अलङ्कारमणिहारः (भागः २)/विरोधालंकारः (३५)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ विरोधमूला अलंकाराः.


(३५) तत्र विरोधालंकारसरः.

स विरोधोऽविरोधेऽपि विरोधाभासता यदि ।
जात्यादीनां स्वस्वपरसंबन्धाद्दशधा भवेत् ॥

 परमार्थतो विरोधाभावेपि यत्रापाततो विरोधो भासते स विरोधालङ्कारः । विरोधश्च प्ररूढोऽप्ररूढश्चेति द्विविधः । प्ररोहश्च बाधबुद्ध्यनभिभृतत्वं, तद्वैपरीत्यमप्ररोहः । तत्राद्यो दोषस्य विषयः द्वितीयस्त्वलङ्कारस्य । अत एवेममाचक्षते विरोधाभासम् । आ ईषत् भासत इत्याभासः विरोधश्चासावाभासश्चेति । आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत् । तत्रापि कार्यकारणादिबुद्ध्यनालीढो विरोधाभासो विरोधालंकारः । तदालीढस्तु विभावनादिर्वक्ष्यमाणः। अयं च जातिगुणक्रियाद्रव्याणां स्वेन स्वेतरेण च सह योगाद्भवति । एवं च जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रियायाः क्रियाद्रव्याभ्यां, द्रव्यस्य द्रव्येणैवेति दश भेदाः पर्यवसन्नाः । तथाचोक्तम्--

जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणस्त्रिभिः।
क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश ॥

इति । गुणेन सह जातेर्विरोधस्तु पृथङ्नोक्तः, जातेर्गुणविरोध एव तदन्तर्भावात् । एवमुत्तरत्रापि बोध्यम्। क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना, नापि नैयायिकानामिव स्पन्दरूपा । किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपेति ध्येयम् ॥  तत्र जातेर्जात्या विरोधो यथा--

 रम्याणि विमानान्यतिसौम्यानि सरांसि संसदश्चतथा । स्थानस्य तव परात्मन्नूनं नरका भवन्ति नरकारे ॥ १०६५ ॥

 अत्र विमानादिजातेर्नरकजात्या विरोधः । अयं पुरस्स्फुरन्नपि जात्योर्विरोधो वक्ष्यमाणवचनेन भगवत्स्थानापेक्षयाऽतिमात्रहेयतया नरकतुल्या भवन्तीति विमर्शेन निवर्तते । अत्र--

रम्याणि कामचारीणि विमानानि सभास्तथा ।
आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः ॥
एते वै निरयास्तात स्थानस्य परमात्मनः ।

इति महाभारतप्रमाणार्थोऽनुसंहितः ॥

 जातेर्गुणेन यथा--

 घनसारचन्दनाचलवनसारिमरुत्किशोरशशिकिरणाः । त्वद्ध्यानशीतलहृदां तिग्मकरादपि च नाथ तिग्मतराः ॥ १०६६ ॥

 अत्र घनसारादिजातेस्तिग्मतरत्वरूपगुणेन सह विरोधः ॥

 जातेः क्रियया यथा--

 नीराजयमानो घनसाराखण्डप्रदीप एष त्वाम् । वेङ्कटनाथ विलोचनपङ्करुहाण्याशु शिशिरयति नॄणाम् ॥ १०६७ ॥

 अत्र दीपत्वजातेर्लोचनशिशिरीकरणक्रियया सह विरोधः ॥  जातेः द्रव्येण यथा--

 दशरथतनयो धन्वी विशकलयन् दश दिशोऽपि विष्फारैः । दशमुखपुरसदनानां शशिवदनानामभूद्युगान्ताग्निः ॥ १०६८ ॥

 अत्राग्नित्वरूपजातेर्दशरथतनयलक्षणद्रव्येण सह विरोधः ॥

 अयं श्लेषमूलकोऽपि भवति । तत्र जातेर्जातिगुणक्रियाद्रव्यैर्विरोधो यथा--

 श्रीशस्य पृथुलसत्त्वः क्रीडाद्रिर्मृदुलताभिरामतनुः । द्यामुत्पतति महिम्नाऽनन्ताख्योऽयं महत्किलाश्चर्यम् ॥ १०६९ ॥

 श्रीशस्य श्रीनिवासस्य क्रीडाद्रिर्विहाराचलः ।अत्राद्रित्वजातेः पृथुलश्चासौ सत्त्वः जन्तुरिति जात्या विरोधः । पृथुलास्सत्त्वाः प्राणिनो यस्मिन्निति वा, पृथु लसतो भावः लसत्त्वं प्रकाशो यस्येति वा, परिहारः । मृदुलतया मृदुत्वेन अभिरामतनुरिति गुणेन विरोधः, मृदवश्च ताः लताश्च ताभिरभिरामतनुरिति परिहारः । महिम्ना महत्त्वेन गुरुत्वेन द्यामुत्पततीति क्रियया विरोधः, प्रभावेन दिवमप्यतिशेते इति परिहारः । अयमद्रिः अनन्तं अन्तरिक्षमित्याख्या यस्य स तथोक्तः । आकाशत्वमेकव्यक्तिकत्वान्न जातिरिति द्रव्येण तेनाद्रित्वरूपजातेस्तदनधिकरणत्वरूपविरोधः । शेषाख्य इति तदभावः ॥

 यथावा--

 तव वाहनं पतङ्गोऽप्याशुग उन्निद्रकुवलयामोदः । उत्तम्भितोत्तमश्श्रीर्भवति जगन्नाथ कुमुदसुहृदेषः ॥ १०७० ॥  अत्र तव वाहनं पतङ्गः भानुमानपीति जातेः आशुगः मारुत इति जात्या विरोधः विहङ्गः शीघ्रगामीति समाहितः । उन्निद्रः कुवलयानां आमोदः परिमळः येन स इति गुणेन विरोधः प्रकाशितपृथ्वीमण्डलप्रमोद इति समाहितः । उत्तम्भिता उन्नमिता तमसां श्रीर्येन स इति तमउत्तम्भनक्रियया विरोधः । अभिवर्धितश्रेष्ठसंपदिति परिहृतः । कुमुदसुहृत् चन्द्रमाः कुमुदसुहृत्त्वमेकव्यक्तिवृत्तित्वान्न जातिरिति द्रव्यशब्दोऽयं तेन सूर्यत्वजातेस्तत्समवेतत्वविरहरूपो विरोधः । सूर्यत्वस्य द्वादशसूर्यव्यक्तिवृत्तितया जातित्वम् । कुत्सितमुदां हेयविषयाभिलाषवतां असुहृत् विरोधिति वा, कुत्सिता पापिनी मुत् येषां तेषां दैत्यदानवादीनां असून् प्राणान् हरतीति तथोक्त इति वा समाहितः । अत्र द्वयोरपि विरोधिनोः श्लिष्टत्वं पूर्वत्रैकस्यैवेति विशेषः ॥

