अलङ्कारमणिहारः (भागः २)/विभावनालंकारः (३६)

विकिस्रोतः तः
Jump to navigation Jump to search

(३६) अथ विभावनालंकारसरः


कारणव्यतिरेकेऽपि कार्योत्पत्तिर्विभावना ॥ ९८ ॥

 कारणव्यतिरेकसामानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्तिर्विभावनेत्यर्थः । तदुक्तं--

क्रियायाः प्रतिषेधेऽपिफलव्यक्तिर्विभावना” ।

इति । क्रियाशब्देनात्रकारणं विवक्षितम् । अत्र कारणव्यतिरेकसामानाधिकरण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोधः प्रतिभासमानोऽपि तदितरकारणकल्पनया निवर्तते ॥

 यथा--

 जालं विनैव नितरां लोलं विषयेषु ननु मनोजालम् । निध्यायतां जनानां बद्ध्वाऽऽकर्षसि बताहिशैलमणे ॥ ११०३ ॥

 अत्र हि बन्धनाकर्षणयोर्जालं कारणं तदभावेऽपि बन्धनाकर्षणे प्रतिपाद्यमाने आपाततो विरुद्धे अपि भगवद्दिव्यविग्रहसौन्दर्यहेतुकतया पर्यवस्यतः ॥

 नन्वत्र यस्य कार्यस्योत्पत्तिः प्रतिपाद्यते न हि तदीयकारणत्वेनावगतस्य व्यतिरेकः प्रतीयते । यदीयकारणव्यतिरेकश्च प्रतीयते न हि तस्य कार्यस्योत्पत्तिः प्रतिपादिता । बन्धनाकर्षणे चेह निश्चलावस्थापनवशीकरणे विवक्षिते न तु संदानग्रहणे । जालं च न भगवत्कर्तृकमानसजालनिश्चलावस्थापनवशीकरणयोः कारणं, अपितु मीनमृगादिबन्धनग्रहणयोरिति चेन्न । मुख्ये हि बन्धनाकर्षणे नहनग्रहणे । गौणे च निश्चलावस्थापनवशीकरणे । गौणयोर्मुख्ययोश्च तयोस्सादृश्यमूलेनाभेदाध्यवसायेन निष्पन्ने सति भेदतिरोधाने मीनमृगादिबन्धनग्रहणकारणमपि जालं निश्चलावस्थापनवशीकरणकारणं संपद्यते । तदभावे चात्र कार्याभिन्नतयाऽध्यवसितयोर्निश्चलावस्थापनवशीकरणयोः प्रतिपादनान्न दोषः । एवं चास्मिन्नलंकारे सर्वत्रापि कार्यांशे प्रायेण अभेदाध्यवसानरूपातिशयोक्तिरनुप्राणकतयाऽवस्थिता । तथा च पायसादिपिण्डवदेकीकृतस्य वस्तुतस्सदृशवस्तुद्वयस्य एकावयवसंबन्धिकारणव्यतिरेकसामानाधिकरण्येनापरावयवमादाय पर्यवसानं भवति । तत्र च कार्यांशः कारणाभावरूपविरोधिनो बाध्यतयैव स्थितः, न बाधकतया, कार्यांशस्य कल्पितत्वात् । कारणाभावस्य च स्वभावसिद्धत्वात् । अत एव कार्यांशो रूपान्तरेण पर्यवस्यति । अत एव च समबलविरोधिद्वयघटिताद्विरोधालंकारादस्य वैलक्षण्यम् । तथाचोक्तम्--

कारणस्य निषेधेन बाध्यमानः फलोदयः ।
विभावनायामाभाति विरोधेऽन्योन्यबाधनम् ॥

 इत्याहुः । अत्रैवोदाहरणपद्ये-– ‘जालं विनैव नितरां लोलं ननु मानसानिमिषजालम्’ इति पूर्वार्धे पठिते अस्मिन्नलंकारे रूपकमनुप्राणयितृत्वेनावतिष्ठते । अत एव ‘विभावनायामाहार्याभेदबुद्धिमात्रमेवानुप्राणकम् । तच्च क्वचिदतिशयोक्त्या क्वचिच्चरूपकेण इति रसगङ्गाधरग्रन्थश्च संगच्छते । अत एव चास्माभिरभेदाध्यवसानरूपातिशयोक्तेरनुप्राणकतयाऽवस्थितिः प्रायेणेत्यस्मिन्नेव प्रस्तावे पूर्वमुक्तमिति ध्येयम् ॥

 इयं च विभावना उक्तनिमित्ता अनुक्तनिमित्ता चेति द्विधा । तत्राद्या यथा--

 इन्दीवररुचिरतनुं त्वां देव सदोपगूहमानायाः । अमृगमदलेपमासीदब्धिसुतायाः पयोधरे नैल्यम् ॥

 अत्र हि अब्धिसुतापयोधरनीलिम्नि मृगमदलेपो निमित्तं, तदभावेऽपि नैल्यमुपनिबध्यमानमापाततो विरुद्धमपि भगवदुपगूहनहेतुकतया पर्यवस्यति । भगवदुपगूहनं चोपात्तमित्युपात्तनिमित्तेयम् ॥  द्वितीया तु जालं विनैवेत्युदाहृतैव । मानसानिमिषजालाकर्षणहेतोर्भगवद्दिव्यविग्रहसौन्दर्यस्यानुपात्तत्वात् ।

