अलङ्कारमणिहारः (भागः २)/कारणमालालंकारः (४८)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

र्भूयसी स्याद्वैयग्रीति परस्परच्छायामात्रानुसारिणो भिन्नविच्छित्तयो भिन्ना एवेत्यपरे ॥

अथ शृङ्खलालंकाराः.



यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता
अर्थेषु पङ्क्तिबद्धेषु व्यत्ययो वाऽपि शृङ्खला ॥

 पङ्क्तिरूपेण निबद्धेष्वर्थेषु उत्तरोत्तरस्य पूर्वपूर्वस्मिन् वा पूर्वपूर्वस्योत्तरोत्तरस्मिन् वा संसृष्टत्वं शृङ्खला । तच्च कार्यकारणत्वविशेषणविशेष्यत्वादिनानारूपम् । इयं च न स्वतन्त्रोऽलंकारः, वक्ष्यमाणप्रभेदैर्गतार्थत्वात् । न ह्यनया विना तेषां विविक्तोऽस्ति विषयः । यथाहि रूपकादिष्वनुप्राणयितृतया वर्तमानोऽप्यभेदांशस्समानधर्मांशो वा न पृथगलंकारः, एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते सावयवादिभेदैः रूपकस्य, पूर्णालुप्तादिभेदैरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात् । तस्माच्छृङ्खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमुपरिष्टाद्विवेचयिष्यामः ॥



अथ कारणमालासरः.(४८)

पूर्वपूर्वैर्वस्तुभिस्स्यादुत्तरोत्तरकारणैः ।
गुम्भः कारणमालैषा वैपरीत्येऽपि चेष्यते ॥

 उत्तरोत्तरकारणभूतैः पूर्वपूर्वैः पूर्वपूर्वकारणभूतैरुत्तरोत्तरैर्वा वस्तुभिर्गुम्भने सैव शृङ्खलाकारणमालालंकारो भवति । तत्र पूर्वं पूर्वं कारणं परं परं कार्यमिति प्राथमिकी । पूर्वं पूर्वं कार्यं परं परं कारणमिति द्वैतीयीकी ॥

 तत्र प्राथमिकी यथा--

 भक्त्या त्वद्गिरिगमनं त्वद्गिरिगमनेन तव तु निध्यानम् । त्वन्निध्यानेन विभो पूर्णानन्दार्णवान्तराप्लवनम् ॥ १३९३ ॥

 निध्यानं दर्शनम् । ‘निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥ अत्र भक्त्यादीनां पूर्वपूर्वेषां शेषाद्रिगमनाद्युत्तरोत्तरं प्रति कारणत्वं निबद्धम् ॥

 यथावा--

 अन्नात्खलु भूतानां प्राणाः प्राणैर्मनोऽथ मनसश्च । विज्ञानं विज्ञानादानन्दो ब्रह्म भासनं दधते ॥

 अन्नात् भूतानां प्राणाः भासनं प्रकाशं दधते बिभ्रति । जौहोत्यादिकस्य धाञो लट्प्रथमपुरुषबहुवचनम् । प्राणैः मनः भासनं दधते धत्ते । भौवादिकस्य दधतेर्लट्प्रथमपुरुषैकवचनम् । एवमग्रेऽपि । अत्राप्यन्नादीनां पूर्वपूर्वेषां प्राणाद्युत्तरोत्तरं प्रति कारणता गुम्भिता । इयं च ‘अन्नात्प्राणा भवन्ति भूतानां प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिः' इति तैत्तिरीयकश्रुत्यर्थानुसारिणीति विशेषः । अलंकाराणां श्रुतिमूलताख्यापनायेदमुदाहरणम् । ‘अन्नात् प्राणाः इन्द्रियाणि प्राणा वा भवन्ति । श्रवणानुकूलेन्द्रियप्राणसौष्ठवं जायत इत्यर्थः । मनः मननं, विज्ञानं दर्शनसमानाकारं ज्ञानं, आनन्दः आनन्दमयं ब्रह्म परब्रह्म भवति भासते । प्राणसौष्ठवमूलकश्रवणादिपरंपरयोत्पन्नान्निदिध्यसनादानन्दरूपं परं ब्रह्म प्राप्यत इति श्रुतेरर्थः॥  यथावा--

 आहारस्य विशुद्ध्या शुद्धिस्सत्त्वस्य सत्त्वशुद्धौ ते । भवति ध्रुवाऽच्युत स्मृतिरखिलग्रन्थिप्रमोक्षणं तस्याः ॥ १३९५ ॥