एवं जातेर्जात्यादिभिश्चतुर्भिर्विरोध उक्तः ॥

 अथ गुणस्य गुणेन विरोधो यथा--

 सम्मार्जनविधुरतया सधूळयो दुर्विधालयाळिन्दाः । त्वयि पश्यति दानझरैर्वेङ्कटगिरिनाथ पङ्किला जाताः ॥ १०७१ ॥

 अत्र सधूळित्वगुणस्य पङ्किलत्वगुणेन विरोधः भगवत्कटाक्षप्रभावेन तत्संभवात्कालभेदेन परिहृतः ॥

 यथावा--

 वालिदशाननमुखनिर्मूलनबाणं पुरो रघुधुरीणम् । निध्यायतो मघवतो मानसमाविलमभूत्प्रसन्नं च ॥ १०७२ ॥  निध्यायतः पश्यतः। अत्राविलत्वप्रसन्नत्वयोर्गुणयोर्विरोधः । स्वतनयवालिस्वविरोधिदशाननादिवधरूपनिमित्तभेदेन परिहृतः ॥

 गुणस्य क्रियया विरोधो यथा--

 भवतः परितस्तपतां भवतश्चरितानि नाथ निशमयताम् । उद्यदमन्दनन्दान्यपि बत मन्दीभवन्ति चेतांसि ॥ १०७३ ॥

 अत्र उद्यदमन्दानन्दत्वरूपगुणस्य मन्दीभवनक्रियया विरोधः । विगळितवेद्यान्तराणि भवन्तीति परिहारः ॥

 गुणस्य द्रव्येण यथा--

 त्वयि विन्यस्तस्वान्ता विजयन्तां ते चिरं भुवि महान्तः । अणुरपि येभ्यो दत्तो गुणवद्भ्योऽब्जाक्ष भवति मेरुगिरिः ॥ १०७४ ॥

 अत्राणुत्वरूपगुणस्य मेरुगिरिरूपद्रव्येण विरोधः । अल्पोऽपि पदार्थो महाफलप्रद इति परिहारः ॥

 यथावा--

 तेभ्यो नमोऽस्तु सद्भ्यः परमं ये हृदि निधाय तद्ब्रह्म । स्वगुणैर्निस्पन्दतमं रचयन्तो दृढतमैरणुमकार्षुः ॥ १०७५ ॥

 अत्राणुत्वरूपगुणस्य निरतिशयबृहत्त्वयोगिपरब्रह्मरूपद्रव्येण सह विरोधः ‘ज्यायान् पृथिव्या ज्यायानन्तरिक्षात्' इत्यादिना सर्वस्माज्ज्यायस्त्वेन श्रुतस्य परस्य ब्रह्मण उपासनार्थं हृदयायतनावच्छेदेनावस्थापितत्वादिदमणुत्वमिति परिहारः । तथाच श्रूयते 'एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा' इति । पूर्वत्र गुणस्य द्रव्येण विरोधः अत्र तु द्रव्यस्य गुणेनेति विशेषः ॥ दृढतमैः गुणैः रज्जुभिः उपासनौपयिकगुणैश्च निस्पन्दं रचयन्तः वध्नन्तः दृढमवस्थापयन्तश्च सन्तः तद्ब्रह्म अणुमकार्षुरिति योजना ॥ निस्पन्देत्यत्र स्पदेरषोपदेशत्वान्न षत्वम् । तथाच वामनः 'निष्पन्द इति षत्वं चिन्त्यं लक्षणादर्शनात्’ इति । एतच्चास्माभिर्विस्तरेण निरूपितं हंससंदेशरसास्वादिन्यां ‘न्यस्तनिस्पन्ददृष्टिः' इत्यत्र ॥

 श्लेषमूलको गुणस्य गुणक्रियया द्रव्यैर्विरोधो यथा--

 मृदुलाऽप्यद्भुतमूर्तिर्मुग्धाऽपि जगद्धितानि वितनोषि । 'अतिचञ्चलाऽपि धात्री विचित्रमेतद्रमे तव चरित्रम् ॥ १०७६ ॥

 हे रमे! त्वं मृदुला कोमलावयवेति गुणस्य अद्भुता मूर्तिः काठिन्यं यस्या इति गुणेन विरोधः, दयामृदुहृदया सापराधैरपि सहसाऽऽश्रयितुं शक्या लोकोत्तरदिव्यविग्रहेति परिहारः । 'मूर्तिः काठिन्यकाययोः' इत्यमरः । मुग्धा अज्ञाऽपीति गुणस्य जगद्धितानि वितनोषीति क्रियया विरोधः, अज्ञानां तत्करणानीश्वरत्वात् । मुग्धा सुन्दरीति परिहारः 'मुग्धस्सुन्दरमूढयोः' इति विश्वः । अतिचञ्चलापीति गुणस्य धात्री भूमिरिति द्रव्येण विरोधः । अचलात्वात्तस्याः । अतिक्रान्ता चञ्चलामतिचञ्चला दीप्त्यतिशयपरास्तविद्युल्लता जगतां मातेति परिहारः । 'धात्री जनन्यामलकीवसुमत्युपमातृषु' इति मेदिनी ॥  यथावा--

 पीतांशुकोऽपि भगवंश्चित्रं हरिताभिराम एव त्वम् । विशदयसि च निजरुच्या जगदखिलं भवसि चापि भूतेशः ॥ १०७७ ॥

 पीताः अंशवः किरणाः यस्य स पीतांशुक इति गुणस्य हरितेन हरिद्वर्णेन अभिराम इति गुणेन सह विरोधः । पीताम्बर इति हरेर्भावो हरिता तया अभिराम इति परिहारः । अखिल जगत् निजया रुच्या दीप्त्या विशदयसि धवळ सीति क्रियया विरोधः । निजरुच्या स्वविषयकप्रीत्या विशदयसि निर्मलयसीति परिहारः । भूतेशः रुद्र इति द्रव्येण विरोधः । तस्य पाण्हुरवर्णद्रव्यतया पीतवर्णत्वायोगात् । 'एष भूतेश्वर एष भूतपालः' इति श्रुतेस्सर्वभूतेश्वर इत्यविरोधः । अत्रैकस्यैव पीतांशुकत्वगुणस्य गुणक्रियाद्रव्यैर्विरोध उक्तः । पूर्वत्र तु मृदुलत्वादीनां भिन्नभिन्नानां गुणानां प्रत्येकं गुणादिभिर्विरोध इति वैलक्षण्यं बोध्यम् ॥