 यथावा--

 सन्ततमनञ्जनं त्वामञ्जनगिरिनेतरक्ष्णि निदधाना । कमला निरञ्जनाऽपि श्यामलकोमलविलोचना लसति ॥ ११०५ ॥

 न अञ्जनं अनञ्जनं अञ्जनभिन्नं, कर्मलेपविधुरमितिवस्तुस्थितिः । 'निष्कलं निरञ्जनम्' इति श्रुतेः । निरञ्जना नयनाञ्जनविधुरा कर्मलेपविधुरेति तु वस्तुस्थितिः । अत्राञ्जनं विनाऽपि श्यामललोचनात्वे 'तं चेयमसितेक्षणा’ इति स्वाभाविकत्वं निमित्तं, तच्च नोपात्तमित्यनुपात्तनिमित्तेयं विभावना ॥

 द्वितीया विभावना--

कारणानामसामग्र्ये कार्यजन्म च सा मता ॥

 कारणानां हेतूनां असामग्र्ये हेतुतावच्छेदकधर्मस्य हेतुतावच्छेदकसंबन्धस्य वा वैकल्ये सति कार्योत्पत्तिश्च विभा वनेत्यर्थः ॥

 तत्र धर्मवैकल्ये यथा--

 कमलेक्षण! मम हृदयं कालायसगोळतोऽपि कठिनतरम् । कलशाब्धेरपि शिशिरैः कटाक्षविसरैर्विलाययसि चित्रम् ॥ ११०६ ॥

 अत्र कठिनतरहृदयद्रवीकरणे साध्ये कटाक्षविसराणामसामग्र्यं निशितत्वादिधर्मवैकल्यम् ॥  संबन्धवैकल्ये यथा--

 तव चरणनलिनरेणुः फणधरभूभृन्मणे शिरसि विधृतः । भक्तानाममृशन्नपि बाष्पाययते विलोचनानि बत ॥॥ ११०७ ॥

 बाष्पाययते बाष्पमुद्वमयति । अत्र बाष्पोद्वमनकारणस्य रेणोरसामग्र्यं स्पर्शनरूपसंबन्धवैकल्यम् ॥

 दण्डिमते त्वियं विशेषोक्तिः। यतः प्रथमोदाहरणे भगवत्कटाक्षविसराणां द्वितीयोदाहरणे तत्पादरेणोश्च महामहिमरूपो विशेषः प्रत्याय्यते, तथाच तदीयं लक्षणम् ॥

गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम् ।
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥

 इति । विशेषस्य प्रस्तुतस्य यः प्रभावाद्यतिशयः तस्य दर्शनाय प्रतिपत्तय एव गुणजातिक्रियाणां आदिपदेन द्रव्याणां च यद्वैकल्यदर्शनं कार्यसिद्धावनुपयोगित्वप्रतिपादनं सा विशेषोक्तिर्नामालंकार इति कारिकार्थः । दीक्षितानुसारिभिरस्माभिस्तु निशितत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति विभावना प्रदर्शिता ॥

 तृतीया विभावना--

 तृतीया प्रतिबन्धेऽपि कार्योत्पत्तिर्विभावना ॥

 प्रतिबध्यते अनेनेति प्रतिबन्धः प्रतिबन्धकः । प्रतिबन्धकसद्भावेऽपि कार्योत्पत्तिस्तृतीया विभावना ॥

 यथा--

 नासत्त्ववृत्तयो यत्त्वामुच्चादिं श्रितास्तदनिपा- ताः । चित्रं त्वव्ययलक्ष्मीभाजस्सन्तो विभान्ति चक्रधर! ॥ ११०८ ॥

 हे चक्रधर! यत् यस्मात्कारणात् उच्चादिं उत्कृष्टं चादिं चशब्दादिकं कंचिद्गणं श्रिताः कतिचन शब्दा इत्यध्याहारः । असत्त्ववृत्तयः अद्रव्यवाचिनः न न भवन्ति, किंतु द्रव्यवाचिन एवेति भावः । तत् तस्मात् अनिपाता: निपातसंज्ञाविधुराः । ‘चादयोऽसत्त्वे’ इत्यद्रव्यार्थकानामेव चादीनां निपातसंज्ञाविधानेन द्रव्यवाचिनां तदभावादिति भावः । इदं युक्तमेव । इदं तु चित्रम्-- यत् अव्ययलक्ष्मीः अव्ययश्रीः अव्ययभाव इति यावत्, तां भजन्तीति तथोक्तास्सन्तः विभान्तीति । अव्ययत्वप्रयोजकनिपातसंज्ञाया एवाभावे अव्ययत्वं भजन्त इत्येतदद्भुतमेवेति भावः । ‘स्वरादिनिपातमव्ययम्' इति हि निपातानामव्ययसंज्ञा विधीयते सूत्रकारैः । परिहारस्तु-- उच्चादिं उच्चेषु उन्नतपदाधिरूढेषु चतुर्मुखादिषु आदिं, उच्चानामादिमिति वा । उत्कर्षेण चकारादिमिति च शब्दार्थतादात्म्यवैभवाल्लभ्यते, चक्रधरेति संबुद्धिबलात् । त्वां श्रिताः सन्तः ब्रह्मविदः सत्त्ववृत्तयः सात्विकाः ते न भवन्तीत्यसत्त्ववृत्तयः तादृशा न भवन्ति किंतु सत्त्ववृत्तय एव । प्रतिषेधद्वयेन संभाव्यासत्त्ववृत्तिता निवर्त्यते । तदाह वामनः--'संभाव्य निषेधनिवर्तने द्वौ प्रतिषेधौ' इति,

महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः ।

इत्युक्तरीत्या सत्त्वगुणप्रवर्तकं त्वां श्रितास्सात्विका एव भवन्तीत्यर्थः । अत एव अनिपाताः राजसतामसवन्मध्याधोगतिरूपनिपातं न प्राप्तः, किंतु ‘ऊर्ध्वं गच्छन्ति सत्वस्थाः’ इत्युक्तप्रकारेणोत्तमगतिभाज एवेति भावः । अत एव च अव्ययलक्ष्मीभाजः शाश्वतैश्वर्यं निश्श्रेयसरूपं भजन्तीति तथा । भान्ति नित्यासंकुचितज्ञानतया दीप्यन्ते । अत्र अनिपातत्वरूपप्रतिबन्धकसद्भावेऽपि अव्ययत्वरूपकार्योत्पत्तिर्वर्णितेति लक्षणसंगतिः । श्लेषभित्तिकाभेदाध्यवसायमूलकातिशयोक्त्यनुप्राणितसमालंकारोपस्कृतेयम् ॥

 यथावा--

 फणिवरवसुन्धराधरधुरंधरकृपाभिषेकदूरतरान् । चन्द्रोपलसान्द्रालयजुषोऽपि तापाः पराभवन्ति नरान् ॥ ११०९ ॥

 अत्र शिशिरतरचन्द्रोपलसान्द्रालयस्थितिरूपप्रतिबन्धकसद्भावेऽपि तापकर्तृकाभिभवलक्षणकार्योत्पत्तिः । श्लेषसंकीर्णेयम् ॥

 यथावा--

 विनतानन्दननामनि वैहायसराजि चरति शिरसि निजे । उन्नद्धशिरा विन्दति पन्नगभूमिभृदहो महोल्लासम् ॥ १११० ॥

 विनतानन्दन इति नाम यस्य तस्मिंस्तथोक्ते । पक्षे-- प्रणतजनानन्ददायिनामधेये विहायसां पक्षिणां समूहो वैहायसं ‘प्राणिरजतादिभ्योऽञ्’ इति सामूहिकोऽञ्प्रत्ययः । तस्य राट् तस्मिन् खगराजे गरुत्मतीत्यर्तः । अन्यत्र विहायसि परमे व्योम्नि भवाः वैहायसाः अनन्तगरुडादयो नित्यमुक्ताः मुक्ताश्च तेषां राट् तस्मिन् सकलदेवाधिराजे वा भगवति श्रीनिवासे निजे शिरसि उपरिभागे इति यावत् । शिखरभागे च चरति सति पन्नगभूमिभृत् श्रेष्ठः फणीत्यर्थः । शेषाद्रिरिति वस्तुस्थितिः । उन्नद्धशिराः उत्तम्भितफण इत्यर्थः । पक्षे--उन्नतशिखरः महोल्लासं अमितमानन्दं महैः उत्सवैः उल्लासं प्रकाशं च विन्दति । अत्र स्वोपरिगरुत्मत्संचाररूपप्रतिबन्धकसद्भावेऽपि फणिवरेण्यस्य उन्नद्धफणतया महोल्लासभाक्त्वरूपकार्योत्पत्तिर्वर्णिता । श्लेषभित्तिकाभेदाध्यवसायः पूर्ववत् ॥

 यथावा--

 हन्त सदाहारितमेऽप्यतिमात्रमुदारमण्यभिष्वङ्गे । भवदनभिमुखान् सुमहाशुचिभवदाहः पराभवति भगवन् ॥ ११११ ॥

 हे भगवन् ! भवदनभिमुखान् जनान् । सः दाहारितमे इति छेदः । स इत्येतदुत्तरत्रान्वेति । दाहस्य अतिशयेन अरिः अरितमः तथोक्ते अतिवेलविरोधिनि प्रतिबन्धके इति यावत् । अतिमात्रं अत्यर्थं उदारः महान् यो मणिः तस्य अभिष्वङ्गेऽपि संबन्धे सत्यपीत्यर्थः । सः तीक्ष्णतमत्वेन प्रसिद्धः सुमहान् यः शुचिभवः अग्निजन्यः दाहः पराभवति अभिभवति । हन्त । दाहप्रतिबन्धकमणिसंबन्धसद्भावेऽपि दाहोत्पत्तिरूपकार्योदयो विस्मयावह इति भावः ॥ परिहारस्तु-- सदा सर्वदा हारितमे अतिमनोहारिणि 'वल्गु वामं हारि शालि’ इत्यमरः । अतिमात्रमुदा अतिवेलप्रीत्या रमणीनां ललनानां अभिष्वङ्गे परिष्वङ्गे सत्यपि सुमहाऽशुचिः अतिमात्रमपवित्रः यो भवः संसारः तस्य दाहः तापः पराभवतीति । रमणीयतमरमणीपरिष्वङ्गभाजो भवदनभिमुखान् जनान् संसारतापोऽभिभवतीति भावः ॥  यथावा--

 वनभूमौ फणिभूभृति दृगग्रभागे स्थिते महाभोगे । गहनभवजन्तुसाध्वसमहह सुघोरं नृणां द्रवति दूरम् ॥ १११२ ॥

