभिधीयमानाऽपि प्रमाणान्तरेण बाधितस्वरूपा निन्दायां पर्यवस्यति तत्रासत्यत्वाद्व्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दा शब्देन प्रतिपाद्यमाना पूर्ववद्बाधितरूपा स्तुतौ पर्यवस्यति सा द्वितीया व्याजस्तुतिः ।