अलङ्कारमणिहारः (भागः २)/आक्षेपालंकारः (३४)

विकिस्रोतः तः
Jump to navigation Jump to search

(३४) अथाक्षेपालंकारसरः


 स आक्षेपो भवेत्स्वोक्तनिषेधो यो विमर्शतः ।

 उक्तस्यार्थस्य पर्यालोचनपूर्वकः प्रतिषेध आक्षेपालंकारः ॥

 यथा--

 परिरक्ष मां प्रपन्नं पन्नगनगनाथ भवपथविपन्नम् । धन्यस्त्वय्यहमथवा विन्यस्तभरः किमन्यदाशासे ॥ १०४५ ॥

 अत्र प्रार्थितस्य स्वरक्षणस्य भगवति विन्यस्तसमस्तात्मभरत्वेन वैयर्थ्यमालोच्याथवेत्यादिना प्रतिषेधस्सूचितः ॥

 यथावा--

 त्वन्मुखरुचिधूतरुचेर्जीवितसंदेह एव सन्नेतुः । शिशिरमरीचेरथवा जैवाकृत एष कथमपि स जीवत् ॥ १०४६ ॥

 जैवातृकः दीर्घायुः 'जैवातृकः पुमान् सोमे दीर्घायुःकृशयोस्त्रिषु' इति मेदिनी । अत्र भगवन्मुखप्रभाविधूतरुचेश्शि- शिररुचेः सत्पतित्वात् ‘सतां माने म्लाने मरणमथवा दूरगमनम्’ इत्युक्तरीत्या जीवितसंदेहस्य संभावितस्य जैवातृकशब्दगतार्थश्लेषमहिम्ना आयुष्मत्तां विचार्य प्रतिषेधो वर्णितः । श्लेषसंकीर्णत्वं पूर्वस्माद्विच्छित्तिविशेषः ॥

 यथावा--

 देव कथमुदवहस्तामुदधेः पिङ्गळतया श्रुतां कन्याम् । सा हि निषिद्धा शास्त्रैरथवा स्वैरस्य विधिनिषेधौ क्व ॥ १०४७ ॥

 हे देव! पिङ्गळायाः भावः पिङ्गळता तया ‘त्वतलोर्गुणवचनस्य’ इति पुंवद्भावः । श्रुतां निशमितां ख्यातामिति यावत् । ‘पिङ्गळां हेममालिनीम्' इति श्रुतिप्रसिद्धामिति हृदयम् । उदधेः कन्यां कथं उदवहः पर्यणैषीः । कुतोऽसावाक्षेप इत्यत आह सा हीति । सा पिङ्गळवर्णा कन्या शास्त्रैः निषिद्धा,

नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचाटां न पिङ्गळाम् ॥

 इत्यादिमन्वादिस्मृतिभिरुद्वाहे प्रतिषिद्धा । हीति हेतौ, प्रसिद्धौ वा । स्वयमेव समाधत्ते--अथवेति ॥ अथवा स्वैरस्य निरवग्रद्दस्य पक्षे ‘स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः’ इत्युक्तरीत्या अपर्यनुयोज्यस्वातन्त्र्यस्येत्यर्थः । विधिनिषेधौ क्व एकत्र निरंकुशत्वात् । अन्यत्र अकर्मवश्यत्वादिति भावः । अत्र पिङ्गलवर्णकन्योद्वाहनिषेधकशास्त्रपर्यालोचनामूलकस्याक्षेपस्य स्वैरत्वपरिचिन्तनया प्रतिषेधोऽर्थान्तरन्यासविधया निबद्ध इति पूर्वस्मादपि वैलक्षण्यं बोध्यम् ॥

 यथावा--

 अञ्चामि त्वां किंचित्पञ्चायुधरमणि चञ्चला मा भूः । अथवाऽद्यन्तचला त्वं चलैव मध्येऽञ्चिताऽपि किं कथया ॥ १०४८ ॥

