अलङ्कारमणिहारः (भागः २)/एकावळ्यलंकारः (४९)

विकिस्रोतः तः

अथैकावळीसरः. (४९)

उत्तरस्योत्तरस्य स्यात्पूर्वं पूर्वं विशेषणम् ।
विशेष्यं वा यदा प्राहुरिमामेकावळीं तदा ॥

 उत्तरोत्तरस्य पूर्वपूर्वं प्रति विशेषणतया विशेष्यतया वा गुम्भने सैव शृङ्खलैकावळीत्युच्यते । इयमेव गृहीतमुक्तरीत्याऽर्थश्रेणिरित्युच्यते । गृहीतं च तन्मुक्तं च गृहीतमुक्तं तस्य रीतिः पङ्क्तिः तया गृहीतमुक्तरीत्या । अभेदे तृतीया । ततश्च गृहीतमुक्तपङ्क्तिरेकावळीति तदर्थः ॥

 तत्राद्या यथा--

 भुजगगिरिर्हरिवसतिर्हरिरम्बुधिजाविहारमणिशिखरी । अम्बुधिजाऽऽश्रितविभवानुदञ्चयति ते वतंसयन्ति भुवम् ॥ १४०० ॥

 अत्रोत्तरोत्तरस्य हर्यादेः पूर्वपूर्वभुजगगिर्यादिविशेषणभावः । इयं चोत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्विविधा ।

यदाहुः--

स्थाप्यतेऽपोह्यते वाऽपि यथापूर्वं परंपरम् ।
विशेषणतया यत्र वस्तु सैकावळी द्विधा ॥

इति । यत्र यथापूर्वं पूर्वपूर्वस्य परं परं उत्तरोत्तरं विशेषणतया स्थाप्यते विधीयते अपोह्यते निषिध्यते वा तत्रैकावळीति तदर्थः ॥

 यथा--

 स बुधो यस्तु विवेकी स विवेको यस्तु तत्त्व- संमर्शः । तत्तत्त्वं यत्परमं तत्परमं ब्रह्म भाति यत्सरमम् ॥ १४०१ ॥

 अत्रोत्तरोत्तरविवेकादिविशेषणानां पूर्वपूर्वबुधादिविशेष्यस्थापकत्वम् ॥

 न स मनुजो योऽविद्वान्न स विद्वान्यो न वेद तद्ब्रह्म । न ब्रह्म तद्वृषाद्रौ यन्न परिरमेद्रमावशोरस्कम् ॥ १४०२ ॥

 अत्र पूर्वपूर्वस्य मनुजादेर्विशेष्यस्य उत्तरोत्तरमविद्वदादिविशेषणमपोहकम् । यद्यपि स्थापकेऽप्यपोहकत्वं गम्यते यो न विवेकी न स बुध इत्यादि, तथाऽपोहकेऽपि स्थापकत्वं यो विद्वान् स मनुज इत्यादि, तथाऽपि नोपात्तं तदित्यदोषः ॥

 पूर्वपूर्वस्य उत्तरोत्तरं प्रति विशेषणतया गुम्भनं द्वितीय प्रकारः ।

 स यथा--

 त्वद्विभवज्ञो भीष्मस्तज्जननी जगदिदं पवित्रयति । तद्दयिते त्वं शयितो गुणास्तवाच्युत नृणां प्रियंकरणाः ॥ १४०३ ॥

 यथावा--

 लक्ष्म्या विभाति भगवांस्तेनाहिगिरिश्च भवति शेखरितः । तेन द्रमिडा रम्यास्तैरेतद्भूषितं भरतखण्डम् ॥ १४०४ ॥  द्रमिडानां निवासो जनपदः द्रमिडाः । ‘सोऽस्य निवासः' इत्यणो ‘जनपदे लुप्' इति लुपि युक्तवल्लिङ्गवचने ॥ अत्राद्ये पूर्वपूर्वस्य भीष्मादेरुत्तरोत्तरगङ्गादिकं प्रति विशेषणभावः । द्वितीये लक्ष्म्यादेर्भगवदादिकं प्रतीति ध्येयम् ॥

इत्यलंकारमणिहारे एकावळीसर एकोनपञ्चाशः.


