अलङ्कारमणिहारः (भागः २)/व्याजस्तुत्यलंकारः (३२)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


अथ व्याजस्तुतिसरः.


स्तुत्याभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि ।
तत्र व्याजस्तुतिं नाम प्राज्ञाः प्राहुरलंकृतिम् ॥

 यत्र स्तुतिरभिधीयमानाऽपि प्रमाणान्तरेण बाधितस्वरूपा निन्दायां पर्यवस्यति तत्रासत्यत्वाद्व्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दा शब्देन प्रतिपाद्यमाना पूर्ववद्बाधितरूपा स्तुतौ पर्यवस्यति सा द्वितीया व्याजस्तुतिः । व्याजेन निन्दामुखेन स्तुतेः । एवं च कर्मधारयतृतीयातत्पुरुषाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वमिति वेदितव्यम् ॥

 आद्या यथा--

 सुतदारप्रीणनविधिकृतदाक्ष्यस्त्वं गृहे वससि धन्यः । न भजसि भुजङ्गभूधरविभुसेवायासवैशसं जातु ॥ १०३१ ॥

 अत्र केवलसांसारिकस्य कस्यचिद्व्याजरूपा त्वं धन्य इति स्तुतिर्बाधिता सती तस्य श्रीनिवाससेवावैधुर्यप्रयुक्तनिन्दायां पर्यवस्यति ॥

 द्वितीया यथा--

 त्वत्तः को विजुगुप्सो मत्तः कोऽन्यो रमेश ! निर्लज्जः । शश्वदघं कः क्षमतां शश्वत्क्षान्तेऽपि तत्र कः कुरुताम् ॥ १०३२ ॥

 तत्र तस्मिन् पुनःपुनः कृते अघे क्षान्तेऽपि शश्वत् मुहुर्मुहुः अघमित्यनुषज्यते । अघं अपराधं कः कुरुताम् । अतस्त्वं विजुगुप्सः अहं निर्लज्ज इति भावः । अत्र को विजुगुप्स इति निन्दा बाधिता सती रमासखस्य क्षमाभूमा निस्समान इति स्तुतौ पर्यवस्यति ॥

 अत्र चैक एवार्थः केनचिदाकारेणादौ स्तुतेर्निन्दाया वा विषयो भूत्वा प्रकरणादिमहिम्ना प्रकारान्तरेण निन्दायाः स्तुतेर्वा विषयो भवति, तत्र यावानंशो बाधितस्तावानेवान्यथात्वेन पर्यवस्यति । अंशान्तरं तु स्वभावेनैवावतिष्ठत इत्यवधेयम् ॥  इयं चालंकारान्तरसंकीर्णा यथा--

 हृद्यायामपि लक्ष्म्यामतुलां तुलसीं परां च वनमालाम् । आश्लिष्टकन्धरां त्वं तनुषे सर्वेश्वरोऽसि किं ब्रूमः ॥ १०३३ ॥

 अतुलां शीलवयोवृत्तादिभिस्स्वस्याननुरूपां निस्समामिति तु वास्तवार्थः । परां परकीयां उत्कृष्टां च । सर्वेश्वरोऽसि ‘पथश्शुचेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम्’ इत्युक्तरीत्या सर्वेश्वरस्य तव सत्पथप्रवर्तनमेवोचितं नासत्पथे स्वयंप्रवर्तनमिति भावः । वस्तुस्थितिस्तु ‘वक्षस्स्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती सर्वैश्वर्यं कथयतितरां रङ्गधाम्नस्तदास्ताम्' इत्युक्तप्रक्रियया तुलसीवैजयन्तीलक्ष्मीभूषितवक्षस्स्थलतया अखिलजगदधीश्वरोऽसीति । अत्र भगवतस्समासोक्त्या पल्लविकधुरीणव्यवहाराश्रयत्वप्रतीतिः तन्मूला निन्दा स्तुतैौ पर्यवस्यति ॥

 यथावा--

 सदरः करस्तवैकस्साध्वसिताऽऽढ्यः परस्तदपि शौरे । अभयप्रदपाणिं त्वामाहुस्सुलभा हि सुकृतिनां कीर्तिः ॥ १०३४ ॥