 हे पञ्चायुधरमणि! त्वां अञ्चामि पूजयामि त्वां नमामीतिवल्लोकोक्तिः । किञ्चित् अल्पकालमित्यर्थः । चञ्चला मा भूः चाञ्चल्यं विहाय स्थिरा भवेति भावः । अथवा आद्यन्तयोः चला आद्यन्तावभिव्याप्य आद्यन्तं चला वा । सर्वदा चपलशीलेति भावः । त्वं मध्ये इदानीं मदीप्सितसाधनार्थमिति भावः । अञ्चिताऽपि चञ्चला माभूरिति प्रार्थनापूर्वकमाराधिताऽपि चलैव चञ्चलैव भवसि । कथया व्यर्थवाक्यप्रबन्धेन किं न किमपि साध्यमित्यर्थः । स्वभावस्य दुरतिक्रमतया मत्प्रार्थनमकिंचित्करमेवेति भावः । पक्षे चञ्चलाशब्दः अर्थगतं स्त्रीत्वं शब्दे आरोप्यते । आद्यन्तौ चलौ च ला इति वर्णौ यस्यास्सा तथोक्ता । मध्ये अञ्चिता अविद्यमानः ञ्च इति वर्णसमुदायो यस्यास्सा तथोक्ता कृताऽपि अपिस्संभावनायां चलैव । च ला इति वर्णौ अस्याः स्त इति चला । अर्शआदित्वान्मत्वर्थीयोऽच् । चञ्चलेति शब्दः मध्यगतस्याञ्चेतिवर्णसमुदयस्य लोपश्चेत् चलेत्येव निष्पन्नो भवतीति भावः । अत्र चञ्चला मा भूरिति प्रार्थितस्यार्थस्य तत्स्वभावविमर्शेन वैयर्थ्यमालोच्य निषेधः कृतः ॥  यथावा--

 पाञ्चाल्यास्त्वत्कृपया भगवन् प्रादुस्थितं दुकूलमपि । अगमत्कुतः कुरूणां कुकूलतां तल्लिपिस्तथा ह्यथवा ॥ १०४९ ॥

 हे भगवन्! त्वत्कृपया प्रादुस्थितं आविर्भूतं सत् स्थितं दुश्शासनकृतवसनापहारावसरे इति भावः । पाञ्चाल्याः दुकूलमपि कुरूणां दुर्योधनादीनां कुतो हेतोः कुकूलतां शङ्कुकीर्णश्वभ्रतुल्यतां तुषानलतुल्यतां वा अगमत् । उद्वेलभगवत्कृपाजन्यमतिमनोहारि दुकूलमपि तेषां निपातास्पदं दाहहेतुर्वा कथमासीदाश्चर्यमेतदिति भावः । ‘कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले' इत्यमरः । 'दुर्गसमीपे प्रतिपक्षसेनासंचारपरिहाराय कृते तीक्ष्णलोहादिशङ्कुनिचिते महागर्ते नपुंसकलिङ्गः कुकूलशब्दः तुषाग्नौ तु पुल्लिङ्गः' इति टीकासर्वस्वकारः ॥ अथवा तल्लिपिः तेषां कुरूणां ललाटलिपिः तथाहि तथैव । हिशब्दोऽवधारणे । जगदानन्दनिदानस्यापि वस्तुनो नाशहेतुतया दर्शनं तत्कर्मानुगुणविधिलिखितललाटलिपिरेखानुसारीति नात्र विस्मयनीयं किंचिदस्तीति भावः ॥ पक्षे दुकूलं दुकूलपदं प्रादु अविद्यमानो दुः दुवर्णो यस्य तत् अदु प्रकर्क्षेण अदु प्रादु स्थितं दुवर्णविधुरतया स्थितं कुतः कुवर्णात् दुवर्णस्थानविहितादिति भावः । ‘न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेत्' इत्यत्र गिरापदं प्रतिषिध्य विधीयमानमिरापदं यथा गिरापदस्थान एव भवति तथेहापि दुवर्णं निषिध्य विधीयमानः कुवर्णः तत्स्थान एव भवतीति ध्येयम् । अयमर्थः प्रागेवोक्तः । कुकूलतां कुकूलशब्दतां अगमत् । तल्लिपिः दुकारापनयनपूर्वककुवर्णविन्यासरूपा उक्तविधानुपूर्वीबोधकलिपिः तथाहि तथाविधा खलु ॥ अक्षरविन्यासभेदेन दुकूलशब्दः कुकूलशब्दोऽभूदिति भावः । अत्र भगवत्कृपया आविर्भूतं दिव्यदुकूलं सुयोधनादिविषये कुतः कुकूलतामगमदिति संदेहविषयीकृतस्यार्थस्य तल्लिपितथात्वविमर्शेन प्रतिषेधः । श्लेषविरोधाभासपदार्थवृत्तिनिदर्शनाद्युपस्कृतोऽयम् ॥