 वनभूमौ महाभोगे बृहत्फणशरीरे । पक्षे-- महान् आभोगः पारपूर्णता यस्य तथोक्ते फणिभूभृति महाशीविषे शेषाद्राविति तु तत्त्वम् । दृगग्रभागे स्थिते सति समीपवर्तिन्येव दृष्टं सतीत्यर्थः । नृणां श्रीनिवाससेवार्थं सुदूरादागतानां यात्रिकाणामिति भावः । सुघोरं अतिरौद्रं गहनभवजन्तुसाध्वसं गहने महारण्ये भवानां जातानां जन्तूनां हिंस्रसत्त्वानां साध्वसं तत्कृतं भयं दूरं द्रवति पलायते । अहह महाशरीरे महाफणे च महाशीविषे महारण्यभूमावग्रत एव दृष्टे आरण्यहिंस्रसत्त्वभयं दूरीभवतीत्याश्चर्यमेतद्दर्शनस्यैव महाभयहेतुत्वादिति भावः । परिहारस्तु-- गहनः दुःखकरः यः भवः संसारः तस्मात् जातं गहनभवजं तुशब्दोऽवधारणे उत्तरान्वयी । साध्वसं भयं दूरं तु द्रवति । यात्रिकाणां नृणां शेषाद्रिनिर्वर्णनमात्रात्संसारजनितभयमपास्तमेव भवतीति । ‘गहनं वनदुःखयोः' इति रत्नमाला । भवजन्तु इत्यत्र ‘वा पदान्तस्य' इति अनुस्वारस्य वैकल्पिकः परसवर्णो नकारः । अत्र महाव्याळदर्शनरूपप्रतिबन्धके सत्यपि यात्रिकाणामारण्यक्रूरजन्तुभयदूरीभवनरूपकार्योत्पत्तिः श्लेषभित्तिकाभेदाध्यवसायानुप्राणिता वर्णिता ॥



चतुर्थी विभावना.


विभावना चतुर्थी स्यात्कार्योत्पत्तिरकारणात् ॥

 अकारणात् कारणभिन्नात् कार्योत्पत्तिश्चतुर्थी विभावना ॥

 रक्षति न वेति संशयलक्षणतिमिरं निराकरिष्यन्मे । ज्योत्स्नां दशनावळ्या सरीसृपगिरीश्वरस्सरीसर्ष्टि ॥ १११३ ॥

 अत्र ज्योत्स्नाकारणभिन्नायाः यशनावळेर्ज्योत्स्नोत्पत्तिर्वर्णित्तेति लक्षणानुगतिः । दशनकिरणमसृणितं स्मितं ज्योत्स्नात्वेनाध्यवसितमिति परिहारः ॥

 यथावा--

 द्रुतमुपगूहति भगवति पिदधाना कौस्तुभं करतलेन । अङ्गुलिबिलगलिताभिस्तद्विद्युद्भिर्नताननाऽभूच्छ्रीः ॥ १११४ ॥

 अत्र करतलपिहितकौस्तुभमणिप्रभाः अनुक्षणमङ्गुलिबिलविशकलविगलिततया क्षणप्रभात्वेनाध्यवसिता इति विद्युत्कारणभिन्नात्कौस्तुभाद्विद्युज्जन्म वर्णितम् ॥

 यथावा--

 कनकाहार्यादुदिता उदारकूटास्सहस्रशोऽहार्याः । तेभ्यः खर्जूरनगास्ते च वरिष्ठं फलन्त्यतिविचित्रम् ॥ १११५ ॥  कनकाहार्यात् हेमाद्रेः शेषाद्रेरिति च शेषाद्रेरेव नामान्तरमिदमित्यसकृदवोचाम । सहस्रशः उदारकूटाः उत्कृष्टः आरकूटः पित्तलं येषां ते तथोक्ताः 'रीतिः स्त्रियामारकूटः' इत्यमरः। अहार्याः गिरयः सहस्रशः उदिताः । पक्षे-- अहार्याः केनापि हर्तुमशक्याः उदाराः महान्तः कूटाः शिखराणि उदिताः इति । तेभ्यः आरकूटाहार्येभ्यः अहार्येभ्यः उदारशृङ्गेभ्यश्च खर्जूरनगाः रजतशैलाः सहस्रशः उदिताः खर्जूरवृक्षा उदिता इति च ‘खर्जूरं रूप्यखलयोः वृश्चिके ना द्रुमे द्वयोः' इति मेदिनी । 'शैलवृक्षौ नगावगौ' इत्यमरः । ते खर्जूरनगाश्व वरिष्ठं ताम्रं फलन्ति जनयन्तीत्यर्थः । फलतिस्सकर्मकोऽपि भवति ‘फलद्भिरुष्णांशुकरावमर्शात्कार्शानवं धाम पतङ्गकान्तैः’ इत्यादिप्रयोगात् । पक्षे-- अतिशयेन उरु वरं वा वरिष्ठं यथा स्यात्तथा फलन्ति फलानि प्रदर्शयन्तीत्यर्थः । ‘वरिष्ठं मरिचेऽपि च । ताम्रे क्लीबं तित्तिरौ ना वरोरुतमयोस्त्रिषु' । इति मेदिनी । अत्र कनकाचलपित्तलाचलादिभ्यः पित्तलरजताचलाद्यकारणेभ्यस्तदुत्पत्तिरूपकार्यं वर्णितमितीयमपि विभावना । श्लेषसंकीर्णत्वं वक्ष्यमाणमालादीपकसंकीर्णत्वं मालारूपत्वं च पूर्वस्माद्विशेषः ॥