एवं गुणस्य गुणादिभिस्त्रिभिर्विरोधो दर्शितः ॥

 अथ क्रियायाः क्रियया यथा--

 आपततां युधि पुरतो द्विषतां महतां शिरांसि चक्रेण । छिन्दन्नमन्दमेषां मुकुन्द विदधासि परममानन्दम् ॥ १०७८ ॥

 अत्र छेदनक्रियाया आनन्दनक्रियया विरोधः । मुक्तौ निरतिशयस्वानन्दानुभवं वितरसीति तदभावः ॥  यथावा--

 सकलेप्सितार्थदाता दुरधिगमो बहुतरैस्तपोभिरपि । विनतान् सुखाकरोषि त्वं ननु दुःखाकरोषि चाब्जाक्ष ॥ १०७९ ॥

 अत्र सुखाकरणदुःखाकरणक्रिययोर्विरोधः । यथासंख्यं पूर्वार्धोक्तावच्छेदकद्वयसद्भावेन तदभावः । सुखाकरोषि दुःखाकरोषीत्युभयत्रापि ‘सुखप्रियादानुलोम्ये । दुःखात्प्रातिलोम्ये' इति डाच् ॥

 यथावा--

 सरभसकरसरसिजधृतसुदर्शनं दैवतैश्च दुर्दर्शम् । भृशमन्वरङ्क्त भीष्मो जिघांसुमपि कंसहिंसनं वीक्ष्य ॥ १०८० ॥

 सुदर्शनमित्यत्र सुष्ठु दृश्यत इति विग्रहः । ‘भाषायां शसियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः' इति खलोऽपवादो युच् । दुर्दर्शमित्यत्र तु दर्शः दर्शनं दृशेर्भावे घञ् । दुष्करो दर्शो यस्य स इति विग्रहः । न तु दुःखेन दृश्यत इति । तथा सति दुर्दर्शन इति स्यात् उदाहृतवार्तिकात् । न च वासरूपविधिना खलपवादस्य युचो वैकल्पिकत्वान्निर्वाहः, तन्निषेधस्य "क्तल्युंट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति' इति परिभाषितत्वात् । तस्मादुक्तरीत्या बहुव्रीहिणैव निर्वाहो युक्तः । एवमेव ‘तं दुर्दर्शं, सुदुर्दर्शमिदं रूपं, दुर्दर्शं शशिखण्डमण्डन’ इत्यादिश्रुतिस्मृत्यर्वाचीनप्रयोगा निर्वाह्याः । अत्र जिघांसुदर्शनानुरञ्जनक्रिययोर्विरोधः अन्वरङ्क्तेत्यत्र अनुपूर्वकाद्रञ्जेर्लङ् ॥  क्रियाया द्रव्येण विरोधो यथा--

 मारुतकुक्षिंभरिगिरिदूरतरोत्तुङ्गशृङ्गसङ्गि महः । वारितकलुषं द्विषतां भूरितरं मलिनिमानमातनुते ॥ १०८१ ॥

 अत्र मलिनिमाधानक्रियायाः महस्त्वेनाध्यवसितभगवद्रूपद्रव्येण सह विरोधः ॥

 यथावा--

 रघुतनयवटुत्रुटितोद्भटनटचापस्फुटस्वनाटोपैः । फालाक्षोऽपि चकम्पे पफाल च द्यौः पपात भुवि च ग्लौः ॥ १०८२ ॥

 अत्र कम्पादिक्रियाणां फालाक्षादिद्रव्यैर्विरोधः । पुरहरशरासनभञ्जनजनितनिर्घोषातिशयोक्त्या परिहृतः ॥

एवं क्रियायाः क्रियाद्रव्याभ्यां विरोधो दर्शितः ॥

 द्रव्यस्य द्रव्येण विरोधो यथा--

 विततायां तव कीर्त्यां सततं जगदखिलमतिविशदयन्त्याम् । कनकगिरिः कैलासो व्यालाधिपशैलशेखर बभूव ॥ १०८३ ॥

 अत्र कनकगिरिरूपद्रव्यस्य कैलासरूपद्रव्येण विरोधः । कीर्तिधवलिमातिशयप्रशंसया परिह्रियते ॥

 श्लेषेण क्रियायाः क्रियाद्रव्याभ्यां द्रव्यस्य द्रव्येण च विरोधो यथा--

 दयमानस्सकलात्मसु विशन्नपि घृणां विमुञ्चसि गुणाब्धे । कामं सृजन्नपीशः कामं ब्रह्मासि तदपि बत भगवन् ॥ १०८४ ॥

 अत्र दयापूर्वकसर्वात्मान्तःप्रवेशक्रियायाः घृणां कृपां मुञ्चसीति क्रियया विरोधः । घृणां वात्सल्यातिशयात्कष्टभूतदेहान्तरवस्थानाज्जुगुप्सां मुञ्चसि भोग्यमेव पश्यसीति परिहारः । कामं कंदर्पं सृजन्नपीति क्रियायाः ईश इति शर्वरूपद्रव्येण विरोधः । आश्रितसर्वेप्सितार्थदाता भूतभव्येशान इति परिहारः । अत्र--

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥

इति श्रुत्यर्थोऽनुसंहितः । तदपि एवं शर्वोऽपि ब्रह्मा चतुर्मुखोऽसीति द्रव्ययोर्विरोधः । ब्रह्म स्वरूपेण गुणैश्चानवधिकातिशयबृहत् परं ब्रह्मेति परिहारः ॥

 एवं प्राचामनुरोधेन विरोधभेदाः प्रदर्शिताः । अत्र लक्षणे जात्यादीनामिति धर्ममात्रं विवक्षितं, उपलक्षणपरत्वात् । तेन 'यः किल बालकोऽपि पुराणपुरुषः विशुद्धमूर्तिरपि नीलाम्बुदनिभः जगद्धितकृदपि जगदहितकृत् अगोद्धारकोऽपि नागोद्धारकः' इत्यादौ सखण्डोपाधेरभावस्य च परिग्रह इत्याहुः । वस्तुतो जात्यादिभेदानामहृद्यत्वात् शुद्धत्वश्लेषमूलत्वाभ्यां द्विविध एवायम् । अत एव ‘आभासत्वे विरोधस्य विरोधाभास इष्यते, इत्येतावदेव सामान्यता लक्षणमभिहितं कुवलयानन्दे । तेन प्रदर्शयिष्यमाणानि पद्यानि सर्वाण्यपि विरोधाभासोदाहरणान्येव भविष्यन्ति ॥  यथा--