 सदरः सभयः सशङ्खश्च । साध्वसमस्यास्तीति साध्वसी तस्य भावः साध्वसिता । तया आढ्यः । अत्रार्थान्तरन्यासपरिपोषिता भगवतो निन्दा दुष्कृद्विनाशनैकतानशङ्खनन्दकादिदिव्यायुधपरिकरधारितया सकललोकाभयप्रदानधौरेय इति स्तुतौ पर्यवस्यति ॥  यथावा--

 भगवन्भार्गव कथमिव भवदायुधमाहुरप्रतिद्वंद्वम् । त्वयि गृह्णति युधि परशुं द्विषता ह्यपरेण परशुनाऽभावि ॥ १०३५ ॥

 त्वयि युधि परशुं गृह्णति सति द्विषता त्वदरिणा जात्येकवचनम् । हीत्यवधारणे । द्विषतैवेत्यर्थः । अपरेण अन्येन परशुना परश्वधेन अभावि अभूयत । तत्कथं भवदायुधमप्रतिद्वंद्वमाहुः । यतस्त्वदरिरेव परः परश्वधस्समजनीति भावः । पक्षे-- द्विषता वैरिणा अपरेण अपगतरेफेण परशुना पशुनेत्यर्थः । अभावि । त्वयि परश्वधं गृह्णत्येव तव वैरी सर्वोऽपि पशुर्भवति पशुवद्विशसनगोचरो भवतीति भावः । यद्वा-- अपरेण अविद्यमानपकाररेफोभयवर्णेन परशुना शुना शुनकेनेत्यर्थः । शुनकवत्सुप्रहरेणाभूयतेति भावः । अत्र भगवतो भार्गवस्य परशोरप्रतिद्वंद्वताधिक्षेपरूपनिन्दा सुकरसकलरिपुकुलविदलन इति स्तुतौ पर्यवस्यति । श्लेषोत्तम्भितेयम् ॥

 यथावा--

 स्तन्यमदात्ते प्रीत्या धन्या काचिज्जिघांसया त्वन्या । तुल्यं तयोः फलमदाः कल्यः कस्ते विवेककथनाय ॥ १०३६ ॥

 अत्र भगवतः प्रियाप्रियकक्ष्याविभागवैधुर्येण तुल्यफलदानाद्विवेकविधुरोऽसीति निन्दया बाधितया

सर्वभूतात्मके तात जगन्नाथे जगन्मये ।

परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥
समोऽहं सर्वभूतेषु सर्वस्य शरणं सुहृत् ॥

 इत्युक्तरीत्या सर्वसुहृत्त्वेन स्तुतिरवगम्यते । इयं प्रागुक्तहिताहितवृत्तितौल्यलक्षणतुल्ययोगिताविशेषपरिपोषिता । एवं ‘शपतां चैद्यादीनाम्’ इति तुल्ययोगिताप्रकरणोदाहृतपद्येऽपीयं व्याजस्तुतिर्द्रष्टव्या ॥

 इयं च व्याजस्तुतिर्यस्यैव वस्तुनः स्तुतिनिन्दे प्रथममुपक्रम्येते तस्यैव चेन्निन्दास्तुत्योः पर्यवसानं स्यात्तदा भवति । अन्यस्य स्तुत्या निन्दया वा अन्यनिन्दास्तुत्योः पर्यवसाने न प्रसरेदिति प्राचामालंकारिकाणां समयः ॥

 दीक्षितास्तु-- स्तुतिनिन्दयोर्निन्दास्तुतिभ्यामेकविषयतया गम्यत्वे द्वौ प्रकारौ । भिन्नविषयतया गम्यत्वे च द्वौ प्रकारौ । अन्यस्तुत्याऽन्यस्तुत्यभिव्यक्तौ त्वेकः प्रकार इत्येवं पञ्चविधां व्याजस्तुतिमभिप्रयन्तस्तथैवोदाजह्रिरे । अयमभिप्रायः— व्यक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः' इति लक्षणे निन्दास्तुतिभ्यामित्यत्र स्तुतिनिन्दयोरित्यत्र च इतरेतरयोगो न विवक्षितः । तथाच निन्दया स्तुतेः स्तुत्या निन्दायाः स्तुत्या स्तुतेश्च व्यक्तिर्व्याजस्तुतिरित्यर्थः । प्रथमो व्याजेन स्तुतिरिति, चरमयोर्व्याजरूपा स्तुतरिति च व्युत्पत्तेः । अत एव व्याजस्तुतिपदार्थानुगमाभावान्निन्दया निन्दाभिव्यक्तिर्व्याजनिन्देत्यलंकारान्तरमुक्तम् । एवमाद्ये प्रकारद्वये स्तुतिनिन्दयोस्समानविषयत्वभिन्नविषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति चत्वारो भेदाः । अन्यस्तु भिन्नविषयस्तुतिक एक एवेति पञ्च भेदाः । लक्षणं