 यथावा--

 उच्चतरान्नागधरादुदुम्बरागा निरङ्कुशमुदीताः । प्रायश्शाखास्तेभ्यो जाता हारीतिफलमितोऽभ्युदितम् ॥ १११६ ॥

 उच्चतरात् नागधरात् सीसाद्रेः निरङ्कुशं यथा स्यात्तथा उदुम्बरागाः ताम्रवृक्षाः उदीता इति विरोधः । उरगाचलात् जन्तुफलापरनामानः पादपा जाता इति परिहारः । ‘नागं नपुंसके रङ्गे सीसके करणान्तरे’ इत्युपक्रम्य ‘नागः पन्नगमातङ्गक्रूराचारिषु तोयदे' इति, ‘उदुम्बरस्तु देहल्यां वृक्षभेदेऽपि षण्डके । कुष्ठभेदेऽपि च पुमांस्ताम्रे तु स्यान्नपुंसकम्' इति च मेदिनी । तेभ्यः ताम्रवृक्षेभ्यः अयसश्शाखा अयश्शाखाः प्रकृष्टाश्च ताः अयश्शाखाश्च प्रायश्शाखाः श्रेष्ठलोहमयशाखा जाता इति विरोधः । प्रायः भूम्ना शाखा जाता इति परिहार: । इतः आभ्यश्शाखाभ्यः रीतिफलं पित्तलफलं अभ्युदितम् । हा इत्याश्चर्ये हारीति मनोहरप्रकारं मनोहरत्वेन प्रकाशमानं वा 'वल्गु वामं हारि शालि’ इति, ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इति चामरः । 'इति हेतौ प्रकाशने' इति मेदिनी । फलं अभ्युदितमिति परिहारः । अत्रापि पूर्वोदाहरणवदेव सर्वम् । एकावळीसंकीर्णत्वं तु विशेषः ॥

 यथावा--

 इदमद्भुतमतिमात्रं यदिहारुणनलिनवनरुचिवदान्यात् । पावयितुं जगदुदभूत्पादाद्देवस्य भास्वतो गङ्गा ॥ १११७ ॥

 अरुणनलिनवनरुचेः वदान्यात् दातुः । पक्षे–- ततोऽपि महतः भास्वतः भानोः देवस्य । पक्षे–- देवस्य भगवतः भास्वतः तेजस्विनः पादात् किरणात् चरणाच्च गङ्गा जाता । अत्र गङ्गाया अकारणादपि भानुपादात्तज्जन्मरूपकार्यं वर्णितम् । वक्ष्यमाणहेत्वलंकारसंकीर्णत्वं पूर्वेभ्यो विशेषः ॥


पञ्चमी विभावना


कार्योत्पत्तिर्विरुद्धाच्चेत् पञ्चमी सा विभावना ।

 यथावा--

 कुम्भीनसपतिभूधरकुम्भिन्युल्लासभारमुल्ललयन् । निर्जरसिंहः कश्चन मार्जयति स्म द्विपस्य बत भीतिम् ॥ १११८ ॥

 निर्जरः युवा स चासौ सिंहश्च । पक्षे-- देवश्रेष्ठ: श्रीनिवास इत्यर्थः । कुम्भिन्याः करिण्याः भूमेश्च ‘गौरिला कुम्भिनी क्षमा' इत्यमरः। उल्लासभारं प्रकाशातिशयं हर्षातिरेकं च । अत्र कुम्भिनीद्विपोल्लासनिवर्तकतया तद्विरुद्धान्निर्जरसिंहात्तदुल्लासनतद्भीतिमार्जनरूपकार्योत्पत्तिरभिहितेति लक्षणानुगतिः ॥

 यथावा--

 नागावनीभृदुच्चैर्धिनोति केसरिकिशोरकनिकायम् । सोऽपि करिणः प्रभिन्नान् स्वगर्जितैरेव हन्त संतनुते ॥ १११९ ॥

 नागावनीभृत् गजराजः । शेषाद्रिरिति तु वस्तुस्थितिः । केसरिकिशोरकनिकायं सिंहशाबकनिकरं उच्चैः धिनोति । सोऽपि सिंहशाबकनिकरोऽपि स्वगर्जितैरेव करिणः गजान् प्रभिन्नान् मत्तान् ‘प्रभिन्नो गर्जितो मत्तः' इति गजविशेषपर्यायेष्वमरः । विदारितानिति तु तत्त्वम् । अत्र केसरिकिशोरकप्रीणनविरुद्धात् गजराजात्तत्प्रीणनरूपं कार्यं गजमदशोषकतया तन्मत्ततासंपादनविरुद्धात्केसरिकिशोरकसमुदयात्तन्मत्ततासंपादनरूपकार्यं च वर्णितमिति विभावनाद्वयं वक्ष्यमाणैकावळीसंकीर्णमिति विशेषः । श्लेषनिर्व्यूढत्वं तु पूर्ववदेव ॥

 यथावा--

 अन्तर्हितसरलगुणो घनतरलोभान्वितोऽप्यलंकारः । मुक्ताहारोऽच्युत तव वसुविकिरणतोऽत्युदारतामेति ॥ ११२० ॥