 यथावा--

 भवदीयाभाप्रसरे भान्वाभाप्रसर इह किमु स्याद्वा । अथवाऽऽभीये कार्ये तदसिद्धं व्याकृतिः प्रमाणं चेत् ॥ १०५० ॥

 हे भगवन्! इह जगति भवदीयानां भवत्संबन्धिनां भागवतानामित्यर्थः । आभायाः तेजसः प्रसरे भवत्संबन्धितेजःप्रसरे वा सति भानोः आभायाः प्रसरः किमु स्याद्वा कां गतिं प्राप्नुयाद्वा न विद्म इति भावः । अथवा आभायाः इदं अभीयं तस्मिन् ‘वृद्धाच्छः' इति छप्रत्ययः । भागवततेजस्संबन्धिनि कार्ये प्रसरणरूपकार्ये तत् आभीयं भानुतेजस्संबन्धि कार्यं प्रसररूपकार्यं असिद्धं अनिष्पन्नं अविद्यमानप्रायं स्यादित्यनुषज्यते । भागवततेजःप्रसरे भानुतेजःप्रसरो न मूर्धानमुन्नमयितुं शक्नुयादिति भावः । पक्षे आभीये ‘आभात्' इत्यधिकारविहिते कार्ये शब्दनयप्रसिद्धे कार्ये समानाश्रये कर्तव्ये इति भावः । तत् आभीयं उक्ताधिकारविहितं कार्यं असिद्धं स्यात् ‘असिद्धवदत्राभात्' इति सूत्रितत्वात् । अयं भावः--यथा एधीत्यत्र असधातोः ‘हुझल्भ्यो हेर्धिः' इति हेर्धित्वरूपे आभीये कार्ये कर्तव्ये ‘घ्वसोरेद्धावभ्यासलोपश्च' इत्यनेन कृतमाभीयं एत्व रूपं कार्यमसिद्धम् । यथाच आसीदित्यत्र ‘आडजादीनाम्' इत्याभीये आटि कर्तव्ये 'श्नसोरल्लोपः' इत्यल्लोपोऽसिद्ध इति ॥ समानाश्रयत्वं चैकत्र समानाधिकरणत्वं भागवतभानुतेजसोरुभयोरप्यत्रैव जगति विद्यमनत्वात् । अन्यत्र असिद्धत्वाश्रयशास्त्रसंबन्धिनिमित्तसमुदायान्यूनातिरिक्ताश्रयकत्वमिति ध्येयम् ॥ अत्र भागवताभाप्रसरे भान्वाभाप्रसरः कां गतिं प्राप्नुयाद्वेति शङ्कितस्यार्थस्य आभीये कार्ये समानाश्रये कर्तव्ये आभीयकार्यस्यासिद्धवद्भावं शाब्दिकपरिभाषितं श्लेषभित्तिकाभेदाध्यवसायेनोपजीव्याथवेत्यादिना प्रतिषेधो वर्णितः ॥ प्रमाणालंकारसंकीर्णोऽयम् ॥

 यथावा--

 अपचितविभवा रचिता विनता विमताश्च नाथ बत भवता । सर्वविदः किमुचितमिदमथवा गीतं त्वया समोऽहमिति ॥ १०५१ ॥

 अपचितः पूजितः विलूनश्च विभवो येषां ते । अपपूर्वकाच्चिनोतेरुभयार्थकत्वात् । तथाच रत्नमाला-- 'स्त्रियामपचितिः पूजानिष्कृत्योस्संक्षये व्यये' इति । अत्रापचितविभवा इत्यादिना श्लेषावलम्बनेन शङ्क्तितस्य भगवदविमर्शस्य 'समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः' इति तद्वचनमूलकसमत्वपरिचिन्तनेन प्रतिषेधः । अयं तुल्ययोगिताविशेषप्रमाणालंकारादिभिः परिपोषितः ॥