 भुवि कृतपदोऽपि दिवि कृतपदो द्रमिडदेशगोऽपि सकलिङ्गः । अपि शशधरो विकासितशतपत्रक एष शेषगिरिराजः ॥ १०८५ ॥

 भुवि भूमौ कृतपदः क्लृप्तावस्थानोऽपि दिवि नभसि कृतपद इति विरोधः । दिविभिः चाषापरनामभिर्विहगैः कृतनीड इति परिहृतः । द्रमिडदेशगोऽपि सकलिङ्गः कलिङ्गदेशसहित इति विरोधः । धूम्याटापरनामविहगसहित इति परिहृतः । शशधरः चन्द्रोऽपि विकासितानि शतपत्राणि कुशेशयानि येन स इति विरोधः । शशाख्यमृगविशेषावासभूतः उल्लासितदार्वाघाटाख्यखगविशेष इति परिहृतः । “अथ चाषः किकी दिविः । कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः । दार्वाघाटः" इत्यमरः ॥

 यश्शिरसि फणादिभ्राट्पुरुषं धारयति शेषगिरिभूतः । अयमेव कुं विचित्रं मूर्धनि धत्तेहिराजिसहचरितः ॥ १०८६ ॥

 शेषस्य पतञ्जलितयाऽवतीर्णस्य गिरि वाचि महाभाष्ये भूतः स्थितः । यः फणादिभ्राट् फणादौ फणधातुप्रभृतिधातुगणे विद्यमानः भ्राट् 'टु भ्राजृ दीप्तौ’ इति धातुः । शिरसि अन्तिमवर्णे जकारे इति यावत् । पुरु भूयिष्ठं ‘पुरुभूः पुरु भूयिष्ठम्' इत्यमरः । अनितरबाधितं यथा स्यात्तथा नित्यमेवेति यावत् । षं "व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः” इति विहितं टकारपरमस्थानिभूतं षवर्णं धारयति धत्ते । राजिसहचरितः राजीति इका निर्देशः राजिना ‘राजृ दीप्तौ’ इति धातुना सहचरितः अस्यापि फणादौ पाठादिति भावः । अयमेव ‘टु भ्राजृ दीप्तौ’ इत्युक्तो धातुरेव । मूर्धनि अन्तिमवर्णे इति यावत् । कुं ‘चोः कुः' इति विहितं कवर्गादेशम् । हिशब्दोऽवधारणे । तमेवेत्यर्थः । धत्ते इति विचित्रम् । फणादेर्भ्राजेः कुत्वापवादेन षत्वविधानात् । ‘एजृ भ्रेजृ भ्राजृ दीप्तौ’ इत्युक्तभ्राजृधातुवत्कवर्गादेशवत्त्वं विरुद्धमिति भावः । यथोच्यते कौमुदीग्रन्थे-- ‘षत्वविधौ राजृसाहचर्यात् ‘टु भ्राजृ दीप्तौ’ इति फणादिरेव गृह्यते । यस्तु ‘एजृ भ्रेजृ भ्राजृ दीप्तौ' इति तस्य कुत्वमेव" इति । परिहारस्तु-- फणाः स्फटाः आदिशब्दाद्रसनाशिरोरत्नादीनां ग्रहणम् । फणाः आदयो येषां ते तैः भ्राजत इति फणादिभ्राट् फणादिशब्दोपपदकात् 'टु भ्राजृ दीप्तौ’ इति धातोः क्विप् । व्रश्चेति षत्वे जश्त्वेन डः । तस्य चर्त्वेन टः । यः फणिराज इति भावः । शेषगिरिभूतः शेषाद्रितां प्राप्तस्सन् मूर्धनि स्वशिखरे पुरुषं परमपुरुषं श्रीनिवासं धारयति । अयमेव असौ फणिराज एव अहिराजिसहचरित इति समस्तं पदम् । अहीनां फणिनां राज्या श्रेण्या सहचरितः पाताळे फणिश्रेणिमिळितस्सन् तदधीश्वरत्वात्तस्य । मूर्धनि फणमण्डले कुं पृथिवीं ‘गोत्रा कुः पृथिवी' इत्यमरः । धत्ते । यश्शेषाचलरूपावलम्बी श्रीनिवासं स्वशिरसि दधाति स एव फणिराजस्सकलधरातलं शिरस्थले वहतीति निर्गळितोऽर्थः ॥

 तावकचरणाम्भोरुहसेवकवर्गः फणीन्द्रगिरिभास्वन् । संख्यातिगभद्रोऽपि स्फुरति चतुर्भद्रभाग्विचित्रमिदम् ॥ १०८७ ॥ संख्यातिगाः असंख्याकाः भद्राः गजजातिविशेषाः 'मन्दो भद्रा मृगश्चेति विज्ञेयास्त्रिविधा गजाः’ इत्यनुशासनात् । यद्वा असंख्याकमङ्गळोऽपीत्यर्थः । चतुर्भद्रः चत्वार एव भद्राः भद्राणि वा यस्य स तथोक्त इत्यवधारणगर्भो बहुव्रीहिः ‘अब्भक्षः' इतिवत् । स्फुरतीतीदं चित्रम् । परिहारस्तु— चतुर्भद्रं बलवद्धर्मार्थकाममोक्षरूपं चतुर्भद्रम् । यथोक्तममरसिंहेन "त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गस्समोक्षकैः । सबलैस्तैश्चतुर्भद्रम्" इति । चत्वारि भद्राणि श्रेष्ठान्यस्मिन्निति वा । चतुर्णां भद्राणां समाहार इति वा विग्रह इत्याहुः । अन्ये तु--

वित्तं त्यागसमेतं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।
भोगस्सङ्गविहीनो दुर्लभमेतच्चतुर्भद्रम् ॥

इत्याहुः । इदं च भारतीयषोडशराजकप्रत्यध्यायश्रूयमाणस्य 'चतुर्भद्रतरस्त्वया' इत्यस्य व्याख्यायां स्पष्टम् । तद्भजतीति चतुर्भद्रभागिति । ‘भद्रश्शिवे खञ्जरीटे वृषभे च कदम्बके । करिजातिप्रभेदे ना क्लीबं मङ्गळमुस्तयोः' इति मेदिनी ॥

