अलङ्कारमणिहारः (भागः २)/विशेषोक्त्यलंकारः (३७)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

(३७) अथ विशेषोक्तिसरः.


विशेषोक्तिः पुष्कलेऽपि हेतौ कार्यं न चेद्भवेत् ।

 सत्यामपि कारणसामग्र्यां कार्यस्यानुत्पत्तिविशेषोक्तिर्नामालंकारः । अस्यां च विरोधः प्रतिभासमानः प्रसिद्धकारणान्तरवैकल्यबुद्ध्या निवर्तते ॥

 यथा--

 स्नातं तीर्थेऽधीतं स्फीतं शास्त्रं कृतं सुकृतजातम् । एतन्ममाविनीतं चैतन्यं तदपि हन्त किं जातम् ॥ ११२९ ॥

 चेतनैव चैतन्यं बुद्धिरित्यर्थः । हन्त किं जातमिति निर्वेदातिशयकथनम् । अत्र ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदि- षन्ति यज्ञेन दानेन तपसाऽनाशकेन' इत्याद्युक्तरीत्या तीर्थस्नानादीनां ब्रह्मवेदननिदानभूतचित्तशुद्धिहेतूनां बहूनां समवधानेऽपि चित्तशुद्धिरूपकार्यानुदयवर्णनाद्विशेषोक्तिः । तत्र ईश्वरसौहार्दयादृच्छिकसुकृतपरिपाकाद्यभावरूपं प्रतिबन्धकं प्रतीयते । इयमनुक्तनिमित्ता चित्तशुद्ध्यनुदयनिमित्तस्य प्रतिबन्धकस्यानुपात्तत्वात् ॥

 यथावा--

 सुबहुश्रुतोऽपि कश्चित्त्वां नारायण न वेत्ति परतत्त्वम् । अवगाढपायसोऽपि च तस्य रसं दारुहस्तक इवाहो ॥ ११३० ॥

 अत्र बहुश्रुतत्वरूपकारणसद्भावेऽपि ‘तत्त्वं नारायणः परः' इति श्रूयमाणो नारायण एव परं तत्त्वमिति ज्ञानरूपकार्यस्यानुदयो वर्णितः ॥

विद्या राजन्न ते विद्या मम विद्या न हीयते ।
विद्याहीनस्तमो वस्तो नाभिजानासि केशवम् ॥

 इत्युक्तरीत्या ब्रह्मविद्याविधुरत्वतमोध्वस्तत्वादिरूपं प्रतिबन्धकं प्रतीयत इतीयमप्यनुक्तनिमित्ता । उक्तविधपरतत्त्वाज्ञाननिमित्तस्य प्रतिबन्धकस्यानुपादानात् । अवगाढं विलोडितं पायसं परमान्नं येन स तथोक्तोऽपि दारुहस्तकः पायससूपादिविलोडनपरिवेषणसाधनभूतो दारुनिर्मितो हस्ताकारः कश्चिद्वस्तुविशेषः 'स्यात्तण्डूर्दारुहस्तकः' इत्यमरः । अत्र--

यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः ।
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ॥

 इति श्रीमद्भारतवचनार्थः प्रत्यभिज्ञाप्यते । उपमासंकीर्णत्वं तु पूर्वोदाहरणाद्विशेषः ॥  उक्तनिमित्ता यथा--

 प्रायश्चीर्णान्यपि वा प्रायश्चित्तानि पापिनं मनुजम् । न हि नारायणविमुखं पुनन्ति तीर्थानि मद्यभाण्डमिव ॥ ११३१ ॥

 अत्र नानाविधप्रायश्चित्ताचरणलक्षणकारणसद्भावेऽपि पूतत्वरूपकार्यानुदयः । इयमुक्तनिमित्ता नारायणविमुखमित्यपूततानिमित्तस्य प्रतिबन्धकस्योपात्तत्वात् । अनेन--

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् ।
न निष्पुनन्ति राजेन्द्र सुराभाण्डमिवापगाः ॥

इति श्रीभागवतश्लोकार्थः प्रत्यभिज्ञाप्यते ॥

 यथावा--

 हन्त विशुद्धे पूर्णेऽप्यन्तर्गगने विधौ विलसमाने । बुद्धिर्मुग्धतमानां तमस्विनी न विजहाति मालिन्यम् ॥ ११३२ ॥