 यथावा--

 प्रतिकूलदर्शिनामप्यनुकूलदृशामिव त्वयि समानार्थम्। कमलाललामक त्वं कलयसि बत तेऽक्षरस्स्वभावो वैवम् ॥ १०५२ ॥  कमला लक्ष्मीः ललामं भूषणं यस्य सः कमलाललामकः । 'शेषाद्विभाषा’ इति कप् । श्रीनिवास इत्यर्थः । तस्य संबुद्धिः हे कमलाललामक! त्वयि विषये अनुकूलदृशां आनुकूल्यैकरसानां विदुराक्रूरादीनामिव प्रतिकूलदर्शिनां प्रातिकूल्यैकशीलानां शिशुपालघण्टाकर्णादीनामपि त्वं समानार्थं तुल्यं पुरुषार्थं कलयसि ददासि । बतेतीदृशवितरणविचारजनिते खेदे विस्मये वा । पक्षे कमलाललामकेति तस्यैव शब्दस्य संबोधनम् । त्वं अनुलोमं पश्यतामिव प्रतिलोमं पश्यतामपि तुल्यमेवाभिधेयं प्रकाशयसीत्यर्थः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । आनुलोम्यप्रातिलोम्ययोरभिन्नवर्णानुपूर्वीकत्वात् कमलाललामकेत्यस्य तुल्यार्थाभिधायित्वमिति भावः । बतेतीदृशशब्दस्वभावपरिशीलनजनिते हर्षे विस्मये वा । वाशब्दः अथवेत्यर्थे । ते तव अक्षरः अविनाशी इतरोपायैरचाल्य इति यावत् । स्वभावः निसर्ग एव । एवं ‘तुल्यो मित्रारिपक्षयोः' इति त्वयैव गीतत्वादिति भावः । पक्षे ते कमलाललामकेति पदस्य तव । अक्षराणां स्वभावः अक्षरस्वभावः । सकारस्य 'अनचि च' इति द्वित्वम् । वर्णानां स्वरूपं एवं एवमेव । अनुलोमविलोमपाठयोरानुपूर्व्या एकविधत्वात्तुल्यार्थप्रकाशकत्वं न विस्मयाधायकमिति भावः । अत्र प्रतिकूलदृशामित्यादिनाऽऽक्षिप्तस्यार्थस्य ते अक्षरस्वभाव एवमिति प्रतिषेधस्सूचितः । श्लेषतुल्ययोगिताविशेषोपस्कृतोऽयम् ॥

 यथावा--

 अपि घनवरशरधारावर्षी कथमिव विशोषिताब्धिरसि । अथवा दशरथनन्दन नन्वासीस्त्वं स्वयं महाधन्वा ॥ १०५३ ॥  हे दशरथनन्दन! घनवराणां जलदश्रेष्ठानां शरधाराः जलधाराः तासां वर्षं वृष्टिः तदस्यास्तीति तथोक्तोऽपि । मत्वर्थीय इनिः। पक्षे अविरळतरविशिखपरंपरावर्षी णिनिः । शोषोऽस्य संजातः शोषितः शुष्कः अब्धिः सरो यस्मिन् सः । पक्षे शोषं प्रापितः अब्धिस्सागरो येन सः शुषेर्ण्यन्तात्कर्मणि क्तः । 'अब्धिर्ना सिन्धौ सरस्यपि’ इति मेदिनी । कथमासीः । इदमाश्चर्यम् । यज्जलदजलधारावर्षवतोऽपि शुष्कसरस्त्वमिति भावः । अथवा त्वं महांश्चासौ धन्वा च महाधन्वा महामरुप्रदेशः आसीः । नाश्चर्यमिदं यत्त्वयि जलदजलधारावर्षवत्यपि शुष्कसरस्त्वं तस्य मरुदेशस्वाभाव्यादिति भावः । महत् धनुः यस्य स तथोक्तः उद्दण्डकोदण्ड इति वस्तुस्थितिः । 'धनुषश्च' इति समासान्तोऽनङ् । महत् धन्व यस्येति वा 'धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च' इति मेदिनी । ‘चापमानय सौमित्रे शरांश्चाशीविषोपमान् । सागरं शोषयिष्यामि' इत्याद्युक्तरीत्या उद्यतोच्चण्डकोदण्डदण्डस्य महावीरधौरेयस्य तव अविरळशरपरंपरावर्षेण सागरशोषणं न विस्मयावहमिति भावः । अत्र घनशरादिशब्दप्रतिपाद्यजलदजलसान्द्रबाणादिरूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायोपजीवनेन जलदजलधारावर्षवत्त्वेऽपि शुष्कसरस्त्वं कथमित्याशङ्कितस्यार्थस्य महाधन्वशब्दप्रतिपाद्यमहामरुमहाचापरूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायावलम्बनजनितमहामरुदेशत्वलक्षणतत्स्वरूपविमर्शनेन प्रतिषेधः । विभावनाविशेषसंकीर्णोऽयम् ॥