 अन्तर्हितः तिरोहितः क्वचिदप्यप्रकाश इति भावः । तथाविधः सरलगुणः उदारगुणः यस्य स तथोक्तः । पक्षे-- अन्तः स्वच्छिद्रान्तःप्रदेशे हितः निहितः प्रोतः सरलः अग्रन्थिलतया ऋजुः गुणः सुवर्णादितन्तुः यस्य स तथोक्तः ‘सरलः पद्मकाष्ठे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी । घनतरेण लोभेन अन्वितः । पक्षे-– घनः तरलः हारमध्यगमणिः यस्य सः घनतरलः 'तरलो हारमध्यगः' इत्यमरः । भान्वितः प्रभायुतः अत एव मुक्ताहारः त्यक्तभोजनः अतिकदर्यतया स्वोदरपूरणमप्यकुर्वाण इति भावः । तथाहि स्मर्यते कदर्यलक्षणम्--

आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् ।
लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥

इति । पक्षे-- मुक्ताहारः मौक्तिकग्रथितहार इति प्रथितः अलङ्कारः आभरणं लुब्धः कश्चित्पुमानिति व्यज्यते । वसुविकिरणतः वसूनां धनानां विकिरणतः स्वैरविश्राणनात् । पक्षे-- किरणप्रसारणात् अत्युदारः महावदान्यः अतिपूज्यश्च ‘उदारो दातृमहतोः' इत्यमरः । तत्तां एति । अत्रौदार्यविरुद्धाल्लुब्धात्तत्कार्यसंपत्तिश्लेषभित्तिकाभेदाध्यवसायेन वर्णिता । समासोक्त्युपस्कृतत्वं पूर्वस्माद्विशेषः ॥  यथावा--

 हरिभुक्तशेषमेव हि यो भुङ्क्ते सोऽङ्ग मङ्गलं भुङ्क्ते । यो ह्यन्यदेव भुङ्क्ते चित्रं सोऽप्यङ्गमङ्गलं भुङ्क्ते ॥

 इदं पद्यं कस्यचित्कंचित्प्रत्यनुशासनरूपम् ॥ अङ्गेति संबोधनार्थकमव्ययम् । ‘स्युः प्याट् फाडङ्ग हे है भोः' इत्यनुशासनात् । अङ्ग हे साधो! यः हरिभुक्तशेषमेव भगवन्निवेदितहविश्शिष्टमेव भुङ्क्ते अभ्यवहरति स पुमान् मङ्गलं सर्वपापापनोदनपूर्वकनिश्श्रेयसलाभपर्यन्तं कल्याणं भुङ्क्ते अनुभवति ।

ततस्तु भगवद्भुक्तं प्राश्नीयान्नियतस्स्वयम् ।
क्षयाय सर्वपापानां मोक्षसंसिद्धयेऽपि च ॥ इति,
त्वयोपभुक्तस्रग्गन्धवासोलङ्कारचर्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां तरन्ति ते ॥

इति च श्रीमत्पारमेश्वरसंहिताश्रीभागवताद्युक्तेरिति भावः--

यः पुमान् अन्यदेव भगवदनिवेदितमेव वा भगवदितरदेवनिवेदितमेव वा भुङ्क्ते सोऽपि अङ्ग! हे साधो! मङ्गलं भुङ्क्ते उक्तरीत्या कल्याणभाग्भवतीति चित्रम् 'नानिवेदितभोगस्स्यात्' इति भगवदनिवेदितान्नादिभोगस्य भरद्वाजसंहितादौ निषेधात् ।

सकृदेव हि योऽश्नाति ब्राह्मणो ज्ञानदुर्लभः ।
निर्माल्यं शङ्करादीनां स चण्डालो भवेद्ध्रुवम् ।
कल्पकोटिसहस्राणि पच्यते नरकाग्निना ।
निर्माल्यभुग्द्विजश्रेष्ठो रुद्रादीनां दिवौकसाम् ॥ इति ॥
विष्णोर्निवेदितं शुद्धं मुनिभिर्भोज्यमुच्यते ।
अन्यनिवेदितं यत्तद्भुक्त्वा चान्द्रायणं चरेत् ॥

इति च पाद्मब्राह्मादिषु भगवदन्यदेवतानिवेदितान्नाद्युपयोजनस्य प्रत्यवायहेतुत्वस्यैव स्मरणाच्च तादृशान्नभोजनस्य मङ्गलप्रापकत्वोक्तिर्विस्मयावहैवेति भावः ॥ परिहारस्तु--अङ्गमङ्गलमिति समस्तं पदम् । अविद्यमानः ङ्ग इत्याकारकवर्णसमुदयो यस्य तत्तथोक्तं मङ्गलं मलं पापमित्यर्थः । भुङ्क्ते इति । ‘मलोऽस्त्री पापविट्किट्टेषु' इत्यमरः । शब्दार्थयोस्तादात्म्यं तु न प्रस्मर्तव्यम् । भगवन्निवेदितान्नाद्युपभोक्ता--

यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ।

 इत्युक्तप्रक्रियया सर्वपापविनिर्मोकपूर्वककल्याणभाग्भवति । तदितरस्तु केवलाघो भवति केवलादी’ ‘ते त्वघं भुञ्जते पापाः ये पचन्त्यात्मकारणात्' इति श्रुतिस्मृत्युक्तप्रकारेण केवलपापभोक्तैव भवतीति निर्गलितोऽर्थः । अत्र मङ्गलभोक्तृत्वविरुद्धाद्भगवदनिवेदिताद्यन्नभोजनात्तद्भोक्तृत्वरूपकार्यसंपत्तिरुक्ता । पूर्वार्धोक्तसमालङ्कारपुरस्कृतेयम् । पूर्वोदाहरणाद्विच्छित्तिविशेषान्तरं तु स्पष्टमेव ॥

