अलङ्कारमणिहारः (भागः २)/व्याजनिन्दालंकारः (३३)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

(३३) अथ व्याजनिन्दासरः


 व्याजनिन्दा तु निन्दाया निन्दया व्यङ्ग्यता यदि ॥ ९१ ॥

 यत्रान्यनिन्दया अन्यस्य निन्दाया अभिव्यक्तिस्सा व्याजनिन्दा । इतरनिन्दाव्याजेन निन्देति व्युत्पत्तेः ॥

 यथा--

 घिङ्मां जडमूर्धन्यं वाङ्मानसदूरविपुलदौर्जन्यम् । पयसिजलोचन योऽहं त्वयि विमुखानां मुखानि पश्यामि ॥ १०४० ॥

 अत्र श्रीनिवासविमुखजनमुखावलोकितुस्स्वस्य निन्दया तादृशस्य परमपापिष्ठतया निन्दा व्यज्यते ॥

 यथा वा--

 आमुखमधुरं परिणतिविरसं तिक्तं च वितरसि फलं त्वम् । उच्चैर्भूतपलाशैस्सेव्योऽसि न मादृशस्य तालतरो ॥ १०४१ ॥

 आमुखमधुरं आपातमधुरं ‘तालफलरस इवापातमधुरः परिणामविरसस्तिक्तश्च' इत्येतदनुसंहितम् । उच्चैः भूतैः देवयोनिविशेषैः पलाशैः क्रव्यादैश्च । अन्यत्र उच्चैः ऊर्ध्वप्रदेशे भूतैः जातैः पलाशैः पत्रैः सेव्यः । मादृशस्य दिव्यफलार्थिन इति भावः । न सेव्य इति योजना । अत्र भगवत्प्रपन्नवचने तालतरुनिन्दयाऽतितुच्छफलप्रददेवतान्तरनिन्दा व्यज्यते ॥ अयमप्यलंकारो दीक्षितोपज्ञमेव ॥

 ननु केनाप्यालंकारिकेणानुदीरिताया अस्याः व्याजनिन्दायाः कथमलंकारतयाऽभ्युपगमः ? उच्यते— अन्यस्तुत्याऽन्यस्तुत्यभिव्यक्तिरिति पञ्चमप्रकारव्याजस्तुतेः तुल्ययुक्त्या प्रतिद्वंद्विस्थानीयत्वादस्याः । तथाच स्तुतिवन्निन्दायामप्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषात्तदनन्तर्भावे व्याजस्तुतौ चार्थानुगमाभावादनन्तर्भावे पृथगलंकारताया औचित्यात्प्राचीनैरनुक्ताया अप्यभ्युपगन्तुमुचितत्वादिति ॥

 ननु यत्रान्यस्तुत्याऽन्य स्तुतिरन्यनिन्दयाऽन्यनिन्दा च प्रतीयते तत्र व्याजस्तुतिव्याजनिन्दालंकाराभ्युपगमे स्तुतिनिन्दारूपाप्रस्तुतप्रशंसोदाहरणेष्वप्रस्तुतप्रशंसा न वक्तव्या, तेषामपि व्याजस्तुतिव्याजनिन्दाभ्यां क्रोडीकरणसंभवादिति चेदुच्यते-- यत्राप्रस्तुतवृत्तान्तात् स्तुतिनिन्दारूपात्तत्सरूपः प्रस्तुतवृत्तान्तः प्रतीयते ‘अन्तश्छिद्राणि भूयांसि’ इत्यादौ तत्र लब्धावकाशा सारूप्यनिबन्धनाप्रस्तुतप्रशंसाऽत्रापि प्रवर्तमाना न शक्यते वारयितुम् । अन्यस्तुत्याऽन्यस्तुतिरन्यनिन्दयाऽन्यनिन्देत्येवं व्याजस्तुतिव्याजनिन्दे अपि संभवतश्चेत्कामं ते अपि संभवेतां न त्वस्याः परित्यागः । यद्यपि ‘आमुखमधुरं परिणतिविरसम्’ इत्यनुपदोदाहृते पद्ये तालतरुनिन्दया निहीनफलदातृदेवतान्तरनिन्दा प्रतीयत इति तत्र सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसाऽप्यस्ति तथाऽपि सैव व्याजनिन्दामूलेति प्रथमोपास्थिता साऽपि तत्र दुर्वारा । एवंच व्याजनिन्दाऽनुप्राणितेयमप्रस्तुतप्रशंसेति चमक्तारातिशयः ॥