 यथावा--

 अवनत्वं तव कथमिव सुरभिशुभश्रीलताञ्चि- तस्य हरे । यदि वा सकलपलाशिव्रजनाशयिताऽसि तदिह हेतुस्स्यात् ॥ १०५४ ॥

 हे हरे! सुरभौ वसन्तसमये शुभा श्रीः कुसुमादिसमृद्धिः यासां तथोक्ताः याः लताः ताभिः अञ्चितस्य युक्तस्य । पक्षे सुरभिः मनोहारिणी शुभा च या श्रीलता श्रीरस्यास्तीति श्रीलः सिध्मादित्वान्मत्वर्थीयो लच् ‘लक्ष्मीवान् लक्ष्मणश्श्रीलः इत्यमरः । तस्य भावः श्रीलता तया अञ्चितः तथोक्तस्य लक्ष्मीविशिष्टतया जगत्पूजितस्येत्यर्थः । तव न वनत्वं अवनत्वं विपिनत्वाभावः कथमिव । समृद्धलतान्वितत्वे वनत्वस्यावश्यंभावादिति भावः । अवतीत्यवनः तस्य भावः जगद्रक्षकत्वमिति तु वस्तुस्थितिः । यदि वा अथवा सकलाः ये पलाशिनः विटपिनः पलमश्नन्तीति पलाशिनः क्रव्यादाश्च तेषां व्रजस्य नाशयिता असि तत् पलाशिनाशनं इह तवावनत्वे हेतुः स्यात् । सकलतरुनिर्मूलयितृत्वमेव वनत्वाभावे कारणं स्यादिति भावः । पक्षे-- निखिलनिशिचरनिर्मूलयितृत्वस्यैव जगदवने हेतुत्वमिति भावः । अत्रापि पूर्वोदाहरण इव श्लेषोपजीवनेनैवाक्षेपनिषेधौ ॥


आक्षेपप्रकारान्तरम्.

निषेधो यो बाधितस्सन् विशेषं कंचिदाक्षिपेत् । वक्ष्यमाणोक्तविषयं तमाक्षेपं परे जगुः ॥

 यो निषेधो बाधितस्सन्नर्थान्तरपर्यवसितः कञ्चिद्विशेषमाक्षिपति सः निषेध इव निषेधः निषेधाभास इति यावत् । तं आक्षेपं इत्यलंकारसर्वस्वकारादय आहुः । अतएव ‘निषेधाभासमाक्षेपं बुधाः केचन मन्वते’ इति कुवलयानन्दे लक्षितम् । सोऽयं द्विविधः वक्ष्यमाणविषयः उक्तविषयश्चेति । तत्र यदि सामान्यतो वर्णनमुपक्षिप्य निषेधोऽभिधीयते तदा वक्ष्यमाणविषयः । अशक्यवक्तव्यत्वरूपविशेषप्रतीतिफलक उक्तविषय आक्षेपः अयमपि द्विविधः । क्वचिद्वस्तुमात्रनिषेधात् क्वचिद्वस्तुकथननिषेधात् । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एव । व्युत्क्रमेणोदाहरणानि ॥

 यथा--

 शृणु मम निर्वेदकथामणुमात्रीं ते निवेदयिष्यामि । घृणयाऽनाघ्राते त्वयि भणितव्यं नाम नाथ किंवाऽस्ति ॥ १०५५ ॥