 हन्त यदारोपयिता चापं रोपं तदैव चापयिता । हस्तेऽकरोः पुरा सद्वेषक्षितिजश्रियं रघुकुलेन्दो ॥ १०८८ ॥

हे रघुकुलेन्दो! यदा त्वं चापं धनुः रोपयिता रोपं बाणं करोतीति तथोक्त इति विरोधः । रोपशब्दात् ण्यन्तात्त्तृच् । 'पत्री रोप इषुर्द्वयोः' इत्यमरः । आरोपयितेति च्छेदः । अधिज्यं कर्तेति परिहारः । रुहेर्णिचि 'रुहः पोऽन्यतरस्याम्' इति पादेशः तदैव चापारोपणसमय एव रोपं बाणं चापयिता चापं धनुः करोतीति तथोक्त इति विरोधः । च आपयितेति छेदः । तदैव आपयिता धनुः प्रापयिता च बाणं धनुषि संदधत्सन्नित्यर्थः । पुरा सन् प्रशस्तो वेषो यस्यास्सा क्षितिभूः भूमिजा श्रीः सीतात्वेनावतीर्णां लक्ष्मीः ताम् । पक्षे-- द्वेषेण सहिताः सद्वेषाः वैरिणः तेषां क्षितौ तत्संबन्धिन्यां भूमौ जाता या श्रीः संपत् तां हस्तेऽकरोः पर्यणैषीः । पक्षे--वशेऽकार्षीरित्यर्थः ॥

 त्वय्यभिमुखोऽनभिमुखो हिरण्यभाक्स्यादरण्यभाक्च श्रीः । भेदो यद्यप्यनयोर्भवत्यथापि ह्यभेद इति चित्रम् ॥ १०८९ ॥

 हे श्रीः! त्वयि अभिमुखः हिरण्यभाक् सुवर्णोपलक्षितमहाविभवभाक् स्यात् । अनभिमुखस्तु अरण्यभाक् म्यात् भ्रष्टैश्वर्यो वनं प्रविशेदित्यर्थः । एवमनयोः भेदः उक्तरीत्या वैलक्षण्यं यद्यपि भवति भवत्येव ‘यद्यपीत्यवधारणे' इति केशवः । तथाऽपि अभेद एव भवति हीति विरोधः । ह्यभेद इति समस्तं पदम् । हिवर्णावर्णाभ्यामेव भेदो भवतीति परिहारः। हिरण्यभाक् अरण्यभाक् इति शब्दयोः हि अ इति वर्णाभ्यामेव भिदा अन्यानुपूर्व्योस्तुल्यत्वादिति भावः । शब्दार्थतादात्म्यमूलकोऽयं श्लेषेण विरोधः ॥

 दामोदरहिततां यो न विन्दते ननु मुकुन्दचन्द्रमुखि । विस्माययति समस्तानेष सदामोदरहिततां विन्दन् ॥ १०९० ॥

 ननु मुकुन्दचन्द्रमुखि! यः दामोदरस्य हिततां न विन्दते सः दामोदरहिततामिति छेदः । स एषः दामोहरहिततां विन्दन् समस्तान् विस्माययतीति विरोधः । परिहारस्तु सदामोदेत्यादि समस्तं पदम् । सन् प्रशस्तः यः आमोदः आनन्दः भगवत्कल्याणगुणानुभवजनित इति भावः । तेन रहिततां विन्दन्निति ॥

 असुरमहोक्षोऽत्युच्चैस्स्वरोऽथ मोहश्रितः परमुपेत्य । मिषतां नॄणामासीदसुमोक्षोऽग्रेऽच्युतात्सुमोक्षश्च ॥ १०९१ ॥

 असुरश्चासौ महोक्षश्च असुरमहोक्षः । वृषभासुर इत्यर्थः । महाराजदशरथ इतिवदयं निर्देशः । परं अतिमात्रं मोहं श्रितः 'द्वितीया श्रित’ इति समासः । भगवन्नन्दनन्दनकर्मकजिघांसा स्वानर्थस्यैव हेतुरित्यजानान इति भावः । अत एव अथ अत्युच्चैः स्वरो यस्य स तथोक्तस्सन् उपेत्य नॄणां मिषतां सर्वेषु जनेषु पश्यत्स्वेव अच्युताद्भगवतो वासुदेवात् स्ववधहेतुभूतात् असुमोक्षः शोभनमोक्षरहितोऽपि अग्रे सुमोक्षश्चासीदिति विरोधः । असून् प्राणान् मोक्षयते त्यजतीत्यसुमोक्षः शोभनो मोक्षो मुक्तिर्यस्य सः सुमोक्षश्चासीदिति परिहारः ‘मोक्ष अवसाने' इति चौरादिकत्वेन धातुवृत्तिपठिताद्धातोः कर्मण्यण् । अवसानं क्षेपः । ‘मोक्षो निश्श्रेयसे वृक्षविशेषे मोचने मृतौ’ इति हेमः ॥

 पक्षे-- अत्युच्चैः बहुवर्णसमुदायरूपत्वादतिमहानिति यावत् । असुरमहोक्षः असुरमहोक्षशब्दः स्वरः सुष्ठु अरः रेफरहितः अथ अनन्तरं सः अहश्रित इति छेदः । मः इति पञ्चम्येकवचनम् । मकारात् परं अनन्तरं अहश्रितः अहो इति स्वरव्यञ्जनाभ्यां अश्रितः रहितस्सन् मिषतां द्रष्टॄणां नॄणां असुमोक्षः आसीत् असुमोक्षशब्दतया दृश्योऽभूदिति भावः । अग्रे आदौ अच्युतात् च्युतशब्दो भावे क्तान्तः अवर्णच्युतेरित्यर्थः । सुमोक्षश्च सुमोक्षशब्दश्चासीत् तथा दृश्योऽभूदिति भावः । असुरमहोक्षशब्दो रेफेण अह् इति स्वरव्यञ्जनरूपवर्णाभ्यां च विश्लिष्टअसुमोक्ष इति निष्पद्यमानः अनन्तरं प्राथमिकेन अवर्णेन विधुरस्सन् सुमोक्ष इति दृश्यो भवतीति परिनिष्पन्नोऽर्थः । प्रकृताप्रकृतश्लेषसंकीर्णोऽयम् ॥

 श्वस्थितिभाग्यं प्राप्ताववेक्षितोपेक्षितौ त्वया मनुजौ । अश्वस्थितिभाग्यजुषौ तथाऽपि चित्रं पृदाकुशिखरीन्दो ॥ १०९२ ॥