 विशुद्धे पूर्णे आभ्यां विशेषणाभ्यां ‘एष आत्माऽपहतपाप्मा’ इत्यादिदहरविद्योदीरितमखिलहेयप्रत्यनीकत्वमनन्तकल्याणगुणाकरत्वं च संगृहीतम् । अन्तः ब्रह्मपुररूपशरीरान्तर्वर्तिनि हृदयपुण्डरीके विद्यमाने गगने ‘दहरोऽस्मिन्नन्तर आकाशः, तत्रापि दह्लं गगनम्’ इति दहरविद्याप्रतिपादिते परस्मिन् ब्रह्मणि विधौ विष्णौ नारायणे । अनेन लिङ्गभूयस्त्वाधिकरणसिद्धान्तप्रकारेण नारायणस्यैव सर्वपरविद्योपास्यत्वमित्ययमर्थस्सूचितः । विलसमानेऽपि ‘अनेन सकृद्विभातो ह्येवैष ब्रह्मलोकः' इति तद्विद्योक्तं ब्रह्मस्वरूपप्रकाशस्यानावृततया भासमानत्वमुक्तम् । ताच्छील्यार्थकचानशा तस्य प्रकाशस्यानागन्तुकत्वं सूचितम् । मुग्धतमानां अविद्याच्छादितानां अनेन ‘तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति तत्रत्यश्रुत्यर्थोऽनुसंहितः । प्रत्यूढाः प्रतीपं नीताः स्वभावान्तरं प्रापिताः आच्छादिता इति यावत् इति तदर्थः। तमस्विनी तामसी बुद्धिः मालिन्यं सांसारिकदुःखमलिनतां न जहातीति । अन्यत्र विशुद्धे विमले पूर्णे समग्रकले विधौ चन्द्रमसि गगने अन्तः अन्तरिक्षस्य मध्ये शौण्डादिगणे अन्तश्शब्दपाठाद्गगने इत्यवयविन आधारत्वविवक्षायां सप्तमी । विस्तरस्तु रसास्वादिन्यां कृतोऽस्माभिः । विलसमाने सत्यपि तमस्विनी तमःप्रचुरा बुद्धिः गुहेति गम्यते । मालिन्यं तिमिरप्रयुक्तमलीमसत्वं न विजहातीति । अत्र विधुविलसनरूपकारणे विद्यमानेऽपि मालिन्यप्रहाणरूपकार्यानुदयो वर्णितः । इयमपि पूर्ववदुक्तनिमित्तैव, तमस्विनीति मालिन्याप्रहाणनिमित्तस्य प्रतिबन्धकस्योपादानात् । पूर्वा शुद्धा उपमोपस्कृता । इयं तु श्लेषादिसंकीर्णेति भेदः ॥

 यथावा--

 अपि हरिनखपरिभूतः क्षान्त्याद्यविभासुरः क्षपाध्यक्षः । स्वान्तेत्रपाध्यलीढो ह्यनूनवर्णो बभूव स खलु जडः ॥ ११३३ ॥

 हरेः भगवतः नखैः परिभूतोऽपि क्षपाध्यक्षः चन्द्रमाः । स्वान्ते मनसि त्रपा लज्जा आधिः व्यथा ताभ्यां आलीढः अव्याप्तः निस्त्रपो निर्व्यथश्चेत्यर्थः । अत एव क्षान्त्या तादृशपरिभवसहनेन उपलक्षितः अत एव अविकलवर्णः पूर्णवर्ण एव हिशब्दोऽवधारणे । द्यवि अन्तरिक्षे ‘द्योदिवौ द्वे' इत्यमरः । भासुरः बभूव । तत्र हेत्वन्तरमाह-- स इति । सः चन्द्रमाः जडः खलु मूढ एव हि । मूढाः प्रायेण परेभ्यः प्राप्तेऽपि परिभवे न ग्लायन्ति किंतु विवेकविधुरा हृष्यन्त्यपीति भावः ॥

 पक्षे–- क्षपाध्यक्ष इति शब्दः क्षान्त्याद्यविभासुर इति समस्तमेकं पदम् । क्षाभ्यां क्षकाराभ्यां अन्त्याद्ययोः चरमप्रथमभागयोः विभासुरः क्षरूपाभ्यां अन्त्याद्यवर्णाभ्यां विभासुर इति वा । अत्र अस्मिन् स्वान्ते स्वान्तरे क्षपाध्यक्षशब्दमध्ये इत्यर्थः । पाध्यलीढः पाध्य इति वर्णसमुदयलीढः अविकलवर्णः संपूर्णाक्षर एव बभूव । एकस्यापि वर्णस्यानपायादिति भावः । अत्र हरिनखपरिभूतत्वरूपकारणसत्त्वेऽपि त्रपाद्यनुदयो वर्णितः । जड इति त्रपाद्यनुदयनिमित्तस्य प्रतिबन्धकस्योपात्तत्वादुक्तनिमित्तैव । शब्दार्थतादात्म्यमूलकश्लेषोपस्कृतत्वं पूर्वस्माद्विच्छित्तिविशेषः ॥