 अत्र भगवन्तं प्रति कस्यचिन्निर्विण्णस्य वचने शृणु मम निर्वेदकथामिति सामान्यत उपक्रम्य भणितव्यं नाम नाथ किंवाऽस्तीति निषेधात्यन्तिकखेदोद्वेल्लनत्वेन दुर्वचतया अशक्यवक्तव्यताप्रतीतिफलको वक्ष्यमाणविषयोऽसावाक्षेपः वस्तुकथननिषेधात्मकः ॥

 दव इव भव इह खिद्ये मृग इव मृगपतिनगाग्रविद्युत्वन् । अलमलमनया कथयाऽप्यनादराणामवाकिनामग्रे ॥ १०५६ ॥

 वाचाऽप्यादरमकुर्वाणानामग्रे स्वदैन्यकथनं निष्प्रयोजनं त्वमप्यवाक्यनादर इति हि श्रुत इति भावः । अत्र ‘सर्वमिदमभ्यात्तोऽवाक्यनादरः’ इति शाण्डिल्यविद्याश्रुतिरनुसन्धेया । 'अनादरः अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः । अत एव अवाकी परिपूर्णैश्वर्यत्वाद्ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीनः' इति श्रुतेरर्थः । वाको वचनं वचेर्घञि ‘चजोः कुघिण्ण्यतोः’ इति कुत्वम् । सोऽस्य नास्तीत्यवाकी । अत्र भगवन्तं प्रति कस्यचिदार्तस्योक्तौ दव इव भव इह मृग इव खिद्ये इत्येकदेशमुक्त्वा अलमलमिति वक्तव्यशेषनिषेधात्तत्कथनस्य वैयर्थ्यं त्वत्स्वभावत एव सुव्यक्तमिति विशेषाभिव्यक्तेरुक्तविषयोऽयमाक्षेपः वस्तुकथननिषेधात्मकः । एवंचाक्षेपे इष्टोऽर्थः तस्य च निषेधः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन न निषेधविधिः । न वा विहितनिषेधः । किंतु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद्विधिपर्यवसानमित्याहुः ॥

 क्वचिदुच्यमानस्यैव निषेधो दृश्यत इति काव्यदर्पणकारः । तदेदमुदाहरणम्--

 पाहीति नियोक्तव्ये वक्तव्यं त्वयि नियोक्तरि न युक्तम् । रक्षेस्त्वमेव दीनान्किं प्रार्थनयेति तदिदमौदास्यम् ॥ १०५७ ॥

 तत्कुरु यदिच्छसि त्वं मुञ्चामि कथं भवन्तमिति धौर्त्यम् । रक्षन्नपि जगदखिलं कस्मान्मां नावसीत्यधिक्षेपः ॥ १०५८ ॥  जरदिभ एव हि मत्तोऽप्यासीत्प्रेष्ठस्तवेत्युपालम्भः । इति दोषविचारजडाः किं नु ब्रूमस्तवाग्रतो भूमन् ॥ १०५९ ॥

हे भूमन्निति भगवतस्संबोधनम् ॥ इदं विशेषकं

द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिश्श्लोकेर्विशेषकम् ।
कालापकं चतुर्भिस्स्यात्तदूर्ध्वं कुळकं स्मृतम् ॥

इति लक्षणात् । अत्र पाहीत्यादेरुच्यमानस्यैव नियोक्तरि त्वयि न युक्तमित्यादिना निषेधस्सर्वधाSपि त्वय्यर्पितभरा मुग्धतरा वयं त्वया नोपेक्षितुमर्हा इति विशेषमाक्षिपति ॥

 उक्तविषयो वस्तुनिषेधात्मक अक्षेपो यथा--

 सर्वज्ञाहं न कविस्सर्वसुहृत्त्वमसि किं मयाऽऽवेद्यम् । दीने वाऽदीने वा स्थाने विदधति भवादृशाः करुणाम् ॥ १०६० ॥

 सर्वज्ञेति भगवतस्सम्बोधनम् ॥ अत्र स्तोतरि कवौ नाहं कविरिति निषेधोऽनुपपद्यमानः अतिशयात्युक्त्यादिपूर्वकासंभावितार्थवर्णनपरिहारेण तथ्यवादित्वे विश्राम्यन् सर्वसुहृदा सर्वज्ञेन त्वया दीनोऽयं जनो नोपेक्षणीय इति सामान्यमुखेन विशेषमाक्षिपति । अत्र कविरूपवस्तुनिषेधः ॥