 अत्रेदमवधेयम्-- अस्मिंश्चैकावळ्या द्वितीयभेदे पूर्वपूर्वैः परस्य परस्योपकारः क्रियमाणो यद्येकरूपरस्यात् तदा अयमेव मालादीपकतया व्ययह्रियते प्राचीनैः । यथाच लक्षितं तैः--

 मालादीपकमाद्यं चेद्यथोत्तरगुणावहम् ।

इति । आद्यं दीपकमित्यर्थः । तत्र मालाशब्देन शृङ्खलोच्यते । दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकमुच्यते । तेनैकदेशस्थसर्वोपकारकक्रियादिशालिनी शृङ्खलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेषोऽयमिति न भ्रमितव्यं, तस्य सादृश्यगर्भतायास्सकलालकारिकसंप्रतिपन्नत्वात् । इह च शृङ्खलावयवानां पदानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचोयुक्तिं श्रद्धधेमहि, तेषां प्रकृताप्रकृतात्मकत्वविरहाच्चेत्याहुः ॥ वस्तुतस्तु-- एकस्यैव धर्मस्य वाक्यान्तरेष्वप्यन्वयमात्रेण दीपकसादृश्याद्दीपकमित्यनुपदमेव वक्ष्यमाणरीत्या विच्छित्तिविशेषसद्भावात्मालादीपकस्य पृथगलंकारतैव युक्ता । अन्यथा शृङ्खलारूपालंकारभेदानां कारणमालादीनामपि यत्किंचिद्विच्छित्तिविशेषशालितया पृथगलंकारताभ्युपगमोऽप्ययुक्त एव स्यादिति परे । अत एव सर्वस्वकृताऽप्यस्मिन्नेव प्रकरणे अयमलंकारः पृथग्लक्षितः 'पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम्' इति । यद्यपि प्राचीनैरेतद्दीपनमात्रानुगुण्याद्दीपकानन्तरं लक्षितम् । शृङ्खलामूलत्वेन विशिष्टमस्य चारुत्वमित्यस्मिन्नेव प्रकरणे लक्षितं सर्वस्वकुवलयानन्दकारादिभिरिति ॥



अथ मालादीपकसरः (५०)

मालादीपकमेतत्स्याद्दीपकैकावळीयुतेः ॥

 युतेः योगात् । एकधर्मान्वयस्य गृहीतमुक्तरीतेश्च मेळनात् मालादीपकं नामालंकारः । एकस्यैव धर्मस्य वाक्यान्तरेष्वप्यन्वयमात्रेण दीपकसादृश्याद्दीपकं, न तु प्रागुक्तदीपकालंकारः, प्रकृताप्रकृतानामौपम्यस्य गम्यतायामेव तदवतारात् ॥

 यथा--

 हारः कौस्तुभमणिना सोऽपि भवद्वक्षसा तदपि लक्ष्म्या । साऽपि भवता भवानपि सौशील्याद्यैर्गुणैरुपस्क्रियते ॥ १४०५ ॥

 उपस्क्रियते अलंक्रियते । उपपूर्वकात्कृञः कर्मणि लट् । 'उपात्प्रतियत्न’ इत्यादिना प्रतियत्नार्थे कृञस्सुट् । प्रतियत्नो गुणाधानम् । अत्र उपस्क्रियत इत्येकमेव पदं हारः कौस्तुभमणिना उपस्क्रियते सोऽपि भवद्वक्षसा उपस्क्रियत इत्येवं सर्ववाक्यान्वयीति दीपकसादृश्याद्दीपकम् । गृहीतसुक्तरीतिसद्भावादेकावळीति दीपकैकावळीयोगः ॥