तु व्याजनिन्दाभिन्नत्वे सति स्तुतिनिन्दान्यतरपर्यवसायिस्तुतिनिन्दान्यतरत्वं सर्वानुगतमिति ध्येयमिति ॥

तन्मते एवं लक्षणश्लोकः.

स्तुत्या निन्दा निन्दया वा स्तुतिर्भिन्नैकगोचरा ।
व्यङ्ग्या विभिन्नविषया स्तुत्या व्याजस्तुतिस्स्तुतिः ॥

 स्तुत्या निन्दायाः निन्दया स्तुतेर्वा भिन्नविषयायास्समानविषयाया वा व्यङ्ग्यतायां चत्वारः प्रकाराः । भिन्नविषयायाः स्तुत्या स्तुतेर्व्यङ्ग्यतायां त्वेकः प्रकार इति पञ्चधा व्याजस्तुतिरित्यर्थः ॥

 भिन्नविषयत्वे स्तुत्या निन्दाभिव्यक्तिर्यथा--

 धन्याः खगा मृगा अपि वन्या एते नगाश्च नागाश्व । मान्या ये माधवपदविन्यासपवित्रिते वसन्ति गिरौ ॥ १०३७ ॥

 अत्र मृगाधिराजनगावासिनां खगादीनां धन्यतास्तुत्या अतद्विधानामधन्यतारूपनिन्दा व्यज्यते ॥

 इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति दण्डी ।

यदाह--

अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः ।
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥
अर्थै (न्नै, रयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ।
सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥

इति । वस्तुतस्तु–'अत्र व्याजस्तुतिरित्येवयुक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषसद्भावात् । अन्यथा प्रसिद्धव्याजस्तुत्युदाहरणेष्वप्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुतिनिन्दे गम्येते इत्येतावता व्याजस्तुतिमात्रमप्रस्तुतप्रशंसा स्यात्' इति दीक्षिताः ॥

 अन्ये तु-- प्रसिद्धस्थले ‘कस्स्वर्धुनि विवेकस्ते, साधु दूति पुनस्साधु’ इत्यादौ स्तुतिनिन्दयोरेकधर्मत्वादप्रस्तुतप्रशंसायास्तत्रासंभवेन व्याजस्तुतेर्विविक्तविषयत्वसाम्राज्यान्न व्याजस्तुतिमात्रमप्रस्तुतप्रशंसा भविष्यति । प्रस्तुतधर्मिकेऽप्यप्रस्तुतप्रशंसाऽभ्युपगमे तु तस्मिन्नेव विषये ललितालंकारपार्थक्याभ्युपगमो व्याहतस्स्यादित्याहुः ॥

 भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा--

 अपदत्रयमितलोकैरवामपादाम्बुपूतजगतीकैः । अलमन्यसुरवराकैरनमृतदानक्षमैरलक्ष्मीकैः ॥

 अत्र देवतान्तरनिन्दया श्रीनिवासस्तुत्यभिव्यक्तिः ॥

 स्तुत्या निन्दायाः निन्दया स्तुत्या वाऽभिव्यक्तौ समानविषयतायां प्रागेवोदाहरणानि प्रादर्शिषत ॥

 अन्यस्तुत्याऽन्यस्तुत्यभिव्यक्तिर्यथा--

 क्षेत्रे क्व नु कतिदिवसान्व्यधात्तपो वाऽपि किमभिधानमयम् । यदविरतं त्वत्पदसममरविन्दं विन्दतेऽच्युत मिळिन्दः ॥ १०३९ ॥

 अत्र मिळिन्दस्तुत्या भगवत्पादारविन्दसौन्दर्यसौकुमार्यभोग्यतादिसौभाग्यातिशयस्तुतिर्व्यज्यते ॥

इत्यलंकारमणिहारे व्याजस्तुतिसरो द्वात्रिंशः ॥