 यथावा--

 नूनं न मानुषोऽसावानन्दं यो गुणैस्तव न विन्देत् । सत्यं स च न मनुष्यो योऽत्यन्तं तैर्हरे सदाऽऽनन्देत् ॥ १०६१ ॥  अत्र भगवद्गुणैरनानन्दितरि तैरानन्दितरि च मानुषे न मानुष इति निषेधोऽनुपपद्यमानस्तयोः क्रमेण पिशाचदेवतुल्यतारूपविशेषमाक्षिपति ॥

 यथावा--

 न वदामि चाटु शौरे तव दासानां नृणां पुरन्ध्रिगणाः । मणिसौधाग्रगता विधुलक्ष्म दृशोरञ्जनार्थमाददते ॥ १०६२ ॥

 अत्र स्तोतुः कवेर्वचने प्रथमचरणे चाटुवादित्वनिषेधो बाधितो मृषावादित्वनिषेधात्मना पर्यवस्यन्नवशिष्टचरणत्रितयगतस्यार्थस्य सत्यत्वरूपं विशेषं व्यनक्ति । सत्यत्वं चास्य कविप्रौढोक्तिसिद्धम् । ‘चटु चाटु प्रिये वाक्ये' इति तत्वबोधिन्यामव्ययेषु पाठात् चाटु इत्येतदव्ययम् । क्लीबं वा । ‘अस्त्री चाटुश्चटुः’ इति कोशात् ।

 यथावा--

 गोविन्द नन्दनन्दन सुन्दर न त्वां समुत्सहे द्रष्टुम् । पश्यन्तु स्वैरं तास्स्वै रन्ता या विनोदयसि विहृतैः ॥ १०६३ ॥

 ताः ललनाः स्वां स्वैरं यथेप्सितं पश्यन्तु । चतुर्थचरणे स्वैः रन्ता याः इति छेदः । रन्ता विलासी त्वं याः ललनाः स्वैः निजैः विहृतैः विहारैः भावे क्तः विनोदयसि ताः पश्यन्त्वित्यन्वयः । अत्र भगवन्तं नन्दनन्दनं पश्यन्त्याः कस्याश्चिद्गोपमहिळाया उक्तौ आत्मनि तद्धर्शनोत्साहनिषेधोऽनुपपद्यमानस्सन् नायिकान्तरेष्विव मय्यननुरक्तोऽसि किं विधेयमिति दैन्यं द्योतयति ॥

निषेधाभासवद्विध्याभासोऽप्याक्षेप इष्यते ।

 तुल्यन्यायतया असत्येन विधिना निषेधस्याक्षेपे अपरोऽप्याक्षेप इत्यर्थः । अत्र अनिष्टोऽर्थः तस्य विधिः तस्याप्याभासत्वं अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यत इत्याहुः ॥

 यथा--

 दैवात्सत्पथमुपगतमेवं मां चेदुपेक्षसे बाढम् । भूयोऽप्यपथगमेनं श्रेयसि योजयसि कथमिति बिभेमि ॥ १०६ ४ ॥

 इदानीं यादृच्छिकादिसुकृतवशात्सन्मार्गसमीपगतं मां त्वमुपक्षसे चेत् बाढं तथैवोपेक्षस्वेत्यर्थः ।बाढमित्यङ्गीकारेऽव्ययम् । अत्र च कस्यचिद्भगवद्भक्तस्य परमपुरुषं प्रत्युपेक्षाप्रार्थनं विधीयमानमनुपपद्यमानं तद्विध्याभासतया निषेधमेवावगमयति । उपेक्षस्वेति विधिर्व्यक्तः । मोपेक्षिष्ठा इति निषेधस्तु भूयोऽपि कर्मवशादपथप्रवृत्तमेनं मामुचिते श्रेयसि प्रवर्तयितुं तव महान् प्रयासस्स्यादिति भयप्रदर्शनेन तिरोहितः । अत एव

"आक्षेपोऽन्यो विधौ व्यक्ते प्रतिषेधे तिरोहिते" ।

इति कुवलयानन्दकारैरयं प्रकारो लक्षितः ॥

इत्यलङ्कारमणिहारे आक्षेपसरश्चतुस्त्रिंशः ॥


    1. 34end##