 यथावा--

 कर्दम दुर्दमगर्वो वल्ग त्वं कस्तवात्र दोषोऽस्ति । यस्त्वां कस्तूरीसममवैति निन्द्यस्स वै विपिनमहिषः ॥ १०१२ ॥  अत्र वनमहिषनिन्दया तन्मूलककर्दमनिन्दया च मूढतमस्य कस्यचित् तेन च महाब्रह्मवित्तुल्यतया ज्ञातस्य विद्वन्मानिनः कस्यचिद्वैधेयस्य च निन्दा प्रतीयत इति सारूप्यनिबन्धनाप्रस्तुतप्रशंसा व्याजनिन्दामूलकव्याजनिन्दारूपेयमिति पूर्वस्माद्विच्छित्तिविशेषः ॥ एवमेव व्याजस्तुतिमूलकव्याजस्तुतिरूपाऽप्यप्रस्तुतप्रशंसा दृश्यते ॥

 यथा--

 नन्दात्मजचूडार्हं बर्हं या तव ततान ननु बर्हिन् । साऽम्बुदमाला स्तुत्या नृत्यानन्देन किं तव स्तुत्या ॥ १०४३ ॥

 ततान वितस्तार । स्तुत्या स्तवार्हा । आनन्देन नृत्य नर्तनं कुरु नृत्यतेर्लोण्मध्यमैकवचनम् । त्वं स्वैरं नर्तनं विधेहि अस्मादृशां स्तुत्या तव किं प्रयोजनमिति भावः । यद्वा तव स्तुत्या त्वत्कर्मकस्तवेन अस्माकं किं प्रयोजनं तवाप्यतिशयाधायिकायां जाग्रत्यां कादम्बिन्यामिति भावः । किं तव स्तुत्येत्युक्तिरपि हर्षातिशयकारितेति स्तुतिपर्यवसायिन्येव ॥ अत्राप्रस्तुताम्बुदमालास्तुत्या तन्मूलकमयूरस्तुत्या च महावदान्यचूडामणेर्महालक्ष्म्यास्तत्कटाक्षाधिगतभगवदर्हणौपयिकवैभवस्य तद्भक्तस्य च स्तुतिर्गम्यत इतीयं सारूप्यनिबन्धनाप्रस्तुतप्रशंसा व्याजस्तुतिमूलकव्याजस्तुतिरूपा ॥

 यथा वा--

 बहुधाऽभिनन्दनीयस्स विधाता यश्चकोरशाब त्वाम् । विदधेऽखिलद्विजेष्वपि विधुपादसुधारसैकजीवातुम् ॥ १०४४ ॥

 अत्राप्रस्तुता विधातृप्रशंसा तन्मूलकचकोरस्तुतिश्च प्रस्तुतस्य परमकारुणिकस्य महाभागवतस्याचार्यस्य तत्कृपासमधिगतभगवच्चरणारविन्दपरिचरणानुभवरसैकजीवनस्यान्तेवासिनश्च प्रशंसायां पर्यवस्यति ॥

 बुक्कपत्तनवेङ्कटाचार्यास्तु व्याजस्तुतेः व्याजनिन्दायाश्च प्रत्येकं प्रकारत्रयमेवाहुः ॥ तथाहि तदीयेऽलंकारकौस्तुभे--

 स्तुत्या वा निन्दया वाऽपि स्तुतिर्यत्र प्रतीयते । समर्थयामहे तत्र व्याजस्तुतिमलंकृतिम् ॥

 अन्यस्तुत्याऽन्यस्तुतिः तन्निन्दया तत्स्तुतिः अन्यनिन्दयाऽन्यस्तुतिश्चेति व्याजस्तुतेस्त्रैविध्यम् ॥

 स्तुत्या वा निन्दया वाऽपि यत्र निन्दा प्रतीयते । समर्थयामहे तत्र व्याजनिन्दामलंकृतिम् ॥

 स्तुत्या निन्दा द्विविधा । तत्स्तुत्या तन्निन्दा अन्यस्तुत्या तन्निन्दा । निन्दया निन्दा त्वेकविधेति व्याजनिन्दयाश्च त्रैविध्यं प्रदर्श्य, तथैवोदाहरणानि च प्रदाय ‘यद्यपि कुवलयानन्दे स्तुत्या निन्दाभिव्यक्तिरपि व्याजस्तुतिरेवेति स्वीकृत्य व्याजस्तुतेः पञ्च प्रकारा इत्युक्तं, तथाऽपि निन्दाभिव्यक्तिस्थले व्याजनिन्दैव युक्तेति स्तुत्यभिव्यक्तौ व्याजस्तुतिमङ्गीकृत्य यत्रः प्रकारा इत्येवाश्रयितुं युक्तम् । समविषमादिन्यायेन परस्परप्रतिद्वन्द्विनोर्विभिन्नालंकारविषयतावश्यकत्वादित्यस्माभिरन्यथोक्तम्' इत्युपपादितम् ॥

इत्यलंकारमणिहारे व्याजनिन्दासरस्त्रयस्त्रिंशः ॥