 श्वः स्थितिर्यस्य तत् श्वस्थिति श्वो विद्यमानं चिरकालावस्थायीति यावत् । भाग्यं शुभकर्मपरिपाकभूतमैश्वर्यं अन्यत्र शुनां स्थितिः मर्यादा अवस्थानं वा तद्रूपं भाग्यं अशुभकर्मपरिपाकभूतं दारिद्र्यमित्यर्थः । ‘भाग्यं कर्म शुभाशुभम्' इत्यमरः । तत् प्राप्तौ । तथाऽपि अश्वस्थितिभाग्यजुषौ इति विरोधः । अश्वानां स्थितिः अवस्थानं तद्रूपं भाग्यं अश्वारोहणैश्वर्यं उपलक्षणमिदं गजान्तैश्वर्यस्य । पक्षे-- श्वस्थिति न भवतीत्यश्वः स्थिति अत्यल्पकालिकमित्यर्थः । भाग्यं जुषेते इति तथोक्तौत्वत्कटाक्षितश्चिरकालानुभाव्यं चतुरङ्गबलैश्वर्यं लभते, त्वदुपेक्षितस्तु शुनकादिनिहीनजन्तुसंश्रयणादिरूपदौर्भाग्यं तदप्यत्यल्पकालिकमेवानुभवतीति निर्गळितोऽर्थः ॥

 प्रख्यातनीललोहितकपालिभावाददस्फुरदुदग्रम् । अग्रं फणिराजगिरेरुग्रत्वमुपैत्यनुग्रतां चाहो ॥ १०९३ ॥  उदग्रं उच्छ्रितं अदः इदं फणिराजगिरेः अग्रं नीललोहितश्चासौ कपाली च तस्य भावः प्रख्यातश्चासौ नललोहितकपालिभावश्च तस्माद्धेतोः, पक्षे प्रख्याताः नीलानां इन्द्रनीलमणीनां लोहितकानां पद्मरागाणां च पालयः पङ्क्तयः यस्मिंस्तत् प्रख्यातनीललोहितकपालि । तस्य भावात् तत्त्वात् ‘लोहितान्मणौ' इति कन् । 'शोणरत्नं लोहितकः पद्मरागः' इत्यमरः । स्फुरत् इति योजना । प्रकाशमानमित्यर्थः । अत एव उग्रत्वं रुद्रत्वं तत्तौल्यमिति यावत् । अनुग्रतां अरुद्रतां च उपैतीति विरोधः अनुग्रतां अरौद्रतां सौम्यतामुपैतीति परिहारः । पक्षे--अग्रं श्रेष्ठं उदग्रमिति पदं अदस्फुरदिति समस्तं पदं दकारेणाप्रकाशमानं सत् उग्रत्वमुपैति उग्रशब्दो भवतीत्यर्थः । अथापि अनुग्रतां उग्र इति वर्णद्वयविरहिततामिति विरोधः । उग्रशब्दे उक्तवर्णसद्भावात् । अनु पश्चात् ग्रं ग्र इति वर्णसमुदयो यस्य तत्तथोक्तं तस्य भावं तत्तामिति परिहारः ॥

 पदलग्नं नाथ सदापदलग्नं संतनोषि मनुजं त्वम्। हन्त पदानाश्रितमपि सदापदाश्रितमुदारगुणजलधे ॥ १०९४ ॥

 पदलग्नं स्वचरणाश्रितं अपदलग्नं स्वचरणानाश्रितं संतनोषीति विरोधः । सदा आपदलग्नमिति छेदः । विपदनाश्रितमिति परिहारः । किंच सदा पदानाश्रितं स्वचरणानासक्तं पदाश्रितं स्वचरणानुरक्तं संतनोषीति विरोधः । सदा आपदाश्रितं विपद्युक्तमिति परिहारः ॥  शेषाचलाधिनेताऽप्यनघाशेषाचलाधिनेताऽसि । अपिच विभासुररूपोऽप्यविभासुररूप एव भगवंस्त्वम् ॥ १०९५ ॥

 शेषाचलाधिनेता न भवसीति विरोधः अशेषायाः अचलायाः भुवः अधिनेतेति व्युदस्तः । अविभासुररूपः विभासुररूपो न भवसीति विरोधः अविः भानुः स इव भासुररूप इति निरस्तः । अन्यत्सुगमम् ॥

 मेरुनगभासुरोऽपिच नमेरुनगभासुरो मृगेन्द्रगिरिः । अतिघनजपावनाढ्योऽप्यजपावन एव चित्रमिदम् ॥ १०९६ ॥

 नमेरुनगाः छायातरवः तैर्भासुरः । अजस्य ब्रह्मणोऽपि पावन इति च विरोधपरिहारः ॥

 शिशिरोऽप्यशीतकश्शुचिरसितश्श्लक्ष्णोऽप्य सूक्ष्म एवायम् । सुरभिरपि गन्धशून्यो द्विरसनधरणीधरेन्द्रमूर्धन्यः ॥ १०९७ ॥

 शिशिरः शीतलोऽप्यशीतकः शीतरहित इति विरोधः अविद्यमानं शीतं शीतगुणो यस्येति विग्रहः ‘शेषाद्विभाषा' इति कप् । दयाशीतलः अनलस इति परिहृतः ‘शीतोष्णाभ्यां कारिणि’ इति शीतशब्दात्करोतीत्यर्थे कन् । ‘आलस्यश्शीतकोऽलसोऽनुष्णः' इत्यमरः । शुचिरपि शुभ्रोऽपि असितः अशुभ्र इति विरोधः । शुचिः अपहतपाप्मा अत एव असितः अबद्धः कर्मबन्धरहित इति समाहितः । सिनोतेर्बन्धनाथकात्क र्मणि क्तः । श्लक्ष्णोऽपि कृशोऽपि असूक्ष्मः अकृश इति विरोधः श्लक्ष्णः प्रियंवदः असूक्ष्मः अकैतवः महानिति वा परिहृतः । ‘श्लक्ष्णं दभ्रं कृशं तनु, श्लक्ष्णः प्रियंवदः' इति चामरः ‘सूक्ष्मं स्यात्कैतवेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी । सुरभिस्सुगन्धिरपि गन्धशून्यः सौरभहीन इति विरोधः । मनोहरः अनवलेपश्चेति समाहितः ‘सुरभिश्चम्पके' इत्यारभ्य ‘सुगन्धौ च मनोज्ञे च' इति, ‘गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः’ इति च विश्वः ॥