 यथावा--

 सारससरसा दृक्ते प्रतिकूलोक्त्याऽपि न विकृतिलवं वा । विन्दति मुकुन्दसुन्दरि तस्यास्तादृग्विधा हि परिपाटी ॥ ११३४ ॥

 हे मुकुन्दसुन्दरि! सारससरसा कमलरमणीया तव दृक् प्रतिकूलोक्त्या स्वविप्रतीपवचसाऽपि विकृतिलवं वा विकारलेशमपि न विन्दति । महोदारगभीरहृदयायास्तव निसर्गनित्यरमणीया दृष्टिः क्षोभहेतुभूतक्षोदिष्ठप्रतिकूलगिरा न कदाऽपि विकृतिमुपयाति । किंतु यथावस्थितैव भवतीति भावः । तथाऽवस्थाने हेतुमाह तस्या इति । हि यस्मात् तस्याः दृशः परिपाटी रीतिः तादृग्विधा तत्स्वभाव एव तादृक् यत्क्षोभहेतौ सत्यप्यविकृततयैवावस्थानम् । अत एव विशेषोक्तिः । इयमप्युक्तविषया । तस्यास्तादृग्विधा हि परिपाटीति विकारानुदयनिमित्तस्य प्रतिबन्धकस्योपात्तत्वात् । अत्र सारससरसाशब्दः प्रतिलोमपाठेऽपि विकारलेशमपि न विन्दति । तस्याः सारससरसाशब्दस्य अर्थगतं स्त्रीत्वं शब्दे आरोप्यते । परिपाटी आनुपूर्वी तथाविधाहि । विलोमपाठेऽप्यनुलोमसुसदृशवर्णावस्थानरूपप्रकाशशालिनीति चमत्कारान्तरप्रदर्शनं विशेषः पूर्वोदाहरणात् ॥

 केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति । उदाहरन्ति च--

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरताऽपि तनुं यस्य शम्भुना न बलं हृतम् ॥

 इति । अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्रतीयते । इह तु न तथा । किंतु भविष्यति किंचिन्निमित्तमित्याकारेणेत्यनुक्तनिमित्तातोऽचिन्त्यनिमित्ताया भेद इति हि तेषामभिप्रायः । अन्ये तु ‘नानुक्तनिमित्तायां चिन्त्यत्वं निमित्तविशेषणं, भेदान्तरकल्पनागौरवप्रसङ्गात् । किंतु चिन्त्यत्वमचिन्त्यत्वं चेति द्विप्रकारकमपि निमित्तं यत्र नोक्तं साऽनुक्तनिमित्ता तेन अचिन्त्यनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमर्हति' इत्याहुः ॥

 चिन्त्यनिमित्ता पूर्वमुदाहृतैव ॥

 अचिन्त्यनिमित्ता यथा--

 दुष्कृतिनिश्शेषीकृति कृतिनि त्वयि जाग्रति प्रभाववति । त्वद्वैभवविद्वेषी खलः कुतोऽद्यापि शिष्यते भगवन् ॥ ११३५ ॥

 अत्र दुष्कृद्विनाशनपटीयस्तरमहाप्रभावभगवज्जागरूकतारूपकारणसामग्रीसमवधानेऽपि तद्वैभवविद्वेषिखलजननिश्शेषीकरणरूपकार्यानुदयवर्णनाद्विशेषोक्तिः । तत्परिशेषणे निमित्तं किंचिद्भविष्यतीत्यचिन्त्यमेव तत्, प्रतीत्यविषयत्वात् ॥

 यथावा--

 पन्नगनगधौरेयः प्रसन्नयाऽम्ब त्वयाऽनिशं सुहितः । चित्रं नमदस्खलितो न रागदुष्टाऽपि दृष्टिरेतस्य ॥ ११३६ ॥

 हे अम्ब! त्वया प्रसन्नया सुरया स्वच्छया सतुष्टया वा सत्येति वस्तुस्थितिः । ‘प्रसन्ना स्यात्सुरायां स्त्री स्वच्छसंतुष्टयोस्त्रिषु' इति मेदिनी । 'गन्धोत्तमा प्रसन्नेरा’ इति सुरापर्यायेष्वमरश्च । अनिशं सुहितः तृप्तः । पक्षे-- सुतरां हितरक्षणेन सकलभुवनहितकृदित्यर्थः ॥

लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।
रक्षकस्सर्वसिद्धान्ते वेदान्तेष्वपि गीयते ॥

इति श्रीसाहित्येनैव जगद्रक्षणोक्तेः । मदेन चित्तविकारेण स्खलितः न भवति । पक्षे-– नमदस्खलित इति समस्तमेकं पदम् । नमत्सु शरणागतेषु अस्खलितः आश्रितरक्षणव्रते च्युतिरहित इत्यर्थः । किंच एतस्य दृष्टिः रागेण शोणिम्ना मदकार्येण । अन्यत्र मात्सर्यादिदोषेण दुष्टा च न भवति । अत्र अनिशं प्रसन्नासुहितत्वरूपकारणपौष्कल्यसद्भावेऽपि मदस्खालित्यादिकार्यानुदयवर्णनाद्विशेषोक्तिः । तादृशकार्यानुदये निमित्तं किं भवेद्वेत्यचिन्त्यमेव तत्, प्रतीत्यगोचरत्वात् । इयं श्लेषोत्तम्भितेति पूर्वादाहरणाद्वैलक्षण्यम् ॥

 यथावा--

 ननु वासराधिपस्तव सेवायै वानराधिपो जातः । रघुवीर रूपभेदेऽप्यनयोरग्राहि हन्त सनभेदः ॥ ११३७ ॥

 ननु रघुवीर! वासराधिपः भानुः तव सेवायै कैंकर्यं कर्तुं वानराधिपो जातः सुग्रीवतयाऽऽविरभूदित्यर्थः । 'आत्मा वै पुत्रनामासि' इति श्रुतेः । अनयोः वासराधिपवानराधिपोः रूपभेदे सत्यपि सः भेदः नाग्राहि । जनैरिति शेषः । हन्तेत्याश्चर्ये । अत्र रूपभेदग्रहणसामग्र्यां सत्यामपि तदग्रहणवर्णनाद्विशेषोक्तिरचिन्त्यनिमित्ता । अनयोः वासराधिपवानराधिपशब्दयोः सनभेदः सकारनकाराभ्यमेव भेदः अग्राहि नान्यवर्णैरिति वस्तुस्थितिः । अयमेव विशेषः पूर्वोदाहरणात् ॥

 इदमत्रावधेयम्-- यत्र कारणाभावकार्याभावयोः प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्येन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्त्योश्शाब्दत्वं अन्यत्रार्थत्वमिति ॥

 यथा--

 मधुरविधां चरितसुधां मधुमथन तवानिशं समापिबताम् । प्रतिकलमविकलरूपस्तर्षोत्कर्षोऽभिवर्धते चित्रम् ॥ ११३८ ॥  लोके ह्यसंनिकर्षस्तर्षहेतुः तदभावे संनिकर्षेऽपि तर्षोत्कर्ष उपनिबद्धः । तथा सन्निकर्षस्तृप्तिहेतुः तत्सद्भावेऽपि तृप्त्यभावो बोधितः । परंतु कारणाभावकार्याभावयोर्न प्रागुपदर्शितप्रकारेण प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्येन श्रुत्या प्रतिपादनमस्यार्थत्वमेव विभावनाविशेषोक्तिसंकरस्य । अमुमेव चार्थं हृदि निधाय मम्मटभट्टेन "यः कौमारहरः" इति पद्यमुदाहृत्यात्र स्फुटो न कश्चिदलंकार इत्यभिहितम् ॥

 वामनस्तु–‘एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः' इति व्यवाहार्षीत् । उदाहार्षीच्च ‘द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्’ इति । अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते । तत्र सिंहासनरहितं हि द्यूतं सिंहासनसहितराज्यतादात्म्यं कथमवलम्बेतेत्यारोपोन्मूलयितृयुक्तिनिराकरणायारोप्यमाणे राज्येऽपि सिंहासनराहित्यं कल्प्यते । तेन दृढारोपं रूपकमेवेदं न विशेषोक्तिः । एवंच 'अचतुर्वदनो ब्रह्मा' इत्यादिपौराणिकपद्येऽपि रूपकविशेष एव । तथा गुणाधिक्यकल्पनायामपि रूपकविशेष एव । यथा ‘धर्मो वपुष्मान् भुवि कार्तवीर्यः' इत्यादौ । एवंच ‘एकगुणहान्युपचयादिकल्पनायां साम्यदार्ढ्यं विशेषः’ इति विशेषालङ्कारं लक्षयन्तोऽपि प्रत्युक्ताः ॥

इत्यलङ्कारमणिहारे विशेषोक्तिसरस्सप्तत्रिंशः.