 अत्र ‘आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’ इति श्रुत्यनुविधानेन पूर्वपूर्वस्याहारशुद्ध्यादेरुत्तरोत्तरसत्त्वशुद्ध्यादिकं प्रति कारणता निबद्धा पूर्ववदेव ॥ आहारशुद्धौ सात्त्विकाहारसेवायां सत्यां सत्त्वस्य अन्तःकरणस्य शुद्धिः । तस्यां च सत्यां ध्रुवा स्मृतिः दर्शनसमानाकारा स्मृतिर्भवति । तस्यां सत्यां सर्वग्रन्थीनां दुर्मोचतया ग्रन्थिशब्दवाच्यानामविद्यारागादीनां विप्रमोक्षो भवति इति श्रुतेरर्थः ॥

 यथावा--

 इन्द्रियविजयो मनसस्स्थेम्ना तस्माच्च कर्मयोगगतिः । ज्ञानं तस्मात्तस्माद्भक्तिर्भवति ततो भवेन्मुक्तिः ॥ १३९६ ॥

 इयं कार्योपक्रमा । पूर्वास्तु कारणोपक्रमा इति विशेषः ॥

 द्वितीया यथा--

 भवविपदस्तव पदयुगनवपङ्कजशरणवरणवैधुर्यात् । तदनेकादविवेकात्सोऽप्यच्युत सत्समागमालाभात् ॥ १३९७ ॥  अत्र भवविपदादिपूर्वपूर्वं प्रति उत्तरोत्तरशरणवरणवैधुर्यादीनां कारणत्वं प्रथितम् ॥

 यथावा--

 श्रेयोहेतुर्विभवो विभवस्य निबन्धनं रमापापाङ्गः । तत्कारणं च भजनं भजननिदानं च पूर्वपुण्यश्रीः ॥ १३९८ ॥

 पूर्वोदाहरणे विभक्त्या कारणत्वबोधनं, इह तु हेत्वादिशब्दैरेवेति विशेषः ॥

 यथावा--

 गुरुकृपया हरिचरणप्रपदनमेषा च सत्त्वगुणपूर्त्या । सा च भगवत्कटाक्षात्स भवति यादृच्छिकादिसुकृतवशात् ॥ १३९९ ॥

 एषा गुरुकृपा ॥ इहादौ कारणोपक्रमः पूर्वत्र कार्योपक्रम इति वैलक्षण्यम् । इह च यद्यादौ कारणोक्तिरेव प्रस्तूयते तदा पुनः तत्कस्यचित्कारणं तदपि कस्यचिदिति, तस्य कारणं तस्यापि कारणमिति वा कारणमाला युक्ता । यदा तु कार्योक्तिरादावुपक्रम्यते तदा तत्कस्यचित्कार्यं तदपि कस्यचिदिति, तस्य कार्यं तस्यापि कार्यमिति वा युक्ता । सर्वथैव यः कार्यकारणत्वोपस्थापंकदेश्शब्द आदौ प्रयुक्तस्स एव निर्वाह्यः । एवंक्रमेण निबन्धनमाकाङ्क्षानुरूपत्वाद्रमणीयम् । अन्यथा तु भग्नक्रमं स्यादिति ध्येयम् । यथा प्राचीनानां पद्यं--

जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥

 अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति विनयः कस्य कारणमिति वा आकाङ्क्षेदिति, कारणस्यैव स्मृतिवशात्पूर्वमुपस्थितेः । कारणं तु ज्ञातं कार्यं पुनरस्य किमिति क्वचिदाकाङ्क्षा तु कार्यत्वकारणत्वयोस्संबन्धिपदार्थत्वात्कारणश्रवणोत्तरमेकसंबन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया, न त्वसौ सार्वत्रिकी, एवंच विनयः कस्य कारणमित्याकाङ्क्षायाः गुणप्रकर्षो विनयादवाप्यत इति वाक्यं यद्यपि फलतः परिपूरकं भवति । तथाऽपि न साक्षादित्यहृदयङ्गममेव । तथा गुणप्रकर्षात्किमवाप्यत इत्याकाङ्क्षायां

गुणाधिके पुंसीति च । अत्र च कथितपदत्वं न दोषः, प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ रूपान्तरेण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेरकुण्ठितत्वविरहाद्दोषस्स्यात् । शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शब्दोऽपि विशेषणतया भासते । तथाचोक्तम्--

 न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।

इति । तत्तच्छब्दस्य विशिष्टस्यार्थस्स्वरूपेणाभिन्नोऽपि विलक्षणः प्रतीयत इति न कथितपदत्वदोष इति वदन्ति । विस्तरस्त्वन्यत्र द्रष्टव्यः ॥

इत्यलंकारमणिहारे कारणमालासरोऽष्टचत्वारिंशः..