 अनिमिषराजोऽचपलः प्रबलोऽपि त्वं न बाधसे विबलान् । चित्रं सुधीवराणां लुनासि गुणजालमखिलात्मन् ॥ १०९८ ॥

 हे अखिलात्मन्! त्वं अनिमिषराजः मत्स्यराजोऽपि अचपलः अमत्स्य इति विरोधः । देवाधिराजः अचञ्चलशील इत्यविरोधः 'सुरमत्स्यावनिमिषौ’ इत्यमरः । ‘चपलः पारदे मीने' इत्युपक्रम्य ‘वाच्यवत्तरळे चले' इति मेदिनी । प्रबलोऽपि विबलान् दुर्बलान् शकुलार्भकान् न बाधसे इति विरोधः । प्रबलेन दुर्बलस्य बाधो हि मत्स्यजातेस्स्वभावः । तदभावादिति भावः । सर्वेश्वरत्वेन सर्वस्मात्प्रबलस्त्वं स्वस्माहुर्बलान् चतुर्मुखादीन् न बाधसे इति परिहारः । शोभनाः धीवराः सुधीवराः तेषां प्रौढानां कैवर्तानामित्यर्थः । गुणजालं सूत्रमयमानायं लुनासीति विरोधः । सुधियां विदुषां वराः तेषां प्रकृतिबन्धं वियोजयसीति तदभावः ॥

 एधयसे नैधयसे पुरा विराधं भुजप्रतापाग्नौ । आशयसे नाशयसे क्रव्यादः खरमुखांश्च रघुवीर ॥  हे रघुवीर! भुजप्रतापाग्नौ विराधं पुरा एधयसे एधं इध्मं करोषि स्म नैधयसे इति विरोधः ‘पुरि लुङ् चास्मे’ इति भूते लट् । विराधं नैधयसे न वर्धयसे 'किंतु भुजप्रतापाग्नौ प्लोषयसि स्मेति योजनाभेदेन परिहारः । खरमुखान् निशिचरान् क्रव्यादः मांसाशिनः कङ्कजम्बुकादीन् तैरित्यर्थः । आशयसे पुरेत्येतदत्राप्यनुषज्यते । अभ्यवहारयसि स्म । नाशयसे नाभ्यवहारयसि स्मेति विरोधः खरप्रमुखान् खरदूषणादीन् नाशयसे ध्वंसयसि स्म । अथ क्रव्याद्भिः आशयसे स्मेति परिहारः पूर्ववत् । 'गतिबुद्धिप्रत्यवसान' इत्यादिना अश्नातेरणौ कर्तॄणां क्रव्यादां णौ कर्मत्वं ‘क्रव्याद्रक्षसि पुंसि स्यान्मांसादिन्यन्यलिङ्गकः' इति मेदिनी । अत्र श्लिष्टाभ्यां तिङन्तशब्दाभ्यां विरोधप्रदर्शनमिति विशेषः ॥

 रक्षसि न रक्षसि त्वं दयमानमना जगन्ति दाशरथे । स भवान् कृताभिषेको रराज नरराज विस्मयायैतत् ॥ ११०० ॥

 हे दाशरथे! त्वं दयमानमनास्सन् जगन्ति रक्षसि पालयसि न रक्षसीति विरोधः । परिहारस्तु रक्षसीति जात्यभिप्रायकमेकवचनम् । राक्षसजातौ न दयमानमना इति व्यवहितेन नञा योजना ‘कुर्वन्तमित्यतिभरेण न गानवाचः पुष्पैर्विराममळिनां च न गानवाचः' इत्यत्र न विराममितिवत् । 'वायसे कृतवान्क्रूरां मतिम्’ इत्युक्तरीत्या क्रौर्यं भजन्नित्यर्थः । जगन्ति रक्षसीति । रक्षोजातौ तव दयमानमनस्कत्वे कथं जगद्रक्षणं स्यादिति भावः । स भवान् एवं राक्षसकुलक्षपयिता भवान् । कृताभिषेकः साकेते राज्याभिषेकं प्राप्तस्सन् रराज दिदीपे । न रराजेति विरोधः । नराणां राजा नरराजः तस्य संबुद्धिः हे नरेन्द्रेति परिहारः । तिङन्तसुबन्तशब्दश्लेषमूलकोऽयं विरोध इति पूर्वस्माद्वैलक्षण्यम् ॥

एवं श्लेषमूलको विरोधालंकारः प्रपञ्चितः ॥

 अयमेव शुद्धो यथा--

 एजति तन्नैजति तत्तद्दूरे तद्वदन्तिके भवति । अन्तर्बहिश्च युगपज्जगतोऽस्य तदद्भुतं परं ब्रह्म ॥

 अत्र--

तदेजति तन्नैजति । तद्दूरे तद्वदन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥

इति श्रुत्यर्थोऽनुसंहितः । तथाहि-- तत् परं ब्रह्म । युगपदिति सर्वत्रान्वेति एजति कम्पते नैजति न कम्पते इति विरोधः । जवीय इव ज्ञायते वस्तुतो न कम्पते इति परिहारः । ‘अनेजदेकं मनसो जवीयः' इति पूर्वमन्त्रैकार्थ्यात् । तत् ब्रह्म दूरे तद्वत् अन्तिके च भवतीति विरोधः । आसुरदैवप्रकृतिपुरुषापेक्षोऽयं विभोरेव दूरान्तिकवर्तित्वव्यपदेश इति परिहारः । आह च भगवान् शौनकः--

पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् ।
तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ॥
तन्मयत्वेन गोविन्दे ये नरा न्वस्तचेतसः ।
विषयत्यागिनां तेषां विज्ञेयं च तदन्तिके ॥

इति । तत् ब्रह्म अस्य जगतः अन्तः बहिश्व युगपद्भवतीति विरोधः। लोके गृहान्तर्वर्तिनां जनानां तदानीमेव बहिस्स्थित्यदर्शनात् । परिहारस्तु सर्वव्यापकतया तत्संभवादिति । तथा तैत्तिरीयके च श्रूयते-- 'अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' इति । तद्ब्रह्म अद्भुतं आश्चर्यरूपमित्यर्थः । अयं श्लेषगन्धविश्लिष्टश्शुद्धो विरोधाभासः । श्रुतिरेवेदृशालंकारमार्गप्रदर्शयित्रीति ज्ञापयितुं श्रुत्युक्तार्थ एवात्र निबद्धः ॥