 अत्रेदमवधेयम्-- लक्षणे विरुद्धादित्यस्य कार्यासहवृत्तेरित्यर्थः । तथाचात्र मङ्गलभोक्तृत्वरूपकार्यस्य भवगवदनिवेदितान्नादिभोजनरूपकारणस्य चैकस्मिन् पुरुषरूपे देशे असहवृत्तित्वाद्देशिको विरोध इति । एवं ‘कुम्भीनसपतिभूधर’ इत्यादिषु प्रागुपदर्शितेषु त्रिष्वप्युदाहरणेषु दैशिक एव विरोधो द्रष्टव्यः ॥

 यथावा--

 स्वकरव्यतिकरितैर्हरिरतिनिशितैराशुगैर्महातेजाः । अतनुतरैरतनुत बत विमतान् जडताऽतिवेपितान् सद्यः ॥ ११२२ ॥

 हरिः रविः भगवांश्च । स्वस्य करैः किरणैः कराभ्यां च व्यतिकरितैः संश्लेषितैः संहितैश्च अत एव निशितैः तीक्ष्णैः आशुगैः मारुतैः बाणैश्च जडतया शैत्येन अप्रतिपत्तिमूढमनस्कतया च अतिवेपितान् अतिकम्पितान् । स्पष्टमन्यत् ॥ अत्र जडताप्रयुक्तकम्पविरुद्धाद्भानोस्तत्संपत्तिभिहिता । भानुकराणां जडताप्रयुक्तकम्पनस्य चैकस्मिन् काले असहवृत्तेः कालिको विरोध इति विशेषः ॥

 यथावा--

 कुवलयविकासदश्रीरमृतकरोऽपि स्वतस्सतां नाथः । आमोदयते पुष्करसदो महोष्णश्रिया बतैष दिवा ॥ ११२३ ॥

 एषः सतां नक्षत्राणां नाथः चन्द्रमाः स्वतः अमृतकरः शिशिरांशुरिति भावः । कुलवयविकासदश्रीरपि दिवा अह्नि महोष्णया अतितिग्मया श्रिया स्वभासा पुष्कराणां पद्यानां सदः सभां समूहमिति यावत् ‘स्त्रीनपुंसकयोस्सदः' इत्यमरः । आमोदयते सुरभीकरोति । बत इदं चित्रमित्यर्थः ॥ वस्तुस्थितिस्तु स्वतः सतां ब्रह्मविदां अमृतकरः निश्श्रेयसदाता। कुवलयविकासदा भूवलयानन्ददायिनी श्रीः लक्ष्मीः शोभा संपद्वा यस्य स तथोक्तः । एषः नाथः जगतामधीश्वरो भगवान् महोष्णा अतिपटुः श्रीः संपत् यस्यास्सा अतिमहोष्णश्रीः तथोक्त्या दिवा स्वर्गेण ‘उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः' इति मेदिनी । ‘दक्षे तु चतुरपेशलपटवसूत्थान उष्णश्च' इत्यमरश्च । पुष्करे सीदन्तीति पुष्करसदः । सदेः क्विप् । तान् द्युसदः देवान् ‘पुष्करं खेऽम्बुपद्मयोः' इति मेदिनी । आमोदयते प्रहर्षयते इति 'आमोदो गन्धहर्षयोः' इति मेदिनी । दिवः पटुतरसंपत्समृद्धिमत्तामापाद्य देवानानन्दयतीत्यर्थः । अत्र पुष्करपरिषदामोदनिवर्तकतया तद्विरुद्धाच्चन्द्रमसः पुष्करपरिषदामोदनिर्वर्तनरूपकार्यसंपत्तिरुदीरिता ॥ चन्द्रमसः पुष्करामोदस्य चैकस्मिम् काले सहानवस्थानात्कालिको विरोधः ॥

कारणस्योद्भवः कार्याद्यदि षष्ठी विभावना ॥

 कार्यादिति पञ्चम्यर्थो हेतुत्वं न त्वानन्तर्यादिः । अन्यथा कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तावतिप्रसङ्गस्स्यात् ॥

 यथावा--

 सागस्यपि विनतजने दयापयोधिं श्रियास्समुद्भूतम् । वीक्ष्याहीन्द्रगिरीन्दोर्विस्मयजलधिर्विजायते चित्रम् ॥ ११२४ ॥

 अत्र कार्यभूताभ्यां लक्ष्मीचन्द्राभ्यां कारणभूतजलधिजनिर्वर्णितेत्येषा विभावना । दयापयोधिरिव विस्मयो जलधिरिवेत्युपमितसमासाश्रयणेन महती दया महांश्च विस्मयो जायत इति विरोधपरिहारः ॥

 यथावा--

 मनसो जातो विधुरिति ननु सा प्राहानिदंप्रथमवाणी । शुभवृषगिरीशमौळेर्विधोः प्रसन्नं मनोऽजनि विचित्रम् ॥ ११२५ ॥

 अनिदंप्रथमवाणी श्रुतिः ‘चन्द्रमा मनसो जातः' इत्याह । शुभः वृषः वृषभः यस्य तस्य गिरीशस्य शङ्करस्य मौलेः शेखरभूतात् विधोः चन्द्रमसः प्रसन्नं मनः अजनीति विरोधः । शुभश्चासौ वृषगिरीशः शेषगिरिः तस्य मौळेः विधोर्भगवतः हेतुभूतात् मनः अस्य ममेत्यादिः। प्रसन्नं भगवद्दर्शनादिना वीतकलुषम् । अजनीति योजनाभेदेन तत्परिहारः । अत्रापि कार्याच्चन्द्रमसो मनसः कारणस्योत्पत्तिर्वर्णिता श्रुतिप्रसिद्धकार्यकारणभाववैपरीत्यवर्णनं पूर्वस्माद्विशेषः ॥