 इदमत्र बोध्यम्-- यत्रापिशब्दो विरोधद्योतकः तत्र विरोधश्शाब्दः । अन्यत्र त्वार्थ इति तावत्प्राचीनानां राद्धान्तः । तत्र यद्यपि विरोधस्य शाब्दत्वं न शब्दजन्यज्ञानविषयत्वं, विशेष्यविशेषणसंसर्गातिरिक्तस्य शाब्दे क्वाप्यभानात् । न च 'त्रयोऽप्यत्रयः’ इत्यादौ नञुत्तरपदार्थयोरन्वये प्रतियोगित्वस्य ससर्गत्वात्तस्यैव विरोधपदार्थत्वात्संसर्गतयैव तद्भानमिति वाच्यम् 'सुप्तोऽपि प्रबुद्धः' इत्यादौ तथाऽप्यगतेः । न च तत्रापि लक्षणया सुप्तत्वविरुद्धप्रबुद्धत्ववदभिन्नस्सुप्त इति बोध इति वाच्यम्, तथाऽननुभवादित्युक्तव्यवस्थानुपपत्तिरिति । अत्राहुः-- सुप्तोऽपि प्रबुद्धः, त्रयोप्यत्रयः’ इत्यादिषु विरोधोदाहरणेषु शब्दद्वयेन शयितत्वजागरितत्वादिधर्मद्वयस्यादावुपस्थितौ संबन्धिज्ञानात् अपिशब्दसाचिव्यात्तद्गतो विरोधोऽपि स्मर्यते । अनन्तरं च प्रतिबन्धकज्ञानसामग्र्या बलवत्त्वाद्विरुद्धाविमौ धर्माविति मानसे वैयञ्जनिके वा बोधे जाते तेन प्रतिरोधाच्छयितजागरितयोरभेदबुद्धेरनुदयाद्द्वितीयशक्त्या प्रादुर्भावितं द्वितीयार्थमादायान्वयबोधः, न तु विरुद्धार्थम् । विरोधधीश्च शिथिलमूला निवर्तमानाऽपि कविसंरम्भगोचरतया चमत्कारकारणमिति प्राञ्चः । नव्यास्तु-- अर्थद्वयप्रादुर्भावं विना विरोधाभास एव न संभवति । तत्रैको विरोधस्योल्लासकः । द्वितीयश्चान्वयबोधविषय इति । तत्सत्यम् । परंतु अन्वयबोधविषये द्वितीयार्थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषभित्तिकाभेदाध्यवसायेनाभिन्नतया भासते । एवं चाविरुद्धं द्वितीयार्थमादायान्वयबोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निश्शेषतया निवृत्तेरभावान्मूर्छितश्श्वसन्निव विरोधोऽपि मानसं बोधान्तरमाढौकते । अत एव चमत्कारीत्युच्यते । न हि निश्शेषतया निवृत्तश्चमत्कृतिमीष्टे जनयितुम् । न चान्तरेण चमत्कृतिजनकतामलंकारो भवति । तस्मात् विरोधधियो नातीव शिथिलमूलता । नापिचात्यन्तिकी निवृत्तिरित्याहुः । ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाऽप्यसंगतम् । शाब्दिकनये निपातानां शक्तेरनभ्युपगमादिति चेत् न, निरूढलक्षणाया इव निरूढद्योतनाया अपि शक्तितुल्यकक्षत्वादिति ॥

अथ जात्योर्द्रव्ययोश्च विरोधालंकारो नेष्टे भवितुम् ॥
देवतरुस्तृणमासीद्देव तवौदार्यवैभवोल्लासे ।
भाति च भवत्प्रतापे कैलासगिरिर्बभूव कनकगिरिः ॥

 इत्यादौ मदीयपद्ये 'कुसुमानि शराश्चन्द्रो बाडबो दुःखिते हृदि’ इत्यादौ परकीयपद्ये च आरोपमूलस्य रूपकस्यैवोल्लासात् । यदि सत्यप्यारोपे विरोध एवोच्येत तर्हि 'मुखं चन्द्रः' इत्यत्रापि स एव कुतो नोच्यताम् । न च रूपकविषयस्याखिलस्यापि विरोधेनास्कन्दितत्वान्निर्विषयत्वापत्त्या स्वविषये रूपकं विरोधस्य गुणादौ लब्धावकाशस्यापवाद इति वाच्यम्, 'देवतरुस्तृणं-- कैलासगिरिर्मेरूगिरिः-- कुसुमानि शराः--मृणालवलयानि दवदहनराशिः-- चन्द्रो बाडबः-- शंकरचूढापगा कालिन्दी’ इत्यादौ त्वदभीप्सितविरोधस्यासिद्धिप्रसङ्ग इति चेत्-- सत्यम् । अत्र ह्यलंकारसमुदये यो यत्र सहृदयचमत्कृतिसरणिमध्यारोहति स एव तत्रालंकार इत्यविप्रतिपन्नमिदम् । एवं च रूपके ‘मुखं चन्द्रः’ इत्यादौ यद्यप्यस्ति विरोधः । तथाऽपि न स तत्र प्रतिपिपादयिषितः । अपितु चन्द्रनिष्ठाह्लादकारिताद्यखिलगुणानां मुखे प्रतिपत्त्यर्थं चन्द्राभेद एवेति स एव चमत्कारी न तु विरोधः । प्रत्युत सन्नपि विरोधो विवक्षितार्थाननुगुणत्वादसत्कल्प इति नालंकारः । केवलसत्ताया अकिंचित्करत्वात् । ‘देवतरुस्तृणं, कुसुमानि शराः’ इत्यादौ भगवदौदार्यादेः विरहिण्यादीनामवस्थायाश्चात्यद्भुतताया विवक्षितत्वात् तदानुरूप्यायान्तर्गर्भितोऽप्यार्थो विरोधस्समुल्लसतीति स एवालंकारः । न चैवमपि रूपकस्थले विरोधोऽविवक्षितत्वान्मा नाम भूदलंकारः । विरोधस्थले ‘देवतरुस्तृणं-- कुसुमानि शराः' इत्यादौ तु विरोधोन्मेषणायाभेदस्यावश्यं विवक्षणीयत्वाद्रूपकापत्तिरिति वाच्यम् । विरोधविवक्षानालिङ्गितत्वस्य रूपकलक्षणे निवेश्यत्वात् । यद्वा अभेदस्यात्र विरोधोन्मेषणार्थमुपात्तस्याचमत्कारित्वाद्रूपकालंकारत्वमयुक्तं, चमत्कारित्वस्यैवालंकारजीवातुत्वादितिदिक् । विस्तरस्त्वन्यत्र ॥

इत्यलंकारमणिहारे विरोधसरः पञ्चत्रिंशः