 यथावा--

 भानुरजायत भगवच्चक्षुष इति वदति पौरुषं सूक्तम् । धामनिधेरजनि हरेर्द्दृष्टिर्विशदा ममैततदाश्चर्यम् ॥ ११२६ ॥

 पौरुषं सूक्तं ‘चक्षोस्सूर्यो अजायत’ इति वदति । विशदा प्रसन्ना हरेः भगवतः दृष्टिः चक्षुः धामनिधेः भानोः अजनि एतत् ममाश्चर्यम् । इति विरोधः । धामनिधेः तेजोनिधेः हरेः भगवतः श्रीनिवासात् मम दृष्टिः ज्ञानं ‘दृष्टिर्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः। विशदा निर्मला अजनीति योजनाभेदेन परिहारः । अत्रापि कार्याद्भानोः कारणस्य भगवच्चक्षुष उदयो वर्णितः ॥

 यथावा--

 इन्द्रश्चाग्निश्च मुखादजनिष्टेति श्रुतं पुरुषसूक्ते । जिष्णोश्शुचेर्भगवतः प्रादुरभून्मुखमहो मम समक्षम् ॥ ११२७ ॥

 'मुखादिन्द्रश्चाग्निश्च' इति पुरुषसूक्ते श्रुतम् । भगवतः मुखं जिष्णोः इन्द्रात् शुचेः अग्नेर्वा मम समक्षं प्रादुरभूत् अजायत अहो इति विरोधः । परिहारस्तु-- जिष्णोः जयशीलस्य शुचेः अपहतपाप्मनः भगवतः मुखं मम समक्षं प्रत्यक्षं प्रादुरभूत् आविर्भूतमभूत् । अत्रापि कार्यादिन्द्रादग्नेश्च कारणस्य भगवन्मुखस्य प्रादुर्भावोऽभिहितः। अन्यत्तु पूर्ववदेव ॥

 यथावा--

 विष्णुपदाद्गङाऽभूद्विमलेति न्यशमयाम शास्त्रेभ्यः । चित्रमिदं गङ्गाया विष्णुपदं विमलमाविरभवदिति ॥ ११२८ ॥

 न्यशमयाम अशृणवाम गङ्गायास्सकाशात् विमलं विष्णुपदं भगवच्चरणं आविरभवत् अजायतेति विरोधः । गङ्गायाः हेतोः विष्णुपदं अन्तरिक्षं विमलं सत् आविरभवत् प्रकाशमासीत् इति परिहारः। कार्यात्कारणजनिस्स्पष्टैव ॥

 इमे च षट् प्रकाराः कुवलयानन्दकारैर्लक्षिताः । प्राक्तनैस्तु अत्राद्य एव प्रकारो लक्षितः नान्ये पञ्च प्रकाराः एते च पञ्चप्रकारा दीक्षितोपज्ञान्येवेति ज्ञायन्ते ॥

 रसगङ्गाधरकृदादयस्तु-- "प्रथमप्रकारातू द्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमेव, कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कारणतावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वात् । प्रकारान्तरस्वीकारापेक्षया तादृशविवक्षाया एव लघुत्वात् । एवं प्रतिबन्धकमपि कारणाभाव एव । प्रतिबन्धकाभावस्य कारणत्वात् । इति तृतीयोऽपि भेदो न विलक्षणः। चतुर्थेऽपि भेदे कारणाभाव आर्थः । 'शङ्खाद्वीणानिनादोऽयम्’ इत्युक्ते वीणां विनैवेति प्रत्ययादवैलक्षण्यम् । तस्मादाद्येन प्रकारेण प्रकारान्तराणामालीढत्वात् षट्प्रकारा इत्यनुपपन्नमेव । यदि तु यथाकथंचित्कुवलयानन्दोक्तिस्समर्थनीयेत्याग्रहः तदा इत्थं समर्थनीयम् । तथाहि-- विनाऽपि कारणं कार्यजन्मेति विभावनायास्सामान्यलक्षणम् । इयं च तावत् द्विविधा । शाब्दी आर्थी चेति । शाब्दी त्रिविधा । प्रतिबन्धकातिरिक्तकारणव्यक्तिप्रतियोगिताकाभावोक्तिपूर्विका सत्यामपि कारणव्यक्तौ यदवच्छिन्नत्ववैकल्यप्रयुक्तः कार्याभावः तद्वैकल्योक्तिपूर्विका, स च कारणतावच्छेदकधर्मः क्वचित्कारणतावच्छेदकसंबन्धश्च । प्रतिबन्धकोक्तिपूर्विका चेति । आर्थ्यपि त्रिविधा । प्रकृतकार्यसमानजातीयकार्यान्तरस्य कारणात् प्रकृतविरुद्धकार्यस्य कारणात् स्वकार्याद्वा । प्रकृतकार्यस्योत्पत्तिरिति । एतदर्थकमेव हि ‘अकारणात्कार्यजन्मेत्यादि" इत्याहुः ॥

इत्यलंकारमणिहारे विभावनासरः षट्त्रिंशः.